साहित्यदर्पणम्/षष्ठः परिच्छेदः

विकिस्रोतः तः
← पञ्चमः परिच्छेदः साहित्यदर्पणम्
षष्ठः परिच्छेदः
विश्वनाथः
सप्तमः परिच्छेदः →

     एवं ध्वनिगुणीभूतव्यङ्ग्यत्वेन काव्यस्य भेदद्वयमुक्त्वा पुनर्दृश्यश्रव्यत्वेन भेदद्वयमाह--

दृश्यश्रव्यत्वभेदेन पुनः काव्यं द्विधा मतं ।
दृश्यं तत्राभिनेयं--

     तस्यरूपकसंज्ञाहेतुमाह--

तद्रूपारोपात्तुरूपकं ।। सूत्र ६.१ ।।

तद्दृश्यं काव्यं नटे रामादिस्वरूपारोपाद्रूपकमित्युच्यते ।
कोऽसावभिनाय इत्याह--

भवेदभिनयोऽवस्थानुकारः स चतुर्विधः ।
आङ्गिको वाचिकश्चैवमाहार्यः सात्त्विकस्तथा ।। सूत्र ६.२ ।।

     नटैरङ्गादिभी रामयुधिष्ठिरादीनामवस्थानुकरणमभिनयः ।
     रुपकस्य भेदानाह--

नाटकमथ प्रकरणं भाणव्यायोगसमवकारडिमाः ।
ईहामृगाङ्कवीथ्यः प्रहसनमिति रूपकाणि दश ।। सूत्र ६.३ ।।

     किञ्च---

नाटिका त्रोटकं गोष्ठी सट्टकं नाट्यरासकं ।

प्रस्थानोल्लाप्यकाव्यानि प्रेङ्खणं रासकं तथा ।। सूत्र ६.४ ।।
संलापकं श्रीगदितं शिल्पकं च विलासिका ।
दुर्मल्लिका प्रकरणी हल्लीशो भाणिकेति च ।। सूत्र ६.५ ।।

अष्टादश प्राहुरुपरूपकाणि मनीषिणः ।

विना विशेषं सर्वेषां लक्ष्म नाटकवन्मतम् ।। सूत्र ६.६ ।।

     सर्वेषां प्रकरणादिरूपकाणां नाटिकाद्युपरूपकाणां च ।
     तत्र---

नाटकं ख्यातवृत्तं स्यात्पञ्चसंधिसमन्वितं ।

विलासर्द्ध्यादिगुणवद्युक्तं नानाविभूतिभैः ।। सूत्र ६.७ ।।
सुखदुःखसमुद्भूति नानारसनिरन्तरं ।
पञ्चादिका दशपरास्तत्राङ्काः परिकीर्त्तिताः ।। सूत्र ६.८ ।।

प्रख्यातवंशो राजर्षिर्धोरोदात्तः प्रतापवान् ।
दिव्योऽथ दिव्यादिव्यो वा गुणावान्नायको मतः ।। सूत्र ६.९ ।।

एक एव भवेदङ्गी शृङ्गारो वीर एव वा ।
अङ्गमन्ये रसाः सर्वे कार्यो निर्वहणोऽद्भुतः ।। सूत्र ६.१० ।।

चत्वारः पञ्च वा मुख्याः कार्यव्यापृतपूरुषाः ।

गोपुच्छाग्रसमाग्रं तु बन्धनं तस्य कीर्तितं ।। सूत्र ६.११ ।।

     ख्यातं रामायणादिप्रसिद्धं वृत्तं । यथा--रामचरितादि । सन्धयो वक्ष्यन्ते । नानाविभूतिभिर्युक्तमिति महासहायं । सुखदुःखसमुद्भूतत्वं रामयुधिष्ठिरादिवृत्तान्तेष्वभिक्तं । राजर्षयो दुष्यन्तादयः । दिव्याः श्रीकृष्णादयः । दिव्या दिव्यः, यो दिव्योऽप्यात्मनिनराभिमानी । यथा श्रीरामचन्द्रः । गोपुच्छग्रसमाग्रमिति 'क्रमेणाङ्काः सूक्ष्माः कर्तव्याः' इति केचित् । अन्ये त्वाहुः--'यथा गोपुच्छे केचिद्वाला ह्रस्वाः केचिद्दीर्घास्तथेह कानिचित्कार्याणि मुखसंधो समाप्तानि कानिचित्प्रतिमुखे । एवमन्येष्वपि कानिचित्कानिचित्' इति ।

प्रत्यक्षनेतृचरितो रसभावसमुज्ज्वलः ।

भवेदगूढशब्दार्थः क्षुद्रचूर्णकसंयुतः ।। सूत्र ६.१२ ।।
विच्छिन्नावान्तरैकार्थः किञ्चित्संलग्नबिन्दुकः ।
युक्तो न बहुभिः कार्यैर्बोजसंहृतिमान्न च ।। सूत्र ६.१३ ।।

नानाविधानसंयुक्तो नातिप्रचुरपद्यवान् ।
आवश्यकानां कार्याणामविरोधाद्विनिमितः ।। सूत्र ६.१४ ।।

नानेकदिननिर्वर्त्यकथया संप्रयोजितः ।
आसन्ननायकः पात्रैर्युतस्त्रिचतुरैस्तथा ।। सूत्र ६.१५ ।।

दूराह्वानं वधो युद्धं राज्यदेशादिविप्लवः ।
विवाहो भोजनं शापोत्सर्गौ मृत्यू रतं तथा ।। सूत्र ६.१६ ।।

दन्तच्छेद्यं नखच्छेद्यमन्यद्व्रीडाकरं च यत् ।
शयनाधरपानादि नगराद्यवरोधनं ।। सूत्र ६.१७ ।।

स्नानानुलेपने चैभिर्वर्जितो नास्तिविस्तरः ।
देवीपरिजनादीनाममात्यवणिजमपि ।। सूत्र ६.१८ ।।

प्रत्यक्षचित्रचरितैर्युक्तो भावरसोद्भवैः ।

अन्तनिष्क्रान्तनिखिलपात्रोऽङ्क इति कीर्त्तितः ।। सूत्र ६.१९ ।।

     बिन्द्वादयो वक्ष्यन्ते । आवश्यकं संध्यावन्दनाहि ।
     अङ्कप्रस्तावाद्गर्भाङ्कमाह-

अङ्कोदरप्रविष्टो यो रङ्ग द्वारामुखादिमान् ।
अङ्कोऽपरः स गर्भाङ्कः सबीजः फलवानपि ।। सूत्र ६.२० ।।

     यथा बालरामायणो रावणं प्रति कोहलः---

'श्रवणैः पेयमनेकैर्दृश्यं दीर्घैश्च लोचनैर्बहुभिः ।
भवदर्थमिव निबद्धं नाट्यं सीतास्वयंवरणम् ।।'

इत्यादिना विरचितः सीतास्वयंवरो नाम गर्भाङ्कः ।

तत्र पूर्वं पूर्वरङ्गः सभापूजा ततः परं ।
कथनं कविसंज्ञादेर्नाटकस्याप्यथामुखं ।। सूत्र ६.२१ ।।

     तत्रेति नाटके ।

यन्नाट्यवस्तुनः पूर्वं रङ्गविघ्नोपशान्तये ।

कुशीलवाः प्रकुर्वन्ति पूर्वरङ्गः स उच्यते ।। सूत्र ६.२२ ।।
प्रत्याहारादिकान्यङ्गान्यस्य भूयांसि यद्यपि ।

तथाप्यवश्यं कर्तव्या नान्दी विन्घोपशान्तये ।। सूत्र ६.२३ ।।

तस्याः स्वरूपमाह--

आशीर्वचनसंयुक्ता स्तुतिर्यस्मात्प्रयुज्यते ।

देवद्विजनृपादीनां तस्मान्नान्दीति संज्ञिता ।। सूत्र ६.२४ ।।
माङ्गल्यशङ्खचन्द्राब्जकोककैरवशंसिनी ।

पदैर्युक्तादूदशभिरष्टाभिर्वा पदैरुत ।। सूत्र ६.२५ ।।

     अष्टपदा यथा अनर्घराघवे--'निष्प्रत्यूहम' इत्यादि । द्वादशपदा यथा मम तातपादानां पुष्पमालायाम्---

शिरसि धृतसुरापगे स्मरारा-

वरुणमुखेन्दुरुचिर्गिरीन्द्रपुत्री ।
अथ चरणयुगानते स्वकान्ते

स्मितसरसा भवतोऽस्तु भूतिहेतुः ।।

एवमन्यत्र ।
     एतन्नान्दीति कस्यचिन्मतानुसारेणोक्तं । वस्तुतस्तु 'पूर्वरङ्गस्य रङ्गद्वाराभिधानमङ्गम्' इत्यन्ये ।
     यदुक्तम्---

'यस्मादभिनयो ह्यत्र प्राथम्यादवतार्यते ।
रङ्गद्वारमतो ज्ञेयं वागङ्गाभिनयात्मकम् ।।' इति ।

     उक्तप्रकारायाश्च नान्द्या रङ्गद्वारात्प्रथमं नटैरेव कर्तव्यतया न महर्षिणा निर्देशः कृतः ।
     कालिदासादिमहाकविप्रबन्धेषु च---
     वेदान्तेषु यमाहुरेकपुरुषं व्याप्य स्थितं रोदसी
          यस्मिन्नीश्वर इत्यनन्यविषयः शब्दो यथार्थाक्षरः ।
     अन्तर्यश्च मुमुक्षुभिनियमितप्राणादिभिर्मृग्यते
          स स्थाणुः स्थिरभक्तियोगसुलभो निः श्रेयसायास्तु वः ।।
     एवमादिषु नान्दीलक्षणायोगात् । उक्तं च---'रङ्गद्वारमारभ्य कविः कुर्यात्-ऽइत्यादि । अत एव प्राक्तनपुस्तकेषु 'नान्द्यन्ते सूत्रधारः' इत्यनन्तरमेव 'वेदान्तेषु-' इत्यादि श्लोकले(लि) खनं दृश्यते । यच्च पश्चात्'नान्द्यन्ते सूत्रधारः' इति ले (लि) खनं तस्यायमभिप्रायः---नान्द्यन्ते सूत्रधार इदं प्रयोजितवान्, इतः प्रभृति मया नाटकमुपादीयत इति कवेरभिप्रायः सूचित' इति ।

पूर्वरङ्गं विधायैव सूत्रधारा निवर्तते ।

प्रविश्य स्थापकस्तद्वत्काव्यमास्थापयेत्ततः ।। सूत्र ६.२६ ।।
दिव्यमर्त्ये स तद्रूपो मिश्रमन्यतरस्तयोः ।

सूचयैद्वस्तु बीजं वा मुखं पात्रमथापि वा ।। सूत्र ६.२७ ।।

     काव्यार्थस्य स्थापनात्स्थापकः । तद्वदिति सूत्रधारसदृशगुणाकारः । इदानीं पूर्वरङ्गस्य सम्यक्प्रयोगाभावादेक एव सूत्रधारः सर्वं प्रयोजयतीति व्यवहारः । स स्थापको दिव्यं वस्तु दिव्यो भूत्वा, मर्त्यं मर्त्यो भूत्वा, मिश्रं च दिव्यमर्त्ययोरन्यतरो भूत्वा सूचयेत् ।
वस्तु इतिवृत्तम्, यथोदात्तराघवे---

रामो मूध्नि निधाय काननमगान्मालामिवाज्ञां गुरो-

स्तद्भक्त्या भरतेन राज्यमखिलं मात्रा सहैवोज्भ्क्तितं ।
तौ सुग्रीवविभीषणावनुगतौ नीतौ परामुन्नतिं

प्रोत्सिक्ता दशकंधारप्रभृतयो ध्वस्ताः समस्ता द्विषः ।।

     बीजं यथा रत्नावल्याम्---

द्वीपादन्यस्मादपि मध्यादपि जलनिधेर्दिशोऽप्यन्तात् ।
आनीय भ्क्तटिति घटयति विधिरभिमतमभिमुखीभूतः ।।

     अत्र हि समुद्रे प्रवहणभङ्गमग्नोत्थिताया रत्नावल्या अनुकूलदैवलालितो वत्सराजगृहप्रवेशो यौगन्धरायणव्यापारमारभ्य रत्नावली प्राप्तौ बीजं ।
     मुखं श्लेषादिना प्रस्तुतवृत्तान्तप्रतिपादको वाग्विशेषः । यथा---

आसादितप्रकटनिर्मलचन्द्रहासः

प्राप्तः शरत्समय एष विशुद्धकान्तिः ।
उत्खाया गाढतमसं घनकालमुग्रं

रामो दशास्यमिव संभृतबन्धुजीवः ।।

     पात्रं यथा शाकुन्तले ---

तवास्मि गीतरागेण हारिणा प्रसभं हृतः ।

एष राजेव दुष्यन्तः सारङ्गेणतिरंहसा ।।
रङ्गं प्रसाद्य मधुरैः शलोकैः काव्यार्थसूचकैः ।
रूपकस्य कवेराख्यां गोत्राद्यपि स कीर्तयेत् ।। सूत्र ६.२८ ।।

ऋतुं च कञ्चित्प्रायेण भारती वृत्तिमाश्रितः ।

     स स्थापकः । प्रायेणोति क्वचिदृतोरकीतनमपि । यथा--रत्नावल्यां ।
     भारतीवृत्तिस्तु---

भारती संस्कृतप्रायो वाग्व्यापारो नटाश्रयः ।। सूत्र ६.२९ ।।

     संस्कृतबहुलो वाक्प्रधानो व्यापारो भारती ।

तस्याः प्ररोचना वीथी तथा प्रहसनामुखे ।
अङ्गान्यत्रोन्मुखीकारः प्रशंसातः प्ररोचना ।। सूत्र ६.३० ।।

     प्रस्तुताभिनयेषु प्रशंसातः श्रोतॄणां प्रवृत्त्युन्मुखीकरणं प्ररोचना ।
यथा रत्नावल्याम्---

श्रीहर्षो निपुणः कविः परिषदप्येषा गुणग्राहिणी,

लोके हारि च वत्साराजचरितं नाट्ये च दक्षा वयं ।
वस्त्वेकैकमपीह वाञ्छितफलप्राप्तेः पदं किं पुनर्-

मद्भाग्योपचयादयं समुदितः सर्वो गुणानां गणः ।।

     वीथीप्रहसने वक्ष्येते ।

नटी विदूषको वापि पारिपाशिवक एव वा ।

सूत्रधारेण सहिताः सलापं यत्र कुर्वते ।। सूत्र ६.३१ ।।
चित्रैर्वाक्यैः स्वकार्योत्थैः प्रस्तुताक्षेपिभिर्मिथः ।

आमुखं तत्तु विज्ञेयं नाम्ना प्रस्तावनापि सा ।। सूत्र ६.३२ ।।

     सूत्रधारसदृशत्वात्स्थापकोऽपि सूत्रधार उच्यते । तस्यानुचरः पारिपाश्विकः, तस्मात्किञ्चिदूनो नटः ।

उद्धात्य(त)कः कथोद्धातः प्रयोगातिशयस्तथा ।
प्रवर्तकावलगिते पञ्च प्रस्तावनाभिदाः ।। सूत्र ६.३३ ।।

     तत्र

पदानि त्वगतार्थानि तदर्थगतये नराः ।
योजयन्ति पदैरन्यैः स उद्धात्य (त) क उत्यते ।। सूत्र ६.३४ ।।

     यथा मुद्राराक्षसे सूत्रधारः---
     'क्रूरग्रहः सकेतुश्चन्द्रमसम्पूर्णमण्डलमिदानीं ।
     अभिभवितुमिच्छति बालत्--' इत्यनन्तरम्---'(नेपथ्ये । ) आः, क एष मयि जीवति चन्द्रगुप्तमभि- भवितुमिच्छति।' इति ।
     अत्रान्यार्थन्त्यपि पदानि हृदयस्थार्थागत्या अर्थान्तरे संक्रमय्य पात्रप्रवेशः ।

सूत्रधारस्य वाक्यं वा समादायार्थमस्य वा ।
भवेत्पात्रप्रवेशश्चेत्कथोद्धातः स उच्यते ।। सूत्र ६.३५ ।।

     वाक्यं यथा रत्नावल्याम्--'द्वीपादन्यस्मादपि--ऽइत्यादि (३३२ पृ दृ) सूत्रधारेण पठिते--'(नेपथ्ये) साधु भरतपुत्र साधु । एवमेतत् । कः सन्देहः ? द्वीपादन्यस्मादपि--' इत्यादि पठित्वा यौगन्धरायणस्य प्रवेशः ।
     वाक्यार्थो यथा वेण्याम्--
          निर्वाणवैरदहनाः प्रशमादरीणां
               नन्दन्तु पाण्डुतनयाः सह माधवेन ।
          रक्तप्रसाधितभुवः क्षतविग्रहाश्च
               स्वस्था भवन्तु कुरुराजसुताः सभृत्याः ।।
     इति सूत्रधारेण पठितस्य वाक्यस्यार्थं गृहीत्वा--'(नेपथ्ये) आः दुरात्मन् वृथा मङ्गलपाठक , कथं स्वस्था भवन्तु मयि जीवति धार्तराष्टाः ?' ततः सूत्रधारनिष्क्रान्तौ भीमसेनस्य प्रवेशः ।

यदि प्रयोग एकस्मिन्प्रयोगोऽन्यः प्रयुज्यते ।
तेन पात्रप्रवेशश्चेत्प्रयोगातिशयस्तदा ।। सूत्र ६.३६ ।।

     यथा कुन्दमालायाम्---'(नेपथ्ये) इत इतोऽवतरत्वार्या । सूत्रधारः---कोऽयं खल्वार्याह्वानेन साहायकमपि मे सम्पादयति ।
(विलोक्य) कष्टमतिकरुणं वर्तते ।

'लङ्केश्वरस्य भवने सुचिरं स्थितेति

रामेण लोकपरिवादभयाकुलेन ।
निर्वासितां जनपदादपि गर्भगुर्वों

सीतां वनाय परिकर्षति लक्ष्मणोऽयम् ।।'

     अत्र नृत्यप्रयोगार्थं स्वभार्याह्वानमिच्छता सूत्रधारेण 'सीतां वनाय परिकर्षति लक्ष्मणोऽयम्' इति सीतालक्ष्मणयोः प्रवेशं सूचयित्वा निष्कान्तेन स्वप्रयोगमतिशयान एव प्रयोगः प्रयोजितः ।

कालं प्रवृत्तमाश्रित्य सूत्रधुग्यत्र वर्णयेत् ।
तदाश्रयश्च पात्रस्य प्रवेशस्तत्प्रवर्तकं ।। सूत्र ६.३७ ।।

     यथा---'आसादितप्रकट--' इत्यादि (३३२ पृ दृ) । '(ततः प्रविशति यथानिदिष्टो रामः।)'

यत्रैकश्च समावेशात्कार्यमन्यत्प्रसाध्यते ।
प्रयोगे खलु तज्ज्ञेयं नाम्नावलगितं बुधैः ।। सूत्र ६.३८ ।।

     यथा शाकुन्तले--सूत्रधारो नटीं प्रति । 'तवास्मि गीतरागेण-' (३३३ पृ दृ) इत्यादि । ततो राज्ञः प्रवेशः ।

योज्यान्यत्र यथालाभं वीथ्यङ्गानीतराण्यपि ।

     अत्र आमुखे । उद्धात्य (त) कावलगितयोरितराणि वीथ्यङ्गानि वक्ष्यमाणानि ।
     नखकुट्टस्तु---

नेपथ्योक्तं श्रुतं यत्र त्वाकाशवचनं तथा ।। सूत्र ६.३९ ।।

समाश्रित्यापि कर्तव्यमामुखं नाटकादिषु ।
एषामामुखभेदानामेकं कञ्चित्प्रयोजयेत् ।। सूत्र ६.४० ।।

तेनार्थमथ पात्रं वा समाक्षिप्यवै सूत्रधृक ।

प्रस्तावनान्ते निर्गच्छेत्ततो वस्तु प्रयोजयेत् ।। सूत्र ६.४१ ।।

     वस्त्वितिवृत्तं ।

इदं पुनर्वस्तु बुधौर्द्विविधं परिकल्प्यते ।

आधिकारिकमेकं स्यात्प्रासङ्गिकमथापरं ।। सूत्र ६.४२ ।।
अधिकारः फले स्वाम्यमधिकारी च तत्प्रभुः ।

तस्येतिवृत्तं कविभिराधिकारिकमुच्यते ।। सूत्र ६.४३ ।।

     फले प्रधानफले । यथा बालरामायणो रामचरितं ।

अस्योपकरणार्थं तु प्रासङ्गिकमितीष्यते ।

     अस्याधिकारिकेतिवृत्तस्य उपकरणनिमित्तं यच्चरितं तत्प्रासङ्गिकं । यथा सुग्रीवादिचरितं ।

पताकास्थानकं योज्यं सुविचार्येह वस्तुनि ।। सूत्र ६.४४ ।।

     इह नाट्ये ।

यत्रार्थे चिन्तितेऽन्यस्मिंस्तल्लिङ्गोऽन्यः प्रयुज्यते ।

आगन्तुकेन भावेन पताकास्थानकं तु तत् ।। सूत्र ६.४५ ।।
तद्रेदानाह--सहसैवार्थसंपत्तिर्गुणावत्युपचारतः ।

पताकास्थानकमिदं प्रथमं परिकीर्तितं ।। सूत्र ६.४६ ।।

     यथा रत्नावल्याम्--'वासवदत्तेयम्' इति राजा यदा तत्कण्ठपाशं मोचयति तदा तदुक्त्या 'सागरिकेयम्' इति प्रत्यभिज्ञाय 'कथं ? प्रिया मे सागरिका ।

अलमलमतिमात्रं साहसेनामुना ते त्वरितमयि ,

विमुञ्च त्वं लतापाशमेतं ।
चलितमपि निरोद्धुं जीवितं जीवितेशे

क्षणमिह मम कण्ठे बाहुपाशं निधेहि ।।'

     इति फलरूपार्थसंपत्तिः पूर्वापेक्षयोपचारातिशयाद्गुणवत्युत्कृष्ट ।

वचः सातिशयं श्लिष्टं नानाबन्धसमाश्रयं ।
पताकास्थानकमिदं द्वितीयं परिकीर्त्तितं ।। सूत्र ६.४७ ।।

     यथा वेण्याम्---

('रक्तप्रसाधितभुवः क्षतविग्रहाश्च
 स्वस्था भवन्तु कुरुराजसुताः सभृत्याः।')

     अत्र रक्तादीनां रुधिरशरीरार्थहेतुकश्लेषवशेन बीजार्थप्रतिपादनान्नेतृमङ्गलप्रतिपत्तौ सत्यां द्वितायं पताकास्थानं ।

अर्थोपक्षेपकं यत्तु लीनं सविनयं भवेत् ।
श्लिष्टप्रत्युत्तरोपेतं तृतीयमिदमुच्यते ।। सूत्र ६.४८ ।।

     लीनमव्यक्तार्थम्, श्लिष्टेन सम्बन्धयोग्येनाभिप्रायान्तरप्रयुक्तेन प्रत्युत्तरेणोतपेतम्, सविनयं विशेषनिश्चयप्राप्त्या सहितं संपाद्यते यत्तत्तृतीयं पताकास्थानं ।
     यथा वेण्यां द्वितीयेऽङ्के 'कञ्चुकी-देव भग्नं भग्नं । राजा--केन ? कञ्चुकी--भीमेन । राजा--कस्य ? कञ्चुकी--भवतः । राजा--आः किं प्रलपसि ? कञ्चुकी--(सभयम्) देव ननु ब्रवीमि । भग्नं भीमेन भवतः ।
राजा-धिग्वृद्धापसद कोऽयमद्य ते व्यामोहः ? कञ्चुकी-देव न व्यामोहः । सत्यमेव--

'भग्नं भीमेन भवतो मरुता रथकेतनं ।

पतितिं किङ्गिणीक्वाणबद्धाक्रन्दमिव क्षितौ ।।'

अत्र दुर्योधनोरुभङ्गरूपप्रस्तुतसंक्रान्तमर्थोपक्षेपणं ।

द्व्यर्थो वचनविन्यासः सुश्लिष्टः काव्ययोजितः ।
प्रधानार्थान्तराक्षेपि पताकास्थानकं परं ।। सूत्र ६.४९ ।।

     यथा रत्नावल्याम्---

'उद्दामोत्कलिकां विपाण्डुररुचं प्रारब्धजृम्भां क्षणा-

दायासं श्वसनोद्रमैरविरलैरातन्वतीमात्मनः ।
अद्योद्यानलतामिमां समदनां नारीमिवान्यां ध्रुवं

पश्यन्कोपविपाटलद्युति मुखं देव्याः करिष्याम्यहम् ।।'

     अत्र भाव्यर्थः सूचितः । एतानि चत्वारि पताकास्थानानि क्वचिन्मङ्गलार्थं क्वचिदमङ्गलार्थं सर्वसन्धिषु भवन्ति । काव्यकर्तुरिच्छावशाद्भूयो भूयोऽपि भवन्ति । यत्पुनः केनचिदुक्तम्--'मुखसन्धिमारभ्य सन्धिचतुष्टये क्रमेण भवन्ति' इति । तदन्ये न मन्यन्ते, एषामत्यन्तमुपादेयानामनियमेन सर्वत्रापि सर्वेषामपि भवितुं युक्तत्वात् ।

यत्स्यादनुचितं वस्तु नायकस्य रसस्य वा ।
विरुद्धं तत्परित्याज्यमन्यथा वा प्रकल्पयेत् ।। सूत्र ६.५० ।।

अनुचितमितिवृत्तं यथा--रामस्यच्छद्मना बालिवधः । तच्चोदात्तराघवे नोनोक्तमेव । वीरचरिते तु वाली रामवधार्थमागतो रामेण हत इत्यन्यथा कृतः ।

अङ्केष्वदर्शनीया या वक्तव्यैव च संमता ।

या च स्याद्वर्षपर्यन्तं कथा दिनद्वयादिजा ।। सूत्र ६.५१ ।।
अन्या च विस्तरा सूच्या सार्थोपक्षोपकैर्बुधैः ।
अङ्केषु अदर्शनीया कथा युद्धादिकथा ।

वर्षाढूर्ध्वं तु यद्वस्तु तत्स्याद्वर्षादधोभवं ।। सूत्र ६.५२ ।।

     उक्तं हि मुनिना--

'अङ्कच्छेदें कार्यं मासकृतं वर्षसञ्चितं वापि ।
तत्सर्वं कर्तव्यं वर्षादूर्ध्वं न तु कदाचित् ।।'

     एवं च चतुर्दशवर्षव्यापिन्यपि रामवनवासे ये ये विराधवधादयः कथां--शास्ते ते वर्षवर्षावयवदिनयुग्मादीनामेकतमेन सूचनीया न विरुद्धाः ।

दिनावसाने कार्यं यद्दिने नैवोपपद्यते ।
अर्थोपक्षेपकैर्वाच्यमङ्कच्छेदं विधाय तत् ।। सूत्र ६.५३ ।।

     के तेर्ऽथोपक्षेपका इत्याह--

अर्थोपपक्षेपकाः पञ्च विष्कम्भकप्रवेशकौ ।

चूलिकाङ्कावतारोऽथ स्यादङ्कमुखमित्यपि ।। सूत्र ६.५४ ।।
वृत्तवर्तिष्यमाणानां कथंशानां निदर्शकः ।
संक्षिप्तार्थस्तु विष्कम्भ आदावङ्कस्य दर्शितः ।। सूत्र ६.५५ ।।

मध्येन मध्यमाभ्यां वा पात्राभ्यां संप्रयोजितः ।

शुद्धः स्यात्स तु संकीर्णो नीचमध्यमकल्पितः ।। सूत्र ६.५६ ।।

     तत्र शुद्धो यथा--मालतीमाधवे श्मशाने कपालकुण्डला । सङ्कीर्णो यथा--रामाभिन्दे क्षपणककापालिकौ ।
     अथ प्रवेशकः---

प्रवेशकोऽनुदात्तोक्त्या नीचपात्रप्रयोजितः ।
अङ्कद्वयान्तर्विज्ञेयः शेषं विष्कम्भके यथा ।। सूत्र ६.५७ ।।

     अङ्कद्वयस्यान्तरिति प्रथमाङ्केऽस्य प्रतिषेधः । यथा--वेण्यामश्चत्थामाङ्के राक्षसमिथुनं ।
     अथ चूलिका---

अन्तर्जवनिकासंस्थैः सूचनार्थस्य चूलिका ।

     यथा वीरचरिते चतुर्थाङ्कस्यादौ--'(नेपथ्ये) भो भो वैमानिकाः, प्रवर्तन्तां रङ्गमङ्गलानि' इत्यादि । 'रामेण परशुरामो जितः' इति नेपथ्ये पात्रैः सूचितं ।
     अथाङ्कावतारः---

अङ्कान्ते सूचितः पात्रैस्तदङ्कस्याविभागतः ।। सूत्र ६.५८ ।।
यत्राङ्कोऽवतरत्येषोऽङ्कावतार इति स्मृतः ।

     यथा अभिज्ञाने पञ्चमाङ्के पात्रैः सूचितः षष्ठाङ्कस्तदङ्कस्याङ्गविशेष इवावतीर्णः । अथाङ्कमुखम्---

यत्र सायादङ्क एवस्मिन्नङ्कानां सूचनाखिला ।। सूत्र ६.५९ ।।
तदङ्कमुखमित्याहुर्बोजार्थख्यापकं च तत् ।

     यथा---मालतीमाधवे प्रथमाङ्कादौ कामन्दक्यवलोकिते भूरिवसुप्रभृतीनां भाविभूमिकानां परिक्षिप्तकथाप्रबन्धस्य च प्रसङ्गात्संनिवेशं सूचितवत्यौ ।

अङ्कान्तपात्रैर्वाङ्कास्यं छिन्नाङ्कस्यार्थसूचनां ।। सूत्र ६.६० ।।

     अङ्कान्तपात्रैङ्कान्ते प्रविष्टैः पात्रैः । यथा वीरचरिते द्वितीयाङ्कान्ते--'(प्रविश्य) सुमन्त्रः-भगवन्तौ वशिष्ठविश्वामित्रौ भवतः सभार्गवानाह्वयतः । इतरे--क्व भगवन्तौ । सुमन्त्रः--महाराजदशरथस्यान्तिके । इतरे---तत्तत्रैव गच्छावः' इत्यङ्कपरिसमाप्तौ ।
'(ततः प्रविशन्त्युपविष्टा वशिष्ठविश्वामित्रपरशुरामः)ऽइत्यत्र पूर्वाङ्कान्त एव प्रविष्टेन सुमान्त्रपात्रेण शतानन्दजनककथाविच्छेदे उत्तराङ्कमुखसूचनादङ्कास्यम्' इति । एतच्च धनिकमतानुसारेणोक्तं । अन्ये तुं---'अङ्कावतरणोनैवेदं गतार्थम्' इत्याहुः ।

अपेक्षितं परित्याज्यं नीरसं वस्तु विस्तरं ।

यदा संदर्शयेच्छेषमामुखानन्तरं तदा ।। सूत्र ६.६१ ।।

कार्यो विष्कम्भको नाट्य आमुखाक्षिप्तपात्रकः ।

     यथा--रत्नावल्यां यौगन्धरायणप्रयोजितः ।

यदा तु सरसं वस्तु मूलादेव प्रवर्तते ।। सूत्र ६.६२ ।।
आदावेव तदाङ्केस्यादामुखाक्षेपसंश्रयः ।

     यथा---शाकुन्तले ।

विष्कम्भकाद्यैरपि नो वधो वाच्योऽधिकारिणः ।। सूत्र ६.६३ ।।
अन्योऽन्येन तिराधानं न कुर्याद्रसवस्तुनोः ।

रसः शृङ्गारादिः । यदुक्तं धनिकेन---

'न चातिरसतो वस्तु दूरं विच्छिन्नतां नयेत् ।

रसं वा न तिरोदध्याद्वस्त्वलङ्कारलक्षणैः ।।' इति ।
बीजं बिन्दुः पताका च प्रकरी कार्यमेव च ।। सूत्र ६.६४ ।।

अर्थप्रकृतयः पञ्च ज्ञात्वा योज्या यथाविधि ।

     अर्थप्रकृतयः प्रयोजनसिद्धिहेतवः ।
तत्र बीजम्---

अल्पमात्रं समुद्दिष्टं बहुधा यद्विसर्पति ।। सूत्र ६.६५ ।।
फलस्य प्रथमो हेतुर्बोजं तदभिधीयते ।

     यथा---रत्नावल्यां वत्सराजस्य रत्नावलीप्राप्तिहेतुर्दैवानुकूल्यलालितो यौगन्धरायणव्यापारः । यथा वा---वेण्यां द्रौपदीकेशसंयमनहेतुर्भीमसेनक्रोधोपचितो युधिष्ठिरोत्साहः ।

अवान्तरार्थविच्छेदे बिन्दुरच्छेदकारणम् ।। सूत्र ६.६६ ।।

     यथा---रत्नावल्यामनङ्गपूजापरिसमाप्तौ कथार्थविच्छेदे सति 'उदयन्स्येन्दोरिवोद्वीक्षते' इति सागरिका श्रुत्वा '(सहर्षम्) कधं एसो सो उदाणणरिन्दो' इत्यादिरवान्तरार्थहेतुः ।

व्यापि प्रासङ्गिकं वृत्तं पताकेत्यभिधीयते ।

     यथा---रामचरिते-सुग्रीवादेः, वेण्यां भीमादेः, शाकुन्तले-विदूषकस्य चरितं ।

पताकानायकस्य स्यान्न स्वकीयं फलान्तरम् ।। सूत्र ६.६७ ।।
गर्भे सन्धौ विमर्शे वा निर्वाहस्तस्य जायते ।

     यथा---सुग्रीवादेः राज्यप्राप्त्यादि । यत्तु मुनिनोक्तम्--

'आ गार्भाद्वा विमर्शाद्वा पताका विनिवर्तते ।।' इति ।

तत्र 'पताकेति । पताका नायकफलं निर्वहणपर्यन्तमपि पताकायाः प्रवृत्तिदर्शनात्, इति व्याख्यातमभिनवगुप्तपादैः ।

प्रासङ्गिकं प्रदेशस्थं चरितं प्रकरी मता ।। सूत्र ६.६८ ।।

     यथा---कुलपत्यङ्के रावणजटायुसंवादः ।

प्रकरी नायकस्य स्यान्न स्वकीयं फलान्तरं ।
अपेक्षितं तु यत्साध्यमारम्भो यन्निबन्धनः ।। सूत्र ६.६९ ।।

     यथा---जटायोः मोक्षप्राप्तिः ।

समापनं तु यत्सिद्ध्यै तत्कार्यमिति संमतं ।

     यथा---रामचरिते रावणवधः ।

अवस्थाः पञ्च कार्यस्य प्रारब्धस्य फलार्थिभिः ।। सूत्र ६.७० ।।
आरम्भयत्नप्राप्त्याशानियताप्तिफलागमाः ।

     तत्र---

भवेदारम्भ औत्सुक्यं यन्मुख्यफलसिद्धये ।। सूत्र ६.७१ ।।

     यथा---रत्नावल्यां रत्नावल्यन्तः पुरनिवेशार्थं यौगन्धरायणस्यौत्सुक्यं । एवं नायकनायिकादीनामप्यौत्सुक्यमाकरेषु बोद्धव्यं ।

प्रयत्नस्तु फलाबाप्तौ व्यापारोऽतित्वरान्वितः ।

     यथा रत्नावल्याम्---'तहवि ण अत्थि अण्यो दंसण उवॉ त्ति जधा तधा आलिहिअ जधासमीहिदं करैस्सम्।' इत्यादिना प्रतिपादितो रत्नावल्याश्चित्रलेखनादिर्वत्सराजसङ्गमोपायः । यथा च---रामचरिते समुद्रबन्धनादिः ।

उपायापायशङ्काभ्यां प्राप्त्याशा प्राप्तिसम्भवः ।। सूत्र ६.७२ ।।

     यथा---रत्नावल्यां तृतीयेऽङ्के वेषपरिवर्तनाभिसरणादेः सङ्गमोपायाद्वासवदत्तालक्षणापायशङ्कया चानिर्धारितैकान्तसङ्गमरूपफलप्राप्तिः प्राप्त्यशा । एवमन्यत्र ।

अपायाभावतः प्राप्तिनियताप्तिस्तु निश्चिता ।

     अपायाभावान्निर्धारितैकान्तफलप्राप्तिः ।
     यथा रत्नावल्याम्--'राजा--देवीप्रसादनं त्यक्त्वा नान्यमत्रोपायं पश्यामि।' इति देवीलक्षणापायस्य प्रसादनेन निवारणान्नियतफलप्राप्तिः सूचिता ।

सावस्था फलयोगः स्याद्यः समग्रफलोदयः ।। सूत्र ६.७३ ।।

     यथा---रत्नावल्यां रत्नावलीलाभश्चक्रवर्तित्वलक्षणफलान्तरलाभसहितः । एवमन्यत्र ।

यथासंख्यमवस्थाभिराभिर्योगात्तु पञ्चभिः ।
पञ्चधैवेतिवृत्तस्य भागाः स्युः पञ्चसन्धयः ।। सूत्र ६.७४ ।।

     तल्लक्षणमाह---

अन्तरैकार्थसम्बन्धः सन्धिरेकान्वये सति ।

     एकेन प्रयोजनेनान्वितानां कथांशानामवान्तरैकप्रयोजनसम्बन्धः सन्धिः ।
     तद्भेदानाह--

मुखं प्रतिमुखं गर्भो विमर्श उपसंहृतिः ।। सूत्र ६.७५ ।।
इति पञ्चास्य भेदाः स्युः क्रमाल्लक्षणमुच्यते ।

     यथाद्देशं लक्षणमाह---

यत्र बीजसमुत्पत्तिर्नानार्थरससम्भवा ।। सूत्र ६.७६ ।।
प्रारम्भेण समायुक्ता तन्मुखं परिकीर्त्तितं ।

     यथा--रत्नावल्यां प्रथमेऽङ्के ।

फलप्रधानोपायस्य मुखसन्धिनिवेशिनः ।। सूत्र ६.७७ ।।
लक्ष्यालक्ष्य इवोद्भेदो यत्र प्रतिमुखं च तत् ।

     यथा---रत्नावल्यां द्वितीयेऽङ्के वत्सराजसागरिकासमागमहेतोरनुरागबीजस्य प्रथमाङ्कोपक्षिप्तस्य सुसंगता--विदूषकाभ्यां ज्ञायमानतया किंचिल्लक्ष्यस्य वासवदत्तया चित्र फलकवृत्तान्तेन किञ्चिदुन्नीयमानस्योद्देशरूप उद्भेदः ।

फलप्रधानोपायस्य प्रागुद्भिन्नस्य किञ्चिन ।। सूत्र ६.७८ ।।
गर्भो यत्र समुद्भेदो ह्रासान्वेषणवान्मुहुः ।

फलस्य गर्भोकरणाद्रर्भः । यथा रत्नावल्यां द्वितीयेऽङ्के---'सुसंगता---सहि, अदक्खिणा दाणि सि तुमं जा एवं भट्टिणा हत्थेण गाहिदा वि कोवं ण मुञ्चसि' इत्यादौ समुद्भेदः । पुनर्वासवदत्ताप्रवेशे ह्रासः । तृतीयेऽङ्के---'तद्वार्तान्वेषणाय गतः कथं चिरयति वसन्तकः' इत्यन्वेषणं । विढूषकः--ही ही भोः, कोसम्बीरज्जलम्भेणावि ण तादिसो पिअवास्सस्स परितोसो जादिसो मम सऽसादो पियवाणं सुणिअ भवस्सदि' इत्यादावुद्भेदः । पुनरपि वासवदत्ताप्रत्यभिज्ञानाद्ह्रासः । सागरिकायाः सङ्केतस्थानगमनेऽन्वेषणं । पुनर्लतापाशकरणो उद्भेदः । अथ विमिर्शः---

यत्र मुख्यफलोपाय उद्भिन्नो गर्भतोऽधिकः ।। सूत्र ६.७९ ।।
शापाद्यैः सान्तरायश्च स विमर्श इति स्मृतः ।

     यथा शाकुन्तले चतुर्थाङ्कादौ---अनसूया---पिअंवदे, जैवि गन्धव्वेण विवाहेण णिब्बुत्तकल्लाणा पिअसही सौन्तला अणुरूवभत्तुभाइणी संवुत्तेति निव्वुदं मे हिआम्, तह वि एत्तिअं चिन्तणिज्जम्' इत्यत आरभ्य सप्तमाङ्कोपक्षिप्ताच्छकुन्तलाप्रत्यभिज्ञानात्प्रागर्थसञ्चयः शकुन्तलाविस्मरणरूपविन्घालिङ्गितः ।
अथ निर्वहणम्---

बीजवन्तो मुखाद्यर्था विप्रकीर्णा यथायथं ।। सूत्र ६.८० ।।
एकार्थमुपनीयन्ते यत्र निर्वहणां हि तत् ।

     यथा--वेण्याम्--'कञ्चुका--(उपसृत्य, सहर्षम्-) महाराज वर्धसे । अयं खलु भीमसेनो दुर्योधनक्षतजारुणीकृतसर्वशरीरो दुर्लक्ष्यव्यक्तिः' इत्यादिना द्रौपदीकेशसंयमनादिमुखसन्ध्यादिबीजानां निजनिजस्थानोपक्षिप्तानामेकार्थयोजनं । यथा वा-शाकुन्तले सप्तमाङ्केऽशकुन्तलाभिज्ञानादुत्तरोर्ऽथराशिः ।
एषामङ्गान्याह--

उपक्षेपः परिकरः परिन्यासो विलोभनं ।। सूत्र ६.८१ ।।

युक्तिः प्राप्तिः समाधानं विधानं परिभावना ।

 उद्भदः करणं भेद एतान्यङ्गानि वै मुखे ।। सूत्र ६.८२ ।।

     यथोद्देशं लक्षणमाह--

काव्यार्थस्य समुत्पत्तिरुपक्षेप इति स्मृतः ।

काव्यार्थ इतिवृत्तलक्षणप्रस्तुताभिधेयः ।
यथा वेण्याम्--'भीमः---

लाभागृहानलविषान्नसभाप्रवेशैः

प्राणेषु वित्तनिचयेषु च नः प्रहृत्य ।
आकृष्य पाण्डववधूपरिधानकेशा-

न्स्वस्था भवन्ति मयि जीवति धर्तराष्ट्राः ।।

समुत्पन्नार्थबाहुल्यं ज्ञेयः परिकरः पुनः ।। सूत्र ६.८३ ।।

     यथा तत्रैव---

प्रवृद्धं यद्वैरं मम खलु शिसोरेव कुरुभिर्-

न तत्रार्यो हेतुर्न भवति किरीटी न च युवां ।
जरासंधस्योरः स्थलमिव विरूढं पुनरपि

क्रुधा भीमः सन्धिं विघटयति यूयं घटयत ।।

तन्निष्पत्तिः परिन्यासः---

     यथा तत्रैव---

चञ्चद्रभुजभ्रमितचण्डगदाभिघात-

संचूर्णितोरुयुगलस्य सुयोधनस्य ।
स्त्यानावनद्धघनशोणितशोणपाणि-

रुत्तंसयिष्यति कचांस्तव देवि भीमः ।।

अत्रोपक्षेपो नामेतिवत्तलक्षणस्य काव्याभिधैयस्य संक्षेपेणोपक्षेपणमात्रं । परिकरस्तस्यैव बहुलीकरणं । परिन्यासस्ततोऽपि नश्चयापत्तिरूपतया परितो हृदये न्यसनम्, इत्येषां भेदः । एतानि चाङ्गानि उक्तेनैव पौर्वापर्येण भवन्ति । अङ्गान्तराणि त्वन्यथापि ।

---गुणाख्यानं विलोभनं ।

     यथा तत्रैव--- 'द्रौपदी--णाध, किं दुक्करं तुए परिकुविदेण।' यथा वा मम चन्द्रकलायां चन्द्रकलावर्णने--सेयम्, 'तारुण्यस्यविलासः---' इत्यादि (१३९ पृ.) । यत्तु शकुन्तलादिषु 'ग्रीवाभङ्गाभिरामम्---' इत्यादि मृगादिगुणवर्णनं तद्वीजार्थसम्बन्धाभावान्न संध्यङ्गं । एवमङ्गान्तराणामप्यूह्यं ।

संप्रधारणमर्थानां युक्तिः---

     यथा--वेण्यां सहादेवो भीमं प्रति आर्य किं महाराजसंदेशोऽयमव्युत्पन्न एवार्येण गृहीतः' इत्यतः प्रभृति यावद्भीमवचनं ।

'युष्मान्ह्रेपयति क्रोधाल्लोके शत्रुकुलक्षयः ।
न लज्जयति दारणां सभायां केशकर्षणम् ।।' इति ।

----प्राप्तिः सुखागमः ।। सूत्र ६.८४ ।।

     यथा तत्रैव---'मथ्नामि कौरवशतं समरे न कोपात्---' इत्यादि (२८४ पृ.) 'द्रौपदी--(श्रुत्वा सहर्षम्--) णाध, अस्सुदपुव्वं क्खु एदं वाणम्, ता पुणो पुणो भण।'

बीजस्यागमनं यत्तु तत्समाधानमुच्यते ।

     यथा तत्रैव--'(नेपथ्ये कलकलानन्तरम्) भो भो द्रुपदविराटवृष्ण्यन्धक सहदेवप्रभृतयः , अस्मदक्षौहिणीपतयः कौरवचमूप्रधानयोधाश्च शृण्वन्तु भवन्तः---

यत्सत्यव्रतभङ्गभीरुमनसा यत्नेन मन्दीकृतं

यद्विस्मर्तुमपीहितं शमवता शान्ति कुलस्येच्छता ।
तद्द्यूतारणिसंभृतं नृपसुताकेशाम्बराकर्षणैः

क्रोधज्योतिरिदं महत्कुरुवने यौधिष्ठिरं जृम्भते ।।'

     अत्र 'स्वस्था भवन्तु मयि जीवति--' इत्यादि बीजस्य प्रधाननायकाभिमतत्वेन सम्यगहितत्वात्समाधानं ।

सुखदुः खकृतो योर्ऽथस्तद्विधानमिति स्मृतं ।। सूत्र ६.८५ ।।

     यथा बालचरिते---

'उत्साहातिशयं वत्स तव बाल्यं च पश्यतः ।
मम हर्षविषादाभ्यामाक्रान्तं युगपन्मनः।'

     यथा वा मम प्रभावत्याम्--'नयनयुगासेचनकम्-' इत्यादि (२३६ पृ.) ।

कुतूहलोत्तरा वाचः प्रोक्ता तु परिभावना ।

     यथा--वेण्यां द्रौपदी युद्धं स्यान्न वेति संशयाना तूर्यशब्दानन्तरं 'णाध किं दाणिं एसो पलाजलहरत्थणिदमन्थ खणे खणे समरदुन्दुभि ताडीअदि।'

बीजार्थस्य प्ररोहः स्यादुद्भेदः---

     यथा तत्रैव--'द्रौपदी--अण्णां च णाह, पुणोवि तुम्हेहि समरादो आअच्छिअ समास्सासैदव्वा ।
भीमः--

ननु पाञ्चालराजतनये किमद्यालीकाश्चासनया--

भूयः परिभवक्लान्तिलज्जाविधुरिताननं ।

अनिः शेषितकौरव्यं न पश्यसि वृकोदरं ।।

---करणं पुनः ।। सूत्र ६.८६ ।।

प्रकृतार्थसमारम्भः--

     यथा तत्रैव---'देवि गच्छामो वयमिदानीं कुरुकुलक्षयाय' इति ।

---भेदः संहतभेदनं ।

     यथा तत्रैव---'अत एवाद्यप्रभृति भिन्नोऽहं भवद्भ्यः।' केचित्तु---'भेदः प्रोत्साहना' इति वदन्ति ।
     अथ प्रतिमुखाङ्गानि---

विलासः परिसर्पश्च विधुतं तापनं तथा ।। सूत्र ६.८७ ।।

नर्म नर्मद्युतिश्चैव तथा प्रगमनं पुनः ।
विरोधश्च प्रतिमुखे तथा स्यात्पर्युपासनं ।। सूत्र ६.८८ ।।

पुष्पं वज्रमुपन्यासो वर्णसंहार इत्यपि ।

     तत्र

समीहा रतिभोगार्था विलास इति कथ्यते ।। सूत्र ६.८९ ।।

     रतिलक्षणस्य भावस्य यो हेतुभूतो भोगो विषयः प्रमदा पुरुषो वा तदर्था समीहा विलासः । यथा शाकुन्तले---

कामं प्रिया न सुलभा मनस्तु तद्धावदर्शनायासि ।
अकृतार्थेऽपि मनसिजे रतिमुभयप्रार्थना कुरुते ।।

इष्टनष्टानुसरणं परिसर्पश्च कथ्यते ।

यथा शाकुन्तले---'राजा---भवितव्यमत्र तया । तथा हि---

अभ्युन्नता पुरस्तादवगाढा जघनगौरवात्पश्चात् ।

द्वारेऽस्य पाण्डुसिकते पदपङ्क्तिर्दृश्यतेऽभिनवा ।।'

कृतस्यानुनयस्यादौ विधुतं त्वपरिग्रहः ।। सूत्र ६.९० ।।

     यथा तत्रैव---'अलं वो अन्तेउरविरहपज्जुस्सुएण राएसिणा उवरुद्धेण।' । केचित्तु---'विधृतं स्यादरतिः' इति वदन्ति ।

उपायादर्शनं यत्तु तापनं नाम तद्भवेत् ।

     यथा रत्नावल्याम्---'सगरिका---

दुल्लहजणाणुरॉ लज्जा गुरुई परासो अप्पा ।
पियसहि विसमं पेम्मं मरणं सरणं णवरि एक्कम् ।।'

परिहासवचो नर्म---

      यथा रत्नावल्याम्---'सुसंगता--सही जस्स किदे तुमं आअदा से आं दे पुरदो चिट्ठदि । सागरिका---(साभ्यसूयम्) कस्स किदे अहं आअदा ? 'सुसंगता--अलं अण्णसंकिदेण । णं चित्तफलास्स।'

---धृतिस्तु परिहासजा ।। सूत्र ६.९१ ।।

          नर्मद्युतिः---
     तथा तत्रैव--'सुसंगता-सहि ,अदक्खिणा दाणिं सि तुमं जा एव्वं भट्टिणा हत्थावलम्बिदावि कोवं ण मुञ्चसि ।
सागरिका--(सभ्रूभङ्गमीषद्विहस्य) सुसंगदे दाणिं वि कीलिदुं न विरमसि । केचित्तु--'दोषस्याच्छादनं हास्यं नर्मद्युतिः' इति वदन्ति ।

---प्रगमनं वाक्यं स्यादुत्तरोत्तरं ।

     यथा विक्रमोर्वश्याम्--उर्वशी--जादु जादु महारॉ । राजा--- मया नाम जितं यस्य त्वया जय उदीर्यते।' इत्यादि ।

विरोधो व्यसनप्राप्तिः---

     यथा चण्डकौशिके---'राजा---नूनमसमीक्ष्यकारिणा मया अन्धेनेव स्फुरच्छिखाकलापो ज्वलनः पद्भ्यां समाक्रान्तः।'

---क्रुद्धस्यानुनयः पुनः ।। सूत्र ६.९२ ।।

     स्यात्पर्युपासनं--
     यथा रत्नावल्याम्--'विढूषकः---भो, मा कुप्य । एषा हि कदलीघरन्तरं गादा' इत्यादि ।

---पुष्पं विशेषवचनं मतं ।

     यथा तत्रैव---'(राजा हस्ते गृहीत्वा स्पर्शं नाटयति ) विदूषकाः---भो वास्स एसा अपुव्वा सिरी तए समासादिदा । राजा---वयस्य सत्यम्---

श्रीरेषा, पाणिरप्यस्याः पारिजातस्य पल्लवः ।
कुतोऽन्यथा स्त्रवत्येष स्वेदच्छद्मामृतद्रवः ।।

     प्रत्यक्षनिष्ठुरं वज्रम्---
     यथा तत्रैव---'राजा---कथमिहस्थोऽहं त्वया ज्ञातः ? सुसंगता---ण केवलं तुमं समं चित्तफलएण । ता जाव गदुअ गदुअ देवीए णिवेदैस्सम्।'

---उपन्यासः प्रसादनं ।। सूत्र ६.९३ ।।

     यथा तत्रैव--'सुसंगता--भट्टुण अलं सङ्काए । मए वि भटिणीए पसादेण कीलिदं ज्जेव एदिहिं । ता किं कण्णाभरणोण ।
अदो वि मे गरुअरो पसादो एसो, जं तुए अहं एत्थ आलिहिदत्ति कुविदा मे पिअसही साअरिआ । एसा ज्जेव पसादीअदु।'
केचित्तु---'उपपत्तिकृतो ह्यर्थ उपन्यासः स कीर्तितः।' इति वदन्ति । उदाहरन्ति च, तत्रैव---'अदिमुहरा क्खु सा गब्भदासी' इति ।

चातुर्वर्ण्योपगमनं वर्णसंहार इष्यते ।

     यथा महावीरचरिते तृतीयेऽङ्के---

'परिषदियमृषीणामेष वीरो युधाजि-

त्सह नृपतिरमात्यैर्लोमपादश्च वृद्धः ।
अयमविरतयज्ञो ब्रह्मवादी पुराणः

प्रभुरपि जनकानामङ्ग भो याचकास्ते ।।

     इत्यत्र ऋषिक्षादीनां वर्णानां मेलनं ।
     अभिनवगुप्तपादास्तु--'वर्णशब्देन पात्राण्युपलक्ष्यन्ते । संहारो मेलनम्' इति व्याचक्षते । उदाहरन्ति च रत्नावल्यां द्वितीयेऽङ्के--'अदो वि मे अत्त्रं गुरुअरो पसादो--' इत्यादेरारभ्य 'णं हत्थे गेण्हिअ पसादेहि णं । राजा--क्वासौ क्वासौ' इत्यादि ।
     अथ गार्भाङ्गानि---

अभूताहरणं मार्गो रूपोदाहरणो क्रमः ।। सूत्र ६.९४ ।।

संग्रहश्चानुमानं च प्रार्थना क्षिप्तिरेव च ।
त्रो (तो) टकाधिबलोद्वेगा गर्भे स्युर्विद्रवस्तथा ।। सूत्र ६.९५ ।।

तत्र व्याजाश्रयं वाक्यमभूताहरणं मतं ।

     यथा अश्वत्थामाङ्के---

'अश्वत्थामा हत इति पृथासूनुना स्पष्टमुक्त्वा

स्वैरं शेषे गज इति पुनर्व्याहृतं सत्यवाचा ।
तच्छ्रुत्वासौ दयिततनयः प्रत्ययात्तस्य राज्ञः

शस्त्राण्याजौ नयनसलिलं चापि तुल्यं मुमोच ।।'

     तत्त्वार्थकथनं मार्गः---
यथा चण्डकौशिके--'राजा---भगवन्
     गृह्यतामर्जितमिदं भार्यातनयविक्रयात् ।
     शेषस्यार्थे करिष्यापि चण्डालेऽप्यात्मविक्रयं ।।
                                                               रूपं वाक्यं वितर्कवत् ।। सूत्र ६.९६ ।।
यथा रत्नावल्याम्--'राजा---
     मनः प्रकृत्यैव चलं दुर्लक्ष्यं च तथापि मे ।
     कामेनैतत्कथं विद्धं समं सर्वैः शिलीमुखैः ।।
     उदाहरणमुत्कर्षयुक्तं वचनमुच्यते ।
यथा अश्वत्थामाङ्के--
'यो यः शस्त्रं बिभर्ति स्वभुजगुरुमदः पाण्डवीनां चमूनां,
     यो यः पाञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा ।
यो यस्तत्कर्मसाक्षी, चरति मयि रणो यश्च यश्च प्रतीपः
     क्रोधान्धस्तस्य तस्य स्वयमिह जगतामन्तकस्यान्तकोऽहं ।।'
     भावतत्त्वोपलब्धिस्तु क्रमः स्यात्---
     यथा शासुन्तले---'राजा---स्थाने खलु विस्मृतनिमेषेण चक्षुषा प्रियामवलोकयामि । तथाहि--
     उन्नमितैकभ्रूलतमाननमस्याः पदानि रचयन्त्याः ।
     पुलकाञ्चितेन कथयति मय्यनुरागं कपोलेन ।।
                                                                ---संग्रहः पुनः ।। सूत्र ६.९७ ।।
     सामदानार्थसंपन्नः--
     यथा रत्नावल्याम्---'राजा---साधु वयस्य इदं ते पारितोषिकं ।
(इति कटकं ददाति ) ।
                                                                     ---लिङ्गादूहोऽनुमानता ।
      यथा जानकीराघवे नाटके---'रामः---

लीलागतैरपि तरङ्गयतो धरित्री-

मालोकनैर्नमयतो जगतां शिरांसि ।
तस्यानुमापयति काञ्चनकान्तिगौर-

कायस्य सूर्यतनयत्वमधृष्यतां च ।।

          रतिहर्षोत्सवानां तु प्रार्थनं प्रार्थना भवेत् ।। सूत्र ६.९८ ।।
यथा रत्नाषल्याम्---'प्रिये सागरिके ,
     शीतांशुर्मुखमुत्पले तव दृशौ, पद्मानुकारौ करौ,
          रम्भास्तम्भनिभं तथोरुयुगलं, बाहू मृणालोपमौ ।
     इत्यह्लादकराखिलङ्गि रभसान्निः शङ्कमालिङ्ग्य मा-
          मङ्गनि त्वमनङ्गतापविधुराण्येह्येहि निर्वापय ।।
     इदं च प्रार्थनाख्यमङ्गं । यन्मते निर्वहणो भूतावसरत्वात्प्रशस्तिनामाङ्ग नास्ति तन्मतानुसारेणोक्तम्, अन्यथा पञ्चषष्टिसंख्यत्वप्रसङ्गात् ।
          रहस्यार्थस्य तद्भेदः क्षिप्तिः स्यात्---
     यथाश्वत्थामाङ्के---

'एवस्यैव विपाकोऽयं दारुणो भुवि वर्तते ।
केशग्रहे द्वितीयेऽस्मिन्नूनं निः शेषिताः प्रजाः ।।'

                                                                                        ---त्रो(तो) टकं पुनः ।

संरब्धवाक्--

     यथा चण्डकौशिके---'कौशिकः--आः, पुनः कथमद्यापि न सम्भूता स्वणादक्षिणाः।'

---अधिबलभिसंमधिच्छलेन यः ।। सूत्र ६.९९ ।।

     यथा रत्नावल्याम्---'काञ्चनमाला---भट्टिणि, इयं सा चित्तसालिआ । वसन्तास्स सण्णं करोमि ' इत्यादि ।

नृपादिजनिता भीतरुद्वेगः परिकीर्तितः ।

     यथा वेण्याम्---

'प्राप्तावेकरथारूढौ पृच्छन्तौ त्वामितस्ततः ।
स कर्णारिः स च क्रूरो वृककर्मा वृकोदरः ।।'

शङ्काभयत्रासकृतः सम्भ्रमो विद्रवो मतः ।। सूत्र ६.१०० ।।

कालान्तककरालास्यं क्रोधोद्भूतं दशाननं ।
विलोक्य वानरानीके सम्भ्रमः कोऽप्यजायत ।।

     अथ विमर्शाङ्गानि---

अपवादोऽथ संफेटो व्यवसायो द्रवो द्युतिः ।

शक्तिः प्रसङ्गः शेदश्च प्रतिषेधो विरोधनं ।। सूत्र ६.१०१ ।।
प्ररोचना विमर्शे स्यादादानं छादनं तथा ।

दोषप्रख्यापवादः स्यात्---

यथा वेण्याम्---'युधिष्ठिरः---पञ्चालक क्वचिदासादिता तस्य दुरात्मनः कौख्यापसदस्य पदवी ।
पाञ्चालकः--न केवलं पदवी, स एव दुरात्मा देवीकेशपाशस्पर्शपातकप्रधानहेतुरुपलव्धः।'
                                                                 संफेटो रोषभाषणं ।। सूत्र ६.१०२ ।।
     यथा तत्रैव---'राजा---अरे रे मरुत्तनय वृद्धस्य राज्ञः पुरतो निन्दितमप्यात्मकर्म शलाघसे । शृणु रे--

कृष्टा केशेषु भार्या तव तव च पशोस्तस्य राज्ञस्तयोर्वा

प्रत्यश्रं भूपतीनां मम भुवनपतेराज्ञया द्यूतदासी ।
तस्मिन्वेरानुबन्धे वद किमपकृतं तैर्हता ये नरेन्द्रा

बाह्वोर्वोर्यातिभारद्रविणगुरुमदं मामजित्वैव दर्पः ।।

भीमः---(सक्रोधम्) आः पाप ।राजा---आः पाप।' इत्यादि ।

व्यवसायश्च विज्ञेयःत प्रतिज्ञाहेतुसंभवः ।

     यथा तत्रैव---'भीमः---
          निहताशेषकौरव्यः क्षीबो दुःशासनासृजा ।
          भङ्क्ता दुर्योधनस्यौर्वोर्भोमोऽयं शिरसा नतः ।।
          द्रवो गुरुव्यतिक्रान्तिः शोकावेगादिसम्भवा ।। सूत्र ६.१०३ ।।
     यथा तत्रैव---'युधिष्ठिरः---भगवन् कृष्णाग्रज , सुभद्राभ्रातः ,

ज्ञातिप्रीतिर्मनसि न कृता, क्षत्रियाणां न धर्मो,

रूढं सख्यं तदपि गणितं नानुजस्यार्जुनेन ।
तुल्यः कामं भवतु भवतः शिष्ययोः स्नेहबन्धः

कोऽयं पन्था यदसि विमुखो मन्दभाग्ये मयि त्वं ।

           तर्जनोद्वेजने प्रोक्ता द्युतिः---
     यथा तत्रैव दुर्योधनं प्रति कुमारवृकोदरेणोक्तम्----

'जन्मेन्दोविमले कुले व्यपदिशस्यद्यापि धत्से गदां,

 मां दुः शासनकोष्णशोणितमधुक्षीबं रिपुं मन्यसे ।
दर्पान्धो मधुकैटभद्विषि हरावप्युद्धतं चेष्टसे,

त्रासान्मे नृ-पशो विहाय समरं पङ्केऽधुना लीयसे ।।'

                                                                                                   शक्तिः पुनर्भवेत् ।
            विरोधस्य प्रशमनम्---

      यथा तत्रैव---

'कुर्वन्त्वाप्ता हतानां रणशिरसि जना भस्मसाद्देहभारा-

नश्रून्मिश्रं कथञ्चिद्ददतु जलममी बान्धवा बान्धवेभ्यः ।
मार्गन्तां ज्ञातिदेहान्हतनरगहने खण्डितान्गृध्रकङ्कैः-

रस्तं भास्वान्प्रयातः सह रिपुभिरयं संह्रिन्तां बलानि ।।'

                                                                                                    ---प्रसङ्गो गुरुकीर्त्तनं ।। सूत्र ६.१०४ ।।
     यथा मृच्छकटिकायाम्---'चाण्डालकः---एसो क्खु सागलदत्तस्स सुदो अज्जविस्मदत्तस्म णत्तिओ चालुदत्तो वावादिदुं वञ्भ्क्तट्ठाणं णिज्जै एदेण किल गणिआ वसन्तसेणा सुअण्णलोहेण वावादि देत्ति ।
     चारुदत्तः---

(सनिर्वेदं स्वगतम्) 'मखशतपरिपूतं गोत्रमुद्भासितं यत्,

सदसि निविडचेत्यव्रह्मघोषैः पुरुस्तात् ।
मम निधनदशायां वर्त्तमानस्य पापै-

स्तदसदृशमनुष्यैर्घुष्यते घोषणायाम् ।।'

इत्यनेन चारुदत्तवधाभ्युदयानुकूलप्रसङ्गाद्गुरुकीर्त्तनमिति प्रसङ्गः ।

मनश्चेष्टासमुत्पन्नः श्रमः खेद इति स्मृतः ।

     मनः समुत्पन्नो यथा मालतीमाधवे---

'दलति हृदयं गाढोद्वेगो द्विधा न भिद्यते

वहति विकलः कायो मोहं न मुञ्चति चेतनां ।
ज्वलयति तनूमन्तर्दाहः, करोति न भस्मसा-

त्प्रहरति विधिर्मर्मच्छेदी, न कृन्तति जीवितं ।।'

     एवं चेष्टासमुत्पन्नोऽपि ।

ईप्सितार्थप्रतीघातः प्रतिषेध इतीष्यते ।। सूत्र ६.१०५ ।।

     यथा मम प्रभावत्यां विदूषकं प्रति प्रद्युम्नः---सखे कथमिह त्वमेकाकी वर्त्तसे ? क्व नु पुनः प्रियसखीजनानुगम्यमाना प्रियतमा मे प्रभावती ? विदूषकः- असुर वैणा आआरिअ कहिं वि णीदा ।
     प्रद्युम्नः---(दीर्घं निश्वस्य )

हा पूर्णचन्द्रमुखि मत्तचकोरनेत्रे

मामानताङ्गि परिहाय कुतो गतासि ?।
गच्छ त्वमद्य ननु जीवित तूर्णमेव

दैवं कदर्थनपरं कृतकृत्यमस्तु ।।'

कार्यात्ययोपगमनं विहोधनमिति स्मृतं ।

यथा वेण्याम्---युधिष्ठिरः---

तीर्णे भीष्ममहोदधौ, कथमपि द्रोणानले 'निवृते

कर्णाशीविषभोगिनि प्रशमिते शल्ये च याते दिवं ।
भीमेन प्रियसाहसेन रभासादल्पावशेषे जये

सर्व जीवितसंशयं वयममी वाचा समारोपिताः ।।'

प्ररोचना तु विज्ञेया संहारार्थप्रदर्शिनी ।। सूत्र ६.१०६ ।।

यथा वेण्याम्---'पाञ्चालकः--अहं देवेन चक्रपाणिना सहितः।
(इत्युपक्रम्य ।) कृतं सन्देहेन ।

पूर्यन्तां सलिलेन रत्नकलशा राज्याभिषेकाय ते,

 कृष्णात्यन्तचिरोज्भ्क्तिते तु कबरीबन्धे करोतु क्षणं ।
रामे शातकुठारभास्वरकरे क्षत्रद्रुमोच्छेदिनि,

क्रमधान्धे च वृकोदरे परिपतत्याजौ कुतः संशयः ।।'

     कार्यसंग्रह आदानम्---
     यथा वेण्याम्---'भो भोः समन्तपञ्चकचारिणः,
     नाहं रक्षो, न भूतो, रिपुरुधिरजलाह्लादिताङ्गः प्रकामं
          निस्तीर्णोरुप्रतिज्ञाजलनिधिगहनः क्रोधनः क्षत्रियोऽस्मि ।
     भो भो राजन्यवीराः समरशिखिशिखाभुक्तशेषाः,कृतं व-
          स्त्रासेनानेन लीनैर्हतकरितुरगान्तहितैरास्यते यत् ।।
     अत्र समस्तरिपुवधकार्यस्य संकृहीतत्वादादानं ---
                                                                   तदाहुश्छादनं पुनः ।
          कार्यार्थमपमानादेः सहनं खलु यद्भवेत् ।। सूत्र ६.१०७ ।।

     यथा तत्रैव---अर्जुनः-आर्य प्रसीद किमत्रक्रोधेन--

'अप्रियाणि करोत्वेष वाचा शक्तो न कर्मणा ।
हतभ्रातृशतो दुःखी प्रलापैरस्य का व्यथा ।।

     अथ निर्वहणाङ्गानि ।

सन्धिर्विबोधो ग्रथनं निर्णयः परिभाषणं ।

कृतिः तप्रसाद आनन्दः समयोऽप्युपगूहनं ।। सूत्र ६.१०८ ।।
भाषणं पूर्ववाक्यञ्च काव्यसंहार एव च ।

प्रशस्तिरिति संहारे ज्ञेयान्यङ्गानि नामतः ।। सूत्र ६.१०९ ।।

     तत्र
          बीजोपगमनं सन्धिः
     यथा तत्रैव (वेण्याम्)---'भीमः-भवति यज्ञवेदिसम्भवे स्मरति भवती यन्मयोक्तम्--'चञ्चद्भुजे' त्यादि।'
     अनेन मुखे क्षिप्तबीजस्य पुनरुपगमनमिति सन्धिः ।
                                                                                विबोधः कार्यमार्गणं ।
     यथा तत्रैव---'भीमः--मुञ्चतु मामार्यः क्षणमेकं । युधिष्ठिरः--किमपरमवशिष्टं ? भीमः--सुमहदवशिष्टं ।संयमयामि तावदनेन सुयोधनशोणितोक्षितेन पाणिना पाञ्चाल्या दुःशासनावकृष्टं केशहस्तं । युधिष्ठिरः--गच्छतु भवान्, अनुभवतु तपस्विनी वेणीसंहारम्।' इति ।
     अनेन केशसंथमनकार्यस्यान्वेषणाद्विबोधः ।

उपन्यासस्तु कार्याणां ग्रथनं---

     यथा तत्रैव---भीमः--पाञ्चालि न खलु मयि जीवति सहरंत्तव्या दुःशासनविलुलिता वेणिरात्मपाणिभ्यां । तिष्ठ, स्वयमेवाहं संहरमि '।
इति ।
     अनेन कार्यस्योपक्षेपाद्रग्रथनं ।
                                                                             ---निर्णयः पुनः ।। सूत्र ६.११० ।।
अनुभूतार्थकथनं---
     यथा तत्रैव, भीमः--देव अजातशत्रो अद्यापि दुर्योधनहतकः । मया हि तस्य दुरात्मनः--

भूमौ क्षिप्तं शरीरं निहतमिदमसृक्चन्दनाभं निजाङ्गे

तक्ष्मीरार्ये निषक्ता चतुरुदधिपयः सीमया सार्द्धमुर्व्या ।
भृत्या मित्राणि योधाः कुरुकुलमनुजा दग्धमेतद्रणाग्नौ,

नामैकं यद्ब्रवीषि क्षितिप तदधुना धार्त्तराष्टस्य शेषं ।।

                                                              < big>वदन्ति परिभाषणं ।
         परिवादकृतं वाक्यम्
     यथा शाकुन्तले--राजा आर्ये अथ सा तत्रभवती किमाख्यस्य राजर्षेः पत्नी ? । तापसी---
को तस्स धम्मदारपरिट्टाइणो णामं गेण्हिस्सदि।'
                                             लब्धार्थशमनं कृतिः ।। सूत्र ६.१११ ।।
     यथा वेण्याम्--'कृष्णः--एते भगवन्तो व्यास--वाल्मीकिप्रभृतयोऽभिषेकं धारयन्तस्तिष्ठन्ति ।' इति ।
     अनेन प्राप्तराज्यस्याभिषेकमङ्गलैः स्थिरीकरणं कृतिः ।

शुश्रूषादिः प्रसादः स्यात्---

     यथा तत्रैव भीमेन द्रौपद्याः केशसंयमनं ।
                                                          आनन्दो वाञ्छितागमः ।
     यथा तत्रैव---'द्रौपदी---विसुमरिदं एदं वावारं णाधस्स पसादेण पुणो वि सिक्खिस्सं।'
                 समयो दुःखनिर्याणां---
     यथा रत्नावल्याम्--'वासवदत्ता---(रत्नावलीमालिङ्ग्य) समस्सस बहिणिए समस्सस।'
                                                   तद्भवेदुपगूहनं ।। सूत्र ६.११२ ।।
        यत्स्यादद्भुतसम्प्राप्तिः--
     यथा मम प्रभावत्यां नारददर्शनात्प्रद्युम्न ऊर्द्ध्वमवलोक्य---

'दधद्विद्युल्लेखामिव कुसुममालां मरिमल--

भ्रमद्भृङ्गश्रेणीध्वनिभिरुपगीतां तत इतः ।
दिगन्तं ज्योतिभिस्तुहिनकरगौरैर्धवलय--

न्नितः कैलासाद्रिः पतति वियतः किं पुनरिदं ।।'

                                                       सामदानादि भाषणं ।
     यथा चण्डकौशिके--'धर्मः---तदेहि धर्मलोकमधितिष्ठ।'

पूर्ववाक्यं तु विज्ञेयं यथोक्तार्थोपदर्शनं ।। सूत्र ६.११३ ।।

     यथा वेण्याम्--भीमः--बुद्धैमतिके क्व सा भानुमती । परिभवतु सम्प्रति पाण्डवदारान्।
          वरप्रदानसंप्राप्तिः काव्यसंहार इष्यते ।
      यथा सर्वत्र---किं ते भूयः प्रियमुपकरोमि।' इति ।

नृपदेशादिशान्तिस्तु प्रशस्तिरभिधीयते ।। सूत्र ६.११४ ।।

      यथा प्रभावत्याम्---

'राजानः सुतनिर्विशेषमधुना पश्यन्तु नित्यं प्रजा

जीयसुः सदसद्विवेकपटवः सन्तो गुणग्राहिणः ।
सस्यस्वर्णसमृद्धयः समधिकाः सन्तु क्षमामण्डले

भूयादव्यभिचारिणी त्रिजगतो भक्तिश्च नारायणो ।।'

     अत्र चोपसंहारप्रशस्त्योरन्त एकेन क्रमेणैव स्थितिः । 'इह च मुखसंधौ उपक्षेपपरिन्यासयुक्त्युद्भेदसमाधानानां प्रतिमुखे च परिसर्पणप्रगमनवज्रोपन्यासपुष्पाणां गर्भेऽभूताहरणमर्गत्रो (तो) टकाधिबलक्षेपाणां विमर्शेऽपवादशक्तिव्यवसायप्ररोचनादानानां प्राधन्यं । अन्येषां च यथासम्भवं स्थितिः' इति केचित् ।

चतुःषष्टिविधं ह्येतदङ्गं प्रोक्तं मनीषिभिः ।

कुर्यादनियते तस्य संधावपि निवेशनं ।। सूत्र ६.११५ ।।

रसानुगुणतां वीक्ष्य रसस्यैव हि मुख्यता ।

     यथा वेहीसंहारे तृतीयाङ्के दुर्योधनकर्णयोर्महत्संप्रधारणं । एवमन्यत्रापि । यत्तु रुद्रटादिभिः 'नियम एव ' इत्युक्तं तल्लक्ष्याविरुद्धं ।

इष्टार्थरचनाश्चर्यलाभो वृत्तान्तविस्तरः ।। सूत्र ६.११६ ।।

रागप्राप्तिः प्रयोगस्य गोष्यानां गोपनं तथा ।
प्रकाशनं प्रकाश्यानामङ्गानां षड्विधं फलं ।। सूत्र ६.११७ ।।

अङ्गहीनो नरो यद्वन्नैवारम्भक्षमो भवेत् ।
अङ्गहीनं तथा काव्यं न प्रयोगाय युज्यते ।। सूत्र ६.११८ ।।

संपादयेतां संध्यङ्गं नायकप्रतिनायकौ ।

तदभावे पताकाद्यस्तदभावे तथेतरत् ।। सूत्र ६.११९ ।।

     प्रायेण प्रधानपुरुषप्रयोज्यानि सन्ध्यङ्गानि भवन्ति । किन्तूपक्षेपादित्रयं बीजस्याल्पमात्रसमुद्दिष्टत्वादप्रधानपुरुषप्रयोजितमेव साधु ।

रसव्यक्तिमपेक्ष्यैषामङ्गानां संनिवेशनं ।
न तु केवलया शास्त्रस्थितिसंपादनेच्छया ।। सूत्र ६.१२० ।।

     तथा च यद्वेण्यां दुर्योधनस्य भानुमत्या सह विप्रलम्भो दर्शितः, तत्ताद्दशेऽवसरेऽत्यन्तमनुचितं ।

अविरुद्धं तु यद्वृत्तं रसादिव्यक्तयेऽधिकं ।
तदष्यन्यथयेद्धीमान्न वदेद्वा कदाचन ।। सूत्र ६.१२१ ।।

     अनयोरुदाहरणं सत्प्रबन्धेष्वभिव्यक्तमेव ।
     अथ वृत्तयः---

शृङ्गारे कौशिकी वीरे सात्त्वत्यारभटी पुनः ।

रसे रौद्रे च बीभत्से वृत्तिः सर्वत्र भारती ।। सूत्र ६.१२२ ।।
चतस्त्रो वृत्तयो ह्येताः सर्वनाट्यस्य मातृकाः ।

स्युर्नायिकादिव्यापारविशेषा नाटकादिषु ।। सूत्र ६.१२३ ।।

     तत्र कौशिकी---
या श्लक्ष्णनेपथ्यविशेषचित्रा स्त्रीसंकुला पुष्कलनृत्यगीता ।
कामोपभोगप्रभवोपचारा सा कौशिकी चारुविलासयुक्ता ।। सूत्र ६.१२४ ।।

नर्म च नर्मस्फूर्जो नर्मस्फोटोऽथ नर्मगर्भश्च ।
चत्वार्यङ्गान्यस्या---

     तत्र
                                                                 वैदग्ध्यक्रीहितं नर्मः ।। सूत्र ६.१२५ ।।
          इष्टजनावर्जनकृत्तच्चापि त्रिविधं मतं ।
          विहितं शुद्धहास्येन सशृङ्गारभयेन च ।। सूत्र ६.१२६ ।।

     तत्र केवलहास्येन विहितं यथा रत्नावल्याम्---'वासवदत्ता--(फलकमुद्दिश्य सहासम्) एसा वि अवरा तव समीवे जधालिहिदा एदं किं अज्जवसन्तस्स विण्णाणं ।
     सशृङ्गारहास्येन यथा शाकुन्तले--राजानं प्रति शकुन्तला--असंतुट्ठो उण किं करिस्सदि । राजा-- इदमं । (इति व्यवसितःशकुन्तलावक्त्रं ढौकते )'
     सभयहास्येन यथा रत्नावल्याम्---आलेख्यदर्शनावसरे 'सुसंगता--जाणिदो मए एसो वुत्तन्तो समं चित्तफलएण । ता देवीए गदुअ निवेदैस्सं । एतद्वाक्यसम्बन्धि नर्मोदाहृतं ।
एवं वेषचेष्टासम्बन्ध्यपि ।

नर्मस्फूर्जः सुखारम्भो भयान्तो नवसंगमः ।

     यथा मालविकायाम्--सङ्केतनायकमभिसृतायां 'नायकः--

विसृज सुन्दरि सङ्गमसाध्वसं

ननु चिरात्प्रभृति प्रणयोन्मुखे ।
परिगृहण गते सहकारतां

त्वमतिमुक्तलताचरितं मयि ।।'

     मालविका--'भट्टा, देवीए भएण अप्पणो वि पिअ कौं ण पारेमि' इत्यादि ।
      अथ नर्मस्फोटः---

नर्मस्फोटो भावलेशैः सूचिताल्परसा मतः ।। सूत्र ६.१२७ ।।

     यथा मालतीमाधवे---

'गमनमलसं शून्या दृष्टिः शरीरमसौष्ठवं

श्वसितमधिकं किन्त्वेतत्स्यात्किमदन्यदितोऽथवा ।
भ्रमति भुवने कन्दर्पाज्ञा विकारि च यौवनं

ललितमधुरास्ते ते भावाः क्षिपन्ति च धीरतां ।।

     अलसगमनादिभिर्भावलेशैर्माधवस्य मालत्यामनुरागः स्तोकः प्रकाशितः ।

नर्मगर्भो व्यवहतिर्नेतुः प्रच्छन्नवर्तिनः ।

     यथा--तत्रैव सखीरूपधारिणा माधवेन मालत्या मरणव्यवसायवारणं ।
     अथ सात्त्वती---

सात्त्वती बहुला सत्त्व--शौर्यत्यागदयार्जवैः ।। सूत्र ६.१२८ ।।

सहर्षा क्षुद्रशृङ्गारा विशोका साद्भुता तथा ।
उत्थापकोऽथ सांघात्यः संलापः परिवर्त्तकः ।। सूत्र ६.१२९ ।।

विशेषा इति चत्त्वारः सात्त्वत्याः परिकीर्त्तिः ।

उत्तेजनकरी शत्रोर्वागुध्यापक उच्यते ।। सूत्र ६.१३० ।।

     यथा महावीरचरिते---

'आनन्दाय च विस्मयाय च मया दृष्टोऽसि दुःखाय वा

वैतृष्ण्यन्तु ममापि सम्प्रति कुतस्त्वद्दर्शने चक्षुषः ।
त्वत्साङ्गत्यसुखस्य नास्मि विषयस्तत्किं वृथा व्याहृतैः-

 अस्मिन्विश्रुतजामदग्न्यदमने पाणौ धनुर्जृन्भतां ।।'

मन्त्रार्थदैवशक्त्यादेः साघात्यः सङ्घभेदनं ।

     मन्त्रशक्त्या यथा---मुद्राराक्षसे राक्षससायानां चाणक्येन स्वबुद्ध्या भेदनं । अर्थशक्त्यापि तत्रैव । दैवशक्त्या यथा---रामायणो रावणाद्विभीषणस्य भेदः ।

संलापः स्याद्रभीराक्तिर्नानाभावसमाश्रयः ।। सूत्र ६.१३१ ।।

     यथा वीरचरिते---'रामः--अयं सः, यः किल सपरिवारकार्त्तिकेयविजयावजीतेन भगवता नीललोहिते परिवत्सरसहस्त्रान्तेवासिने तुभ्यं प्रसादीकृतः परशुः ।परशुरामः--राम दाशरथे स एवायमार्यपादानां प्रियः परशुः । 'इत्यादि ।

प्रारब्धादन्यकार्याणां कारणं परिवर्तकः ।

     यथा वेण्याम्---'भामः---सहदेव गच्छ त्वं गुरुमनुवर्तस्व । अहमप्यस्त्रागारं प्रविश्यायुधसहायो भवामीति यावत् । अथवा आमन्त्रयितव्यैव मया पाञ्चाली।' इति ।
     अथारभटी---

मायेन्द्रजालसंग्रामक्रोधोद्भ्रान्तादिचेष्टितैः ।। सूत्र ६.१३२ ।।

संयुक्ता वधबन्धाद्यैरुद्धतारभटी मता ।
वस्तूत्थापनसंफैटौ संक्षिप्तिरवपातनं ।। सूत्र ६.१३३ ।।

इति भेदास्तु चत्वार आरभट्याः प्रकीर्तिताः ।

मायाद्युत्थापितं वस्तु वस्तुत्थापनमुच्यते ।। सूत्र ६.१३४ ।।

     यथोदात्तराघवे---

जीयन्ते जयिनोऽपि सान्द्रतिमिरव्रातैर्वियद्व्यापिभिर्-

भास्वन्तः सकला रवेरपि कराः कस्मादकस्मादमी ।
एते चोग्रकबन्धकण्ठरुधिरैराध्मायमानोदरा
मुञ्चन्त्याननकंदरानलमुचस्तीव्रान्रवान्फेरवाः ।। इत्यादि ।

संफेटस्तु समाघातः क्रुद्धसत्वरयोर्दूयोः ।

     यथा मालत्यां माधवाघोरघण्टयोः ।

'संक्षिप्ता वस्तुरचना शिल्पैरितरथापि वा ।। सूत्र ६.१३५ ।।
संक्षिप्तिः स्यान्निवृत्तौ च नेतुर्नेत्रन्तरग्रहः ।

     यथोदयनचरिते कलिञ्जहस्तिप्रयोगः । द्वितीयं यथा वालिनिवृत्त्या सुग्रीवः । यथा वा परशुरामस्यौद्धत्यनिवृत्त्या शान्तत्वापादनम्--'पुण्या ब्राह्मणजातिः--ऽइति ।
          प्रवेशत्रासनिष्क्रान्तिहर्षविद्रवसंभवं ।। सूत्र ६.१३६ ।।
          अवपातनमित्युक्तं---
     यथा कृत्यरावणो षष्ठेऽङ्के--'(प्रविश्य खङ्गहस्तः पुरुषः)' इत्यतः प्रभृति निष्क्रमणपर्यन्तं ।

पूर्वमुक्तैक भारती ।

     अथ नाट्योक्तयः---

अश्राव्य खलु यद्वस्तु तदिह स्वगतं मतं ।। सूत्र ६.१३७ ।।

सर्वश्राव्यं प्रकाशं स्यात्तद्भवेदपवारितं ।
रहस्यं तु यदन्यस्य परावृत्य प्रकाश्यते ।। सूत्र ६.१३८ ।।

त्रिपताककरेणान्यानपवार्यान्तरा कथां ।
आन्योन्यामन्त्रणं यत्स्यात्तज्जनान्ते जनान्तिकं ।। सूत्र ६.१३९ ।।

किं व्रवीषीति यन्नाट्ये विना पात्रं प्रयुज्यते ।

श्रुत्वेवानुक्तमष्यर्थं तत्स्यादाकाशभाषितं ।। सूत्र ६.१४० ।।

     यः कश्चिदर्थो यस्माद्रोपनीयस्तस्यान्तरत ऊर्ध्वं सर्वाङ्गुलिनामितानामिकं त्रिपताकलक्षणं करं कृत्वान्येन सह यन्मन्त्र्यते तज्जनान्तिकं । परावृत्यान्यस्य रहस्यकथनमपवारितं । शेषं स्पष्टं ।

दत्तां सिद्धां च सेनां च वेश्यानां नाम दर्शयेत् ।

दत्तप्रयाणि वणिजां चेटचेट्योस्तथा पुनः ।। सूत्र ६.१४१ ।।

वसन्तादिषु वर्ण्यस्य वस्तुनो नाम यद्भवेत् ।

     वेश्या यथा वसन्तसेनादिः । वणिग्विष्णुदत्तादिः । चेटः कलहंसादिः । चेटी मन्दारिकादिः ।

नाम कार्यं नाटकस्य गर्भितार्थप्रकाशकं ।। सूत्र ६.१४२ ।।

     यथा रामाभ्युदयादिः ।

नायिकानायकाख्यानात्संज्ञा प्रकरणादिषु ।

     यथा मालतीमाधवादिः ।

नाटिकासट्टकादीनां नायिकाभिर्विशेषणं ।। सूत्र ६.१४३ ।।

     यथा रत्नावली-कर्पूरमञ्जर्यादिः ।

प्रायेण ण्यन्तकः साधिर्गमेः स्थाने प्रयुज्यते ।

     यथा शाकुन्तले--ऋषी, 'गच्छावः' इत्यर्थे 'साधयावस्तावत्।'

राजा स्वमीति देवेति भृत्यैर्भट्टेति चाधमैः ।। सूत्र ६.१४४ ।।

राजषिभिर्वयस्येति तथा विढूषकेण च ।
राजन्नित्यृषिभिर्वाच्यः सोऽपत्यप्रत्ययेन च ।। सूत्र ६.१४५ ।।

स्वेच्छया नामभिविप्रविप्र आर्येति चेतरैः ।
वयस्येत्यथवा नाम्ना वाच्यो राज्ञा विढूषकः ।। सूत्र ६.१४६ ।।

वाच्यौ नटीसूत्रधारावार्यनाम्ना परस्परं ।
सूत्रधारं वदेद्भाव इति वै पारिपार्शिवकः ।। सूत्र ६.१४७ ।।

सूत्रधारो मारिषेति हण्डे इत्यधमैः समाः ।
वयस्येत्युत्तमैर्हहो मध्यैरार्येति चाग्रजः ।। सूत्र ६.१४८ ।।

भगवन्निति वक्तव्याः सर्वैर्देवषिलिङ्गिनः ।
वदेद्राज्ञीं च चेटीं च भवतीति विदूषकः ।। सूत्र ६.१४९ ।।

आयुष्मन्रथिनं सूतो वृद्धं तातेति चेतरः ।
वत्सपुत्रकतातेति नाम्ना गोत्रेण वा सुतः ।। सूत्र ६.१५० ।।

शिष्योऽनुजश्च वक्तव्योऽमात्य आर्येति चाधमैः ।
विप्रैरयममात्येति सचिवेति च भण्यते ।। सूत्र ६.१५१ ।।

साधो इति तपस्वी च प्रशान्तश्चोच्यते बुधैः ।
स्वगृहीताभिधः पूज्यः शिष्याद्यैर्विनिगद्यते ।। सूत्र ६.१५२ ।।

उपाध्यायेति चाचार्यो महाराजेति भूपतिः ।
स्वामीति, युवराजस्तु कुमारो भर्तृदारकः ।। सूत्र ६.१५३ ।।

भद्रसौम्यमुखेत्येवमधमैस्तु कुमारकः ।
वाच्या प्रकृतिभी राज्ञः कुमारी भर्तृदारिका ।। सूत्र ६.१५४ ।।

पतिर्यथा तथा वाच्या ज्येष्ठमध्याधमैः स्त्रियः ।
हलेति सदृशी, प्रेष्या हञ्जे वेश्याज्जुका तथा ।। सूत्र ६.१५५ ।।

कुट्टिन्यम्बेत्यनुगतैः पूज्या च जरती जनैः ।
आमन्त्रणैश्च पाषण्डा वाच्याः स्वसमयागतैः ।। सूत्र ६.१५६ ।।

शका (शक्या) दयश्च संभाष्या भद्रदत्तादिनामभिः ।
यस्य यत्कर्म शिल्पं वा विद्या वा जातिरेव वा ।। सूत्र ६.१५७ ।।

तेनैव नाम्ना वाच्योऽसौ ज्ञेयाश्चान्ये यथोचितं ।

     अथ भाषाविभागः---

पुरुषाणामनीचानां संस्कृतं स्यात्कृतात्मनां ।। सूत्र ६.१५८ ।।

सोरसेनी प्रयोक्तव्या तादृशीनां च योषितां ।
आसामेव तु गाथासु महाराष्ट्रीं प्रयोजयेत् ।। सूत्र ६.१५९ ।।

अत्रोक्ता मागधी भाषा राजान्तः पुरचारिणां ।
चेटानां राजपुत्राणां श्रेष्ठानां चार्धमगधी ।। सूत्र ६.१६० ।।

प्राच्यां विदूषकादीनां, धूर्तानां स्यादवन्तिजा ।
योधनागरिकादीनां दाक्षिणात्या हि दीव्यतां ।। सूत्र ६.१६१ ।।

शवराणां शकादानां शाबरीं संप्रयोजयेत् ।
बाह्लीकभाषोदीच्यानां द्राविडी द्राविडादिषु ।। सूत्र ६.१६२ ।।

आभीरेषु तथाभीरी चाण्डाली पुक्कसादिषु ।
आभीरी शाबरी चापि काष्ठपात्रोपजीविषु ।। सूत्र ६.१६३ ।।

तथैवाङ्गारकारादौ पैशाची स्यात्पिशाचवाक् ।
चेटीनामष्यनीचानामपि स्यात्सौरसेनिका ।। सूत्र ६.१६४ ।।

बालानां षण्डकानां च नीचग्रहविचारिणां ।
उन्मत्तानामातुराणां सैव स्यात्संस्कृतं क्वचित् ।। सूत्र ६.१६५ ।।

ऐश्वर्येण प्रमत्तस्य दारिद्र्योपद्रुतस्य च ।
भिक्षु वल्कधरादीनां प्राकृतं संप्रयोजयेत् ।। सूत्र ६.१६६ ।।

संस्कृतं संप्रयोक्तव्यं लिङ्गिनीषूत्तमासु च ।
देवीमन्भिसुतावेश्यास्वपि कैश्चित्तथोदितं ।। सूत्र ६.१६७ ।।

कार्यतश्चोत्तमादीनां कार्यो भाषाविपर्ययः ।। सूत्र ६.१६८ ।।
योषित्सखीबालवेश्याकितवाष्सरसां तथा ।

वैदग्ध्याथ प्रदातव्यं संस्कृतं चान्तरान्तरा ।। सूत्र ६.१६९ ।।

     एषामुदाहरणान्याकरेषु बोद्धव्यानि । भाषालक्षणानि मम तातपादानां भाषार्णवे ।

षट्त्रिंशल्लक्षणान्यत्र, नाट्यालंकृतयस्तथा ।

त्रयस्त्रिंशत्प्रयोज्यानि वीथ्यङ्गानि त्रयोदश ।। सूत्र ६.१७० ।।

लास्याङ्गानि दश यथालाभंरसव्यपेक्षया ।

     यथालाभं प्रयोज्यानीति सम्बन्धः । अत्रेति नाटके । तत्र लक्षणानि--

भूषणाक्षरसंघातौ शोभोदाहरणं तथा ।। सूत्र ६.१७१ ।।

हेतुसंशयदृष्टान्तास्तुल्यतर्कः पदोच्चयः ।
निदर्शनाभिप्रायौ च प्राप्तिर्विचार एव च ।। सूत्र ६.१७२ ।।

दिष्टोपदिष्टे च गुणातिपातातिशयौ तथा ।
विशेषणनिरुक्ती च सिद्धिभ्रशविपर्ययौ ।। सूत्र ६.१७३ ।।

दाक्षिण्यानुनयौ मालार्थापत्तिर्गर्हणं तथा ।
पृच्छा प्रसिद्धिः सारूप्यं संक्षेपो गुणकीर्तनं ।। सूत्र ६.१७४ ।।

लेशो मनोरथोऽनुक्तसिद्धिः प्रियवचस्तथा ।

     तत्र---

लक्षणानि गुणैः सालंकारैर्योगस्तु भूषणं ।। सूत्र ६.१७५ ।।

     यथा---

'आक्षिपन्त्यरविन्दानि मुग्धे तव मुखश्रियं ।

कोषदण्डसमग्रणां किमेषामस्ति दुष्करं ।।

वर्णनाक्षरसंघातश्चित्रार्थैरक्षरैर्मितैः ।'

     यथा शाकुन्तले-- 'राजा---कच्चित्सखीं वो नातिबाधते शरीरसंतापः । प्रियंवदा--सम्पदं लधोसहो उअसमं गमिस्सदि।'

सिद्धैरर्थैः समं यत्राप्रसिद्धोर्ऽथः प्रकाशते ।। सूत्र ६.१७६ ।।
श्लिष्टश्लक्षणचित्रार्था सा शोभेत्यभिधीयते ।

     यथा---

'संद्वंशसम्भवः शुद्धः कोटिदोऽपि गुणान्वितः ।

कामं धनुरिव क्रूरो वर्जनीयः सतां प्रभुः ।'
यत्र तुल्यार्थयुक्तेन वाक्येनाभिप्रदर्शनात् ।। सूत्र ६.१७७ ।।

साध्यतेऽभिमतश्चार्थस्तदुदाहरणं मतं ।

     यथा---

'अनुयान्त्या जनातीतं कान्तं साधु त्वया कृतं ।
का दिनश्रीर्विनार्केण का निशा शशिना विना ।।'

हेतुर्वाक्यं समासोक्तमिष्टकृर्द्धतुदर्शनात् ।। सूत्र ६.१७८ ।।

     यथा वेण्यां भीमं प्रति 'चेटी--एवं मए भणिदं भाणुमदि तुह्माणं अमुक्केसु केसेसु कहं देवीए केसा संजमिअन्तित्ति ।

संशयोऽज्ञाततत्त्वस्य वाक्ये स्याद्यदनिश्चयः ।

     यथा ययातिविजये---

'इयं स्वर्गाधिनाधस्य लक्ष्मीः, किं यक्षकन्यका ।

किं चास्य विषयस्यैव देवता किमु पार्वती ।।'

दृष्टान्तो यस्तु पक्षेर्ऽथसाधनाय निदर्शनं ।। सूत्र ६.१७९ ।।

     यथा वेण्यां --'सहदेवः---आर्य उचितमेवैतत्तस्या यतो दुर्योधनकलत्रं हि सा' इत्यादि ।

तुल्यतर्को यदर्थेन तर्कः प्रकृतिगामिना ।

     यथा तत्रैव---

'प्रयेणैव हि दृश्यन्ते कामं स्वप्नाः शुभाशुभाः ।

शतसंख्या पुनरियं सानुजं स्पृशतीव मां ।।'

संचयोर्ऽथानुरूपो यः पदानां स पदोच्चयः ।। सूत्र ६.१८० ।।

     यथा शाकुन्तले---

'अधरः किसलयरागः कोमलविटपानुकारिणौ बाहू ।
कुसुममिव लोभनीयं यौवनमङ्गेषु संनद्धं ।।'

     अत्र पदपदार्थयोः सौकुमार्यं सदृशमेव ।

यत्रार्थानां प्रसिद्धानां क्रियते परिकीर्तनं ।
परपक्षव्युदासार्थं तन्निदर्शनमुच्यते ।। सूत्र ६.१८१ ।।

     यथा--

'क्षात्रधर्मोचितैर्धर्मैरलं शत्रुवधे नृपाः ।

किं तु बालिनि रामेण मुक्तो बाणः पराङ्मुखे ।।'

अभिप्रायस्तु सादृश्यादभूतार्थस्य कल्पना ।

     यथा शाकुन्तले---
     'इदं किलाव्याजमनोहरं वपुस्तपः क्लमं साधयितुं य इच्छति ।
     ध्रुवं स नीलोत्पलपत्नधारया समिल्लतां छेत्तुमृषिर्व्यवस्यति ।।'

प्राप्तिः केनचिदंशेन किञ्चिद्यत्रानुमीयते ।। सूत्र ६.१८२ ।।

     यथा मम प्रभावत्याम्--'अनेन खलु सर्वतश्चरता चञ्चरीकेणावश्यं विदिता भविष्यति प्रियतमा मे प्रभावती।'

विचारो युक्तिवाक्यैर्यदप्रत्यक्षार्थसाधनं ।

     यथा मम चन्द्रकलायाम्---'राजा---नूनमियमन्तः पिहितमदनविकारा वर्तते । यतः ।

'हसति परितोषरहितं निरीक्ष्यमाणापि नेक्षते किञ्चित् ।

सख्यामुदाहरन्त्यामसमञ्जसमुत्तरं दत्ते ।।'

देशकालस्वरूपेणा वर्णना दिष्टमुच्यते ।। सूत्र ६.१८३ ।।

     यथा वेण्याम्--'सहदेवः--

'यद्वैद्युतमिव ज्योतिरार्ये क्रुद्धेऽद्य संभृतं ।

तत्प्रावृडिव कृष्णोयं नूनं संवर्धयिष्यति ।।'

उपदिष्टं मनोहारि वाक्यं शास्त्रानुसारतः ।

     यथा शाकुन्तले---
'शुश्रूषस्व गुरून्, कुरु प्रियसखीवृत्तिं सपत्नीजने,
भर्तुर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः ।
भूयिष्ठं भव दक्षिणा परिजने भाग्यष्वनुत्सेकिनी,

 यान्त्येवं गृहिणीपदं युवतयो, वामाः कुलस्याधयः ।।'
गुणातिपातः कार्यं यद्विपरीतं गुणान्प्रति ।। सूत्र ६.१८४ ।।

     यथा मम चन्द्रकलायां चन्द्रं प्रति---

'जै संहरिज्जै तमो धेप्पै सालेहि ते पॉ ।

वससि सिरे पसुबैणो तहवि ह इत्थीअ जीअणं हरसि ।।'

यः सामान्यगुणोद्रेकः स गुणातिशयो मतः ।

     यथा तत्रैव---'राजा---(चन्द्रकलाया मुखं निदिश्य ।)

असावन्तश्चञ्चद्विकचनवनीलाब्जयुगल-

स्तलस्फूर्जत्कम्बनविलसदलिसंघात उपरि ।
विना दोषासङ्गं सततपरिपूर्णाखिलकलः
कुतः प्राप्तश्चन्द्रो विगलितकलङ्कः सुमुखि ते ।।

सिद्धानर्थान्बहूनुक्त्वा विशेषोक्तिर्विशेषणं ।। सूत्र ६.१८५ ।।

     यथा---

'तृष्णापहारी विमलो द्विजावासो जनप्रियः ।

हृदः पद्माकरः किन्तु बुधस्त्वं स जलाशयः ।।'

पूर्वसिद्धार्थकथनं निरुक्तिरिति कीर्त्यते ।

     यथा वेण्याम्---

'निहताशेषकौरव्यः---'इत्यादि । (३७९ पृ.)
बहूनां कीर्तनं सिद्धिरभिप्रेतार्थसिद्धये ।। सूत्र ६.१८६ ।।

   यथा---

'यद्वीर्यं कूर्मराजस्य यश्च शेषस्य विक्रमः ।

पृथिव्या रक्षणो राजन्नेकत्र त्वयि तत्स्थितं ।।

दृप्तादीनां भवेद्भ्रंशो वाच्यादन्यतरद्वचः ।

     वेण्याम्---कञ्चुकिनं प्रति 'दुर्योधनः---

सहभृत्यगणं सबान्धवं सहमित्रं ससुतं सहानुजं ।

स्वबलेन निहन्ति संयुगे नचिरात्पाण्डुसुतः सुयोधनम् ।।'

विचारस्यान्यथाभावः संदेहात्तु विपर्ययः ।। सूत्र ६.१८७ ।।

यथा---

'मत्वा लोकमदातारं संतोषे यैः कृता मतिः ।

त्वयि राजनि ते राजन्न तथा व्यवसायिनः ।।'

दाक्षिण्यं चेष्टया वाचा परचित्तानुवर्तनं ।

वाचा यथा---

'प्रसाधय पुरीं लङ्कां राजा त्वं हि बिभीषण ।।
आर्येणानुगृहीतस्य न विघ्नः सिद्धिमन्तरा ।।'

     एवं चेष्टयापि ।

वाक्यैः स्निग्धैरनुनयो भवेदर्थस्य साधनं ।। सूत्र ६.१८८ ।।

     यथा वेण्याम्---अश्वत्थामानं प्रति 'कृपः---दिव्यास्त्रग्रमकोविदे भारद्वाजतुल्यपराक्रमे किं न संभाव्यते त्वयि।'

माला स्याद्यदभीष्टार्थं नैकार्थप्रतिपादनं ।

     यथा शाकुन्तले---'राजा---
'किं शीकरैः क्लमविमर्दिभिरार्द्रवातं
सञ्चारयामि नलिनीदलतालवृन्तं ।
अङ्के निवेश्य चरणावुत पद्मताम्रौ
संवादयामि करभोरु यथासुखं ते ।।'

अर्थापत्तिर्यदन्यार्थोर्ऽथान्तरोक्तेः प्रतीयते ।। सूत्र ६.१८९ ।।

     यथा वेण्याम्---द्रोणोऽश्चत्थामानं राज्येऽभिषेक्तुमिच्छतीति कथयन्तं कर्णं प्रति 'राजा---साधु अङ्गराज साधु । कथमन्यथा---

'दत्त्वामयं सोऽतिरथो वध्यमानं किरीटिना ।

सिन्धुराजमुपेक्षेत नैव चेत्कथमन्यथा ।।'

दूषणोद्धोषणायां तु भर्त्सना गर्हणं तु तत् ।

     यथा तत्रैव--कर्णं प्रति 'अश्वत्थामा--

निर्वोर्यं गुरुशापभाषितवशात्किं मे तवेवायुधं

सम्प्रत्येव भयाद्विहाय समरं प्राप्तोऽस्मि किं त्वं यथा ।
जातोऽहं स्तुतिवंशकीर्तनविदां किं सारथीनां कुले क्
षुद्रारातिकृताप्रियं प्रतिकरोप्यस्त्रेण नास्त्रेण यत् ।।'

अभ्यर्थनापरैर्वाक्यैः पृच्छार्थान्वेषणं मता ।। सूत्र ६.१९० ।।

     यथा तत्रैव---'सुन्दरकः---अज्जा, अवि णाम सारधिदुदिओदिट्ट तुह्मेर्हि महारॉ दुर्योधणो ण वेत्ति।'

प्रसिद्धिर्लोकसिद्धार्थैरुत्कृष्टैरर्थसाधनं ।

     यथा विक्रमोर्वश्याम्---'राजा---

सूर्याचन्द्रमसौ यस्य मातामहपितामहौ ।

स्वयं कृतः पतिर्द्वाभ्यामुर्वश्या च भुवा च यः ।।

सारूप्यमनुरूपस्य सारूप्यात्क्षोभवर्धनं ।। सूत्र ६.१९१ ।।

     यथा वेण्याम्--दुर्योधनभ्रान्त्या भीमं प्रति 'युधिष्ठिरः---दुरात्मन्दुर्योधनहतक -' इत्यादि ।

संक्षेपो यत्तु संक्षेपादात्मान्यार्थे प्रयुज्यते ।

     यथा मम चन्द्रकलायाम्---'राजा---प्रिये,

'अङ्गानि खेदयसि किं शिरीषकुसुमपरिपेलवानि मुधा ।

(आत्मानं निर्दिश्य---) अयमीहितकुसुमानां सम्पादयिता तवास्ति दासजनः ।।'

गुणानां कीर्तनं यत्तु तदेव गुणाकीर्तनं ।। सूत्र ६.१९२ ।।

     यथा तत्रैव--
     'नेत्रे खञ्जनगञ्जने सरसिजप्रत्यथि--' इत्यादि (पृ.)

स लेशो भण्यते वाक्यं यत्सादृश्यपुरः सरं ।

      यथा वेण्याम्---'राजा---

हते जरति गाङ्गेये पुरस्कृत्य शिखण्डिनं ।

 शलाघा पाण्डुपुत्राणां सैवास्माकं भविष्यति ।।'

मनोरथस्त्वभिप्रायस्योक्तिर्भङ्ग्यन्तरेण यत् ।। सूत्र ६.१९३ ।।

     यथा---

'रतिकेलिकलः किंचिदेष मन्मथमन्थरः ।

पश्य सुभ्र समालम्भात्कादम्बश्चुम्बति प्रियां ।।'

विशेषार्थोहविस्तारोऽनुक्तसिद्धिरुदीर्यते ।

यथा---'गृहवृक्षवाटिकायाम्---

दृश्येते तन्वि यावेतौ चारुचन्द्रमसं प्रति ।

प्राज्ञे कल्याणनामानावुभौ तिष्यपुनर्वसू ।।'

स्यात्प्रमाणयितुं पूज्यं प्रियोक्तिर्हर्षभाषणं ।। सूत्र ६.१९४ ।।

     यथा शाकुन्तले---
          'उदेति पूर्वं कुसुमं ततः फलं घनोदयः प्राक्तदनन्तरं पयः ।
          निमित्तनैमित्तिकयोरयं विधिस्तव प्रसादस्य पुरस्तु सम्पदः ।।'
     अथ नाट्यालङ्काराः--

आशीराक्रन्दकपटाज्ञमागर्वोद्यमाश्रयाः ।

उत्प्रासनस्पृहाक्षोभपश्चात्तापोपपत्तयः ।। सूत्र ६.१९५ ।।
आशंसाध्यवसायौ च विसर्पाल्लेखसंज्ञितौ ।
उत्तेजनं परीवादो नीतिरर्थविशेषणं ।। सूत्र ६.१९६ ।।

प्रोत्साहनं च साहाय्यमभिमानोऽनुवर्तनं ।
उत्कीर्त्तनं तथा याच्ञा परिहारो निवेदनं ।। सूत्र ६.१९७ ।।

प्रवर्तनाख्यानयुक्तिप्रहर्षाश्चोपदेशनं ।
इति नाट्यालङ्कृतयो नाट्यभूषणहेतवः ।। सूत्र ६.१९८ ।।

आशीरिष्टजनाशंसा---

     यथा शाकुन्तले---

'ययातेरिव शमिष्ठा पत्युर्बहुमता भव ।
पुत्रं त्वमपि सम्राजं सेव पूरुमवाप्नुहि ।।'

                                                                                        आकन्दः प्रलपितं शुचौ ।
     यथा वेण्याम्--'कञ्चकी--हा देवि कुन्ति राजभवनपताके -' इत्यादि ।

कपटं मायया यत्र रूपमन्यद्विभाव्यते ।। सूत्र ६.१९९ ।।

     यथा कुलपत्यङ्के---

'सृगरूपं परित्यज्य विधाय कपटं वपुः ।

नीयते रक्षसा तेन लक्ष्मणो युधि संशयं ।।'

अक्षमा सा परिभवः स्वल्पोऽपि' न विषह्यते ।

     यथा शाकुन्तले---
'राजा
--भोः सत्यवादिन् अभ्युपगतं तावदस्माभिः । किं पुनरिमामभिसन्धाय लभ्यते । शार्ङ्गरवः---विनिपातः---ऽइत्यादि ।

          गर्वोऽवलेपजं वाक्यं---

     यथा तत्रैव---
'राजा
---ममापि नाम सत्त्वैरभिभूयन्ते गृहाः।'

                                                                                               ---कार्यस्यारम्भ उद्यमः ।। सूत्र ६.२०० ।।
     यथा कुम्भाङ्के--'रवणः--पश्यामि शोकविवशोऽन्तकमेव तावत्।'

ग्रहणं गुणवत्कार्यहेतोराश्रय उच्यते ।

     यथा विभीषणनिर्भर्त्सनाङ्के--'विभीषणः--राममेवाश्रयामि' इति ।

उत्प्रासनं तूपहासो योऽसाधौ साधुमानिनि ।। सूत्र ६.२०१ ।।

     यथा शाकुन्तले--'शार्ङ्गरवः--राजन् अथ पुनः पूर्ववृत्तान्तमन्यसङ्गद्विस्मृतो भवान् । तत्कथमधर्मभीरोर्दारपरित्यागः---' इत्यादि ।

आकाङ्क्षा रमणीयत्वाद्वस्तुनो या स्पृहा तु सा ।

     यथा तत्रैव---'राजा---

चारुणा स्फुरितेनायमपरिक्षतकोमलः ।

पिपासतो ममानुज्ञां ददातीव प्रियाधरः ।।'

अधिक्षेपवचःकारी क्षोभः प्रोक्तः स एव तु ।। सूत्र ६.२०२ ।।

     यथा---

'त्वया तपस्विचाण्डाल प्रच्छन्नवधवर्तिना ।

न केवलं हतो वाली स्वात्मा च परलोकतः ।।'

मोहावधीरितार्थस्य पश्चात्तापः स एव तु ।

     यथानुतापाङ्के--'रामः---
     किं देव्या न विचुम्बितोऽस्मि बहुशो मिथ्याभिशप्तस्तदा' इति ।

उपपत्तिर्मता हेतोरुपन्यासोर्ऽथसिद्धये ।। सूत्र ६.२०३ ।।

      यथा वध्यशिलायाम्---

'म्रियते म्रियमाणो या त्वयि जीवति जीवति ।
तां यदीच्छसि जीवन्तीं रक्षात्मानं ममासुभिः ।।'

          आशंसनं स्यादाशंसा---
     यथा श्मशाने---'माधवः---
     'तत्पश्येयमनङ्गमङ्गलगृहं भूयोऽपि तस्या मुखम्' इति ।
                                                                                 ---प्रतिज्ञाध्यवसायकः ।
     यथा मम प्रभावत्याम्---'वज्रनाभः---

'अस्य वक्षः क्षणोनैव निर्मथ्य गदयानया ।

लीलयोन्मूलयाम्येष भुवनद्वयमद्य वः ।।'

विसर्पो यत्समारब्धं कर्मानिष्टफलप्रदं ।। सूत्र ६.२०४ ।।

     यथा वेण्याम्---

'एकस्यैव विपाकोऽयम्--' इत्यादि (३७६ पृ.)

          कार्यग्रहणमुल्लेख---
     यथा शाकुन्तले---राजानं प्रति 'तापसौ---समिदाहरणाय प्रस्थितावावां । इह चास्मद्गुरोः कण्वस्य कुलपतेः साधिदैवत इव शकुन्तलयानुमालिनीतीरमाश्रमो दृश्यते । न चेदन्य (था) कार्यातिपातः, प्रविश्य गृह्यतामतिथैसत्कारः' इति ।
                                                                                                     ---उत्तेजनमितीष्यते ।
             स्वकार्यसिद्धयेऽन्यस्य प्रेरणाय कठोरवाक् ।। सूत्र ६.२०५ ।।

     यथा---

'इन्द्रजिच्चण्डवीर्योऽसि नाम्नैव बलवानसि ।
धिग्धिक्प्रच्छन्नरूपेण युध्यसेऽस्मद्भयाकुलः ।।'

             भर्त्सना तु परीवादो---
     यथा सुन्दराङ्के--'दुर्योधनः धिग्धिक्सूत किं कृतवानसि । वत्सस्य मे प्रकृतिदुर्ललितस्य पापः पापं विधास्यति--' इत्यादि ।
                                                                                                     ---नीतिः शास्त्रेण वर्तनं ।
     यथा शाकुन्तले--'दुष्यन्तः---विनीतवेषप्रवेश्यानि तपोवनानि।' इति ।

उक्तस्यार्थस्य यत्तु स्यादुत्कीर्तनमनेकधा ।। सूत्र ६.२०६ ।।
उपालम्भविशेषेण तत्स्यादर्थविशेषणं ।

     यथा शाकुन्तले राजानं प्रति 'शार्ङ्गरवः--आः कथमिदं नाम, किमुपन्यस्तमिति ? ननु भवानेव नितरां लोकवृत्तान्तनिष्णातः । सतीमपि ज्ञातिकुलैकसंश्रयां जनोऽन्यथा भर्तृमतीं विशङ्कते ।
अतः समीपे परिणेतुरिष्यते प्रियाप्रिया वा प्रमदा स्वबन्धुभिः ।।

प्रोत्साहनं स्यादुत्साहगिरा कस्यापि योजनं ।। सूत्र ६.२०७ ।।

यथा बालरामायणे---

'कालरात्रिकरालेयं स्त्रीति किं विचिकित्ससि ।
तज्जगत्त्रितयं त्रातुं तात ताडय ताडकां ।।'

साहाय्यं सङ्कटे यत्स्यात्सानुकूल्यं परस्य च ।

     यथा वेण्याम्--कृपं प्रति 'अश्वत्थामा---त्वमपि तावद्राज्ञः पाशर्ववर्तो भव । कुपः---वाञ्छाम्यहमद्य प्रतिकर्तुम्--' इत्यादि ।
           अभिमानः स एव स्यात्---
     यथा तत्रैव---'दुर्योधनः---
           मातः किमप्यसदृशं कृपणं वचस्ते---' इत्यादि ।
                                                    ---प्रश्रयादनुवर्तनं ।। सूत्र ६.२०८ ।।
     अनुवृत्तिः---
     यथा शाकुन्तले--'राजा---(शकुन्तलां प्रति) अयि तपो वर्धते । अनुसूया दाणिं अदिधिविसेसलाहेण' इत्यादि ।

---भूतकार्याख्यानमुत्कीर्तनं मतं ।

     यथा बालारामायणे---

'अत्रासीत्फणिपाशबन्धनविधिः शक्त्या भवद्देवरे
गाढं वक्षसि ताडिते हनुमता द्रोणाद्रिरत्राहृतः ।' इत्यादि ।

याच्ञा तु क्वापि याच्ञा या स्वयं दूतमुखेन वा ।। सूत्र ६.२०९ ।।
     यथा----

'अद्यापि देहि वैदेहिं दयालुस्त्वयि राघवः ।

शिरोभिः कन्दुकक्रीडां किं कारयसि वानरान् ।।'

परिहार इति प्रोक्तः कृतानुचितमार्जनं ।

     यथा--

'प्राणप्रयाणदुःखार्त उक्तवानस्म्यनक्षरं ।

तत्क्षमस्व विभो किं च सुग्रीवस्ते समर्पितः ।।'

अवधीरितकर्तव्यकथनं तु निवेदनं ।। सूत्र ६.२१० ।।

     यथा राघवाभ्युदये---'लक्ष्मणः--आर्य समुद्राभ्यर्थनया गन्तुमुद्यतोऽसि तत्किमेतत्।'

प्रवर्तनं तु कार्यस्य यत्सयात्साधुप्रवर्तनं ।

     यथा वेण्याम्---'राजा---कञ्चुकिन् देवस्य देवकीनन्दनस्य बहुमानाद्वत्सस्य भीमसेनस्य विजयमङ्गलाय प्रवर्तन्तां तत्रोचिताः समारम्भाः।'
     आख्यानं पूर्ववृत्तोक्तिर्---
     यथा तत्रैव--
     'देशः सोऽयमरातिशोणितजलेर्यस्मिन्ह्रदाः पूरिताः--ऽइत्यादि ।
                                                                         युक्तिरर्थावधारणं ।। सूत्र ६.२११ ।।
      यथा तत्रैव---

'यदि समरमपास्य नास्ति मृत्यो-

र्भयमिति युक्तमितोऽन्यतः प्रयातुं ।
अख मरणमवश्यमेव जन्तोः

किमिति मुधा मलिनं यशः कुरुध्वं ।।'

     प्रहर्षः प्रमदाधिक्यं---
     यथा शाकुन्तले---'राजा - तात्किमिदानीमात्मानं पूर्णमनोरथं नाभिनन्दामि।'
                                                                              शिक्षा स्यादुपदेशनं ।
     यथा तत्रैव--'सहि, ण जुत्तं अस्समवासिणो जणस्स अकिदसक्कारं अदिधिविसेसं उज्भ्क्तिअ सच्छन्ददो गमनम्।'
     एषां च लक्षणनाट्यालङ्काराणां सामान्यत एकरूपत्वेऽपि भेदेन व्यपदेशो गड्डलिकाप्रवाहेण । एषु च केषांचिद्गुणालङ्कारभावसंध्यङ्गविशेषान्तर्भावेऽपि नाटके प्रयत्नतः कर्त्तव्यत्वात्तद्विशेषोक्तिः ।
     एतानि च---

'पञ्चसन्धि चतुर्वृत्ति चतुः षष्ट्यङ्गसंयुतं ।

षडविंशल्लक्षणोपेतमलङ्कारोपशोभितं ।
महारसं महाभोगमुदात्तरचनान्वितं ।
महापुरुषसत्कारं साध्वाचारं जनप्रियं ।।'
सुश्लिष्टसन्धियोगं च सुप्रयोगं सुखाश्रयं ।

मृदुशब्दाभिधानं च कविः कुर्यात्तु नाटकं ।।

     इति मुनिनोक्तत्वान्नाटकेऽवश्यं कर्तव्यान्येव । वीथ्यङ्गानि वक्ष्यन्ते ।
     लास्याङ्गान्याह--

गेयपदं स्थितपाठ्यमासीनं पुष्पगण्डिका ।। सूत्र ६.२१२ ।।

प्रच्छेदकस्त्रिगूढं च सैन्धवाख्यं द्विगूढकं ।
उत्तमोत्तमकं चान्यदुक्तप्रत्युक्तमेव च ।। सूत्र ६.२१३ ।।

लास्ये दशविधं ह्येतदङ्गमुक्तं मनीषिभिः ।
तत्र--तन्त्रीभाण्डं पुरस्कृत्योपविष्टस्यासने पुरः ।। सूत्र ६.२१४ ।।

शुद्धं गानं गेयपदं---

     यथा---गौरीगृहे वीणां वादयन्ती 'मलयवती---

'उत्फुल्लकलकेसरपरागगौरद्युते मम हि गौरि ।
अभिवाञ्छितं प्रसिध्यतु भगवति युष्मत्प्रसादेन ।।'

                                                        स्थितपाठ्यं तदुच्यते ।

मदनोत्तापिता यत्र पठति प्राकृतं स्थिता ।। सूत्र ६.२१५ ।।

     अभिनवगुप्तपादास्त्वाहुः---'उपलक्षणं चैतत् । क्रोधोद्भ्रान्तस्यापि प्राकृतपठनं स्थितपाठ्यम्' इति ।

निखिलातोद्यरहितं शोकचिन्तान्विताबला ।

अप्रसाधितगात्रं यदासीनासीनमेव तत् ।। सूत्र ६.२१६ ।।
आतोद्यमिश्रितं गेयं छन्दांसि विविधानि च ।
स्त्रीपुंसयोविपर्यासचेष्टितं पुष्पगण्डिका ।। सूत्र ६.२१७ ।।

अन्यासक्तं पतिं मत्वा प्रेमविच्छेदमन्युना ।
वीणापुरःसरं गानं स्त्रियाः प्रच्छेदको मतः ।। सूत्र ६.२१८ ।।

स्त्रीवेषधारिणां पुंसां नाट्यं श्लक्ष्णं त्रिगूढकं ।
यथा मालत्याम्--'मकरन्दः--एषोऽस्मि मालतीसंवृत्तः।'
कश्चन भ्रष्टसंकेतः सुव्यक्तकरणान्वितः ।। सूत्र ६.२१९ ।।

प्राकृतं वचनं वक्तिं यत्र तत्सैन्धवं मतं ।

      करणं वीणादिक्रिया ।

यतुरस्त्रपदं गीतं मुखप्रतिमुखान्वितं ।। सूत्र ६.२२० ।।

द्विगूढं रसभावाढ्यम्उत्तमोत्तमकं पुनः ।
क्पप्रसादजमधिक्षेपयुक्तं रसोत्तरं ।। सूत्र ६.२२१ ।।

हावहेलान्वितं चित्रश्लोकबन्धमनोहरं ।
उक्तिप्रत्युक्तिसंयुक्तं सोपालम्भमलीकवत् ।। सूत्र ६.२२२ ।।

विलासान्वितगीतार्थमुक्तप्रत्युक्तमुच्यते ।

     स्पष्टान्युदाहरणानि ।

एतदेव यदा सर्वैः पताकास्थानकैर्युतं ।। सूत्र ६.२२३ ।।
अङ्कैश्च दशभिर्धोरा महानाटकमूचिरे ।

     एतदेव नाटकं । यथा---बालरामायणं ।
     अथ प्रकरणं ---

भवेत्प्रकरणो वृत्तं लौकिकं कविकल्पितं ।। सूत्र ६.२२४ ।।

शृङ्गारोऽङ्गी नायकस्तु विप्रोऽमात्योऽथवा वणिक् ।

सापायधर्मकामार्थपरो धीर शान्तकः ।। सूत्र ६.२२५ ।।

     विप्रनायकं यथा मृच्छकटिकं । अमात्यनायकं मालतीमाधवं । वणिड्नायकं पुष्पभूषितं ।

नायिका कुलजा क्वापि वेश्या क्वापि द्वयं क्वचित् ।

तेन भेदास्त्रयस्तस्य तत्र भेदस्तृतीयकः ।। सूत्र ६.२२६ ।।

कितवद्यूतकारादिविटचेटकसंकुलः ।

     कुलस्त्री पुष्पभूषिते । वेश्या तु रङ्गवृत्ते । द्वे अपि मृच्छकटिके । अस्यनाटकप्रकृतित्वाच्छेषं नाटकवत् ।
     अथ भाणः---

भाणः स्याद्धूर्तचरितो नानावस्थान्तरात्मकः ।। सूत्र ६.२२७ ।।

एकाङ्क एक एवात्र निपुणः पण्डितो विटः ।
रङ्गे प्रकाशयेत्स्वेनानुभूतमितरेण वा ।। सूत्र ६.२२८ ।।

संबोधनोक्तिप्रत्युक्तो कुर्यादाकाशभाषितैः ।
सूचयेद्वीरशृङ्गारौ शौर्यसौभाग्यवर्णनैः ।। सूत्र ६.२२९ ।।

तत्रैतिवृत्तमुत्पाद्यं वृत्तिः प्रायेण भारति ।

मुखनिवहणो सन्धी लास्याङ्गानि दशापि च ।। सूत्र ६.२३० ।।

     अत्राकाशभाषितरूपपरवचनमपि स्वयमेवानुवदन्नुत्तरप्रत्युत्तरे कुर्यात् । शृङ्गारवीररसौ च सौभाग्यशौर्यवर्णनया सूचयेत् । प्रायेण भारती, क्वापि कौशिक्यपि वृत्तिर्भवति । लास्याङ्गानि गेयपदादीनि । उदाहणं लीलामधुकरः ।
      अथ व्यायोगः---

ख्यातेतिवृत्तो व्यायोगः स्वल्पस्त्रीजनसंयुतः ।

हीनो गर्भविमर्शाभ्यां नरैर्बहुभिराश्रितः ।। सूत्र ६.२३१ ।।
एकाङ्कश्च भवेदस्त्रीनिमित्तसमरोदयः ।
कैशिकीवृत्तिरहितः प्रख्यातस्तत्र नायकः ।। सूत्र ६.२३२ ।।

राजषिरथ दिव्यो वा भवेद्धीरोद्धतश्च सः ।

हास्यशृङ्गारशान्तेभ्य इतरेऽत्राङ्गिनो रसाः ।। सूत्र ६.२३३ ।।

     यथा सौगन्धैकाहरणं ।
अथ समवकारः---

वृत्तं समवकारे तु ख्यातं देवासुराश्रयं ।

सन्धयो निर्विमर्शास्तु त्रयोऽङ्कास्तत्र चादिमे ।। सूत्र ६.२३४ ।।
सन्धी द्वावन्त्ययोस्तद्वदेक एको भवेत्पुनः ।
नायका द्वादशोदात्ताः प्रख्याता देवमानवाः ।। सूत्र ६.२३५ ।।

फलं पृथक्पृथक्तेषां वीरमुख्योऽखिलो रसः ।
वृत्तयो मन्दकौशिक्यो नात्र बिन्दुप्रवेशकौ ।। सूत्र ६.२३६ ।।

वीथ्यङ्गानि च तत्र स्युर्ययालाभं त्रयोदश ।
गायत्र्युष्णिङ्मुखान्यत्र च्छन्दांसि विविधानि च ।। सूत्र ६.२३७ ।।

त्रिशृङ्गारस्त्रिकपटः कार्यश्चायं त्रिविद्रवः ।
वस्तु द्वादशनालीभिर्निष्पाद्यं प्रथमाङ्कगं ।। सूत्र ६.२३८ ।।

द्वितीयेऽङ्के चतसृभिर्द्वाभ्यामङ्केतृतीयके ।

     नालिका घटिकाद्वयमुच्यते । बिन्दुप्रवेशकौ च नाटकोक्तावपि नेह विधातव्यौ ।
     तत्र---

धर्मार्थकामैस्त्रिविधः शृङ्गारः, कपटः पुनः ।। सूत्र ६.२३९ ।।

स्वाभाविकः कृत्रिमश्च दैवजो विद्रवः पुनः ।

अचेतनैश्चेतनैश्च चेतनाचेतनैःकृतः ।। सूत्र ६.२४० ।।

     तत्र शास्त्राविरोधेन कृतो धर्मशृङ्गारः । अर्थलाभार्थकल्पितोर्ऽथशृङ्गारः । प्रहसनशृङ्गारः कामशृङ्गारः । तत्र कामशृङ्गारः प्रथमाङ्कः एव । अन्ययोस्तु न नियम इत्याहुः । चेतनाचेतना गजादयः । समवकीर्यन्ते बहवोर्ऽथा अस्मिन्नति समवकारः । यथा---समुद्रमथनं
     अथ डिमः---

मायेन्द्रजालसंग्रामक्रोधोद्भ्रान्तादिचेष्टितैः ।

उपरागैश्च भूयिष्ठो डिमः ख्यातेतिवृत्तकः ।। सूत्र ६.२४१ ।।
अङ्गी रौद्ररसस्तत्र सर्वेऽङ्गानि रसाः पुनः ।
चत्वारोऽङ्का मता नेह विष्कम्भकप्रवेशकौ ।। सूत्र ६.२४२ ।।

नायका देवगन्धर्वयक्षरक्षोमहोरगाः ।
भूतप्रेतपिशाचाद्याः षोडशात्यन्तमुद्धताः ।। सूत्र ६.२४३ ।।

वृत्तयः कौशिकीहीना निर्विमर्शाश्च सन्धयः ।
दीप्ताः स्युः षड्रसाः शान्तहास्यशृङ्गारवजिंताः ।। सूत्र ६.२४४ ।।

अत्रोदाहरणं च 'त्रिपुरदाहः' इति महर्षिः ।

     अथेहामृगः--

ईहामृगो मिश्रवृत्तश्चतुरङ्कः प्रकीर्तितः ।

मुखप्रतिमुखे सन्धी तत्र निर्वहणं तथा ।। सूत्र ६.२४५ ।।
नरदिव्यावनियमौ नायकप्रतिनायकौ ।
ख्यातौ धीरोद्धतावन्यो गूढभावादयुक्तकृत् ।। सूत्र ६.२४६ ।।

दिव्यस्त्रियमनिच्छन्तीकपहारादिनेच्छतः ।
शृङ्गाराभासमप्यस्य किञ्चित्किञ्चित्प्रदर्शयेत् ।। सूत्र ६.२४७ ।।

पताकानायका दिव्या मर्त्या वापि दशोद्धताः ।
युद्धमानीय संरम्भं परं व्याजान्निवर्तते ।। सूत्र ६.२४८ ।।

महाध्मानो वधप्राप्ता अपि वध्याः स्युरत्र नो ।
एकाङ्को देव एवात्र नेतेत्याहुः परे पुनः ।। सूत्र ६.२४९ ।।

दिव्यस्त्रीहेतुकं युद्धं नायकाः षडितीतरे ।

     मिश्रं ख्याताख्यातं । अन्यः प्रतिनायकः । पताकानायकास्तु नायकप्रतिनायकयोर्मिलिता दश । नायको मृगवदलभ्यां नायिकामत्र ईहते वाञ्छतीतीहामृगः । यथा---कुसुमशेखरविजयादिः ।
अथाङ्कः---

उत्सृष्टिकाङ्क एकाङ्को नेतारः प्राकृता नराः ।। सूत्र ६.२५० ।।

रसोऽत्र करुणः स्थायी बहुस्त्रीपरिदेवितं ।
प्रख्यातमितिवृत्तं च कविर्बुद्ध्या प्रपञ्चयेत् ।। सूत्र ६.२५१ ।।

भाणावत्सन्धैवृत्तयङ्गान्यस्मिञ्जयपराजयौ ।

युद्धं च वाचा कर्त्तव्यं निर्वदवचनं बहु ।। सूत्र ६.२५२ ।।
     इसं च केचित्नाटकाद्यन्तः पात्यङ्कपरिच्छेदार्थमुत्सृष्टिकाङ्कनामानं आहुः । अन्ये तु---उत्क्रान्ता विलोमरूपा सृष्टिर्यत्रेत्युत्सृष्टिकाङ्कः । यथा--शमिष्ठाययातिः ।
     अथ वीथी---

वीथ्यामेको भवेदङ्कः कश्चिदेकोऽत्र कल्प्यते ।

आकाशभाषितैरुक्तैश्चित्रां प्रत्युक्तिमाश्रितः ।। सूत्र ६.२५३ ।।
सूचयेद्भरि शृङ्गारं किञ्चिदन्यान्नसान्प्रति ।
मुखनिर्वहणो सन्धई अर्थप्रकृतयोऽखिलाः ।। सूत्र ६.२५४ ।।

कश्चिदुत्तमो मध्यमोऽधमो वा शृङ्गारबहुलत्वाच्चास्याः कौशिकीवृत्तिबहुलत्वं ।
अस्यास्त्रयोदशाङ्गानि निर्दिशन्ति मनीषिणः ।
उद्धात्य (त) कावलगिते प्रपञ्चस्त्रिगतं छलं ।। सूत्र ६.२५५ ।।

वाक्केल्यधिबले गण्डमवस्यन्दितनालिके ।
असत्प्रलापव्याहारमृद(मार्द) वानि च तानि तु ।। सूत्र ६.२५६ ।।

तत्रोद्धात्य(त) कावलगिते प्रस्तावनाप्रस्तावे सोदाहरणं लक्षिते ।
मिथो वाक्यमसद्भूतं प्रपञ्चो हास्यकृन्मतः ।
यथा विक्रमोर्वश्याम्--वलीभीस्थविदूषकचेट्योरन्योन्यवचनं ।

त्रिगतं स्यादनेकार्थयोजनं श्रुतिसाम्यतः ।। सूत्र ६.२५७ ।।

     यथा तत्रैव---राजा---

सर्वक्षितिभृतां नाथ , दृष्टा सर्वाङ्गसुन्दरी ।
रामा रम्ये वनान्तेऽस्मिन्मया विरहिता त्वया ।।

(नेपथ्ये तत्रैव प्रतिशब्दः) राजा कथं दृष्टेत्याह ।
     अत्र प्रश्नवाक्यमेवोत्तरत्वेन योजितं । 'नटादित्रितयविषयमेवेदमिति' कश्चित् ।

प्रियाभैरप्रियैर्वाक्यैर्विलोभ्यच्छलनाच्छलं ।

     यथा वेण्याम्--
भीमार्जुनौ
---

     कर्ता द्यूतच्छलानां, जतुमयशरणोद्दीपनः सोऽभिमानी
          राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रं ।
     कृष्णाकेशोत्तरीयव्यपनयनपटुः, पाण्डवा यस्य दासाः
          क्वाऽस्ते दुर्योधनोऽसौ कथयत, न रुषा द्रष्टुमभ्यागतौ स्वः ।।'

अन्ये त्वाहुश्छलं किञ्चित्कार्यमुद्दिश्य कस्यचित् ।। सूत्र ६.२५८ ।।

उदीर्यते यद्वचनं वञ्चनाहास्यरोषकृत् ।

वाक्केलिर्हास्यसम्बन्धो द्वित्रिप्रत्युक्तितो भवेत् ।। सूत्र ६.२५९ ।।

     द्वित्रीत्युपलक्षणं । यथा---

भिक्षो मांसनिषेवणं प्रकुरुषे, किं तेन मद्यं विना

मद्यं चापि तव प्रियं प्रियमहो वाराङ्गनाभिः सह ।
वेश्याप्यर्थरुचिः कुतस्तव धनं द्यूतेन चौर्येण वा

चौर्यद्यूतपरिग्रहोऽपि भवतो, नष्टस्य कान्या गतिः ।।

     केचित्--'प्रक्रान्तवाक्यस्य साकाङ्क्षस्यैव निवृत्तिर्वाक्केलिः' इत्याहुः । अन्ये 'अनेकस्य प्रश्नस्यैकमुत्तरम्।'

अन्योन्यवाक्याधिक्योक्तिः स्पर्धयाधिबलं मतं ।

     यथा मम प्रभावत्याम्--वज्रनाभः---

(अस्य वक्षः क्षणोनैव निर्मथ्य गदयानया ।
लीलयोन्मूलयाम्येष भुवनद्वयमद्य वः ।।)

प्रद्युम्नः---अरे रे असुरापसद अलममुना बहुप्रलापेन । मम खलु---

अद्य प्रचण्डभुजदण्डसमर्पितोरु-

कोदण्डनिर्गलितकाण्डसमूहपातैः ।
आस्तां समस्तदितिजक्षतजोक्षितेयं

क्षोणिः क्षणेन पिशिताशनलोभनीया ।।

गण्डं प्रस्तुतसंबन्धि भिन्नार्थं सत्वरं वचः ।। सूत्र ६.२६० ।।

     यथा वेण्याम्--राजा---

अध्यासितुं तव चिराज्जघनस्थलस्य
पर्याप्तमेव करभोरु ममोरुग्मं ।।

     अनन्तरं (प्रविश्य) कञ्चुकी--देव भग्नं भग्नम्-इत्यादि ।
     अत्र रथकेतनभङ्गार्थं वचनमूरुभङ्गार्थे सम्बन्धे सम्बद्धं ।

व्याख्यानं स्वरसोक्तस्यान्यथावस्यन्दितं भवेत् ।

     यथा छिलितरामे--'सीता-जाद काल्लं क्खु अओज्भ्क्ताएण गन्तव्वम्, तर्हि सो राआ विणएण पणयिदव्वो । लवः--अथ किमावाभ्यां राजोपजीविभ्यां भवितव्यं । सीता--जाद सो क्खु तुम्हाणं पिदा । लवः--किमावयो रघुपतिः पिता । सीता--(साशङ्कम् ।) मा अण्णधा सङ्कद्धम्, ण क्खु तुम्हाणं सालाए ज्जेव पुहवीएत्ति ।

प्रहेलिकैव हास्येन युक्ता भवति नालिका ।। सूत्र ६.२६१ ।।

     संवरणकार्युत्तरं प्रहेलिका ।
     यथा रत्नावल्याम्---सुसङ्गता---सहि जस्स किदे तुमं आअदा सो इद ज्जेव चिट्ठदि । सागरिका--कस्स किदे अहं आअदा सुसङ्गता--णं क्खु चित्तफलास्स । अत्र त्वं राज्ञः कृते आगतेत्यर्थः संवृतः ।

असत्प्रलापो यद्वाक्यमसंबद्धं तथोत्तरं ।
अगृह्णतोऽपि मूर्खस्य पुरो यच्च हितं वचः ।। सूत्र ६.२६२ ।।

     तत्राद्यं यथा मम प्रभावत्याम्--रद्युम्नः-- (सहकारवल्लीमवलोक्य सानन्दम्) अहो, कथमिहैव

अलिकुलमञ्जुलकेशी परिमलबहला रसावहा तन्वी ।
किसलयपेशलपाणिः कोकिलकलभाषिणी प्रियतं मे ।।'

     एवमसंबद्धोत्तरेऽपि । तृतीयं यथा--वेण्यां दुर्योधनं प्रति गान्धारीवाक्यं ।

व्याहारो यत्परस्यार्थे हास्यक्षोभकरं वचः ।

     यथा मालविकाग्निमित्र---(लास्यप्रयोगावसाने मालविका निर्गन्तुमिच्छति) विढूषकः--मा दाव उवदेसमुद्धा गमिस्ससि (इत्युपक्रमेण) गणदासः--(विदूषकं प्रति---) आर्य उच्यतां यस्त्वया क्रमभेदो लक्षितः ।
विदूषकः--पढमं बम्भणपूआ भोदि, सा इमाए लङ्घिदा ।
(मालविकास्मर्यते) इत्यादिना नायकस्य विशुद्धनायिकादर्शनप्रयुक्तेन हासलोभकारिण वचसा व्याहारः ।
दोषा गुणा गुणा दोषा यत्र स्युर्मृदर्(मादं)वं हि तत् ।। सूत्र ६.२६३ ।।
      क्रमेण यथा---

'प्रिय जीवितताक्रौर्यं निःस्नेहत्वं कृतघ्नता ।

भूयस्त्वद्दर्शनादेव ममैते गुणतां गताः ।।
तस्यास्तद्रूपसौन्दर्यं भूषितं यौवनश्रिया ।

सुखैकायतनं जातं दुःखायैव ममाधुना ।।'

     एतानि चाङ्गनि नाटकादिषु सम्भवन्त्यपि वीथ्यामवश्यं विधेयानि स्पष्टतया नाटकादिषु विनिविष्टान्यपीहोदाहृतानि । वीथीव नानारसानां चात्र मालारूपतया स्थितत्वाद्वीथीयं । यथा---मालविका
     अथ प्रहसनम्---

भाणावत्सन्धिसच्ध्यङ्गलास्याङ्गाङ्कैर्विनिर्मितं ।

भवेत्प्रहसनं वृत्तं निन्द्यानां कविकल्पितं ।। सूत्र ६.२६४ ।।
अत्र नारभटी, नापि विष्कम्भकप्रवेशकौ ।
अङ्गी हास्यरसस्तत्र वीथ्यङ्गानां स्थितिर्न वा ।। सूत्र ६.२६५ ।।

तपस्विभगद्विप्रप्रभृतिष्वत्र नायकः ।

एको यत्र भवेद्धृष्टो हास्यं तच्छुद्धमुच्यते ।

यथा कन्दर्पकेलिः ।

आश्रित्य कञ्चन जनं संकीर्णमिति तद्विदुः ।। सूत्र ६.२६६ ।।

     यथा---धूर्तचरितं ।

वृत्तं बहूनां धृष्टानां सङ्कीर्णं केचिदूचिरे ।
तत्पुनर्भवति द्व्यङ्कमथवैकाङ्कनिर्मितं ।। सूत्र ६.२६७ ।।

     यथा--लटकमेलकादिः ।
     मुनिस्त्वाह---

'वेश्याचेटनपुंसकविटधूर्ता वन्धकी च यत्र स्युः ।

अविकृतवेषपरिच्छचेष्टितकरणं तु सङ्कीर्णं ।।'इति ।
विकृतं तु विदुर्यत्र षण्ढकञ्चुकितापसाः ।

भुजङ्गचारणभटप्रभृतेर्वेषवाग्युताः ।। सूत्र ६.२६८ ।।

     इदं तु सङ्कीर्णेनैव गतार्थमिति मुनिना पृथङ्नोक्तं ।
     अथोपरूपकाणि । तत्र---

नाटिका क्ल्प्तवृत्ता स्यात्स्त्रीप्राया चतुरङ्किका ।

प्रख्यातो धीरललितस्तत्र स्यान्नायको नृपः ।। सूत्र ६.२६९ ।।
स्यादन्तः पुरसम्बद्धा सङ्गीतव्यापृताथवा ।
नवानुरागा कन्यात्र नायिका नृपवंशजा ।। सूत्र ६.२७० ।।

सम्प्रवर्तेत नेतास्यां देव्यास्त्रासेन शङ्कितः ।
देवो भवेत्पुनर्ज्येष्ठा प्रगल्भा नृपवंशजा ।। सूत्र ६.२७१ ।।

पदे पदे मानवती तद्वशः सङ्गमो द्वयोः ।

वृत्तिः स्यात्कौशिकी स्वल्पविमर्शाः सन्धयः पुनः ।। सूत्र ६.२७२ ।।

     द्वयोर्नायिकानायकयोः । यथा--रत्नावली---विद्धशालभञ्जिकादिः ।
     अथ त्रोटकम्-

सप्ताष्टनवपञ्चाङ्कं दिव्यमानुषसंश्रयं ।
त्रोटकं नाम तत्प्राहुः प्रत्यङ्कं सविदूषकं ।। सूत्र ६.२७३ ।।

     प्रत्यङ्कसविदूषकत्वादत्र शृङ्गारोऽङ्गी । सप्ताङ्कं यथा--स्तम्भितरम्भं । पञ्चाङ्कं यथा--विक्रमोर्वशी ।
     अथ गोष्ठी---

प्राकृतैर्नवभैः पुंभिर्दशभिर्वाप्यलंकृता ।

नोदात्तवचना गोष्ठी कौशिकीवृत्तिशालिनी ।। सूत्र ६.२७४ ।।
हीना गर्भविमर्शाभ्यां पञ्चषड्योषिदन्विता ।

कामशृङ्गारसंयुक्ता स्यादेकाङ्कविनिर्मिता ।। सूत्र ६.२७५ ।।

     यथा---रैवतमदनिका ।
     अथ सट्टकम्--

सट्टकं प्राकृताशेषपाठ्यं स्यादप्रवेशकं ।

न च विष्कम्भकोऽप्यत्र प्रचुरश्चाद्भुतो रसः ।। सूत्र ६.२७६ ।।

अङ्का जवनिकाख्याः स्युः स्यादन्यन्नाटिकासमं ।

     यथा---कर्पूरमञ्जरी ।
     अथ नाट्यरासकम्---

नाट्यरासकमेकाङ्कं बहुताललयस्थिति ।। सूत्र ६.२७७ ।।

उदात्तनायकं तद्वत्पीठमर्देपनायकं ।
हास्योऽङ्ग्यत्र सशृङ्गारो नारी वासकसज्जिका ।। सूत्र ६.२७८ ।।

मुखनिर्वहणे सन्धई लास्याङ्गानि दशापि च ।

केचित्प्रतिमुखं सन्धैमिह नेच्छन्ति केवलं ।। सूत्र ६.२७९ ।।

     तत्र सन्धैद्वयवती यथा--नर्मवती । सन्धैचतुष्टयवती यथा--विलासवती ।
     अथ प्रस्थानकम्--

प्रस्थाने नामको दासो हीनः स्यादुपनायकः ।

दासी च नायिका वृत्तिः कौशिकी भारती तथा ।। सूत्र ६.२८० ।।
सुरापानसमायोगादुद्दिष्टार्थस्य संहृतिः ।

अङ्कौ द्वौ लयतालादिर्विलासो बहुलस्तथा ।। सूत्र ६.२८१ ।।

     यथा---शृङ्गारतिलकं ।
     अथोल्लाप्यम्---

उदात्तनायकं दिव्यवृत्तमेकाङ्कभूषितं ।

शिल्पकाङ्गैर्युतं हास्यशृङ्गारकरुणै रसैः ।। सूत्र ६.२८२ ।।
उल्लाप्यं बहुसंग्राममस्त्रगीतमनोहरं ।

चतस्त्रो नायिकास्तत्र त्रयोऽङ्का इति केचन ।। सूत्र ६.२८३ ।।

     शिल्पकाङ्गानि वक्ष्यमाणानि । यथा--देवीमहादेवं ।
     अथ काव्यम्---

काव्यमारभटीहीनमेकाङ्गंहास्यसंकुलं ।

खण्डमात्राद्विपदिकाभग्नतालैरलंकृतं ।। सूत्र ६.२८४ ।।
वर्णमात्राछड्डणिकायुतं शृङ्गारभाषितं ।

नेता स्त्री चाप्युदात्तात्र सन्धी आद्यो तथान्तिमः ।। सूत्र ६.२८५ ।।

     यथा---यादवोदयं ।
     अथ प्रेङ्खणम्---

गर्भावमर्शरहितं प्रेङ्खणं हीननायकं ।

असूत्रधारमेकाङ्कमविष्कम्भप्रवेशकं ।। सूत्र ६.२८६ ।।
नियुद्धसम्फेटयुतं सर्ववृत्तिसमाश्रितं ।

नेपथ्ये गीयते नान्दी तथा तत्र प्ररोचना ।। सूत्र ६.२८७ ।।

     यथा---वालिवधः । अथ रासकम्---

रासकं पञ्चपात्रं स्यान्मुखनिर्वहणान्वितं ।

भाषाविभाषाभूयिष्ठं भारती कौशिकीयुतं ।। सूत्र ६.२८८ ।।
असूत्रधारमेकाङ्कं सवीथ्यङ्गं कलान्वितं ।
श्लिष्टनान्दीयुतं ख्यातनायिकं मूर्खनायकं ।। सूत्र ६.२८९ ।।

उदात्तभावविन्यससंश्रितं चोत्तरोत्तरं ।

इह प्रतिमुखं सन्धिमपि केचित्प्रचक्षते ।। सूत्र ६.२९० ।।

     यथा---मेनंकाहितं । अथ संलापकम्---

संलापकेऽङ्काश्चत्वारस्त्रयो वा नायकः पुनः ।

पाषण्डः स्याद्रसस्तत्र शृङ्गारकरुणोतरः ।। सूत्र ६.२९१ ।।
भवेयुः पुरसंरोधच्छलसंग्रामविद्रवाः ।

न तत्र वृत्तिर्भवति भारती न च कौशिकी ।। सूत्र ६.२९२ ।।

     यथा---मायाकापालिकं ।
     अथ श्रीगदितम्---

प्रख्यातवृत्तमेकाङ्कं प्रख्यातोदात्तनायकं ।

प्रसिद्धनायिकं गर्भविमर्शाभ्यां विवर्जितं ।। सूत्र ६.२९३ ।।
भारतीवृत्तिबहुलं श्रीतिशब्देन संकुलं ।

मतं श्रीगदितं नाम विद्वद्भिरुपरूपकं ।। सूत्र ६.२९४ ।।

     यथा---क्रीडारसातलं ।

श्रीरासीना श्रीगदिते गायेत्किं चित्पठेदपि ।
एकाड्को भारतीप्राय इति केचित्प्रचक्षते ।। सूत्र ६.२९५ ।।

     ऊह्यमुदाहरणं । अथ शिल्पकम्---

चत्वारः शिल्पकेऽङ्काः स्युश्चतस्त्रो वृत्तयस्तथा ।

अशान्तहास्याश्च रसा नायको ब्राह्मणो मतः ।। सूत्र ६.२९६ ।।
वर्णनात्र श्मशानादेर्हेनः स्यादुपनायकः ।
सप्तिविंशतिरङ्गानि भवन्त्येतस्य तानि तु ।। सूत्र ६.२९७ ।।

आशंसातर्कसंदेहतापोद्वेगप्रसक्तयः ।
प्रयत्नग्रथनोत्कण्ठावहित्थाप्रतिपत्तयः ।। सूत्र ६.२९८ ।।

विलासालस्यबाष्पाणि प्रहर्षाश्वासमूढताः ।
साधनानुगमोच्छवासविस्मयप्राप्तयस्तथा ।। सूत्र ६.२९९ ।।

लाभविस्मृतिसंफोटा वैशारद्यं प्रबोधनं ।
चमत्कृतिश्चेत्यमीषां स्पष्टत्वाल्लक्ष्म नोच्यते ।। सूत्र ६.३०० ।।

संफोटग्रथनयोः पूर्वमुक्तत्वादेव लक्ष्म सिद्धं ।

यथा---कनकावतीमाधवः

     अथ विलासिका---

शृङ्गारबहुलैकाङ्का दशलास्याङ्गसंयुता ।

विदूषकविटाभ्यां च पीठमर्देन भूषिता ।। सूत्र ६.३०१ ।।
हीना गर्भविमर्शाभ्यां संधिभ्यां हीननायका ।

स्वल्पवृत्ता सुनेपथ्या विख्याता सा विलासिका ।। सूत्र ६.३०२ ।।

     केचित्तु तत्र विलासिकास्थाने विनायिकेति पठन्ति । तस्यास्तु 'दुर्मल्लिकायामन्तर्भावः' इत्यान्ये ।
     अथ दुर्मल्लिका---

दुर्मल्ली चतुरङ्का स्यात्कौशिकीभारतीयुता ।

अगर्भा नागरनरान्यूननायकभूषिता ।। सूत्र ६.३०३ ।।
त्रिनालिः प्रथमोऽङ्कास्यां विटक्रीडामयो भवेत् ।
पञ्चनालिद्वितीयोऽङ्को विदूषकविलासवान् ।। सूत्र ६.३०४ ।।

षण्णालिकस्तृतीयस्तु पीठमर्दविलासवान् ।

चतुर्थो दशनालिः स्यादङ्कः क्रीडितनागरः ।। सूत्र ६.३०५ ।।

     यथा---बिन्धुमती ।
      अथ प्रकरणिका---

नाटिकैव प्रकरणी सार्थवाहादिनायका ।
समानवंशजा नेतुर्भवेद्यत्र च नायिका ।। सूत्र ६.३०६ ।।

     मृग्यमुदाहरणं ।
     अथ हल्लीशः---

हल्लीश एक एवाङ्कः सप्ताष्टौ दश वा स्त्रियः ।

वागुदात्तैकपुरुषः कौ (कै) शिकीवृत्तिरुज्ज्वला ।

मुखान्तिमौ तथा सन्धी बहुताललयस्थितिः ।। सूत्र ६.३०७ ।।

     यथा---कोलिरैवतकं । अथ भाणिका--

भाणिका श्लक्ष्णनेपथ्या मुखनिर्वहणन्विता ।

कौ (कै) शिकीभारतीवृत्तियुक्तैकाङ्कविनिर्मिता ।। सूत्र ६.३०८ ।।
उदात्तनायिका मन्दनायकात्राङ्गसप्तकं ।
उपन्यासोऽथ विन्यासो विबोधः साध्वसं तथा ।। सूत्र ६.३०९ ।।

समर्पणं निवृत्तिश्च संहार इति सप्तमः ।
उपन्यासः प्रसङ्गेन भवेत्कार्यस्य कीर्तनं ।। सूत्र ६.३१० ।।

निर्वेदवाक्यव्युत्पत्तिर्विन्यास इति स स्मृतः ।
भ्रान्तिनाशो विबोधः स्यान्मिथ्याख्यानं तु साध्वसं ।। सूत्र ६.३११ ।।

सोपालम्भवचः कोपपीडयेह समर्पणं ।
निदर्शनस्योपन्यासो निवृत्तिरिति कथ्यते ।। सूत्र ६.३१२ ।।

संहार इति च प्राहुर्यत्कार्यस्य समापनं ।

     स्पष्टान्युदाहरणानि । यथा---कामदत्ता । एतेषां सर्वेषां नाटकप्रकृतित्वेऽपि यथैचित्यं यथालाभं नाटकोक्तविशेषपरिग्रहः । यत्र च नाटकोक्तस्यापि पुनरुपादानं तत्र तत्सद्भावस्य नियमः ।
     अथ श्रव्यकाव्यानि---

श्रव्यं श्रोतव्यमात्रं तत्पद्यगद्यमयं द्विधा ।। सूत्र ६.३१३ ।।

     तत्र पद्यमयान्याह---

छन्दोबद्धपदं पद्यं तेन मुक्तेन मुक्तकं ।

द्वाभ्यां तु युग्मकं सांदानतिकं त्रिभिरिष्यते ।। सूत्र ६.३१४ ।।

कलापकं चतुर्भिश्च पञ्चभिः कुलकं मतं ।

     तत्र मुक्तकं यथा मम---

'सान्द्रानन्दमनन्तमव्ययमजं यद्योगिनोऽपि क्षणं

साक्षात्कर्तुमुपासते प्रति मुहुर्ध्यानैकतानाः परं ।
धन्यास्ता मधुरापिरीयुवतयस्तद्ब्रह्म या कौतुका--

दालिङ्गन्ति समलपन्ति शतधाऽकर्षन्ति चुम्बन्ति च ।।'

     युग्मकं यथा मम---

'किं करोषि करोपान्ते कान्ते गण्डस्थलीमिमां ।

प्रणयप्रवणो कान्तेऽनैकान्ते नोचिताः क्रुधः ।।
इति यावत्कुरङ्गाक्षीं वक्तुमीहामहे वयं ।

तावदाविरभूच्चूते मधुरो मधुपध्वनिः ।।'

     एवमन्यान्यपि ।

सर्गबन्धो महाकाव्यं तत्रैको नायकः सुरः ।। सूत्र ६.३१५ ।।

सद्वंशः क्षत्रियो वापि धीरोदात्तगुणान्वितः ।
एकवंशभवा भूपाः कुलजा बहवोऽपि वा ।। सूत्र ६.३१६ ।।

शृङ्गारवीरशान्तानामेकोऽङ्गी रस इष्यते ।
अङ्गानि सर्वेऽपि रसाः सर्वे नाटकसन्धयः ।। सूत्र ६.३१७ ।।

इतिहासोद्भवं वृत्तमन्यद्वा सज्जनाश्रयं ।
चत्वारस्तस्य वर्गाः स्युस्तेष्वेकं च फलं भवेत् ।। सूत्र ६.३१८ ।।

आदौ नमस्क्रियाशीर्वा वस्तुनिर्देश एव वा ।
क्वचिन्निन्दा खलादीनां सतां च गुणकीर्तनं ।। सूत्र ६.३१९ ।।

एकवृत्तमयैः पद्यैरवसानेऽन्यवृत्तकैः ।
नास्तिस्वल्पा नातिदीर्घाः सर्गा अष्टाधिका इह ।। सूत्र ६.३२० ।।

नानावृत्तमयः कापि सर्गः कश्चन दृश्यते ।
सर्गान्ते भाविसर्गस्य कथायाः सूचनं भवेत् ।। सूत्र ६.३२१ ।।

संध्यासूर्येन्दुरजनीप्रदोषध्वान्तवासराः ।
प्रातर्मध्याह्नमृगयाशैलर्तुवनसागराः ।। सूत्र ६.३२२ ।।

संभागविप्रलम्भौ च मुनिस्वर्गपुनाध्वराः ।
रणप्रयाणोपयममन्त्रमुत्रोदयादयः ।। सूत्र ६.३२३ ।।

वर्णनीया यथायोगं साङ्गोपाङ्गा अमी इह ।
कवेर्वृत्तस्य वा नाम्ना नायकस्येतरस्य वा ।। सूत्र ६.३२४ ।।

नामास्य सर्गोपादेयकथया सर्गनाम तु ।

     सन्ध्यङ्गानि यथालाभमत्र विधेयानि 'अवसानेऽन्यवृत्तकैः' इति बहुवचनमविवक्षितं । साङ्गोपाङ्गा इति जलकेलिमधौपानादयः । यथा---रघुवंश---शिशुपालवः---नैषधादयः । यथा वा मम---राघवविलासादिः ।

अस्मिन्नार्षे पुनः सर्गा भवन्त्याख्यानसंज्ञकाः ।। सूत्र ६.३२५ ।।

     अस्मिन्महाकाव्ये । यथा---महाभारतं ।

प्राकृतैर्निर्मिते तस्मिन्सर्गा आश्वाससंज्ञकाः ।
छन्दसा स्कन्धकेनैतत्क्वचिद्रलितकैरपि ।। सूत्र ६.३२६ ।।

     यथा---सेतुबन्धः । यथा वा मम---कुवलयाश्वचरितं ।

अपभ्रंशनिबद्धेऽस्मिन्सर्गाः कुडवकाभिधाः ।
तथापभ्रंशयोग्यानि च्छन्दांसि विविधान्यपि ।। सूत्र ६.३२७ ।।

     यथा---कर्णपराक्रमः ।

भाषाविभाषानियमात्काव्यं सर्गसमुज्भ्क्तितं ।
एकार्थप्रवणैः पद्यैः संधिसामग्र्यवर्जितं ।। सूत्र ६.३२८ ।।

     यथा---भिक्षाटनम्, आर्याविलासश्च ।

खण्डकाव्यं भवेत्काव्यस्यैकदेशानुसारि च ।

     यथा---मेघदूतादि ।

कोषः श्लोकसमूहस्तु स्यादन्योन्यानपेक्षकः ।। सूत्र ६.३२९ ।।
व्रज्याक्रमेण रचितः स एवातिमनोरमः ।

     सजातीयानामेकत्र सन्निवेशो व्रज्या । यथा मुक्तावल्यादिः । अथ गाद्यकाव्यानि । तत्र गद्यम्---

वृत्तगन्धोज्जितं गद्यं मुक्तकं वृत्तगन्धि च ।। सूत्र ६.३३० ।।

भवेदुत्कलिकाप्रायं चूर्णकं च चतुर्विधं ।
आद्यं समासरिहितं वृत्तभागयुतं परं ।। सूत्र ६.३३१ ।।

अन्यद्दीर्घसमासाढ्यं तुर्य चाल्पसमासकं ।

     मुक्तकं यथा---'गुरुर्वचसि पृथुरुरसि--' इत्यादि ।
     वृत्तगन्धि यथा मम-- 'समरकण्डूलनिविडभुजदण्डकुण्डलीकृतकोदण्डशिञ्जिनीटंकारोज्जागरितवैरिनगर' इत्यादि ।
     अत्र 'कुण्डलीकृतकोदण्डऽ--इत्यनुष्टुब्वृत्तस्य पादः, 'समरकण्डूल' इति च प्रथमाक्षरद्वयरिहितस्तस्यैव पादः ।
     उत्कलिकाप्रायं यथा ममैव---'अणिसविसुमरणिसिदसरविसरविदलिदसमरपरिगदपवरपरवल---' इत्यादि ।
     चूर्णकं यथा भम--'गुणरत्नसागर जगदेकनागर कामिनीमदन जनरञ्जन ' इत्यादि ।

कथायां सरसं वस्तु गद्यैरेव विनिमितं ।। सूत्र ६.३३२ ।।

क्वचिदत्र भवेदार्या क्वचिद्वक्त्रापवक्त्रके ।

आदौ पद्यैर्नमस्कारः खलादेर्वृत्तकीर्तनं ।। सूत्र ६.३३३ ।।

     यथा---कादाम्बर्यादिः ।

आख्यायिका कथावत्स्यात्कवेर्वशानुकीर्तनं ।

अस्यामन्यकवीनां च वृत्तं पद्यं क्वचित्क्वचित् ।। सूत्र ६.३३४ ।।
कथांशानां व्यवच्छेद आश्वास इति वध्यते ।
आर्यावक्त्रापवक्त्राणां छन्दसा येन केनचित् ।। सूत्र ६.३३५ ।।

अन्यापदेशेनाश्वासमुखे भाव्यर्थसूचनं ।

     यथा---हर्षचरितादिः ।
     'अपि त्वनियमो दृष्टस्तत्राप्यन्यैरुदीरणात्।' इति दण्ड्याचार्यवचनात्केचिताख्यायिका नायकेनैव निबद्धव्या' इत्याहुः, तदयुक्तं । आख्यानादयश्च कथाख्यायिकयोरेवान्तर्भावान्न पृथगुक्ताः । यदुक्तं दण्डिनैव---

'अत्रैवान्तर्भविष्यन्ति शेषाश्चाख्यानजातयः।' इति ।

     एषामुदाहरणम्---पञ्चतन्त्रादि ।
     अथ गद्यपद्यमयानि---

गद्यपद्यमयं काव्यं चम्पूरित्यभिधीयते ।। सूत्र ६.३३६ ।।

     यथा---देशराजचरितं ।

गद्यपद्यमयी राजस्तुतिर्विरुदमुच्यते ।

     यथा---विरुदमणिमाला ।

करम्भकं तु भाषाभिविविधाभिर्विनिर्मितं ।। सूत्र ६.३३७ ।।

     यथा मम---षोडशभाषामयी प्रशास्तिरत्नावली ।
     एवमन्येऽपि भेदा उद्देशमात्रप्रसीद्धत्वादुक्तभेदानतिक्रमाच्च न पृथग्लक्षिताः ।।

इति साहित्यदर्पणो दृश्यश्रव्यकाव्यनिरूपणो नाम षष्ठः परिच्छेदः ।