समयमातृका/सप्तमः समयः

विकिस्रोतः तः
← षष्ठः समयः समयमातृका
सप्तमः समयः
क्षेमेन्द्रः
अष्टमः समयः →

सप्तमः समयः
कामुकसमागमः
अथाययौ शनैः श्रीमन्नवोद्भूतमनोभवः ।
लतालिङ्गनकृद्भालः कालः कुसुमलाञ्छनः ॥१॥

सम्भोगसुखसम्पत्तिः पराधीनेव कामिनाम् ।
आललम्बे धनेशाशामितीवाकलयन्रविः ॥२॥

दक्षिणानिलसोच्छ्वासा लसत्कुसुमपाण्डुराः ।
जातजृम्भा ययुस्तन्व्यो लताः सोत्कण्ठतामिव ॥३॥

दग्धेऽन्धकद्विषा रोषात्पुराणे पञ्चसायके ।
नवं विनिर्ममे कामं ऋतुराजः प्रजापतिः ॥४॥

प्रस्खलत्कोकिलालापा गायन्त्यो भृङ्गशिञ्जितैः ।
वेश्या इव मधुक्षीवा विरेजुर्वनराजयः ॥५॥

नवकिसलयलेखापङ्क्तिसङ्गे लतानां
नखमुखलिपिलीलालोभिनीमाकलय्य ।
मधुमदपरिरम्भे भेजिरे लोहितत्वं
स्थलकमलवनानामीर्ष्ययेवाननानि ॥६॥

क्षैण्यक्षामं शिशिरसमयं वृद्धमुत्सृज्य दूरे
त्यक्त्वा शीतं तरुणमसकृद्गाढरागानुबन्धम् ।
उद्यानश्रीर्मधुमभिमतं बालमेवालिलिङ्ग
प्रायः स्त्रीणां वयसि नियतिर्नास्ति कार्यार्थिनीनाम् ॥७॥

अथ नापितदूतेन कृतद्वित्रगतागता ।
मिथ्या कृतनिषेधापि ग्रहणाग्रहणे शिशोः ॥८॥

कथञ्चिदभ्यर्थनया गृहीतार्था कलावती ।
सन्ध्यायां मण्डनासक्ता ययौ वासकसज्जताम् ॥९॥

कपोले कस्तूरीस्फुटकुटिलपत्राङ्कुरलिपिर्
ललाटे कार्पूरं तिलकमलकालीपरिसरे ।
तनौ लीना हेमद्युतिपरिचिता कुङ्कुमरुचिः
स तस्या कोऽप्यासील्ललितमधुरो मण्डनविधिः ॥१०॥

प्रौढकामुकसम्भोगसाक्षिणी बालसङ्गमे ।
नोचितास्मीति तामूचे लज्जया नतमेखला ॥११॥

हारिणी सा तनुलता हारिणी च कुचस्थली ।
दृष्टिश्च हारिणी तस्या बभौ स्मरविहारीणी ॥१२॥

अत्रान्तरे वणिक्सूनुर्विवेश गणिकागृहम् ।
आसन्नलाभाभिमुखैरावृतं क्षेत्रवासिभिः ॥१३॥

कर्णसंसक्तमुक्ताङ्ककनकस्थूलबालकः ।
बहुहेमभराक्रान्तिसव्यथश्रवणद्वयः ॥१४॥

कण्ठाभरणमध्यस्थहैमरक्षाचतुष्टयः ।
जननीहस्तविन्यस्तसर्षपाङ्कितचूलिकः ॥१५॥

राजावर्तमणिस्थूलगुलिकाभ्यां विराजितम् ।
राजतं चरणालीनं बिभ्राणः कटकद्वयम् ॥१६॥

मुहुर्दीर्घाञ्चलदशां स्रस्तां सङ्कलयन्पटीम् ।
बहुचूर्णकताम्बूलदग्धास्यकृतसीत्कृतः ॥१७॥

स प्रविश्य प्रकाशाशां ददर्शादर्शमादरात।
कलावतीं कलाकान्तललितामिव शर्वरीम् ॥१८॥

कथं लालनायोग्योऽयं बालः सम्भोगभाग्भवेत।
इतीव तारहारेण सस्मितस्तनमण्डलात॥१९॥

द्रविणक्षयदीक्षायां वैचक्षण्यकृतक्षणाः ।
ऋत्विजः सप्त विविशुः पुरस्तस्य महाविटाः ॥२०॥

निर्गुटः क्षीणसाराख्यो दिविरः कमलाकरः ।
रेचको भरताचार्यः क्षुण्णपाणिस्तुलाधरः ॥२१॥

गणकः सिंहगुप्तश्च तिक्तनामा भिषक्सुतः ।
कटिः कुटिलकश्चेति भोगाम्भोरुहषट्पदाः ॥२२॥

वेश्यासमागमे शैलीं शिक्षीतः स विटैर्बहिः ।
प्रविश्य कामिनीपार्श्वे प्रौढवत्समुपाविशत॥२३॥

वाससाच्छाद्य नासार्धमप्रस्तावकटूत्कटाम् ।
नर्मगोष्ठीं स विदधे शिक्षितां शुकपाठवत॥२४॥

ततः प्रविश्य कङ्काली गृहीतोच्चतरासना ।
रञ्जनाय पुरश्चक्रे विटानां कपटस्तुतिम् ॥२५॥

धन्योऽयं बालकः श्रीमान्भवद्भिर्यस्य सङ्गतिः ।
युष्मत्परिचयः पुण्यपरिपाकेन लभ्यते ॥२६॥

शिशुरप्ययमस्माकं कामुकोऽभिमतः परम् ।
बाल एव सहस्रांशुः कमलिन्या विकासकृत॥२७॥

इत्यादिभिः स्तुतिपदैः कुट्टन्या विटमण्डले ।
स्वीकृते भूरभूत्क्षिप्रं ताम्बूलावेलपाटला ॥२८॥

ततः काली कलावत्या धात्री वेतालिकाभिधा ।
ताम्बूलदानावसरप्रहर्षाकुलितावदत॥२९॥

अत्यल्पः परिवारोऽयं ताम्बूलप्रणयी स्थितः ।
नास्माकमन्यवेश्यानामिवासङ्ख्यः परिग्रहः ॥३०॥

कङ्कः प्रथमपूज्योऽयं देवाकृतिरुदारधीः ।
यस्यानुरोधात्सुलभा दुर्लभापि कलावती ॥३१॥

आमाता गौरवार्होऽयं पूज्यः कन्यार्पणेन नः ।
शाङ्खिकः कमलो नाम संमानं पूर्वमर्हति ॥३२॥

अयं पितुः कलावत्याः प्रेतकार्यप्रतिग्रही ।
ह्यः पर्वदिवसावाप्त # # शक्तिर्महाव्रती ॥३३॥

अयं स्थलपतेः सूनुः कपिलः कलशाभिधः ।
गुरुभ्राता कलावत्याः कल्पपालो मधुप्रदः ॥३४॥

मृदङ्गोदरनामायं कलावत्याः स्वसुः पतिः ।
मातुलः कलहो नाम बिन्दुसारः सहोदरः ॥३५॥

इयं दत्तकपुत्रस्य कलावत्याः कलायुषः ।
धात्री कलावती नाम रुग्णचन्द्रस्य तत्पतिः ॥३६॥

अयं भरतभाषाज्ञः काम्बो भागवतात्मजः ।
गायनः खरदासोऽयं महामात्यस्य वल्लभः ॥३७॥

निगिलः सूपकाराख्यः कुम्भकारश्च कर्परः ।
बकश्छत्रधरश्चायं खञ्जनो युग्यवाहनः ॥३८॥

रतिशर्मा द्विजन्मायं गणिकाग्रशान्तिकृत।
आरामिकः करालोऽयं कीलवर्तश्च नाविकः ॥३९॥

उद्यानपालः कन्दोऽयं मुकुलाख्यश्च पौष्पिकः ।
चर्मकृद्वर्मदत्तोऽयं मारच्छिद्रस्य धावकः ॥४०॥

बहिरास्ते च चाण्डाली क्रोशन्ती घर्घराभिधा ।
डोम्बश्चण्डरवाख्यश्च कोष्ठागारप्रहारिकः ॥४१॥

ताम्बूलं देयमेतेभ्यः प्रहेयं प्रातरेव तु ।
सख्यै शम्बरमालायै गुरवे दम्भभूतये ॥४२॥

उक्त्वेति पूगफललुण्ठिनिविष्टचित्ता
वैतालिका विविधवेशवनीप्रविष्टाः ।
चक्रुः प्रभूतमधुपानविघूर्णमानास्
ताम्बूलदानबहुमानगतागतानि ॥४३॥

ततः क्षीवैरसम्भाव्यं कत्थमानैर्विटैः परम् ।
उद्वेजितेव रजनी धूपव्याजेन निर्ययौ ॥४४॥

नृपस्य बाहुर्युधि दक्षिणोऽहं
ममैव राज्यं कलमान्तरस्थम् ।
मयि स्थिते तिष्ठति नाट्यशास्त्रं
सूते तुला वित्तपतिश्रियं मे ॥४५॥

त्रैलोक्यवृत्तं गणितेन वेद्मि
मयैव भोजस्य कृता चिकित्सा ।
भुक्ता मया भूपतयः स्वसूक्तैर्
इत्यूचिरे मद्यमदोद्धतास्ते ॥४६॥

विसृष्टास्ते कलावत्या ताम्बूलार्पणलीलया ।
निर्ययुः कलयन्तोऽन्तर्भाविनीं भोज्यसम्पदम् ॥४७॥

अथ विततवितानं हंसशुभ्रोपधानं
शयनममलचीनप्रच्छदाच्छादिताग्रम् ।
अभजत हरिणाक्षी क्षीवमादाय बालं
निजपरिजननर्मस्मेरवक्त्राम्बुजश्रीः ॥४८॥

शिशुतररमणेऽस्याः कौसुमामोदलुभ्यद्
भ्रमरभरनिपातैर्घूर्णमानाः प्रकामम् ।
प्रसरदगुरुधूमश्यामलाग्रा बभूवुर्
वलितविरतवक्त्रा लज्जयेव प्रदीपाः ॥४९॥

इति श्रीव्यासदासापराख्यक्षेमेन्द्रनिर्मितायां समयमातृकायां
कामुकसमागमो नाम सप्तमः समयः ॥७॥