समराङ्गणसूत्रधार अध्याय ५८

विकिस्रोतः तः

समराङ्गणसूत्रधार अध्यायसूची

अथ प्रासादस्तवनं नाम अष्टपञ्चाशोऽध्यायः।


प्रासादानां चतुःषष्टिरिदानीमभिधीयते।

या पूर्वं ब्रह्मणा दत्ता प्रासादा विश्वकर्मणे ॥१


मर्मवेधस्थिता वास्तुदेवाः पूज्या यथोचितम्।

पूज्यता च स्मृता तेषां प्रासादे मण्डपे ध्वजे ॥२


आसने वाहने तद्वत्सर्वोपकरणेष्वपि।

प्रासादे यादृशश्छून्दस्तादृङ्मन्दपीठयोः ॥३


तथा वास्तुविरुद्धं स्यात्प्रासादाङ्गे हिते विदुः।

अष्टावष्टौ स्मृतास्तेषु त्रिदशानां पृथक्पृथक् ॥४


शम्भोर्हरेर्विरिञ्चस्य ग्रहाणामधिपस्य च।

चण्डिकाया गणेशस्य श्रियाः सर्वदिवौकसाम् ॥५


विमानः सर्वतोभद्रो गजपृष्ठोऽथ पद्मकः।

पृषभो मुक्तकोणश्च नलिनो द्रा विडस्तथा ॥६


इत्येतेऽष्टौ समुद्दिष्टाः प्रासादास्त्रिपुरद्रुहः।

गरुडो वर्धमानश्च शङ्खावर्तोऽथ पुष्पकः ॥७


गृहरस्वस्तिकश्चैव रुचकः पुण्ड्रवर्धनः।

कार्या जनार्दनस्याष्टौ प्रासादाः पुरभूषणाः ॥८


मेरुमन्दरकैलासा हंसाख्यो भद्र एव च।

उत्तुङ्गो मिश्रकश्चैव तथा मालाधरोऽष्टमः ॥९


इत्यष्टौ ब्रह्मणः प्रोक्ताः प्रासादाः पुरमध्यगाः।

गवयश्चित्रकूटश्च किरणः सर्वसुन्दरः ॥१० ।

श्रीवत्सः पद्मनाभश्च वैराजो वृत्त एव च।

एते कार्या रवेरष्टौ प्रासादाः शुभलक्षणाः ॥११


नन्द्यावर्तश्चैव चलभश्चर्णदिख्यः सिंह एव च।

विचित्रो योगपीठश्च घण्टानादपताकिनौ ॥१२


अष्टावेते विधातव्याश्चण्डिकायाः सुरालयाः।

गुहारसलोकश्च वेणुभद्रो ऽथ कुञ्जरः ॥१३


तथा च हर्षविजयावुदकुम्भोऽथ मोदकः।

एतान् विनायकस्याष्टौ प्रासादान् कारयेच्छुभान् ॥१४


महापद्म हर्म्यननलमुज्जयन्तस्तथा परः।

गन्धमादनसंज्ञं च शतशृङ्गानवष्ककौ ॥१५


सुविभ्रान्तो हारीत्यष्टौ लक्ष्म्याः प्रकीर्तिताः।

वृत्तो वृत्तायतश्चैत्यः किङ्किणीलयनाभिधः ॥१६


पट्टिशो विभवाख्यश्च ततश्चारागणाष्टमः।

कुर्वीत सर्वदेवानां प्रासादान् वास्तुशास्त्रवित् ॥१७


इति प्रासादस्तवनं नामाष्टपञ्चाशत्तमोऽध्यायः।