सूर्यसिद्धान्त चन्द्रशृंगोन्नत्यधिकारः

विकिस्रोतः तः

Varitants for the part beginning with * are supplied in ( ) .

सूर्यसिद्धान्त अनुक्रमणिका


[चन्द्रशृङ्गोन्न]
१०.०१क उदयास्तविधिः प्राग्वत् कर्तव्यः शीतगोर् अपि /

१०.०१ख भागैर् द्वादशभिः पश्चाद् दृश्यः प्राग् यात्य् अदृश्यताम् //

१०.०२क रवीन्द्वोः षड्भयुतयोः प्राग्वल् लग्नान्तरासवः /
१०.०२ख एकराशौ रवीन्द्वोश् च कार्या विवरलिप्तिकाः //

१०.०३क तन्नाडिकाहते भुक्ती रवीन्द्वोः षष्टिभाजिते /
१०.०३ख तत्फलान्वितयोर् भूयः कर्तव्या विवरासवः //

१०.०४क एवम् यावत् स्थिरीभूता रवीन्द्वोर् अन्तरासवः /
१०.०४ख तैः प्राणैर् अस्तमेतीन्दुः शुक्ले +अर्कास्तमयात् परम् //

१०.०५क भगणार्धम् रवेर् दत्त्वा कार्यास् तद्विवरासवः /
१०.०५ख तैः प्राणैः कृष्णपक्षे तु शीताम्शुर् उदयम् व्रजेत् //

१०.०६क अर्केन्द्वोः क्रान्तिविश्लेषो दिक्साम्ये युतिर् अन्यथा /
१०.०६ख तज्ज्येन्दुर् अर्काद् यत्रासौ विज्ञेया दक्षिणोत्तरा //

१०.०७क मध्याह्नेन्दुप्रभाकर्णसङ्गुणा यदि सोत्तरा /
१०.०७ख तदार्कघ्नाक्षजीवायाम् शोध्या योज्या च दक्षिणा //

१०.०८क शेषम् लम्बज्यया भक्तम् लब्धो बाहुः स्वदिङ्मुखः /
१०.०८ख कोटिः शङ्कुस् तयोर् वर्गयुतेर् मूलम् श्रुतिर् भवेत् //

१०.०९क सूर्योनशीतगोर् लिप्ताः शुक्लम् नवशतोद्धृताः /
१०.०९ख चन्द्रबिम्बाङ्गुलाभ्यस्तम् हृतम् द्वादशभिः स्फुटम् //

१०.१०क दत्त्वार्कसम्ज्ञितम् बिन्दुम् ततो बाहुम् स्वदिङ्मुखम् /
१०.१०ख ततः पश्चान् मुखी कोटिम् कर्णम् कोट्यग्रमध्यगम् //

१०.११क कोटिकर्णयुताद् बिन्दोर् बिम्बम् तात्कालिकम् लिखेत् /
१०.११ख कर्णसूत्रेण दिक्सिद्धिम् प्रथमम् परिकल्पयेत् //

१०.१२क शुक्लम् कर्णेन तद्बिम्बयोगाद् अन्तर्मुखम् नयेत् /
१०.१२ख शुक्लाग्रयाम्योत्तरयोर् मध्ये मत्स्यौ प्रसाधयेत् //

१०.१३क तन्मद्ख्यसूत्रसम्योगाद् बिन्दुत्रिस्पृग् लिखेद् धनुः //
१०.१३ख प्राग्बिम्बम् यादृग् एव स्यात् तादृक् तत्र दिने शशी //

५१०.१४क कोट्या दिक् साधनात् तिर्यक्सूत्रान्ते शृङ्गम् उन्नतम् /
१०.१४ख दर्शयेद् उन्नताम् कोटिम् कृत्वा चन्द्रस्य साकृतिः //

१०.१५क कृष्णे षड्भयुतम् सूर्यम् विशोध्येन्दोस् तथासितम् /
१०.१५ख दद्याद् वामम् भुजम् तत्र पश्चिमम् मण्डलम् विधोः //

सूर्यसिद्धान्त अनुक्रमणिका

संबंधित कड़ियाँ[सम्पाद्यताम्]

बाहरी कड़ियाँ[सम्पाद्यताम्]