सरस्वतीकण्ठाभरणम्/परिच्छेदः ५

विकिस्रोतः तः
← परिच्छेदः ४ सरस्वतीकण्ठाभरणम्
परिच्छेदः ५
भोजराजः

रसोऽभिमानोऽहङ्कारः शृङ्गार इति गीयते ।
योऽर्थस्तस्यान्वयात्काव्यं कमनीयत्वमश्रुते ।। ५.१ ।।

विशिष्टादृष्टजन्मायं जन्मिनामन्तरात्मसु ।
आत्मसम्यग्गुणोद्भूतेरेको हेतुः प्रकाशते ।। ५.२ ।।

शृङ्गारी चेत्कविः काव्ये जातं रसमयं जगत् ।
स एव चेदश्रृङ्गारी नीरसं सर्वमेव तत् ।। ५.३ ।।

पश्यति स्त्रीति वाक्ये हि न रसः प्रतिभासते ।
विलोकयति कान्तेति व्यक्तमेव प्रतीयते ।। ५.४ ।।

कन्ये कामयमानं मां त्वं न कामयसे कथम् ।
इति ग्राम्योऽयमर्थात्मा वैरस्यायैव कल्पते ।। ५.५ ।।

कामं कन्दर्पचाण्डालो मयि वामाक्षि निर्दयः ।
त्वयि निर्मत्सरो दिष्ट्येत्यग्राम्योऽर्थो रसावहः ।। ५.६ ।।

नवोऽर्थः सूक्तिरग्राम्या श्रव्यो बन्धः स्फुटा श्रुतिः ।
अलौकिकार्था युक्तिश्च रसमाहर्तुमीशते ।। ५.७ ।।

वक्रोक्तिश्च रसोक्तिश्च स्वभावोक्तिश्च वाङ्भयम् ।
सर्वासु ग्राहिणीं तासु रसोक्तिं प्रतिजानते ।। ५.८ ।।

भावो जन्मानुबन्धोऽथ निष्पत्तिः पुष्टिसङ्करौ ।
हासाभासौ शमः शेषो विशेषः परिशेषवान् ।। ५.९ ।।

विप्रलम्भोऽथ सम्भोगस्तच्चेष्टास्तत्परीष्टयः ।
निरुक्तयः प्रकीर्णानि प्रेमाणः प्रेमपुष्टयः ।। ५.१० ।।

नायिकानायकगुणाः पाकाद्याः प्रेमभक्तयः ।
नानालङ्कारसंसृष्टेः प्रकाराश्च रसोक्तयः ।। ५.११ ।।

चतुर्विंशतिरित्युक्ता रसान्वयविभूतयः ।
स्वरूपमासां यो वेद स काव्यं कर्तुमर्हति ।। ५.१२ ।।

आलम्बनविभावेभ्यः स्वेभ्यः स्वेभ्यः समुन्मिषन् ।
रसो रत्यादिरूपेण भाव इत्यभिधीयते ।। ५.१३ ।।

रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।
जुगुप्सा विस्मयश्चाष्टौ स्थायिभावाः प्रकीर्तिताः ।। ५.१४ ।।

स्तम्भस्तनूरुहोद्भेदो गद्गदः स्वेदवेपथू ।
वैवर्ण्यमश्रुप्रलय इत्यष्टौ सात्त्विकाः स्मृताः ।। ५.१५ ।।

स्मृतिर्वितर्क उत्कण्ठा चिन्ता चपलता मतिः ।
गर्वः स्नेहो धृतिर्व्रीडावहित्थं मूढता मदः ।। ५.१६ ।।

हर्षामर्षावसूयेर्ष्या विषादो दैन्यमुग्रता ।
त्रासः शङ्का गदो ग्लानिरुन्मादः सम्भ्रमः श्रमः ।। ५.१७ ।।

निर्वेदो जाड्यमालस्यं निद्रा सुप्तं प्रबुद्धता ।
इति भावास्त्रयस्त्रिंशद्विज्ञेया व्यभिचारिणः ।। ५.१८ ।।

चिरं चित्तेऽवतिष्ठन्ते सम्बध्यन्तेऽनुबन्धिभिः ।
रसत्वं प्रतिपद्यन्ते प्रबुद्धाः स्थायिनोऽत्र ते ।। ५.१९ ।।

रजस्तमोभ्यामस्पृष्टं मनः सत्त्वमिहोच्यते ।
निर्वृत्तयेऽस्य तद्योगात्प्रभवन्तीति सात्त्विकाः ।। ५.२० ।।

विशेषेणाभितः काये स्थायिनं चारयन्ति ये ।
अनुभावादिहेतूंस्तान्वदन्ति व्यभिचारिणः ।। ५.२१ ।।

जनित्वा ये न जायन्ते तेऽथवा व्यभिचारिणः ।
स्मृत्यादयो हि प्रेमादौ भवन्ति न भवन्ति च ।। ५.२२ ।।

रतौ सञ्चारिणः सर्वान् गर्वस्नेहौ धृतिं मतिम् ।
स्थास्नूनेवोद्धतप्रेयः शान्तोदात्तेषु जानते ।। ५.२३ ।।

संस्कारपाटवादिभ्योऽनुभावं वा निजाश्रये ।
सञ्चारिणं वा जनयन् सात्त्विकं वा स जायते ।। ५.२४ ।।

उद्दीपनविभावेभ्यः स्मृतिहेतौ पटीयसि ।
?Bअनुबन्धोऽनुभावादेरनुबन्धोऽस्य कथ्यते ।। ५.२५ ।।

विभावस्यानुभावस्य सात्त्विकव्यभिचारिणोः ।
संयोगे तस्य निष्पत्तिमात्रं निष्पत्तिरुच्यते ।। ५.२६ ।।

विषयाश्रयसंस्कारगुणप्रकृतिपाटवैः ।
दीपनातिशयैश्चास्य प्रकर्षः पुष्टिरुच्यते ।। ५.२७ ।।

तुल्यकालबलोत्पत्तिहेतौ भावान्तरोदये ।
संसर्गस्तस्य यस्तेन सङ्करः स निगद्यते ।। ५.२८ ।।

रसान्तरतिरस्कारादन्यद्रागाच्च तस्य यः ।
भवत्यपचयो वृद्धेस्तद्ध्रासं तं प्रचक्षते ।। ५.२९ ।।

हीनपात्रेषु तिर्यक्षु नायकप्रतियोगिषु ।
गौणेष्वेव पदार्थेषु तमाभासं विजानते ।। ५.३० ।।

बलवत्सूपजातेषु प्रतिकूलेषु हेतुषु ।
सर्वात्मना समुच्छेदः प्रशमस्तस्य वर्ण्यते ।। ५.३१ ।।

आश्रयात्प्रकृतेर्वापि संस्कारस्थैर्यतोऽपि वा ।
योऽस्यात्यन्तमनुच्छेदः स शेष इति शब्द्यते ।। ५.३२ ।।

शृङ्गाराद्या रसा ये च ये च शान्तोद्धतादयः ।
ये च रत्यादिभेदास्तान्विशेषानस्य मन्वते ।। ५.३३ ।।

विभावश्चानुभावश्च सञ्चारी चाश्रयश्च यः ।
ये च लीलादयो यूनां परिशेषः स कीर्त्यते ।। ५.३४ ।।

आश्रयो यस्य रत्यादिः प्रेमादेरुपजायते ।
विषयो यत्र योषादौ सोऽस्य जन्माधिगच्छति ।। ५.३५ ।।

आलम्बनविभावः स ज्ञानकारणमुच्यते ।
तेनादरादिरूपेण संस्कारस्तस्य जायते ।। ५.३६ ।।

आदृतः पटुरभ्यस्त आश्रयादेर्गुणेन सः ।
तत्प्रबोधाय माल्यर्तुचन्दनेन्दूदयादयः ।। ५.३७ ।।

उद्दीपनविभावास्ते स तैः स्मरति वाञ्छति ।
द्वेष्टि प्रयततेऽवैति मन्यते वक्ति चेष्टते ।। ५.३८ ।।

तेऽनुभावास्तदा ये स्युः स्वेदरोमोद्गमादयः ।
हर्षामर्षादयो ये च ज्ञेयाः सञ्चारिणोऽत्र ते ।। ५.३९ ।।

स्मृतीच्छायत्नजन्मानो मनोवाक्कायसंश्रयाः ।
विलासा ये वरस्त्रीणां ज्ञेया लीलादयस्तु ते ।। ५.४० ।।

लीला विलासो विच्छित्तिर्विभ्रमः किलकिञ्चितम् ।
मोट्टायितं कुट्टमितं विव्वोको ललितं तथा ।। ५.४१ ।।

विहृतं क्रीडितं केलिरिति स्त्रीणां स्वभावजाः ।
हेलाहावादयश्चान्ये ज्ञेयाः स्त्रीपुंसयोरपि ।। ५.४२ ।।

उपसङ्ख्यानमेतेषामनुभावेषु मन्वते ।
पश्चाद्भावानुभूतिभ्यां स्मरणाद्यनुभाववत् ।। ५.४३ ।।

स्मृत्यादयोऽनुभावाश्च भावाः सञ्चारिणश्च ये ।
नाट्येषु क्रियमाणास्ते नटैरभिनयाः स्मृताः ।। ५.४४ ।।

भावो यदा रतिर्नाम प्रकर्षमधिगच्छति ।
नाधिगच्छति चाभीष्टं विप्रलम्भस्तदोच्यते ।। ५.४५ ।।

पूर्वानुरागो मानश्च प्रवासः करुणश्च सः ।
पुरुषस्त्रीप्रकाण्डेषु चतुः काण्डः प्रकाशते ।। ५.४६ ।।

प्रागसङ्गतयोर्यूनोरभिलाषः प्रवर्तते ।
सङ्कल्परमणीयोऽनुरागः स प्राच्य उच्यते ।। ५.४७ ।।

अहेरिव गतिः प्रेम्णः स्वभावकुटिलेति सः ।
अहेतोर्मेति नेत्युक्तेर्हेतोर्वा मान उच्यते ।। ५.४८ ।।

देशान्तरादिभिर्यूनोर्व्यवधानं चिराय यत् ।
नवेऽनुरागे प्रौढे वा प्रवासः सोऽभिधीयते ।। ५.४९ ।।

लोकान्तरगते यूनि वल्लभे वल्लभा यदा ।
भृशं दुः खायते दीनो करुणः स तदोच्यते ।। ५.५० ।।

रतिरेवेष्टसम्प्राप्तौ पुष्टः सम्भोग उच्यते ।
सोऽपि पूर्वानुरागादेरानन्तर्याच्चतुर्विधः ।। ५.५१ ।।

न विना विप्रलम्भेन सम्भोगः पुष्टिमश्न्युते ।
कषायिते हि वस्त्रादौ भूयान्नागोऽनुषज्यते ।। ५.५२ ।।

स्त्रीपुंसयोर्विप्रलम्भे वैचित्त्याकल्पनादयः ।
चेष्टाविशेषाः सम्भोगे चुम्बनालिङ्गनादयः ।। ५.५३ ।।

विप्रलम्भेऽभियोगाद्यैः सम्भोगे साध्वसादिभिः ।
मिथः परीक्षा याः प्रेम्णो निर्दिष्टास्ताः परीष्टयः ।। ५.५४ ।।

विप्रलम्भादिशब्दानां लोकसिद्धेषु वस्तुषु ।
प्रकृत्यादिविभागेन विनिवेशा निरुक्तयः ।। ५.५५ ।।

संश्रुत्य विप्रलम्भार्थान्गृधिवञ्चयोः प्रलम्भने ।
इत्यादिज्ञापकाज्ज्ञेयः प्रपूर्वो वञ्चने लभिः ।। ५.५६ ।।

आदानं च प्रतिश्रुत्य विसंवादनमेव च ।
कालस्य हरणं चाहुः प्रत्यादानं च वञ्चनम् ।। ५.५७ ।।

पूर्वानुरागपूर्वेषु विप्रलम्भेषु तत्क्रमात् ।
विशेषद्योतकेनेह व्युपसर्गेण सूच्यते ।। ५.५८ ।।

प्रतिश्रवो हि पूर्वानुरागे वक्रेक्षितादिभिः ।
अभीष्टालिङ्गनादीनामदानं ह्रीभयादिभिः ।। ५.५९ ।।

माने निवारणं तेषां विसंवादनमुच्यते ।
अयथावत्प्रदानं वा व्यलीकस्मरणादिभिः ।। ५.६० ।।

प्रावसे कालहरणं व्यक्तमेषां प्रतीयते ।
प्रोष्यागतेष्विहैतानि कान्ताः कान्तेषु युञ्जते ।। ५.६१ ।।

प्रत्यादानं पुनस्तेषां करुणे को न मन्यते ।
स्वयं दत्तानि हि विधिस्तानि तत्रापकर्षति ।। ५.६२ ।।

प्रलम्भेत्यत्र यदि वा वञ्चनामात्रवाचिनि ।
विना समासे चतुराश्चतुरोऽर्थान्नियुञ्जते ।। ५.६३ ।।

विविधश्च विरुद्धश्च व्याविद्धश्च क्रमेण सः ।
विनिषिद्धश्च पूर्वानुरागादिषु विषज्यते ।। ५.६४ ।।

पूर्वानुरागे विविधं वञ्चनं व्रीडितादिभिः ।
माने विरुद्धं तत्प्राहुः पुनरीर्ष्यायितादिभिः ।। ५.६५ ।।

व्याविद्धं दीर्घकालत्वात्प्रवासे तत्प्रतीयते ।
विनिषिद्धं तु करुणे करुणत्वेन गीयते ।। ५.६६ ।।

रागोऽनु सह पश्चाद्वानुरूपोऽनुगतोऽपि वा ।
यूनोरपूर्वः पूर्वानुरागशब्देन शब्द्यते ।। ५.६७ ।।

राजते रञ्जतेर्वापि रागः करणभावयोः ।
घञान्यत्कारके भावे नलोपेन नियम्यते ।। ५.६८ ।।

मान्यते प्रेयसा येन यं प्रियत्वेन मन्यते ।
मनुते वा मिमीते वा प्रेममानः स कथ्यते ।। ५.६९ ।।

महाभाष्यकृतः कोऽसावनुमान इति स्मृतेः ।
ल्युडन्तोऽपि न पुंलिङ्गो मानशब्दः प्रदुष्यति ।। ५.७० ।।

यत्राङ्गना युवानश्च वसते न वसन्ति च ।
स प्रवासः प्रशब्देन प्रतीपार्थेन कथ्यते ।। ५.७१ ।।

चित्तोत्कण्ठादिभिश्चेतो भृशं वासयतीह यः ।
प्रवासयति वा यूनः स प्रवासो निरुच्यते ।। ५.७२ ।।

प्रपूर्वको वसिर्ज्ञेयः कारितान्तः प्रमापणे ।
तूष्णीं प्रवासयेदेनमिति वृद्धानुशासनात् ।। ५.७३ ।।

अभूतोत्पादनायां कृञ् दृष्टः कुरु घटं यथा ।
दृष्टश्चोच्चारणे चौरंकारमाक्रोशतीतिवत् ।। ५.७४ ।।

दृष्टोऽवस्थापनेऽश्मानमितः कुरु यथोच्यते ।
अभ्यञ्जनेऽपि च यथा पादौ मे सर्पिषा कुरु ।। ५.७५ ।।

मूर्च्छाविलापौ कुरुते कुरुते साहसे मनः ।
करोति चित्तं दुः खेन योऽसौ करुण उच्यते ।। ५.७६ ।।

भुजिः पालनकौटिल्याभ्यवहारानुभूतिषु ।
भुनक्ति भुग्नो भुङ्क्तेऽन्नं भुङ्क्ते सुखमितीष्यते ।। ५.७७ ।।

समीचीनार्थसम्पूर्वात्ततो घञ्‌प्रत्यये सति ।
भावे वा कारके वापि रूपं सम्भोग इष्यते ।। ५.७८ ।।

स पालनार्थः पूर्वानुरागानन्तर उच्यते ।
उत्पन्ना हि रतिस्तस्मिन्नानुकूल्येन पाल्यते ।। ५.७९ ।।

स मानानन्तरं प्राप्तः कौटिल्यार्थं विगाहते ।
स्वतोऽपि कुटिलं प्रेम किं नु मानान्वये सति ।। ५.८० ।।

प्रवासानन्तरे तस्याभ्यवहारार्थतेष्यते ।
तत्र ह्युपोषितैरन्नमिव निर्विश्यते रतिः ।। ५.८१ ।।

करुणानन्तरगतोऽनुभवार्थः स कथ्यते ।
विस्त्रम्भवद्भिरस्मिन्हि सुखमेवानुभूयते ।। ५.८२ ।।

यदि वा भोग इत्यस्य सम्प्रयोगार्थवाचिनः ।
समा समासे चत्वारो विशेषास्तमुपासते ।। ५.८३ ।।

स संक्षिप्तोऽथ सङ्कीर्णः सम्पूर्णः सम्यगृद्धिमान् ।
अनन्तरोपदिष्टेषु सम्भोगेषूपपद्यते ।। ५.८४ ।।

नवे हि सङ्गमे प्रायो युवानः साध्वसादिभिः ।
संक्षिपितानेव रत्यर्थमुपचारान्प्रयुञ्जते ।। ५.८५ ।।

मानस्यानन्तरे तेषां व्यलीकस्मरणादिभिः ।
रोषशेषानुसन्धानात्सङ्करः केन वार्यते ।। ५.८६ ।।

सम्पूर्णः पूर्णकामानां कामिनां प्रोष्यसङ्गमे ।
उत्कण्ठितानां भूयिष्ठमुपयोगः प्रवर्तते ।। ५.८७ ।।

प्रत्यागतेऽपि यत्रैषा रतिपुष्टिः प्रिये जने ।
सा किमावर्ण्यते यूनां तत्रैव मृतजीविते ।। ५.८८ ।।

पूर्वानुरागः पूर्वाणां व्युत्पत्तिभिरुदाहृतः ।
अनन्तराणां सर्वेषां तत्समासे निरुक्तयः ।। ५.८९ ।।

वृत्तिस्तत्राजहत्स्वार्था जहत्स्वार्थापि वर्तताम् ।
प्रधानमनुपस्कृत्य न तदर्थो निवर्तते ।। ५.९० ।।

प्रथमानन्तरे वृत्तेरजहत्स्वार्थतेष्यते ।
नात्यन्तमजहत्स्वार्थां तां मानानन्तरे विदुः ।। ५.९१ ।।

प्रवासानन्तरे त्वीषदजहत्स्वार्थतेष्यते ।
करुणार्थस्य गन्धोऽपि नास्त्येव तदनन्तरे ।। ५.९२ ।।

अष्टमीचन्द्रकः कुन्दचतुर्थी सुवसन्तकः ।
आन्दोलनचतुर्थ्येकशाल्मली मदनोत्सवः ।। ५.९३ ।।

उदकक्ष्वेडिकाशोकोत्तंसिका चूतभञ्जिका ।
पुष्पावचायिका चूतलतिका भूतमातृका ।। ५.९४ ।।

कदम्बयुद्धानि नवपत्?ित्रका बिसखादिका ।
शक्रार्चा कौमुदी यक्षरात्रिरभ्यूषखादिका ।। ५.९५ ।।

नवेक्षुभक्षिका तोयक्रीडा प्रेक्षादिदर्शनम् ।
द्यूतानि मधुपानं च प्रकीर्णानीति जानते ।। ५.९६ ।।

नित्यो नैमित्तिकश्चान्यः सामान्योऽन्यो विशेषवान् ।
प्रच्छन्नोऽन्यः प्रकाशोऽन्यः कृत्रिमाकृत्रिमावुभौ ।। ५.९७ ।।

सहजाहार्यनामानौ परौ यौवनजोऽपरः ।
विस्त्रम्भजश्च प्रेमाणो द्वादशैते महर्द्धयः ।। ५.९८ ।।

चक्षुः प्रीतिर्मनः सङ्गः सङ्कल्पोत्पत्तिसन्ततिः ।
प्रलापो जागरः कार्श्यमरतिर्विषयान्तरे ।। ५.९९ ।।

लज्जाविसर्जनं व्याधिरुन्मादो मूर्च्छनं मुहुः ।
मरणं चेति विज्ञेयाः क्रमेण प्रेमपुष्टयः ।। ५.१०० ।।

नायकः प्रतिपूर्वोऽसावुपपूर्वोऽनुनायकः ।
नायिका प्रतिपूर्वासावुपपूर्वानुनायिका ।। ५.१०१।।

नायिकानायकाभासावुभयाभास इत्यपि ।
तिर्यक्षु च तदाभास इति द्वादश नायकाः ।। ५.१०२ ।।

तेषु सर्वगुणोपेतः कथाव्यापि च नायकः ।
अन्यायवांस्तदुच्छेद्य उद्धतः प्रतिनायकः ।। ५.१०३ ।।

ततः कैश्चिद्गुणैर्हीनः पूज्यश्चैवोपनायकः ।
समो न्यूनोऽपि वा तस्य कनीयाननुनायकः ।। ५.१०४ ।।

स्यात्कथाव्यापिनी सर्वगुणयुक्ता च नायिका ।
हेतुरीर्ष्यायितादीनां सपत्नी प्रतिनायिका ।। ५.१०५ ।।

ततः कैश्चिद्गुणैर्हीना पूज्या चैवोपनायिका ।
समा न्यूनापि वा किञ्चित्कनीयस्यनुनायिका ।। ५.१०६ ।।

तदाभासास्तथैव स्युर्भेदाश्चैषां गुणादिभिः ।
नायकस्तत्र गुणत उत्तमो मध्यमोऽधमः ।। ५.१०७ ।।

प्रकृतेः सात्त्विकः स स्याद्राजसस्तामसस्तथा ।
साधारणोऽनन्यजातिः स विज्ञेयः परिग्रहात् ।। ५.१०८ ।।

उद्धतो ललितः शान्त उदात्तो धैर्यवृत्तितः ।
शठो धृष्टोऽनुकूलश्च दक्षिणश्च प्रवृत्तितः ।। ५.१०९ ।।

गुणतो नायिकापि स्यादुत्तमा मध्यमाधमा ।
मुग्धा मध्या प्रगल्भा च वयसा कौशलेन वा ।। ५.११० ।।

धीराधीरा च धैर्येण स्वान्यदीयापरिग्रहात् ।
ऊढानूढोपयमनात्क्रमाज्ज्येष्ठा कनीयसी ।। ५.१११ ।।

मानर्द्धेरुद्धतोदात्ता शान्ता च ललिता च सा ।
सामान्या च पुनर्भूश्च स्वैरिणी चेति वृत्तितः ।। ५.११२ ।।

आजीवतस्तु गणिका रूपाजीवा विलासिनी ।
अवस्थातोऽपराश्चाष्टौ विज्ञेयाः खण्डितादयः ।। ५.११३ ।।

निद्राकुलितताम्राक्षो नारीनखविभूषितः ।
प्रातरेति प्रियो यस्याः कुतश्चित्सेह खण्डिता ।। ५.११४ ।।

चाटुकारमपि प्राणनाथं कोपादपास्य या ।
पश्चात्तापमवाप्नोति कलहान्तरिता तु सा ।। ५.११५ ।।

दूतीमहरहः प्रेष्य कृत्वा सङ्केतकं क्वचित् ।
यस्या न मिलितः प्रेयान्विप्रलब्धेति तां विदुः ।। ५.११६ ।।

सा तु वासकसज्जा स्यात्सज्जिते वासवेश्मनि ।
प्रियमास्तीर्णपर्यङ्का भूषिता या प्रतीक्षते ।। ५.११७ ।।

स्वाधीनपतिका सा तु यस्याः पार्श्वं न मुञ्चति ।
प्रियश्चित्ररतक्रीडासुखास्वादनलोलुपः ।। ५.११८ ।।

पुष्पेषुपीडिता कान्तं याति या साभिसारिका ।
प्रियो देशान्तरे यस्याः सा तु प्रोषितभर्तृका ।। ५.११९ ।।

यस्याः समुचितेऽप्यह्नि प्रवासी नैति वल्लभः ।
विरहोत्कण्ठिता सा तु द्वात्रिंशदिति नायिकाः ।। ५.१२० ।।

हीनपात्राणि शेषाणि पीठमर्दो विदूषकः ।
विटचेटौ पताकाश्च सख्यश्चैषां परिग्रहः ।। ५.१२१ ।।

महाकुलीनतौदार्ये महाभाग्यं कृतज्ञता ।
रूपयौवनवैदग्ध्यशीलंसौभाग्यसम्पदः ।। ५.१२२ ।।

मानितोदारवाक्यत्वमदरिद्रानुरागिता ।
द्वादशेति गुणानाहुर्नायकेष्वाभिगामिकान् ।। ५.१२३ ।।

मृद्वीकानालिकेराम्रपाकाद्याः पाकभक्तयः ।
नीलीकुसुम्भमञ्जिष्ठारागाद्या रागभक्तयः ।। ५.१२४ ।।

अन्तर्व्याजबहिर्व्याजनिर्व्याजा व्याजभक्तयः ।
धर्मार्थकामोदर्कश्च प्रेमसूदर्कभक्तयः ।। ५.१२५ ।।

वाक्यवच्च प्रबन्धेषु रसालङ्कारसङ्करान् ।
निवेशयन्त्यनौचित्यपरीहारेण सूरयः ।। ५.१२६ ।।

चतुर्वृत्त्यङ्गसम्पन्नं चतुरोदात्तनायकम् ।
चतुर्वर्गफलं को न प्रबन्धं बान्धवीयति ।। ५.१२७ ।।

मुखं प्रतिमुखं गर्भोऽवमर्शश्च मनीषिभिः ।
स्मृतानिर्वहणं चेति प्रबन्धे पञ्च सन्धयः ।। ५.१२८ ।।

अविस्तृतमसंक्षिप्तं श्रव्यवृत्तं सुगन्धि च ।
भिन्नसर्गान्तवृत्तं च काव्यं लोकोऽभिनन्दति ।। ५.१२९ ।।

पुरोपवनराष्ट्रादिसमुद्राश्रमवर्णनैः ।
देशसम्पत्प्रबन्धस्य रसोत्कर्षाय कल्पते ।। ५.१३० ।।

ऋतुरात्रिंदिवार्केन्दूदयास्तमयकीर्तनैः ।
कालः काव्येषु सम्पन्नो रसपुष्टिं नियच्छति ।। ५.१३१ ।।

राजकन्याकुमारस्त्रीसेनासेनाङ्गभङ्गिभिः ।
पात्राणां वर्णनं काव्ये रसस्त्रोतोऽधितिष्ठति ।। ५.१३२ ।।

उद्यानसलिलक्रीडामधुपानरतोत्सवाः ।
विप्रलम्भा विवाहाश्च चेष्टाः काव्ये रसावहाः ।। ५.१३३ ।।

मन्त्रदूतप्रयाणाजिनायकाभ्युदयादिभिः ।
पुष्टिः पुरुषकारस्य रसं काव्येषु वर्षति ।। ५.१३४ ।।

नावर्णनं नगर्यादेर्दोषाय विदुषां मतम् ।
यदि शैलर्तुरात्र्यादेर्वर्णनेनैव तुष्यति ।। ५.१३५ ।।

गुणतः प्रागुपन्यस्य नायकं तेन विद्विषाम् ।
निराकरणमित्येष मार्गः प्रकृतिसुन्दरः ।। ५.१३६ ।।

वंशवीर्यश्रुतादीनि वर्णयित्वा रिपोरपि ।
तज्जयान्नायकोत्कर्षकथनं च धिनोति नः ।। ५.१३७ ।।

मनोनुकूलेष्वर्थेषु सुखसंवेदनं रतिः ।
असम्प्रयोगविषया सैव प्रीतिर्निगद्यते ।। ५.१३८ ।।

न्यङ्गव्रीडादिभिश्चेतोविकारो हास उच्यते ।
शोकश्चित्तस्य वैधुर्यमभीष्टविरहादिभिः ।। ५.१३९ ।।

प्रतिकूलेषु तैक्ष्ण्यस्य प्रबोधः क्रोध उच्यते ।
कार्यारम्भेषु संरम्भः स्थेयानुत्साह इष्यते ।। ५.१४० ।।

भयं चित्तस्य वैक्लव्यं रौद्रादिजनितं विदुः ।
जुगुप्सा गर्हणार्थानां दोषसन्दर्शनादिभिः ।। ५.१४१ ।।

विस्मयश्चित्तविस्तारः पदार्थातिशयादिभिः ।
स्तम्भश्चेष्टाप्रतीघातो भयरागामयादिभिः ।। ५.१४२ ।।

हर्षाद्भुतभयादिभ्यो रोमाञ्चो रोमविक्रिया ।
मदप्रमदपीडादेर्वैस्वर्यं गद्गदं विदुः ।
वपुर्जलोद्गमः स्वेदो रतिघर्मश्रमादिभिः ।। ५.१४३ ।।

रागरोषभयादिभ्यः कम्पो गात्रस्य वेपथुः ।
विषादमदरोषादेर्वर्णान्यत्वं विवर्णता ।। ५.१४४ ।।

अश्रु नेत्रोद्गतं वारि दुः खशोकप्रहर्षजम् ।
प्रलयस्तीव्रदुः खादेरिन्द्रियास्तमयो मतः ।। ५.१४५ ।।

स्मृतिः पूर्वानुभूतार्थविषयं ज्ञानमुच्यते ।। ५.१४६ ।।

ऊहो वितर्क इत्युक्तः पदार्थेषु यथामति ।
उत्कण्ठेष्टानवाप्तौ योऽभिलाषः स्यात्तदाप्तये ।। ५.१४७ ।।

प्रयत्नपूर्विकार्थेषु स्मृतिश्चिन्तेति चोच्यते ।। ५.१४८ ।।

आत्मप्रकाशनपरा चेष्टा चपलतोच्यते ।। ५.१४९ ।।

गर्वोऽन्येषामवज्ञानमात्मसम्भावनादिभिः ।। ५.१५० ।।

अहेतुरनिवर्ती च स्नेहश्चित्तार्द्रता मता ।
अभीष्टार्थस्य सम्प्राप्तौ स्पृहापर्याप्तता धृतिः ।
चेतोनिमीलनं व्रीडान्यङ्गरागस्तवादिभिः ।। ५.१५१ ।।

अवहित्थं तु लज्जादेर्हर्षाद्याकारगोपनम् ।। ५.१५२ ।।

सुखदुः खादिजनितो मोहश्चित्तस्य मूढता ।
संमोहानन्दसम्भेदो मदिरादिकृतो मदः ।। ५.१५३ ।।

मनः प्रसादो हर्षः स्यादिष्टावाप्तिस्तवादिभिः ।
क्रोधः कृतापराधेषु स्थिरोऽमर्षत्वमश्नुते ।। ५.१५४ ।।

असूयान्यगुणर्द्धीनामौद्धत्यादसहिष्णुता ।
ईर्षामाहुः समानेषु मानदानाद्यमर्षणम् ।। ५.१५५ ।।

विषादश्चेतसो ग्लानिरुपायाभावनाशयोः ।
सत्त्वत्यागादनुत्कर्षो वाक्यादेर्दैन्यमुच्यते ।। ५.१५६ ।।

विदुर्वागदण्डपारुष्यमुग्रतामपकारिषु ।
त्रासश्चित्तचमत्कार आकस्मिकभयादिभिः ।। ५.१५७ ।।

अनिष्टाभ्यागमोत्प्रेक्षां शङ्कामाचक्षते बुधाः ।
विरहादेर्मनस्तपः शरीरातङ्कदो गदः ।। ५.१५८ ।।

बलस्यापचयो ग्लानिराधिव्याधिप्रकर्षभूः ।
उत्कण्ठाहर्षशोकादेरुन्मादश्चित्तविप्लवः ।। ५.१५९ ।।

आदरातिशयाच्चेतस्यावेगः सम्भ्रमो मतः ।
मनः शरीरयोः खेदः क्रियातिशयतः श्रमः ।। ५.१६० ।।

चित्तस्य खेदो निर्वेदस्तत्त्वज्ञानोदयादिभिः ।
क्रियास्वपाटवं जाड्यं चिन्तोत्कण्ठाभयादिभिः ।
क्रियाविद्वेष आलस्यं सुखसंविन्मदादिभिः ।। ५.१६१ ।।

निद्रा व्यापारवैमुख्यमिन्द्रियाणां श्रमादिभिः ।
निद्रादिजनितं सुप्तमिन्द्रियादिनिमीलनम् ।। ५.१६२ ।।

उक्ता भावादिभेदेन तेऽमी रत्यादयो रसाः ।
अथैतेष्वेव केषाञ्चिद्विशेषानभिदध्महे ।। ५.१६३ ।।

शृङ्गारवीरकरुणरौद्राद्भुतभयानकाः ।
बीभत्सहास्यप्रेयांसः शान्तदान्तोद्धतारसाः ।। ५.१६४ ।।

रतिर्निसर्गसंसर्गौपम्याध्यात्माभियोगजा ।
सम्प्रयोगाभिमानोत्था विषयोत्था च कथ्यते ।। ५.१६५ ।।

प्रीतिरप्येवमेव स्यान्न त्वस्यां साम्प्रयोगिकी ।
आभ्यासिकी तु तत्स्थाने तदुदाहृतयो यथा ।। ५.१६६ ।।

एवमन्येऽपि विज्ञेया रसभावादिसंश्रयाः ।
विशेषाः प्राप्तकालोऽथ परिशेषो निदर्श्यते ।। ५.१६७ ।।

हेला हावश्च भावश्च व्याजो विस्त्रम्भभाषणम् ।
चाटु प्रेमाभिसन्धानं परिहासः कुतूहलम् ।। ५.१६८ ।।

चकितं चेति निर्दिष्टाश्चेष्टाः काश्चिद्विलासिनाम् ।
शेषाणां विप्रलम्भादौ रूपमाविर्भविष्यति ।। ५.१६९ ।।

वैहासिकः क्रीडनको विश्वास्यश्च विदूषकः ।
मान्यः कलत्रवान्भुक्तविभवो गुणवान्विटः ।। ५.१७० ।।

स्वात्मोपयोगिन्यन्योपयोगिन्यनुपयोगिनी ।
पताकेत्यापताकेति प्रकरीति प्रकीर्त्यते ।। ५.१७१ ।।

प्रेयः प्रियतराख्यानं रसवद् रसपेशलम् ।
ऊर्जस्वि रूढाहङ्कारं युक्तोत्कर्षं च तत्?त्रयम् ।। ५.१७२ ।।

रसवन्ति हि वस्तूनि सालङ्काराणि कानिचित् ।
एकेनैव प्रयत्नेन निर्वर्त्यन्ते महाकवेः ।। ५.१७३ ।।

रसाक्षिप्ततया यस्य बन्धः शक्यक्रियो भवेत् ।
अपृथग्यत्ननिर्वर्त्यः सोऽलङ्कारः प्रकृष्यते ।। ५.१७४ ।।

रसाभावादिविषयविवक्षाविरहे सति ।
अलङ्कारनिबन्धो यः स कविभ्यो न रोचते ।। ५.१७५ ।।

अङ्गाङ्गिभावावस्थानं सर्वेषां समकक्षता ।
इत्यलङ्कारसंसृष्टेर्लक्षणीया द्वयी गतिः ।। ५.१७६ ।।

यथेन्दुरिव ते वक्रमिति कान्तिः प्रतीयते ।
न तथा लिम्पतेर्लेपादन्यदत्र प्रतीयते ।। ५.१७७ ।।

तदुपश्लेषणार्थोऽयं लिम्पतिर्ध्वान्तकर्तृकः ।
वर्षणार्थश्च विद्वद्भिरुत्प्रेक्ष्यत इतीक्ष्यताम् ।। ५.१७८ ।।

मन्ये-शङ्के-ध्रुवं-प्रायो-नूनमित्येवमादिभिः ।
उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः ।। ५.१७९ ।।

इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते सरस्वतीकण्ठाभरणालङ्कारे रसविवेचनो नाम पञ्चमः पिच्छेदः ।