सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.1 प्रथमप्रपाठकः/1.1.1.9 नवमी दशतिः

विकिस्रोतः तः

अग्न ओजिष्ठमा भर द्युम्नमस्मभ्यमध्रिगो ।
प्र नो राये पनीयसे रत्सि वाजाय पन्थां ।। ८१ ।।

यदि वीरो अनु ष्यादग्निमिन्धीत मर्त्यः ।
आजुह्वद्धव्यमानुषक्शर्म भक्षीत दैव्यं ।। ८२ ।।

त्वेषस्ते धूम ऋण्वति दिवि सं च्छुक्र आततः ।
सूरो न हि द्युता त्वं कृपा पावक रोचसे ।। ८३ ।।

त्वं हि क्षैतवद्यशोऽग्ने मित्रो न पत्यसे ।
त्वं विचर्षणे श्रवो वसो पुष्टिं न पुष्यसि ।। ८४ ।।

प्रातरग्निः पुरुप्रियो विष स्तवेतातिथिः ।
विश्वे यस्मिन्नमर्त्ये हव्यं मर्तास इन्धते ।। ८५ ।।
कौमुदः

यद्वाहिष्ठं तदग्नये बृहदर्च विभावसो ।
महिषीव त्वद्रयिस्त्वद्वाजा उदीरते ।। ८६ ।।
यद्वाहिष्ठीये द्वे

विशोविशो वो अतिथिं वाजयन्तः पुरुप्रियं ।
अग्निं वो दुर्यं वचः स्तुषे शूषस्य मन्मभिः ।। ८७ ।।

बृहद्वयो हि भानवेऽर्चा देवायाग्नये ।
यं मित्रं न प्रशस्तये मर्तासो दधिरे पुरः ।। ८८ ।।

अगन्म वृत्रहन्तमं ज्येष्ठमग्निमानवं ।
य स्म श्रुतर्वन्नार्क्षे बृहदनीक इध्यते ।। ८९ ।।

जातः परेण धर्मणा यत्सवृद्भिः सहाभुवः ।
पिता यत्कश्यपस्याग्निः श्रद्धा माता मनुः कविः ।। ९० ।।