सूर्यसिद्धान्तः/अध्यायः ३

विकिस्रोतः तः
← अध्यायः २ सूर्यसिद्धान्तः
अध्यायः ३
[[लेखकः :|]]
अध्यायः ४ →

शिलातले +अम्बुसंशुद्धे वज्रलेपे +अपि वा समे ।
तत्र शङ्क्वङ्गुलैरिष्टैः समं मण्डलं आलिखेत् ।। ३.०१ ।।

तन्मध्ये स्थापयेच्छङ्कुं कल्पनाद्वादशाङ्गुलम् ।
तच्छायाग्रं स्पृशेद्यत्र वृत्ते पूर्वापरार्धयोः ।। ३.०२ ।।

तत्र बिन्दू विधायोभौ वृत्ते पूर्वापराभिधौ ।
तन्मध्ये तिमिना रेखा कर्तव्या दक्षिणोत्तरा ।। ३.०३ ।।

याम्योत्तरदिशोर्मध्ये तिमिना पूर्वपश्चिमा ।
दिङ्मध्यमत्स्यैः संसाध्या विदिशस्तद्वदेव हि ।। ३.०४ ।।

चतुरस्रं बहिः कुर्यात्सूत्रैर्मध्याद्विनिर्गतैः ।
भुजसूत्राङ्गुलैस्तत्र दत्तैरिष्टप्रभा स्मृता ।। ३.०५ ।।

प्राक्पश्चिमाश्रिता रेखा प्रोच्यते सममण्डले ।
उनण्डले च विषुवन्मण्डले परिकीर्त्यते ।। ३.०६ ।।

रेखा प्राच्यपरा साध्या विषुवद्भाग्रगा तथा ।
इष्टच्छायाविषुवतोर्मध्यं अग्राभिधीयते ।। ३.०७ ।।

शङ्कुच्छायाकृतियुतेर्मूलं कर्णो +अस्य वर्गतः ।
प्रोज्झ्य शङ्कुकृतिं मूलं छाया शङ्कुर्विपर्ययात् ।। ३.०८ ।।

त्रिंशत्कृत्यो युगे भानां चक्रं प्राक्परिलम्बते ।
तद्गुणाद्भूदिनैर्भक्ताद्द्युगणाद्यदवाप्यते ।। ३.०९ ।।

तद्दोस्त्रिघ्ना दशाप्तांशा विज्ञेया अयनाभिधाः ।
तत्संस्कृताद्ग्रहात्क्रान्तिच्छायाचरदलादिकम् ।। ३.१० ।।

स्फुटं दृक्तुल्यतां गच्छेदयने विषुवद्वये ।
प्राक्चक्रं चलितं हीने छायार्कात्करणागते ।। ३.११ ।।

अन्तरांशैरथावृत्य पश्चाच्छेषैस्तथाधिके ।
एवं विषुवती छाया स्वदेशे या दिनार्धजा ।। ३.१२ ।।

दक्षिणोत्तररेखायां सा तत्र विषुवत्प्रभा ।।
शङ्कुच्छायाहते त्रिज्ये विषुवत्कर्णभाजिते । ३.१३ ।।

लम्बाक्षज्ये तयोश्चापे लम्बाक्षौ दक्षिणौ सदा ।
मध्यच्छाया भुजस्तेन गुणिता त्रिभमौर्विका ।। ३.१४ ।।

स्वकर्णाप्ता धनुर्लिप्ता नतास्ता दक्षिणे भुजे ।
उत्तराश्चोत्तरे याम्यास्ताः सूर्यक्रान्तिलिप्तिकाः ।। ३.१५ ।।

दिग्भेदे मिश्रिताः साम्ये विश्लिष्टाश्चाक्षलिप्तिकाः ।
ताभ्यो +अक्षज्या च तद्वर्गं प्रोज्झ्य त्रिज्याकृतेः पदम् ।। ३.१६ ।।

लम्बज्यार्कगुणाक्षज्या विषुवद्भाथ लम्बया ।
स्वाक्षार्कनतभागानां दिक्षाम्ये +अन्तरं अन्यथा ।। ३.१७ ।।

दिग्भेदे +अपक्रमः शेषस्तस्य ज्या त्रिज्यया हता ।
परमापक्रमज्याप्ता चापं मेषादिगो रविः ।। ३.१८ ।।

कर्क्यादौ प्रोज्झ्य चक्रार्धात्तुलादौ भार्धसंयुतात् ।
मृगादौ प्रोज्झ्य भगणान्मध्याह्ने +अर्कः स्फुटो भवेत् ।। ३.१९ ।।

तन्मान्दं असकृद्वामं फलं मध्यो दिवाकरः ।
स्वाक्षार्कापक्रमयुतिर्दिक्षाम्ये +अन्तरं अन्यथा ।। ३.२० ।।

शेषं नतांशाः सूर्यस्य तद्बाहुज्या च कोटिज्या ।
शङ्कुमानाङ्गुलाभ्यस्ते भुजत्रिज्ये यथाक्रमम् ।। ३.२१ ।।

कोटिज्यया विभज्याप्ते छायाकर्णावहर्दले ।
क्रान्तिज्या विषुवत्कर्णगुणाप्ता शङ्कुजीवया ।। ३.२२ ।।

अर्काग्रा स्वेष्टकर्णघ्नी मध्यकर्णोद्धृता स्वका ।
विषुवद्भायुतार्काग्रा याम्ये स्यादुत्तरो भुजः ।। ३.२३ ।।

विषुवत्यां विशोध्योदग्गोले स्याद्बाहुरुत्तरः ।
विपर्ययाद्भुजो याम्यो भवेत्प्राच्यपरान्तरे ।। ३.२४ ।।

माध्याह्निको भुजो नित्यं छाया माध्याह्निकी स्मृता ।
लम्बाक्षजीवे विषुवच्छायाद्वादशसङ्गुणे ।। ३.२५ ।।

क्रान्तिज्याप्ते तु तौ कर्णौ सममण्डलगे रवौ ।
सौम्याक्षोना यदा कान्तिः स्यात्तदा द्युदलश्रवः ।। ३.२६ ।।

विषुवच्छाययाभ्यस्तः कर्णो मध्याग्रयोद्धृतः ।
स्वक्रान्तिज्या त्रिजीवाघ्नी लम्बज्याप्ताग्रमौर्विका ।। ३.२७ ।।

स्वेष्टकर्णहता भक्ता त्रिज्ययाग्राङ्गुलादिका ।
त्रिज्यावर्गार्धतो +अग्रज्यावर्गोनाद्द्वादशाहतात् ।। ३.२८ ।।

पुनर्द्वादशनिघ्नाच्च लभ्यते यत्फलं बुधैः ।
शङ्कुवर्गार्धसंयुक्तविषुवद्वर्गभाजितात् ।। ३.२९ ।।

तदेव करणी नाम तां पृथक्स्थापयेद्बुधः ।
अर्कघ्नी विषुवच्छायाग्रज्यया गुणिता तथा ।। ३.३० ।।

भक्ता फलाख्यं तद्वर्गसंयुक्तकरणीपदम् ।
फलेन हीनसंयुक्तं दक्षिणोत्तरगोलयोः ।। ३.३१ ।।

याम्ययोर्विदिशोः शङ्कुरेवं याम्योत्तरे रवौ ।
परिभ्रमति शङ्कोस्तु शङ्कुरुत्तरयोस्तु सः ।। ३.३२ ।।

तत्त्रिज्यावर्गविश्लेषान्मूलं दृग्ज्याभिधीयते ।
स्वशङ्कुना विभज्याप्ते दृक्त्रिज्ये द्वादशाहते ।। ३.३३ ।।

छायाकर्णौ तु कोणेषु यथास्वं देशकालयोः ।
त्रिज्योदक्चरजायुक्ता याम्यायां तद्विवर्जिता ।। ३.३४ ।।

अन्त्या नतोत्क्रमज्योना स्वहोरात्रार्धसङ्गुणा ।
त्रिज्याभक्ता भवेच्छेदो लम्बज्याघ्नो +अथ भाजितः ।। ३.३५ ।।

त्रिभज्यया भवेच्छङ्कुस्तद्वर्गं परिशोधयेत् ।
त्रिज्यावर्गात्पदं दृग्ज्या छायाकर्णौ तु पूर्ववत् ।। ३.३६ ।।

अभीष्टच्छाययाभ्यस्ता त्रिज्या तत्कर्णभाजिता ।
दृग्ज्या तद्वर्गसंशुद्धात्त्रिज्यावर्गाच्च यत्पदम् । ३.३७ ।।

शङ्कुः स त्रिभजीवाघ्नः स्वलम्बज्याविभाजितः ।
छेदः स त्रिज्ययाभ्यस्तः स्वाहोरात्रार्धभाजितः ।। ३.३८ ।।

उन्नतज्या तया हीना स्वान्त्या शेषस्य कार्मुकम् ।
उत्क्रमज्याभिरेवं स्युः प्राक्पश्चार्धनतासवः ।। ३.३९ ।।

इष्टाग्राघ्नी तु लम्बज्या स्वकर्णाङ्गुलभाजिता ।
क्रान्तिज्या सा त्रिजीवाघ्नी परमापक्रमोद्धृता ।। ३.४० ।।

तच्चापं भादिकं क्षेत्रं पदैस्तत्र भवो रविः ।
इष्टे +अह्नि मध्ये प्राक्पश्चाद्धृते बाहुत्रयान्तरे ।। ३.४१ ।।

मत्स्यद्वयान्तरयुतेस्त्रिस्पृक्षूत्रेण भाभ्रमः ।
त्रिभद्युकर्णार्धगुणाः स्वाहोरात्रार्धभाजिताः ।। ३.४२ ।।

क्रमादेकद्वित्रिभज्यास्तच्चापानि पृथक्पृथक् ।
स्वाधो +अधः परिशोध्याथ मेषाल्लङ्कोदयासवः ।। ३.४३ ।।

खागाष्टयो +अर्थगो +अगैकाः शरत्र्यङ्कहिमांशवः ।
स्वदेशचरखण्डोना भवन्तीष्टोदयासवः ।। ३.४४ ।।

व्यस्ता व्यस्तैर्युताः स्वैः स्वैः कर्कटाद्यास्ततस्त्रयः ।
उत्क्रमेण षडेवैते भवन्तीष्टास्तुलादयः ।। ३.४५ ।।

गतभोग्यासवः कार्या भास्करादिष्टकालिकात् ।
स्वोदयासुहता भुक्तभोग्या भक्ताः खवह्निभिः ।। ३.४६ ।।

अभीष्टघटिकासुभ्यो भोग्यासून्प्रविशोधयेत् ।
तद्वत्तदेष्यलग्नासूनेवं यातात्तथोत्क्रमात् ।। ३.४७ ।।

शेषं चेत्त्रिंशताभ्यस्तं अशुद्धेन विभाजितम् ।
भागैर्युक्तं च हीनं च तल्लग्नं क्षितिजे तदा ।। (C भागहीनं च युक्तं च) ३.४८ ।।

प्राक्पश्चान्नतनाडीभिस्तस्माल्लङ्कोदयासुभिः ।
भानौ क्षयधने कृत्वा मध्यलग्नं तदा भवेत् ।। ३.४९ ।।

भोग्यासूनूनकस्याथ भुक्तासूनधिकस्य च ।
सम्पीण्ड्यान्तरलग्नासूनेवं स्यात्कालसाधनम् ।। ३.५० ।।

सूर्यादूने निशाशेषे लग्ने +अर्कादधिके दिवा ।
भचक्रार्धयुताद्भानोरधिक्के +अस्तमयात्परम् ।। ३.५१ ।।