सूर्यसिद्धान्तः/अध्यायः ६

विकिस्रोतः तः
← अध्यायः ५ सूर्यसिद्धान्तः
अध्यायः ६
[[लेखकः :|]]
अध्यायः ७ →

न छेद्यकं ऋते यस्माद्भेदा ग्रहणयोः स्फुटाः ।
ज्ञायन्ते तत्प्रवक्ष्यामि छेद्यकज्ञानं उत्तमम् ।। ६.०१ ।।

सुसाधितायां अवनौ बिन्दुं कृत्वा ततो लिखेत् ।
सप्तवर्गाङ्गुलेनादौ मण्डलं वलनाश्रितम् ।। ६.०२ ।।

ग्राह्यग्राहकयोगार्धसम्मितेन द्वितीयकम् ।
मण्डलं तत्समासाख्यं ग्राह्यार्धेन तृतीयकम् ।। ६.०३ ।।

याम्योत्तराप्राच्यपरासाधनं पूर्ववद्दिशाम् ।
प्रागिन्दोर्ग्रहणं पश्चान्मोक्षो +अर्कस्य विपर्ययात् ।। ६.०४ ।।

यथादिशं प्राग्रहणं वलनं हिमदीधितेः ।
मौक्षिकं तु विपर्यस्तं विपरीतं इदं रवेः ।। ६.०५ ।।

वलनाग्रान्नयेन्मध्यं सूत्रं यद्यत्र संस्पृशेत् ।
तत्समासे ततो देयौ विक्षेपौ ग्रासमौक्षिकौ ।। ६.०६ ।।

विक्षेपाग्रात्पुनः सूत्रं मध्यबिन्दुं प्रवेशयेत् ।
तद्ग्राह्यबिन्दुसंस्पर्शाद्ग्रासमोक्षौ विनिर्दिशेत् ।। ६.०७ ।।

नित्यशो +अर्कस्य विक्षेपाः परिलेखे यथादिशम् ।
विपरीताः शशाङ्कस्य तद्वशादथ मध्यमम् ।। ६.०८ ।।

वलनं प्राङ्मुखं देयं तद्विक्षेपैकता यदि ।
भेदे पश्चान्मुखं देयं इन्दोर्भानोर्विपर्ययात् ।। ६.०९ ।।

वलनाग्रात्पुनः सूत्रं मध्यबिन्दुं प्रवेशयेत् ।
मध्यसूत्रेण विक्षेपं वलनाभिमुखं नयेत् ।। ६.१० ।।

विक्षेपाग्राल्लिखेद्वृत्तं ग्राहकार्धेन तेन यत् ।
ग्राह्यवृत्तं समाक्रान्तं तद्ग्रस्तं तमसा भवेत् ।। ६.११ ।।

छेद्यकं लिखता भूमौ फलके वा विपश्चिता ।
विपर्ययो दिशां कार्यः पूर्वापरकपालयोः ।। ६.१२ ।।

स्वच्छत्वाद्द्वादशांशो +अपि ग्रस्तश्चन्द्रस्य दृश्यते ।
लिप्तात्रयं अपि ग्रस्तं तीक्ष्णत्वान्न विवस्वतः ।। ६.१३ ।।

स्वसंज्ञितास्त्रयः कार्या विक्षेपाग्रेषु बिन्दवः ।
तत्र प्राङ्मध्ययोर्मध्ये तथा मौक्षिकमध्ययोः ।। ६.१४ ।।

लिखेन्मत्स्यौ तयोर्मध्यान्मुखपुच्छविनिःसृतम् ।
प्रसार्य सूत्रद्वितयं तयोर्यत्र युतिर्भवेत् ।। ६.१५ ।।

तत्र सूत्रेण विलिखेच्चापं बिन्दुत्रयस्पृशा ।
स पन्था ग्राहकस्योक्ता येनासौ सम्प्रयास्यति ।। ६.१६ ।।

ग्राह्यग्राहकयोगार्धात्प्रोज्झ्येष्टग्रासं आगतम् ।
अवशिष्टाङ्गुलसमां शलाकां मध्यबिन्दुतः ।। ६.१७ ।।

तयोर्मार्गोन्मुखीं दद्याद्ग्रासतः प्राग्ग्रहाश्रिताम् ।
विमुञ्चतो मोक्षदिशि ग्राहकाध्वानं एव सा ।। ६.१८ ।।

स्पृशेद्यत्र ततो वृत्तं ग्राहकार्धेन संलिखेत् ।
तेन ग्राह्यं यदाक्रान्तं तत्तमोग्रस्तं आदिशेत् ।। ६.१९ ।।

मानान्तरार्धेन मितां शलाकां ग्रासदिङ्मुखीम् ।
निमीलनाख्यां दद्यात्सा तन्मार्गे यत्र संस्पृशेत् ।। ६.२० ।।

ततो ग्राहकखण्डेन प्राग्वन्मण्डलं आलिखेत् ।
तद्ग्राह्यमण्डलयुतिर्यत्र तत्र निमीलनम् ।। ६.२१ ।।

एवं उन्मीलने मोक्षदिङ्मुखीं सम्प्रसारयेत् ।
विलिखेन्मण्डलं प्राग्वदुन्मीलनं अथोक्तवत् ।। ६.२२ ।।

अर्धादूने सधूंरं स्यात्कृष्णं अर्धाधिकं भवेत् ।
विमुञ्चतः कृष्णतांरं कपिलं सकलग्रहे ।। ६.२३ ।।

रहस्यं एतद्देवानां न देयं यस्य कस्यचित् ।
सुपरीक्षितशिष्याय देयं वत्सरवासिने ।। ६.२४ ।।