समराङ्गणसूत्रधार अध्याय ५३

विकिस्रोतः तः

समराङ्गणसूत्रधार अध्यायसूची

अथ जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः।


ब्रूमो जघन्यवास्तूनां द्वारमानमतः परम्।

विस्तारं सतलोच्छ्रायं द्र व्यव्यासविधिं तथा ॥१


कथिता ये निराधाराः प्रासादास्तिर्यगायताः।

तेषां भागचतुष्केण गर्भवासं विभाजयेत् ॥२


द्वारं सार्धेन भागेन कुर्वीत स्वार्धविस्तृतम्।

द्वारविस्तारपादेन पेद्याया विस्तृतिर्भवेत् ॥३


विस्तारार्धेन पिण्डः स्यात्तत्समः स्यादुदुम्बरः।

सार्धमूलादुम्बरकः शाखा व्यासवशाद्भवेत् ॥४


चतुर्विधश्च कर्तव्यः पेद्यापिण्डः प्रमाणतः।

शाखा तु पेद्यापिण्डश्च विस्तारेण विधीयते ॥५


शाखाविस्तारतो रूपशाखा स्यात्सार्धविस्तृतिः।

अर्धेन पेद्यापिण्डस्य खल्वशाखा विधीयते ॥६


रूपशाखासमाः कार्या विस्तारात्तुङ्गशाखिकाः।

तुङ्गाया बाह्यतः शाखाः क्रियन्ते यास्तु काश्चन ॥७


अष्टांशाभ्यधिकाः सर्वाः कर्तव्या विस्तरेण ताः।

द्वारस्यायामविस्तारयोगात् सङ्ख्या भवेत्तु या ॥८


तलोदयस्य तन्मानं गर्भमण्डपयोः समम्।

यदि भिन्नतलं कर्तुं मण्डपः कश्चि हीयते ॥९


द्वारोच्छ्रिते तद्गुणानां मण्डपे स्यात्तलोच्छ्रितिः।

प्रासादेषु कनीयस्सु तलमानमुदाहृतम् ॥१०


षड्भागाभ्यधिकं ज्येष्ठे मध्येऽष्टांशाधिकं ततः।

बलविधिः समपदः प्रासादस्य विधीयते ॥११


नाधस्तात् स प्रयोक्तव्यो नोर्ध्वतश्चाप्युदुम्बरात्।

कुम्भिकाभरणपट्टजयन्तीशीर्षकायफलकेषु तुला।

उक्तमिह यत्प्रथमं तन्नाधिकं प्रविदधीत न हीनम् ॥१२


इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः।