समराङ्गणसूत्रधार अध्याय ३३

विकिस्रोतः तः

समराङ्गणसूत्रधार अध्यायसूची

अथाश्वशाला नाम त्रयस्त्रिंशोऽध्यायः।


अथ लक्ष्माश्वशालायाः प्रोच्यते विस्तरादिह।

स्ववेश्मवास्तोः कर्तव्यं पदे गन्धर्वसंज्ञके ॥१


अथवा पुष्पदन्ताख्ये स्थानं वासाय वाजिनाम्।

अरत्निशतमात्रं यज्ज्येष्ठं तत् परिकीर्तितम् ॥२


अशीत्यरत्निकं मध्यं षष्ठ्यरत्न्यधमं भवेत्।

स्थलप्रदेशे विपुले गुप्ते रम्ये शुचौ तथा ॥३


समे च चतुरश्रे च स्थिते मङ्गल्यमेव च।

स्थानं हयानां कर्तव्यं प्रदेशे सुपरिक्रमे ॥४


निम्नगुल्मद्रुमस्थाणुचैत्यायतनवेश्मभिः।

वल्मीकशर्कराभिश्च वर्जिते तत् समाचरेत् ॥५


निःसङ्गे शल्यहीने च प्रागुदक्प्रवणे तथा।

प्रदेशे तद्विधातव्यमालोक्य सुसमाहितैः ॥६


ब्राह्मणानुमते शस्ते दिने स्थपतिभिः सह।

भूमेर्विभागमालोक्य सुभगानानयेद्द्रुमान् ॥७


न जाता ये श्मशानेषु देवतायनेषु वा।

अन्येष्वपि निषिद्धेषु जातान् वृक्षान् विवर्जयेत् ॥८


वृक्षान् प्रशस्तानानीय समीपे भर्तृवेश्मनः।

ततो भूमिं परीक्षेत प्रशस्तामथ नन्दिताम् ॥९


चितायतनवल्मीकग्रामधान्यखलेषु च।

विहारेषु च कर्तव्यमश्वानां न निवेशनम् ॥१०


भवन्ति स्वामिनः पीडा ग्रामधान्यखलेषु च।

श्मशाने वेश्मकरणान्नराणां मृत्युमादिशेत् ॥११


स्थानं विहारवल्मीकविहितं स्यादनर्थकम्।

तन्नित्यसन्तापकरं क्षयकृच्च तपस्विनाम् ॥१२


दैवोपघातजननं स्त्रीणां च क्षयकारकम्।

विहितं पादपैश्चैत्यैर्गृहं स्याद्भूतभीतिदम् ॥१३


भवेद्रो गकरं भर्तुर्विहितं कण्टकिद्रुमैः।

दीर्णायामुन्नतायां च कृतं भूमौ क्षयावहम् ॥१४


नतायां क्षुद्भयकरं कृतं भवति मन्दिरम्।

तस्मात्कार्यं प्रशस्तायां भूमौ तद्वाजिवृद्धये ॥१५


मङ्गल्यरमणीये चतुरश्रे मनोनुगे।

शुभे च विहितं सद्म भवेत्कल्याणकारकम् ॥१६


निर्गच्छतो यथा वामे पार्श्वे भर्तृस्तुरङ्गमाः।

भवन्ति कुर्यात्स्थपतिस्तथा वाजिनिवेशनम् ॥१७


अन्तःपुरप्रदेशस्य कार्यं दक्षिणतश्च तत्।

प्रवेशे दक्षिणं तेषां हेषितं जायते यथा ॥१८


तथा भर्तुर्हितार्थाय कर्तव्यं सद्म वाजिनाम्।

प्रागुदग्वा मुखं तस्य विधातव्यं सतोरणम् ॥१९


प्राग्ग्रीवकेण संयुक्तं चतुःशालमसङ्कटम्।

दशारत्निसमुछ्रायमष्टारत्निप्रविस्तृतम् ॥२०


नागदन्तकसंशोभि पुरः कुड्यार्धसंयुतम्।

पृष्ठे समग्रकुड्यं वा तत्र स्थानानि कल्पयेत् ॥२१


तानि तु प्राङ्मुखानि स्युस्तथैवोदङ्मुखानि च।

आयामे किष्कुमात्राणि त्रिकिष्कूणि च विस्तरात् ॥२२


प्रांशून्नतोर्ध्वभागानि चतुरश्राणि कारयेत्।

अग्रोच्चां सुखसञ्चारां तेषु भूमिं प्रकल्पयेत् ॥२३


स्थानं सूत्रस्य मध्ये तु हस्तमात्रं समन्ततः।

आस्तीर्णं च समश्लक्ष्णनीरन्ध्रैः फलकैर्दृढैः ॥२४


धातक्यर्जुनपुन्नागककुभादिविनिर्मितैः।

अष्टाङ्गुलसमुच्छ्रायैरध्यर्धारत्निविस्तृतैः ॥२५


अच्छिद्रैः संहतैर्बद्धैरयसा पार्श्वयोर्द्वयोः।

अजन्तुसङ्कुलैः काष्टै रुचकाभिर्भिषङ्मतैः ॥२६


यवसस्य भवेत्स्थानं निर्यूहैः स्वास्तृतं शुभैः।

किष्कुत्रयोच्छ्रितं तत्स्यादेकान्ते सुसमाहितम् ॥२७


हस्तद्वयप्रमाणं च कुर्यात् खादनकोष्ठकम्।

सूपलिप्तमदुर्गन्धि विस्तारोच्छ्राययोः समम् ॥२८


स्थाने स्थाने त्रयः कीलाः सुदृढाः कपिशीर्षकाः।

पञ्चाङ्गीनिग्रहार्थं तौ पुरतः कल्पयेदुभौ ॥२९


पश्चाद्बन्धार्थमेकं च सुगुप्तं परिकल्पयेत्।

चतुर्हस्तायतं त्यक्त्वा शालाकोणचतुष्टयम् ॥३०


स्थानेष्वेतेषु गुरगान् सर्वेष्वपि निवेशयेत्।

तत्र कुर्याद्बलिं होमं स्वस्तिवाचनकं जपम् ॥३१


ग्रीष्मे कार्यं सुसंमृष्टं सिक्तं तत्र महीतलम्।

वर्षास्वनम्बुपङ्कं च शिशिरे संवृतं शुभम् ॥३२


तिष्ठेयुस्तत्र तुरगा नातिसङ्कीर्णशङ्किनः।

अस्पृशन्तो मिथः कार्याः सर्वाबाधविवर्जिताः ॥३३


स्थानं दक्षिणपूर्वस्यां दिशि वह्नेः प्रकल्पयेत्।

निदध्यादुदकुम्भं च किञ्चिदैन्द्री समाश्रितम् ॥३४


ब्राह्म्यां दिशि प्रकर्तव्यं स्थानकं यवसस्य च।

वायव्यां तु प्रकर्तव्यं स्थानमौदूखलं दिशि ॥३५


निःश्रेणयः कुशाः कूपाः कार्याश्च फलकावृताः।

कुद्दालोद्दालगुडकाः शुक्तयोगाः खुरस्तथा ॥३६


कचग्रहण्यः शृङ्गं च तथा परशवोऽपि च।

नाद्याः प्रदीपाश्च भवन्त्यश्वागारोपयोगिनः ॥३७


सङ्ग्रहः सुखसञ्चारवस्तूनां नैरृते भवेत्।

अग्न्युपद्र वरक्षार्थं बन्धच्छेदोपयोगिनः ॥३८


पदार्थान् सन्निधौ कुर्याज्जलदीपादिकान् बुधः।

भाण्डानि कुर्याच्च पृथग् जन्द्रा पनयनेच्छया ॥३९


हस्तवासीं शिलां दीपं दर्वॐ फालमुपानहौ।

पिटकानि विचित्राणि वस्तीन् नानाविधानपि ॥४०


एवंविधानि चान्यानि संनिदध्यात्प्रयत्नतः।

पुरःस्तम्भाश्रितं भाण्डं सन्नाहादेर्विधीयते ॥४१


प्राङ्मुखे तुरगं गेहे वारुण्यां स्थापयेद्दिशि।

पूर्वामुखे पदे वापि मित्रस्य वरुणस्य च ॥४२


भवन्ति तेन बहवः पुष्टिं च प्राप्नुवन्ति ते।

सा हि दिक्पूजनीया च स्तोतव्या च प्रकीर्तिता ॥४३


होमशान्तिकदानेषु धर्म्या याश्च पराः क्रियाः।

तासु प्रशस्यते पूर्वा शकेणाधिष्ठिता स्वयम् ॥४४


तस्यामुदेति दिनकृदनुलोमं ततः पुनः।

अश्वानां पृष्ठतो याति स प्रतीचीमनुक्रमात् ॥४५


स्नानाधिवासने पूजा माङ्गल्यानि पराणि च।

प्राङ्मुखानां तुरङ्गाणां कर्तव्यानि शुभार्थिभिः ॥४६


एवं कृते भूमिबलमित्राणां यशसोऽपि च।

वृद्धिर्भवति भूपस्य तस्मात्प्राची प्रशस्यते ॥४७


भर्तृवृद्धिप्रदं स्थानमग्रग्रासस्य तद्भवेत्।

दक्षिणाभिमुखायां तु शालायां वाञ्छिताथदम् ॥४८


स्थानं भवति वाहानां पदे कॢप्तं विभावसोः।

वह्निनाध्यासिता सा दिगात्मा वह्निश्च वाजिनाम् ॥४९


अजरो बहुभोक्ता च तत्र बद्धो भवेद्धयः।

उदङ्मुखेऽपि भवने प्राप्नुवन्ति शुभं हयाः ॥५०


तथास्थितानामश्वानां दक्षिणेन दिवाकरः।

उदेत्यनन्तरं याति तान् विधाय प्रदक्षिणम् ॥५१


प्रयाति वामतोऽश्वं च स्थाप्यास्तेनोत्तरामुखाः।

चन्द्रा र्कौ प्रतिहर्षन्ते तथा बध्नीत वाजिनः ॥५२


नृपतिश्च जयं सिद्धिं पुत्रानायुश्च विन्दति।

अरोगाश्च भवन्त्यश्वा वर्धयन्ति च सन्ततिम् ॥५३


दक्षिणाभिमुखान्कुर्यान्न सन्नाह्यान्न चाग्रगान्।

पितृकार्याद्यतोऽन्यत्र दक्षिणा वर्जितैव दिक् ॥५४


अस्यामेव दिशि प्रेता यतः सर्वे प्रतिष्ठिताः।

उदेति वामतो याति चास्तं दक्षिणतो रविः ॥५५


सोमश्च पृष्ठे भवति तेनाश्वा दैवपीडिताः।

ग्रहैर्विकारैर्विविधैः पीड्यन्तेऽरातिविह्वलाः ॥५६


भयेन व्याधिभिश्चार्ता ग्रासं नेच्छन्ति खादितुम्।

पराजयमतुष्टिं च स्वामिनोऽनर्थसङ्गतिम् ॥५७


कुर्वन्त्यतो न बध्नीयात्कथञ्चिद् दक्षिणामुखान्।

पश्चिमाभिमुखानां च बद्धानां वाजिनां सदा ॥५८


उदेति पृष्ठतो भानुः पुरतोऽस्तं प्रयाति च।

न भवेद्विजयस्तेन भर्तुस्तत्पृष्ठवर्तिनः ॥५९


शक्रस्य पृष्ठवर्तित्वात्प्रातिलोम्याच्च भास्वतः।

कुप्यन्ति व्याधयस्तेषां तूर्णं देहविनाशनाः ॥६०


तैस्ते ध्यायन्ति वेपन्ते जले त्रासं प्रयान्ति च।

यवसं नाभिनन्दन्ति क्षमां मुञ्चन्ति सर्वथा ॥६१


दिशोऽभिमुखमाग्रेय्या बध्यन्ते यदि वाजिनः।

व्यथन्ते रक्तपित्तोत्थैस्तदा रोगैरनेकधा ॥६२


जायन्ते स्वामिनो बन्धवधहृच्छोषादायिनः।

वाजिनां च भवेत्तत्र वह्निदाहकृतं भयम् ॥६३


भर्तुः पराजयो विघ्नः स्याच्च देहस्य संशयः।

नैरृत्याः ककुभो वाहा बध्यन्ते संमुखं यदि ॥६४


तदा न तेऽभिनन्दन्ति खादनं पानभोजने।

यथा यथा क्षितिं पादैर्दारयन्ति पुनः पुनः ॥६५


हेषन्ते वीक्ष्य बहुशो मनुष्यान् पक्षिणः पशून्।

भ्रमयन्ति च गात्राणि नैरृतीं चाभितः स्थिताः ॥६६


तथा तथैषां कुपिता नाशं कुर्वन्ति राक्षसाः।

बध्यन्ते यदि वाज्ञानाद्वायव्याभिमुखं हयाः ॥६७


तदा ते वातिकै रोगैः पीड्यन्ते प्रतिवासरम्।

चलः कायो भवेद्भर्तुः क्लेशश्चाश्वोपजीविनाम् ॥६८


नराणां च भवेन्मृत्युर्दुर्भिक्षप्रभवं भयम्।

ऐशान्यभिमुखं बद्धाः प्रणश्यन्ति तुरङ्गमाः ॥६९


सूर्योदयस्याभिमुखं बद्धानां चेदमादिशेत्।

निबध्यन्ते यदा वाहा ब्राह्मीं दिशमुपाश्रिताः ॥७०


बध्यन्ते ते ग्रहैर्दिव्यैर्व्याधिभिश्च विचिन्तनाः।

कव्यहव्यक्रियास्तत्र भर्तुर्न विजयावहाः ॥७१


द्विजानामुपतापाय जायन्ते तत्र वाजिनः।

अनुवंशं च शालायां स्थानमश्वस्य नेष्यते ॥७२


स्वामिनस्तदजीर्णाय स्यान्नाशाय च वाजिनाम्।

स्थाने प्रशस्ते तुरगान् सर्वथा वासयेदतः ॥७३


न च धार्याः क्षणमपि रोगिणः कल्यसन्निधौ।

कल्यानामपि रोगाः स्युर्यतो रोगिसमाश्रयात् ॥७४


हयागारस्य पूर्वेण कार्यं भेषजमन्दिरम्।

तस्यैव वामतः सर्वसंभारान् परिकल्पयेत् ॥७५


वाजिनां भेषजार्थाय भाण्डानि च विनिक्षिपेत्।

अगदानोषधीः स्नेहान् वर्तीश्च लवणानि च ॥७६


भेषजागारसविधे कुर्याच्चारिष्टमन्दिरम्।

भवनं व्याधितानां च कार्यं वासाय वाजिनाम् ॥७७


सुगुप्तं तच्च कर्तव्यं पूर्वनिर्दिष्टवेश्मवत्।

संबद्धं च विधातव्यमेतद्वेश्मचतुष्टयम् ॥७८


सुधाबन्धदृढैः कुड्यैः सप्राग्ग्रीवोच्चतोरणम्।

चत्वार्यपि विशालानि सुगमानि च कारयेत्।

वेश्मस्वेवंविधेष्वश्वान् स्थापितान् परिपालयेत् ॥७९


इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे अश्वशाला नाम त्रयस्त्रिंशोऽध्यायः।