सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/महानाम्न्यार्चिकः

विकिस्रोतः तः


विदा मघवन्विदा गातुमनुशंसिषो दिशः ।
शिक्षा शचीनां पते पूर्वीणां पुरूवसो ॥ ६४१ ॥
आभिष्ट्वमभिष्टिभिः स्वाऽ३र्न्नांशुः ।
प्रचेतन प्रचेतयेन्द्र द्युम्नाय न इषे ॥ ६४२ ॥
एवा हि शक्रो राये वाजाय वज्रिवः ।
शविष्ठ वज्रिन्नृञ्जसे मंहिष्ठ वज्रिन्नृञ्जस ।
आ याहि पिब मत्स्व ॥ ६४३ ॥
विदा राये सुवीर्यं भवो वाजानां पतिर्वशां अनु ।
मंहिष्ठ वज्रिन्नृञ्जसे यः शविष्ठः शूराणां ॥ ६४४ ॥
यो मंहिष्ठो मघोनामंशुर्न्न शोचिः ।
चिकित्वो अभि नो नयेंद्रो विदे तमु स्तुहि ॥ ६४५ ॥
ईशे हि शक्रस्तमूतये हवामहे जेतारमपराजितं ।
स नः स्वर्षदति द्विषः क्रतुश्छन्द ऋतं बृहत् ॥६४६ ॥
इन्द्रं धनस्य सातये हवामहे जेतारमपराजितं ।
स नः स्वर्षदति द्विषः स नः स्वर्षदति द्विषः ॥ ६४७ ॥
पूर्वस्य यत्ते अद्रिवोंऽशुर्मदाय ।
सुम्न आ धेहि नो वसो पूर्तिः शविष्ठ शस्यते ।
वशी हि शक्रो नूनं तन्नव्यं संन्यसे ॥ ६४८ ॥
प्रभो जनस्य वृत्रहन्त्समर्येषु ब्रवावहै ।
शूरो यो गोषु गच्छति सखा सुशेवो अद्वयुः ॥ ६४९ ॥
एवाह्योऽ३ऽ३ऽ३वा । एवा ह्यग्ने । एवाहीन्द्र ।
एवा हि पूषन् । एवा हि देवाः ॐ एवाहि देवाः ॥ ६५० ॥

महानाम्न्यार्चिकः