सूर्यसिद्धान्तः/अध्यायः २

विकिस्रोतः तः
← अध्यायः १ सूर्यसिद्धान्तः
अध्यायः २
[[लेखकः :|]]
अध्यायः ३ →

अदृश्यरूपाः कालस्य मूर्तयो भगणाश्रिताः ।
शीघ्रमन्दोच्चपाताख्या ग्रहाणां गतिहेतवः ।। २.०१ ।।

तद्वातरश्मिभिर्*बद्धास्तैस्सव्येतरपाणिभिः । (C नद्धास्)
प्राक्पश्चादपकृष्यन्ते यथासन्नं स्वदिङ्मुखम् ।। २.०२ ।।

प्रवहाख्यो मरुत्तांस्तु स्वोच्चाभिमुखं ईरयेत् ।
पूर्वापराकृष्टास्ते *गतिं यान्ति पृथग्विधाः ।।(C गतीर्, पृथग्विधाम्) २.०३ ।।

ग्रहात्प्राग्भगणार्धस्थः प्राङ्मुखं कर्षति ग्रहम् ।
उच्चसंज्ञो +अपरार्धस्थस्तद्वत्पश्चान्मुखं ग्रहम् ।। २.०४ ।।

स्वोच्चापकृष्टा *भगणैः प्राङ्मुखं यान्ति यद्ग्रहाः । (C भगणात्)
तत्तेषु धनं इत्युक्तं ऋणं पश्चान्मुखेषु *च ।। (तु) २.०५ ।।

  • दक्षिणोत्तरतो +अप्येवं पातो *राहुः स्वरंहसा ।(C दक्षिणोत्तरयोर्, राहुश्च रंहसा)

विक्षिपत्येष विक्षेपं चन्द्रादीनां अपक्रमात् ।। २.०६ ।।

उत्तराभिमुखं पातो विक्षिपत्यपरार्धगः ।
ग्रहं प्राग्भगणार्धस्थो याम्यायां अपकर्षति ।। २.०७ ।।

बुधभार्गवयोः शीघ्रात्तद्वत्पातो *यदा स्थितः । (C यथास्थितः)
तच्छीघ्राकर्षणात्तौ तु विक्षिप्येते यथोक्तवत् ।। २.०८ ।।

महत्वान्मण्डलस्यार्कः स्वल्पं एवापकृष्यते ।
मण्डलाल्पतया चन्द्रस्ततो बह्वपकृष्यते । २.०९ ।।

भौमादयो +अल्पमूर्तित्वाच्छीघ्रमन्दोच्चसञ्ज्ञकैः । (C संज्ञितैः)
दैवतैरपकृष्यन्ते सुदूरं अतिवेगिताः ।। २.१० ।।

अतो धनर्णं सुमहत्तेषां गतिवशाद्भवेत् ।
आकृष्यमाणास्तैरेवं व्योम्नि यान्त्यनिलाहताः ।। २.११ ।।

  • वक्रातिवक्रा विकला मन्दा मन्दतरा समा । (C वक्रानुवक्रा)

तथा शीघ्रतरा शीघ्रा ग्रहाणां अष्टधा गतिः ।। २.१२ ।।

तत्रातिशीघ्रा शीघ्राख्या मन्दा मन्दतरा समा ।
ऋज्वीति पञ्चधा ज्ञेया *या वक्रा सातिवक्रगा ।।(C +अन्या वक्रादिका मता) २.१३ ।।

तत्तद्गतिवशान्नित्यं यथा दृक्तुल्यतां ग्रहाः ।
प्रयान्ति तत्प्रवक्ष्यामि स्फुटीकरणं आदरात् ।। २.१४ ।।

राशिलिप्ताष्टमो भागः प्रथमं ज्यार्धं उच्यते ।
तत्तद्विभक्तलब्धोनमिश्रितं तद्द्वितीयकम् ।। २.१५ ।।

आद्येनैवं क्रमात्पिण्डान्भक्त्वा *लब्धोनसंयुताः ।(C लब्धोनितैर्युतैः)

  • खण्डकाः स्युश्चतुर्विंशज्यार्धपिण्डाः क्रमादमी ।।(C खण्डकैस्) २.१६ ।।

तत्त्वाश्विनो +अङ्काब्धिकृता रूपभूमिधरर्तवः ।(२२४, ४४९, ६९१)
खाङ्काष्टौ पञ्चशून्येशा बाणरूपगुणेन्दवः ।।(८९०, ११०५, १३१५) २.१७ ।।

शून्यलोचनपञ्चैकाश्छिद्ररूपमुनीन्दवः ।(१५२०, १७१९)
वियच्चन्द्रातिधृतयो गुणरन्ध्राम्बराश्विनः ।।(१९१०, २०९३) २.१८ ।।

मुनिषड्यमनेत्राणि चन्द्राग्निकृतदस्रकाः ।(२२६७, २४३१)
पञ्चाष्टविषयाक्षीणि कुञ्जराश्विनगाश्विनः ।।(२५८५, २७२८) २.१९ ।।

रन्ध्रपञ्चाष्टकयमा वस्वद्र्यङ्कयमास्तथा ।(२८५९, २९७८)
कृताष्टशून्यज्वलना नगाद्रिशशिवह्नयः ।।(३०८४, ३१७९) २.२० ।।

षट्पञ्चलोचनगुणाश्चन्द्रनेत्राग्निवह्नयः ।(३२५६, ३३२१)
यमाद्रिवह्निज्वलना रन्ध्रशून्यार्नवाग्नयः ।।(३३७२), ३४०१) २.२१ ।।

रूपाग्निसागरगुणा वस्वग्निकृतवह्नयः ।(३४३१, ३४३८)
प्रोज्झ्योत्क्रमेण व्यासार्धादुत्क्रमज्यार्धपिण्डिकाः ।। २.२२ ।।

मुनयो रन्ध्रयमला रसषट्का मुनीश्वराः ।(७, २९, ६६, ११७)
द्व्यष्टैका रूपषड्दस्राः सागरार्थहुताशनाः ।(१८२, २६१, ३५४) २.२३ ।।

खर्तुवेदा नवाद्र्यर्था दिङ्नागास्त्र्यर्थकुञ्जराः ।(४६०, ७१०, ८५३)
नगाम्बरवियच्चन्द्रा रूपभूधरशङ्कराः ।।(१००७, ११७१) २.२४ ।।

शरार्णवहुताशैका भुजङ्गाक्षिशरेन्दवः ।(१३४५, १५२८)
नवरूपमहीध्रैका गजैकाङ्कनिशाकराः ।।१७१९, १९१८) २.२५ ।।

गुणाश्विरूपनेत्राणि पावकाग्निगुणाश्विनः ।(२१२३, २३३३)
वस्वर्णवार्थयमलास्तुरङ्गर्तुनगाश्विनः ।।(२५४८, २७६७) २.२६ ।।

नवाष्टनवनेत्राणि पावकैकयमाग्नयः ।(२९८९, ३२९३)
गजाग्निसागरगुणा उत्क्रमज्यार्धपिण्डकाः ।।(३४३८) २.२७ ।।

परमापक्रमज्या तु सप्तरन्ध्रगुणेन्दवः ।(१३९७)
तद्गुणा ज्या त्रिजीवाप्ता तच्चापं क्रान्तिरुच्यते ।।(C इष्यते) २.२८ ।।

ग्रहं संशोध्य मन्दोच्चात्तथा शीघ्राद्विशोध्य च ।
शेषं केन्द्रपदं तस्माद्भुजज्या कोटिरेव च ।।(C केन्द्रं पदं) २.२९ ।।

गताद्भुजज्या विषमे गम्यात्कोटिः पदे भवेत् ।

  • युग्मे तु गम्याद्बाहुज्या कोटिज्या तु गताद्भवेत् ।।(C समे) २.३० ।।

लिप्तास्तत्त्वयमैर्भक्ता *लब्धं ज्यापिण्डिकं गताम् ।(C लब्धा ज्यापिण्डिका गताः)
गतगम्यान्तराभ्यस्तं विभजेत्तत्त्वलोचनैः ।।(२२५) २.३१ ।।

तदवाप्तफलं योज्यं ज्यापिण्डे *गतसंज्ञके ।(C गतसंज्ञिते)
स्यात्क्रमज्याविधिरयं उत्क्रमज्यास्वपि स्मृतः ।। २.३२ ।।

ज्यां *प्रोज्झ्य शेषं तत्त्वाश्विहतं तद्विवरोद्धृतम् ।(C प्रोज्झ्यान्यत्तत्त्वयमैर्हत्वा)(२२५)
संख्यातत्त्वाश्विसंवर्गे *संयोज्य धनुरुच्यते ।।(C संयोज्यं) (२२५) २.३३ ।।

रवेर्मन्दपरिध्यंशा मनवः शीतगो रदाः । (१४, ३२) २.३४ ।।

युग्मान्ते विषमान्ते तु नखलिप्तोनितास्तयोः ।। ३.३४ ।।

युग्मान्ते +अर्थाद्रयः *खाग्निसुराः सूर्या नवार्णवाः ।(C खाग्निः सुरास्)(७५, ३०, ३३, १२, ४९)
ओजे द्व्यगा वसुयमा रदा रुद्रा गजाब्दयः ।। २.३५ ।।

कुजादीनां *अतः शीघ्रा युग्मान्ते +अर्थाग्निदस्रकाः ।(C ततश्शैघ्र्या)(२३५)
गुणाग्निचन्द्राः *खनगा द्विरसाक्षीणि गो+अग्नयः ।।(C खागाश्च)(१३३, ७०, २६२, ३९) २.३६ ।।

ओजान्ते *द्वित्रियमला द्विविश्वे यमपर्वताः ।(C द्वित्रिकयमाः)(१३२, ७२)
खर्तुदस्रा वियद्वेदाः शीघ्रकर्मणि कीर्तिताः ।।(२६०,४०) २.३७ ।।

ओजयुग्मान्तरगुणा भुजज्या त्रिज्ययोद्धृता ।

  • युग्मे वृत्ते धनर्णं स्यादोजादूनाधिके स्फुटम् ।। (C युग्मवृत्ते) २.३८ ।।

तद्गुणे भुजकोटिज्ये भगणांशविभाजिते ।
तद्भुजज्याफलधनुर्मान्दं लिप्तादिकं फलम् ।। २.३९ ।।

  • शैघ्र्यं कोटिफलं केन्द्रे मकरादौ धनं स्मृतम् ।(C शैघ्रे)

संशोध्यं तु *त्रिजीवायां कर्क्यादौ कोटिजं फलम् ।।(C त्रिजीवातः) २.४० ।।

तद्बाहुफलवर्गैक्यान्मूलं कर्णश्चलाभिधः ।
त्रिज्याभ्यस्तं भुजफलं चलकर्णविभाजितम् ।। २.४१ ।।

लब्धस्य चापं लिप्तादिफलं *शैघ्र्यं इदं स्मृतम् । (C शैघ्रम्)
एतदाद्ये कुजादीनां चतुर्थे चैव कर्मणि ।। २.४२ ।।

मान्दं कर्मैकं अर्केन्दोर्भौमादीनां अथोच्यते ।

  • शैघ्र्यं मान्दं पुनर्मान्दं शैघ्र्यं चत्वार्यनुक्रमात् ।।(C शैघ्रं) २.४३ ।।

मध्ये शीघ्रफलस्यार्धं मान्दं अर्धफलं तथा ।
मध्यग्रहे *मन्दफलं सकलं शैघ्र्यं एव च ।।(C पुनर्मान्दं) २.४४ ।।

अजादिकेन्द्रे सर्वेषां *शैघ्र्ये मान्दे च कर्मणि ।(C मान्दे शैघ्रे)
धनं ग्रहाणां लिप्तादि तुलादाव्र्णं एव च ।। २.४५ ।।

अर्कबाहुफलाभ्यस्ता ग्रहभुक्तिर्विभाजिता ।
भचक्रकलिकाभिस्तु लिप्ताः कर्या ग्रहे +अर्कवत् ।। २.४६ ।।

स्वमन्दभुक्तिसंशुद्धा मध्यभुक्तिर्निशापतेः ।
दोर्ज्यान्तरादिकं कृत्वा भुक्तावृणधनं भवेत् ।। २.४७ ।।

ग्रहभुक्तेः फलं कार्यं ग्रहवन्मन्दकर्मणि ।
दोर्ज्यान्तरगुणा भुक्तिस्तत्त्वनेत्रोद्धृता पुनः ।। (२२५) २.४८ ।।

स्वमन्दपरिधिक्षुण्णा भगणांशोद्धृता कलाः ।]
कर्क्यादौ तु धनं तत्र मकरादावृणं स्मृतम् ।। २.४९ ।।

मन्दस्फुटीकृतां भुक्तिं प्रोज्झ्य शीघ्रोच्चभुक्तितः ।
तच्छेशं विवरेणाथ हन्यात्त्रिज्यान्त्यकर्णयोः ।। २.५० ।।

चलकर्णहृतं भुक्तौ कर्णे त्रिज्याधिके धनम् ।
ऋणं ऊने +अधिके प्रोज्झ्य शेषं वक्रगतिर्भवेत् ।। २.५१ ।।

दूरस्थितः स्वशीघ्रोच्चाद्ग्रहः शिथिलरश्मिभिः ।
सव्येतराकृष्ततनुर्भवेत्वक्रगतिस्तदा ।। २.५२ ।।

कृतर्तुचन्द्रैर्वेदेन्द्रैः शून्यत्र्येकैर्गुणाष्टभिः ।(१६४, १४४, १३०, ८३)
शररुद्रैश्चतुर्थेषु केन्द्रांशैर्भूसुतादयः ।।(११५) २.५३ ।।

भवन्ति वक्रिणस्तैस्तु स्वैः स्वैश्चक्राद्विशोधितैः ।
अवशिष्टांशतुल्यैः स्वैः केन्द्रैरुज्झन्ति वक्रताम् ।। २.५४ ।।

महत्त्वाच्छीघ्रपरिधेः सप्तमे भृगुभूसुतौ ।
अष्टमे जीवशशैजौ नवमे तु शनैश्चरः ।। २.५५ ।।

कुजार्किगुरुपातानां ग्रहवच्छीघ्रजं फलम् ।
वामं तृतीयकं मान्दं बुधभार्गवयोः फलम् ।। २.५६ ।।

स्वपातोनाद्ग्रहाज्जीवा शीघ्राद्भृगुजसौम्ययोः ।
विक्षेपघ्न्यन्त्यकर्णाप्ता विक्षेपस्त्रिज्यया विधोः ।। २.५७ ।।

विक्षेपापक्रमैकत्वे क्रान्तिर्विक्षेपसंयुता ।
दिग्भेदे वियुता स्पष्टा भास्करस्य यथागता ।। २.५८ ।।

ग्रहोदयप्राणहता खखाष्टैकोद्धृता गतिः ।
चक्रासवो लब्धयुता स्वाहोरात्रासवः स्मृताः ।। २.५९ ।।

क्रान्तेः क्रमोत्क्रम्मज्ये द्वे कृत्वा तत्रोत्क्रमज्यया ।
हीना त्रिज्या दिनव्यासदलं तद्दक्षिणोत्तरम् ।। २.६० ।।

क्रान्तिज्या विषुवद्भाघ्नी क्षितिज्या द्वादशोद्धृता ।
त्रिज्यागुणाहोरात्रार्धकर्णाप्ता चरजासवः ।। २.६१ ।।

तत्कार्मुकं उदक्क्रान्तौ *धनशनी पृथक्ष्थिते ।(C धनहानी)
स्वाहोरात्रचतुर्भागे दिनरात्रिदले स्मृते ।। २.६२ ।।

याम्यक्रान्तौ विपर्यस्ते द्विगुणे तु दिनक्षपे ।
विक्षेपयुक्तोनितया क्रान्त्या भानां अपि स्वके ।। २.६३ ।।

भभोगो +अष्टशतीलिप्ताः खाश्विशैलास्तथा तिथेः ।
ग्रहलिप्ताभभोगाप्ता भानि भुक्त्या दिनादिकम् ।। २.६४ ।।

रवीन्दुयोगलिप्ताभ्यो योगा भभोगभाजिताः ।
गता गम्याश्च षष्टिघ्न्यो भुक्तियोगाप्तनाडिकाः ।। २.६५ ।।

अर्कोनचन्द्रलिप्ताभ्यस्तिथयो भोगभाजिताः ।
गता गम्याश्च षष्टिघ्न्यो नाड्यो भुक्त्यन्तरोद्धृताः ।। २.६६ ।।

ध्रुवाणि शकुनिर्नागं तृतीयं तु चतुष्पदम् ।
किंस्तुघ्नं तु चतुर्दश्याः कृष्णायाश्चापरार्धतः ।। २.६७ ।।

बवादीनि ततः सप्त चराख्यकरणानि च ।
मासे +अष्टकृत्व एकैकं करणानां प्रवर्तते ।। २.६८ ।।

तिथ्यर्धभोगं सर्वेषां करणानां प्रकल्पयेत् ।
एषा स्फुतगतिः प्रोक्ता सूर्यादीनां खचारिणाम् ।। २.६९ ।।