समास:०८ सूक्ष्मजीवनिरूपणम्

विकिस्रोतः तः

रेणो: अपि सूक्ष्मा: कीटा: सन्ति, तेषामायु: अत्यल्पम्।तेषां युक्ति: बुद्धि: अपि तेन एव मानेन।१५.८.१
एवं नाना जीवा: सन्ति।ते दृग्गोचरा न भवन्ति, तथापि तेषु अपि अन्त:करणपञ्चकं विद्यते॥१५.८.२
तेषां कृते पर्याप्तं तेषां ज्ञानम्।विषया: इन्द्रियाणि चेति समानम्।एवं सूक्ष्म-शरीराणि को वा विपश्येत्? १५.८.३
स: कीट: पिपीलिकाम् अपि विशालां मन्यते।ननु ‘कुञ्जर: प्रयात:’ इति। पिपीलिकाया: कृते अपि मानुषमूत्र-धारा पूरसदृशी इति लोकोक्ति:॥ १५.८.४

दासबोध: