सौन्दरनन्दकाव्यम्/चतुर्थः सर्गः

विकिस्रोतः तः
← तृतीयः सर्गः सौन्दरनन्दकाव्यम्
चतुर्थः सर्गः
[[लेखकः :|]]
पञ्चमः सर्गः →

सर्ग ४

मुनौ ब्रुवाञेऽपि तु तत्र धर्मं धर्मं प्रति ज्ञातिषु चादृतेषु ।
प्रासादसंस्थो मदनैककार्यः प्रियासहायो विजहार नन्दः ।। ४.१ ।।

स चक्रवाक्येव हि चक्रवाकस्तया समेतः प्रियया प्रियार्हः ।
नाचिन्तयद्वैश्र्मणं न शक्रं तस्थानहेतोः कुत एव धर्मं ।। ४.२ ।।

लक्ष्म्या च रूपेण च सुन्दरीति स्तम्भेन गर्वेण च मानिनीति ।
दीप्त्या च मानेन च भामिनीति यतो बभाषे त्रिविधेन नाम्ना ।। ४.३ ।।

सा हासहंसा नयन्द्विरेफा पीनस्तनात्युन्नतपद्मकोशा ।
भूयो बभासे स्वकुलोदितेन स्त्रीपद्मिनी नन्ददिवाकरेण ।। ४.४ ।।

रूपेण चात्यन्तमनोहरेण रूपानुरूपेण च चेष्टितेन ।
मनुष्यलोके हि तदा बभूव सा सुन्दरी स्त्रीषु नरेषु नन्दः ।। ४.५ ।।

सा देवता नन्दनचारिणीव कुलस्य नन्दीजननश्च नन्दः ।
अतीत्य मर्त्याननुपेत्य देवान्सृष्टावभूतां इव भूतधात्रा ।। ४.६ ।।

तां सुन्दरीं चेन्न लभेत नन्दः सा वा निषेवेत न तं नतभ्रूः ।
द्वन्दं ध्रुवं तद्विकलं न शोभेतान्योन्यहीनाविव रात्रिचन्द्रौ ।। ४.७ ।।

कन्दर्परत्योरिव लक्ष्यभूतं प्रमोदनान्द्योरिव नीडभूतं ।
प्रहर्षतुष्ट्योरिव पात्रभूतं द्वन्दं सहारंस्त मदान्धभूतं ।। ४.८ ।।

परस्परोद्वीक्षणतत्पराक्षं परस्परव्याहृतसक्तचित्तं ।
परस्पराश्लेषहृताण्गरागं परस्परं तन्मिथुनं जहार ।। ४.९ ।।

भावानुरक्तौ गिरिनिर्झरस्थौ तौ किंनरीकिंपुरुषाविवोभौ ।
चिक्रीडतुश्चाभिविरेजतुश्च रूपश्रियान्योन्यं इवाक्षिपन्तौ ।। ४.१० ।।

अन्योन्यसंरागविवर्धनेन तद्द्वन्द्वं अन्योन्यं अरीरमच्च ।
क्लमान्तरेऽन्योन्यविनोदनेन सलीलं अन्योन्यं अमीमदच्च ।। ४.११ ।।

विभूषयां आस ततः प्रियां स सिषेविषुस्तां न मृजावहार्थं ।
स्वेनैव रूपेण विभूषिता हि विभूषणानां अपि भुषणं सा ।। ४.१२ ।।

दत्त्वाथ सा दर्पणं अस्य हस्ते ममाग्रतो धारय तावदेनं ।
विशेषकं यावदहं कर्ॐईत्युवाच कान्तं स च तं बभार ।। ४.१३ ।।

भर्तुस्ततः श्मश्रु निरीक्षमाणा विशेषकङ्सापि चकार तादृक् ।
निश्वासवातेन च दर्पञस्य चिकित्सयित्वा निजघान नन्दः ।। ४.१४ ।।

सा तेन चेष्टाललितेन भर्तुः शाठ्येन चान्तर्मनसा जहास ।
भवेच्च रुष्टा किल नाम तस्मै ललाटजिह्मां भृकुटिं चकार ।। ४.१५ ।।

चिक्षेप कर्णोत्पलं अस्य चांसे करेञ सव्येन मदालसेन ।
पत्त्राङ्गुलिं चार्धनिमीलिताक्षे वक्त्रेऽस्य तां एव विनिर्दुधाव ।। ४.१६ ।।

ततश्चलन्नूपुरयोक्त्रिताभ्यां नखप्रभोधासितराङ्गुलिभ्यां ।
पध्यां प्रियाया नलिनोपमाभ्यां मूर्ध्ना भयान्नाम ननाम नदः ।। ४.१७ ।।

स मुक्तपुष्पोन्मिषितेन मूर्ध्ना ततः प्रियायाः प्रियकृद्बभासे ।
सुवर्णवेद्यां अनिलावभग्नः पुष्पातिभारादिव नागवृक्षः ।। ४.१८ ।।

सा तं स्तनोद्वर्तितहारष्टिरुत्थापयां आस निपीड्य दोर्भ्यां ।
कथं कृतोऽसीति जहास चोच्चैर्मुखेन साचीकृतकुण्डलेन ।। ४.१९ ।।

पत्युस्ततो दर्पणसक्तपाणेर्मुहुर्मुहुर्वक्त्रं अवेक्षमाणा ।
तमालपत्त्रार्द्रतले कपोले समापयामास विशेषकं तत् ।। ४.२० ।।

तस्या मुखङ्तत्सतमालपत्त्रङ्ताम्राधरौष्ठं चिकुरायताक्षं ।
रक्ताधिकाग्रं पतितद्विरेफङ्सशैवलङ्पद्मं इवाबभासे ।। ४.२१ ।।

नन्दस्ततो दर्पणं आदरेण बिभ्रत्तदामण्डनसाक्षिभूतं ।
विशेषकावेक्षणकेकराक्षो लडत्प्रियाया वदनं ददर्श ।। ४.२२ ।।

तत्कुण्डलादष्टविशेषकान्तं कारण्डवक्लिष्टं इवारविन्दं ।
नन्दः प्रियाया मुखं ईक्षमाणो भूयः प्रियानन्दकरो बभूव ।। ४.२३ ।।

विमानकल्पे स विमानगर्भे ततस्तथा चैव नन्दन नन्दः ।
तथागतश्चागतभैक्षकालो भैक्षाय तस्य प्रविवेष वेश्म ।। ४.२४ ।।

अवाङ्मुखो निष्प्रणयश्च तस्थौ भ्रातु गृहेऽन्यस्य गृहे यथैव ।
तस्मादथो प्रेष्यजनप्रमादाद्भिक्षां अलब्धैव पुनर्जगाम ।। ४.२५ ।।

का चित्पिपेषाङ्गविलेपनं हि वासोऽङ्गना का चिदवासयच्च ।
अयोजयत्स्नानविधिं तथान्या जग्रन्थुरन्याः सुरभीः स्रजश्च ।। ४.२६ ।।

तस्मिन्गृहे भर्तुरतश्चरन्त्यः क्रीडानुरूपं ललितं नियोगं ।
काश्चिन्न बुद्धं ददृशुर्युवत्यो बुद्धस्य वैषा नियतङ्मनीषा ।। ४.२७ ।।

का चित्स्थिता तत्र तु हर्म्यपृष्ठे गवाक्षपक्षे प्रणिधाय चक्षुः ।
विनिष्पतन्तं सुगतं ददर्श पयोदगर्भादिव दीप्तं अर्कं ।। ४.२८ ।।

सा गौरवं तत्र विचार्य भर्तुः स्वया च भक्त्यार्हतयार्हतश्च ।
नन्दस्य तस्थौ पुरतो विवक्षुस्तदाज्ञया चेति तदाचचक्षे ।। ४.२९ ।।

अनुग्रहायास्य जनस्य शङ्के गुरुर्गृहं नो भगवान्प्रविष्टः ।
भिक्षां अलब्ध्वा गिरं आसनं वा सून्यादरण्यादिव याति भूयः ।। ४.३० ।।

श्रुत्वा महर्षेः स गृहप्रवेशं सत्कारहीनं च पुनःप्रयाणं ।
चचाल चित्राभरणाम्बरस्रक्कल्पद्रुमो धूत इवानिलेन ।। ४.३१ ।।

कृत्वाञ्जलिं मूर्धनि पद्मकल्पं ततः स कान्तां गमनं ययाचे ।
कर्तुं गमिष्यामि गुरौ प्रणामं मां अभ्यनुज्ञातुं इहार्हसीति ।। ४.३२ ।।

सा वेपमाना परिसस्वजे तं शालं लता वातसमीरितेव ।
ददर्श चाशुप्लुतलोलनेत्रा दीर्घं च निश्वस्य वचोऽभ्युवाच ।। ४.३३ ।।

नाहं यियासोर्गुरुदर्शनार्थं अर्हामि कर्तुं तव धर्मपीडां ।
गच्छार्यपुत्रैहि च शीघ्रं एव विशेषको यावदयङ्न शुष्कः ।। ४.३४ ।।

सचेद्भवेस्त्वं खलु दीर्घसूत्रो दण्दं महान्तं त्वयि पातयेयं ।
मुहुर्मुहुस्त्वां शयितं कुचाभ्यां विबोधयेयं च न चालपेयं ।। ४.३५ ।।

अथाप्यनाश्यानविशेषकायां मय्येष्यसि त्वं त्वरितं ततस्त्वां ।
निपीडयिष्यामि भुजद्वयेन निर्भूषञेनार्द्रविलेपनेन ।। ४.३६ ।।

इत्येवं उक्तश्च निपीडितश्च तयासवर्णस्वनया जगाद ।
एवं करिष्यामि विमुञ्च चण्डि यावद्गुरुर्दूरगतो न मे सः ।। ४.३७ ।।

ततः स्तनोद्वर्तितचन्दनाभ्यां मुक्तो भुजाभ्यां न तु मानसेन ।
विहाय वेषं मदनानुरूपं सत्कारयोग्यं स वपुर्बभार ।। ४.३८ ।।

सा तं प्रयान्तं रमणं प्रदध्यौ प्रध्यानशून्यस्थितनिश्चलाक्षी ।
स्थितोच्चकर्णा व्यपविद्धशष्पा भ्रान्तसं मृगं भ्रान्तं मृगङ्भ्रान्तं मुखी मृगीव ।। ४.३९ ।।

दिदृक्षयाक्षिप्तमना मुनेस्तु नन्दः प्रयाणं प्रति तत्वरे च ।
विवृत्तदृष्टिश्च शनैर्ययौ तां करीव पश्यन्स लडत्करेञुं ।। ४.४० ।।

छातोदरिं पीनपयोधरोरुं स सुन्दरीं रुक्मदरीं इवाद्रेः ।
काक्षेण पश्यन्न ततर्प नन्दः पिबन्निवैकेन जलं करेण ।। ४.४१ ।।

तङ्गौरवं बुद्धगतं चकर्ष भार्यानुरागः पुनराचकर्ष ।
सऽनिश्चयान्नापि ययौ न तस्थौ तुरंस्तरङ्गेष्विव राजहंसः ।। ४.४२ ।।

अदर्शनं तूपगतश्च तस्या हर्म्यात्ततश्चावततार तूर्णं ।
श्रुत्वा ततो नूपुरनिस्वनं स पुनर्ललम्बे हृदये गृहीतः ।। ४.४३ ।।

स कामरागेञ निगृह्यमाणो धर्मानुरागेञ च कृष्यमाणः ।
जगाम दुःखेन विवर्त्यमानः प्लवः प्रतिस्रोत इवापगायाः ।। ४.४४ ।।

ततः क्रमैर्दीर्घतमैः प्रचक्रमे कतं नु यातो न गुरुर्भवेदिति ।
स्वजेय तां चैव विशेषकप्रियां कथं प्रियां आर्द्रविशेषकां इति ।। ४.४५ ।।

अथ स पथि ददर्श मुक्तमानं पितृनगरेऽपि तथागताभिमानं ।
दशबलं अभितो विलम्बमानं ध्वजं अनुयान इवैन्द्रं अर्च्यमानं ।। ४.४६ ।।


Sऔन्दरनन्दे महाकाव्ये भार्यायाचितको नाम चतुर्थः सर्गः ।