समास:०९ उपदेशनिरूपणम्

विकिस्रोतः तः

प्रथमं तावत् कर्मप्रसङ्ग:।कर्म साङ्गं करणीयम्।क्वचिद् व्यङ्गं भवति चेत् प्रत्यवाय: भवति।११.९.१
अत: आरब्धं कर्म किञ्चिदेव साङ्गं भवति।यत्र यत्र न्यूनं भवति, तत्र तत्र हरिस्मरणं कर्तव्यम्।११.९.२
परं स: हरि: अस्ति कथम् इति विचार्यम्।सन्ध्यावन्दनादौ स: चतुर्विंशत्या नामभि: स्मर्य:। ११.९.३
चतुर्विंशतिनामा सहस्रनामा अनन्तनामा अपि स: अनामा। स: कीदृश: अस्ति इति अन्त:करणे विवेकेन ज्ञातव्यम्।११.९.४
कश्चन ब्राह्मण: स्नानं सन्ध्यावन्दनं च कृत्वा आगच्छति,अथ देवतार्चनाय उपविशति।स: प्रतिमा-देवस्य पूजां साङ्गं करोति।११.९.५

दशक १९  – शिक्षणम् दासबोध: