श्वेताश्वतर उपनिषद्
Wikisource इत्यस्मात्
-
-
-
-
-
- ॥ श्वेताश्वतरोपनिषत् ॥
-
-
-
-
-
-
-
- ॐ सहनाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु मा विद्विषावहै ॥
- ॐ शान्तिः शान्तिः शान्तिः ॥
- ॐ सहनाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु मा विद्विषावहै ॥
-
-
-
-
-
- || प्रथमोऽध्यायः ||
-
-
-
-
-
- ॐ ब्रह्मवादिनो वदन्ति ।
- किं कारणं ब्रह्म कुतः स्म जाता जीवाम केन क्व च सम्प्रतिष्ठा ।
- अधिष्ठिताः केन सुखेतरेषु वर्तामहे ब्रह्मविदो व्यवस्थाम् ॥ १ ॥
-
-
-
-
-
- कालः स्वभावो नियतिर्यदृच्छा भूतानि योनिः पुरुष इति चिन्त्यम् ।
- संयोग एषां न त्वात्मभावादात्माप्यनीशः सुखदुःखहेतोः ॥ २ ॥
-
-
-
-
-
- ते ध्यानयोगानुगता अपश्यन्देवात्मशक्तिं स्वगुणैर्निगूढाम् ।
- यः कारणानि निखिलानि तानि कालात्मयुक्तान्यधितिष्ठत्येकः ॥ ३ ॥
-
-
-
-
-
- तमेकनेमिं त्रिवृतं षोडशान्तं शतार्धारं विंशतिप्रत्यराभिः ।
- अष्टकैः षड्भिर्विश्वरूपैकपाशं त्रिमार्गभेदं द्विनिमित्तैकमोहम् ॥ ४ ॥
-
-
-
-
-
- पञ्चस्रोतोम्बुं पञ्चयोन्युग्रवक्त्रां पञ्चप्राणोर्मिं पञ्चबुद्ध्यादिमूलाम् ।
- पञ्चावर्तां पञ्चदुःखौघवेगां पञ्चाशद्भेदां पञ्चपर्वामधीमः ॥ ५ ॥
-
-
-
-
-
- सर्वाजीवे सर्वसंस्थे बृहन्ते तस्मिन्हंसो भ्राम्यते ब्रह्मचक्रे ।
- पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति ॥ ६ ॥
-
-
-
-
-
- उद्गीतमेतत्परमं तु ब्रह्म तस्मिंस्त्रयं सुप्रतिष्ठाऽक्षरं च ।
- अत्रान्तरं ब्रह्मविदो विदित्वा लीना ब्रह्मणि तत्परा योनिमुक्ताः ॥ ७ ॥
-
-
-
-
-
- संयुक्तमेतत्क्षरमक्षरं च व्यक्ताव्यक्तं भरते विश्वमीशः ।
- अनीशश्चात्मा बध्यते भोक्तृभावाज्ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ ८ ॥
-
-
-
-
-
- ज्ञाज्ञौ द्वावजावीशनीशावजा ह्येका भोक्तृभोग्यार्थयुक्ता ।
- अनन्तश्चात्मा विश्वरूपो ह्यकर्ता त्रयं यदा विन्दते ब्रह्ममेतत् ॥ ९ ॥
-
-
-
-
-
- क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः ।
- तस्याभिध्यानाद्योजनात्तत्त्वभावाद्भूयश्चान्ते विश्वमायानिवृत्तिः ॥ १० ॥
-
-
-
-
-
- ज्ञात्वा देवं सर्वपाशापहानिः क्षीणैः क्लेशेर्जन्ममृत्युप्रहाणिः ।
- तस्याभिध्यानात्तृतीयं देहभेदे विश्वैश्वर्यं केवल आप्तकामः ॥ ११ ॥
-
-
-
-
-
- एतज्ज्ञेयं नित्यमेवात्मसंस्थं नातः परं वेदितव्यं हि किञ्चित् ।
- भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत् ॥ १२ ॥
-
-
-
-
-
- वह्नेर्यथा योनिगतस्य मूर्तिनर्दृश्यते नैव च लिङ्गनाशः ।
- स भूय एवेन्धनयोनिगृह्यस्तद्वोभयं वै प्रणवेन देहे ॥ १३ ॥
-
-
-
-
-
- स्वदेहमरणिं कृत्वा प्रणवं चोत्तरारणिम् ।
- ध्याननिर्मथनाभ्यासाद्देवं पश्यन्निगूढवत् ॥ १४ ॥
-
-
-
-
-
- तिलेषु तैलं दधिनीव सर्पिरापः स्रोतःस्वरणीषु चाग्निः ।
- एवमात्माऽत्मनि गृह्यतेऽसौ सत्येनैनं तपसा योऽनुपश्यति ॥ १५ ॥
-
-
-
-
-
- सर्वव्यापिनमात्मानं क्षीरे सर्पिरिवार्पितम् ।
- आत्मविद्यातपोमूलं तद्ब्रह्मोपनिषत्परं तद्ब्रह्मॊपनिषत्परमिति ॥ १६ ॥
-
-
-
-
-
- ॥ द्वितीयोऽध्यायः ॥
-
-
-
-
-
- युञ्जानः प्रथमं मनस्तत्त्वाय सविता धियः ।
- अग्नेर्ज्योतिर्निचाय्य पृथिव्या अध्याभरत् ॥ १ ॥
-
-
-
-
-
- युक्तेन मनसा वयं देवस्य सवितुः सवे ।
- सुवर्गेयाय शक्त्या ॥ २ ॥
-
-
-
-
-
- युक्त्वाय मनसा देवान् सुवर्यतो धिया दिवम् ।
- बृहज्ज्योतिः करिष्यतः सविता प्रसुवाति तान् ॥ ३ ॥
-
-
-
-
-
- युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः ।
- विहोत्रा दधे वयुनाविदेक इन्मही देवस्य सवितुः परिष्टुतिः ॥ ४ ॥
-
-
-
-
-
- युजे वां ब्रह्म पूर्व्यं नमोभिर्विश्लोक एतु पथ्येव सूरेः ।
- शृण्वन्तु विश्वे अमृतस्य पुत्रा आ ये धामानि दिव्यानि तस्थुः ॥ ५ ॥
-
-
-
-
-
- अग्निर्यत्राभिमथ्यते वायुर्यत्राधिरुध्यते ।
- सोमो यत्रातिरिच्यते तत्र सञ्जायते मनः ॥ ६ ॥
-
-
-
-
-
- सवित्रा प्रसवेन जुषेत ब्रह्म पूर्व्यम् ।
- यत्र योनिं कृणवसे न हि ते पूर्तमक्षिपत् ॥ ७ ॥
-
-
-
-
-
- त्रिरुन्नतं स्थाप्य समं शरीरं हृदीन्द्रियाणि मनसा सन्निवेश्य ।
- ब्रह्मोडुपेन प्रतरेत विद्वान्स्रोतांसि सर्वाणि भयानकानि ॥ ८ ॥
-
-
-
-
-
- प्राणान्प्रपीड्येह स युक्तचेष्टः क्षीणे प्राणे नासिकयोच्छ्वसीत ।
- दुष्टाश्वयुक्तमिव वाहमेनं विद्वान्मनो धारयेताप्रमत्तः ॥ ९ ॥
-
-
-
-
-
- समे शुचौ शर्करावह्निवालुकाविवर्जिते शब्दजलाश्रयादिभिः ।
- मनोनुकूले न तु चक्षुपीडने गुहानिवाताश्रयणे प्रयोजयेत् ॥ १० ॥
-
-
-
-
-
- नीहारधूमार्कानिलानलानां खद्योतविद्युत्स्फटिकशशीनाम् ।
- एतानि रूपाणि पुरःसराणि ब्रह्मण्यभिव्यक्तिकराणि योगे ॥ ११ ॥
-
-
-
-
-
- पृथिव्यप्तेजोऽनिलखे समुत्थिते पञ्चात्मके योगगुणे प्रवृत्ते ।
- न तस्य रोगो न जरा न मृत्युः प्राप्तस्य योगाग्निमयं शरीरम् ॥ १२ ॥
-
-
-
-
-
- लघुत्वमारोग्यमलोलुपत्वं वर्णप्रसादं स्वरसौष्ठवं च ।
- गन्धः शुभो मूत्रपुरीषमल्पं योगप्रवृत्तिं प्रथमां वदन्ति ॥ १३ ॥
-
-
-
-
-
- यथैव बिम्बं मृदयोपलिप्तं तेजोमयं भ्राजते तत्सुधान्तम् ।
- तद्वाऽऽत्मतत्त्वं प्रसमीक्ष्य देही एकः कृतार्थो भवते वीतशोकः ॥ १४ ॥
-
-
-
-
-
- यदात्मतत्त्वेन तु ब्रह्मतत्त्वं दीपोपमेनेह युक्तः प्रपश्येत् ।
- अजं ध्रुवं सर्वतत्त्वैर्विशुद्धं ज्ञात्वा देवं मुच्यते सर्वपापैः ॥ १५ ॥
-
-
-
-
-
- एषो ह देवः प्रदिशोऽनु सर्वाः पूर्वो ह जातः स उ गर्भे अन्तः ।
- स एव जातः स जनिष्यमाणः प्रत्यङ्जनास्तिष्ठति सर्वतोमुखः ॥ १६ ॥
-
-
-
-
-
- यो देवॊऽग्नौ योऽप्सु यो विश्वं भुवनमाविवेश ।
- य ओषधीषु यो वनस्पतिषु तस्मै देवाय नमो नमः ॥ १७ ॥
-
-
-
-
-
- ॥ तृतीयोऽध्यायः ॥
-
-
-
-
-
- य एको जालवानीशत ईशनीभिः सर्वांल्लोकानीशत ईशनीभिः ।
- य एवैक उद्भवे सम्भवे च य एतद्विदुरमृतास्ते भवन्ति ॥ १ ॥
-
-
-
-
-
- एको हि रुद्रो न द्वितीयाय तस्थुर्य इमांल्लोकानीशत ईशनीभिः ।
- प्रत्यङ्जनास्तिष्ठति सञ्चुकोचान्तकाले संसृज्य विश्वा भुवनानि गोपाः ॥ २ ॥
-
-
-
-
-
- विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् ।
- सम्बाहुभ्यां धमति सम्पतत्रैर्द्यावाभूमी जनयन्देव एकः ॥ ३ ॥
-
-
-
-
-
- यो देवानां प्रभवश्चोद्भवश्च विश्वाधिपो रुद्रो महर्षिः ।
- हिरण्यगर्भं जनयामास पूर्वं स नो बुद्ध्या शुभया संयुनक्तु ॥ ४ ॥
-
-
-
-
-
- या ते रुद्रा शिवा तनूरघोराऽपापकाशिनी ।
- तया नस्तनुवा शन्तमया गिरिशन्ताभिचाकशीहि ॥ ५ ॥
-
-
-
-
-
- यामिषुं गिरिशतं हस्ते बिभर्ष्यस्तवे ।
- शिवां गिरित्र तां कुरु मा हिंसीः पुरुषं जगत् ॥ ६ ॥
-
-
-
-
-
- ततः परं ब्रह्म परं बृहन्तं यथा निकायं सर्वभूतेषु गूढम् ।
- विश्वस्यैकं परिवेष्टितारमीशं तं ज्ञात्वाऽमृता भवन्ति ॥ ७ ॥
-
-
-
-
-
- वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् ।
- तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय ॥ ८ ॥
-
-
-
-
-
- यस्मात्परं नापरमस्ति किंचिद्यस्मान्नणीयो न ज्यायोऽस्ति कश्चित् ।
- वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम् ॥ ९ ॥
-
-
-
-
-
- ततो यदुत्तरतरं तदरूपमनामयम् ।
- य एतद्विदुरमृतास्ते भवन्त्यथेतरे दुःखमेवापियन्ति ॥ १० ॥
-
-
-
-
-
- सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः ।
- सर्वव्यापी स भगवांस्तस्मात्सर्वगतः शिवः ॥ ११ ॥
-
-
-
-
-
- महान्प्रभुर्वै पुरुषः सत्वस्यैष प्रवर्तकः ।
- सुनिर्मलामिमां प्राप्तिमीशानो ज्योतिरव्ययः ॥ १२ ॥
-
-
-
-
-
- अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः ।
- हृदा मनीषा मनसाभिक्लृप्तो य एतद्विदुरमृतास्ते भवन्ति ॥ १३ ॥
-
-
-
-
-
- सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
- स भूमिं विश्वतो वृत्वाऽत्यतिष्ठद्दशाङ्गुलम् ॥ १४ ॥
-
-
-
-
-
- पुरुष एवेदँसर्वं यद्भूतं यच्च भव्यम् ।
- उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ १५ ॥
-
-
-
-
-
- सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ।
- सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ १६ ॥
-
-
-
-
-
- सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।
- सर्वस्य प्रभुमीशानं सर्वस्य शरणं सुहृत् ॥ १७ ॥
-
-
-
-
-
- नवद्वारे पुरे देही हंसो लेलायते बहिः ।
- वशी सर्वस्य लोकस्य स्थावरस्य चरस्य च ॥ १८ ॥
-
-
-
-
-
- अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः ।
- स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तम् ॥ १९ ॥
-
-
-
-
-
- अणोरणीयान्महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः ।
- तमक्रतुः पश्यति वीतशोको धातुः प्रसादान्महिमानमीशम् ॥ २० ॥
-
-
-
-
-
- वेदाहमेतमजरं पुराणं सर्वात्मानं सर्वगतं विभुत्वात् ।
- जन्मनिरोधं प्रवदन्ति यस्य ब्रह्मवादिनो हि प्रवदन्ति नित्यम् ॥ २१ ॥
-
-
-
-
-
- ॥ चतुर्थोऽध्यायः ॥
-
-
-
-
-
- य एकोऽवर्णो बहुधा शक्तियोगाद्वर्णाननेकान्निहितार्थो दधाति ।
- विचैति चान्ते विश्वमादौ च देवः स नो बुद्ध्या शुभया संयुनक्तु ॥ १ ॥
-
-
-
-
-
- तदेवाग्निस्तदादित्यस्तद्वायुस्तदु चन्द्रमाः ।
- तदेव शुक्रं तद्ब्रह्म तदापस्तत्प्रजापतिः ॥ २ ॥
-
-
-
-
-
- त्वं स्त्री पुमानसि त्वं कुमार उत वा कुमारी ।
- त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः ॥ ३ ॥
-
-
-
-
-
- नीलः पतङ्गो हरितो लोहिताक्षस्तडिद्गर्भ ऋतवः समुद्राः ।
- अनादिमत्त्वं विभुत्वेन वर्तसे यतो जातानि भुवनानि विश्वा ॥ ४ ॥
-
-
-
-
-
- अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः ।
- अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः ॥ ५ ॥
-
-
-
-
-
- द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।
- तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्योऽभिचाकशीति ॥ ६ ॥
-
-
-
-
-
- समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः ।
- जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः ॥ ७ ॥
-
-
-
-
-
- ऋचो अक्षरे परमे व्योमन्यस्मिन्देवा अधि विश्वे निषेदुः ।
- यस्तं न वेद किमृचा करिष्यति य इत्तद्विदुस्त इमे समासते ॥ ८ ॥
-
-
-
-
-
- छन्दांसि यज्ञाः क्रतवो व्रतानि भूतं भव्यं यच्च वेदा वदन्ति ।
- अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया सन्निरुद्धः ॥ ९ ॥
-
-
-
-
-
- मायां तु प्रकृतिं विद्यान्मायिनं च महेश्वरम् ।
- तस्यवयवभूतैस्तु व्याप्तं सर्वमिदं जगत् ॥ १० ॥
-
-
-
-
-
- यो योनिं योनिमधितिष्ठत्येको यस्मिन्निदं सं च विचैति सर्वम् ।
- तमीशानं वरदं देवमीड्यं निचाय्येमां शान्तिमत्यन्तमेति ॥ ११ ॥
-
-
-
-
-
- यो देवानां प्रभवश्चोद्भवश्च विश्वाधिपो रुद्रो महर्षिः ।
- हिरण्यगर्भं पश्यत जायमानं स नो बुद्ध्या शुभया संयुनक्तु ॥ १२ ॥
-
-
-
-
-
- यो देवानामधिपो यस्मिन्ल्लोका अधिश्रिताः ।
- य ईशेऽस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम ॥ १३ ॥
-
-
-
-
-
- सूक्ष्मातिसूक्ष्मं कलिलस्य मध्ये विश्वस्य स्रष्टारमनेकरूपम् ।
- विश्वस्यैकं परिवेष्टितारं ज्ञात्वा शिवं शान्तिमत्यन्तमेति ॥ १४ ॥
-
-
-
-
-
- स एव काले भुवनस्य गोप्ता विश्वाधिपः सर्वभूतेषु गूढः ।
- यस्मिन्युक्ता ब्रह्मर्षयो देवताश्च तमेवं ज्ञात्वा मृत्युपाशांश्छिनत्ति ॥ १५ ॥
-
-
-
-
-
- घृतात्परं मण्डमिवातिसूक्ष्मं ज्ञात्वा शिवं सर्वभूतेषु गूढम् ।
- विश्वस्यैकं परिवेष्टितारं ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ १६ ॥
-
-
-
-
-
- एष देवो विश्वकर्मा महात्मा सदा जनानां हृदये सन्निविष्टः ।
- हृदा मनीषा मनसाभिक्लृप्तो य एतद् विदुरमृतास्ते भवन्ति ॥ १७ ॥
-
-
-
-
-
- यदाऽतमस्तन्न दिवा न रात्रिर्न सन्नचासच्छिव एव केवलः ।
- तदक्षरं तत्सवितुर्वरेण्यं प्रज्ञा च तस्मात्प्रसृता पुराणी ॥ १८ ॥
-
-
-
-
-
- नैनमूर्ध्वं न तिर्यञ्चं न मध्ये न परिजग्रभत् ।
- न तस्य प्रतिमा अस्ति यस्य नाम महद्यशः ॥ १९ ॥
-
-
-
-
-
- न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् ।
- हृदा हृदिस्थं मनसा य एनमेवं विदुरमृतास्ते भवन्ति ॥ २० ॥
-
-
-
-
-
- अजात इत्येवं कश्चिद्भीरुः प्रपद्यते ।
- रुद्र यत्ते दक्षिणं मुखं तेन मां पाहि नित्यम् ॥ २१ ॥
-
-
-
-
-
- मा नस्तोके तनये मा न आयुषि मा नो गोषु मा न अश्वेषु रीरिषः ।
- वीरान् मा नो रुद्र भामितोऽवधीर्हविष्मन्तः सदामित्त्वा हवामहे ॥ २२ ॥
-
-
-
-
-
- ॥ पञ्चमोऽध्यायः ॥
-
-
-
-
-
- द्वे अक्षरे ब्रह्मपरे त्वनन्ते विद्याविद्ये निहिते यत्र गूढे ।
- क्षरं त्वविद्यां ह्यमृतं तु विद्या विद्याविद्ये ईशते यस्तु सोऽन्यः ॥ १ ॥
-
-
-
-
-
- यो योनिं योनिमधितिष्ठत्येको विश्वानि रूपाणि योनीश्च सर्वाः ।
- ऋषिं प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्बिभर्ति जायमानं च पश्येत् ॥ २ ॥
-
-
-
-
-
- एकैकं जालं बहुधा विकुर्वन्नस्मिन्क्षेत्रे संहरत्येष देवः ।
- भूयः सृष्ट्वा पतयस्तथेशः सर्वाधिपत्यं कुरुते महात्मा ॥ ३ ॥
-
-
-
-
-
- सर्वा दिश ऊर्ध्वमधश्च तिर्यक्प्रकाशयन्भ्राजते यद्वनड्वान् ।
- एवं स देवो भगवान्वरेण्यो योनिस्वभावानधितिष्ठत्येकः ॥ ४ ॥
-
-
-
-
-
- यच्च स्वभावं पचति विश्वयोनिः पाच्यांश्च सर्वान् परिणामयेद्यः ।
- सर्वमेतद्विश्वमधितिष्ठत्येको गुणांश्च सर्वान्विनियोजयेद्यः ॥ ५ ॥
-
-
-
-
-
- तद्वेदगुह्योपनिषत्सु गूढं तद्ब्रह्मा वेदते ब्रह्मयोनिम् ।
- ये पूर्वं देवा ऋषयश्च तद्विदुस्ते तन्मया अमृता वै बभूवुः ॥ ६ ॥
-
-
-
-
-
- गुणान्वयो यः फलकर्मकर्ता कृतस्य तस्यैव स चोपभोक्ता ।
- स विश्वरूपस्त्रिगुणस्त्रिवर्त्मा प्राणाधिपः सञ्चरति स्वकर्मभिः ॥ ७ ॥
-
-
-
-
-
- अङ्गुष्ठमात्रो रवितुल्यरूपः सङ्कल्पाहङ्कारसमन्वितो यः ।
- बुद्धेर्गुणेनात्मगुणेन चैव आराग्रमात्रोऽप्यपरोऽपि दृष्टः ॥ ८ ॥
-
-
-
-
-
- बालाग्रशतभागस्य शतधा कल्पितस्य च ।
- भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते ॥ ९ ॥
-
-
-
-
-
- नैव स्त्री न पुमानेष न चैवायं नपुंसकः ।
- यद्यच्छरीरमादत्ते तेने तेने स युज्यते ॥ १० ॥
-
-
-
-
-
- सङ्कल्पनस्पर्शनदृष्टिमोहैर्ग्रासांबुवृष्ट्यात्मविवृद्धिजन्म ।
- कर्मानुगान्यनुक्रमेण देही स्थानेषु रूपाण्यभिसम्प्रपद्यते ॥ ११ ॥
-
-
-
-
-
- स्थूलानि सूक्ष्माणि बहूनि चैव रूपाणि देही स्वगुणैर्वृणोति ।
- क्रियागुणैरात्मगुणैश्च तेषां संयोगहेतुरपरोऽपि दृष्टः ॥ १२ ॥
-
-
-
-
-
- अनाद्यनन्तं कलिलस्य मध्ये विश्वस्य स्रष्टारमनेकरूपम् ।
- विश्वस्यैकं परिवेष्टितारं ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ १३ ॥
-
-
-
-
-
- भावग्राह्यमनीडाख्यं भावाभावकरं शिवम् ।
- कलासर्गकरं देवं ये विदुस्ते जहुस्तनुम् ॥ १४ ॥
-
-
-
-
-
- ॥ षष्ठोऽध्यायः ॥
-
-
-
-
-
- स्वभावमेके कवयो वदन्ति कालं तथान्ये परिमुह्यमानाः ।
- देवस्यैष महिमा तु लोके येनेदं भ्राम्यते ब्रह्मचक्रम् ॥ १ ॥
-
-
-
-
-
- येनावृतं नित्यमिदं हि सर्वं ज्ञः कालकारो गुणी सर्वविद्यः ।
- तेनेशितं कर्म विवर्तते ह पृथिव्यप्तेजोनिलखानि चिन्त्यम् ॥ २ ॥
-
-
-
-
-
- तत्कर्म कृत्वा विनिवर्त्य भूयस्तत्त्वस्य तत्त्वेन समेत्य योगम् ।
- एकेन द्वाभ्यां त्रिभिरष्टभिर्वा कालेन चैवात्मगुणैश्च सूक्ष्मैः ॥ ३ ॥
-
-
-
-
-
- आरभ्य कर्माणि गुणान्वितानि भावांश्च सर्वान् विनियोजयेद्यः ।
- तेषामभावे कृतकर्मनाशः कर्मक्षये याति स तत्त्वतोऽन्यः ॥ ४ ॥
-
-
-
-
-
- आदिः स संयोगनिमित्तहेतुः परस्त्रिकालादकलोऽपि दृष्टः ।
- तं विश्वरूपं भवभूतमीड्यं देवं स्वचित्तस्थमुपास्य पूर्वम् ॥ ५ ॥
-
-
-
-
-
- स वृक्षकालाकृतिभिः परोऽन्यो यस्मात्प्रपञ्चः परिवर्ततेऽयम् ।
- धर्मावहं पापनुदं भगेशं ज्ञात्वात्मस्थममृतं विश्वधाम ॥ ६ ॥
-
-
-
-
-
- तमीश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम् ।
- पतिं पतीनां परमं परस्ताद्विदाम देवं भुवनेशमीड्यम् ॥ ७ ॥
-
-
-
-
-
- न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते ।
- परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च ॥ ८ ॥
-
-
-
-
-
- न तस्य कश्चित्पतिरस्ति लोके न चेशिता नैव च तस्य लिङ्गम् ।
- स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः ॥ ९ ॥
-
-
-
-
-
- यस्तन्तुनाभ इव तन्तुभिः प्रधानजैः स्वभावतः ।
- देव एकः स्वमावृणोति स नो दधातु ब्रह्माप्ययम् ॥ १० ॥
-
-
-
-
-
- एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा ।
- कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च ॥ ११ ॥
-
-
-
-
-
- एको वशी निष्क्रियाणां बहूनामेकं बीजं बहुधा यः करोति ।
- तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम् ॥ १२ ॥
-
-
-
-
-
- नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् ।
- तत्कारणं सांख्ययोगाधिगम्यं ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ १३ ॥
-
-
-
-
-
- न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः ।
- तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ १४ ॥
-
-
-
-
-
- एको हंसः भुवनस्यास्य मध्ये स एवाग्निः सलिले संनिविष्टः ।
- तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय ॥ १५ ॥
-
-
-
-
-
- स विश्वकृद् विश्वविदात्मयोनिर्ज्ञः कालकालो गुणी सर्वविद्यः ।
- प्रधानक्षेत्रज्ञपतिर्गुणेशः संसारमोक्षस्थितिबन्धहेतुः ॥ १६ ॥
-
-
-
-
-
- स तन्मयो ह्यमृत ईशसंस्थो ज्ञः सर्वगो भुवनस्यास्य गोप्ता ।
- य ईशेऽस्य जगतो नित्यमेव नान्यो हेतुर्विद्यत ईशनाय ॥ १७ ॥
-
-
-
-
-
- यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै ।
- तं ह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये ॥ १८ ॥
-
-
-
-
-
- निष्कलं निष्क्रियंशान्तं निरवद्यं निरञ्जनम् ।
- अमृतस्य परंसेतुं दग्धेन्दनमिवानलम् ॥ १९ ॥
-
-
-
-
-
- यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः ।
- तदा देवमविज्ञाय दुःखस्यान्तो भविष्यति ॥ २० ॥
-
-
-
-
-
- तपःप्रभावाद् देवप्रसादाच्च ब्रह्म ह श्वेताश्वतरोऽथ विद्वान् ।
- अत्याश्रमिभ्यः परमं पवित्रं प्रोवाच सम्यगृषिसङ्घजुष्टम् ॥ २१ ॥
-
-
-
-
-
- वेदान्ते परमं गुह्यं पुराकल्पे प्रचोदितम् ।
- नाप्रशान्ताय दातव्यं नापुत्रायाशिष्याय वा पुनः ॥ २२ ॥
-
-
-
-
-
- यस्य देवे परा भक्तिः यथा देवे तथा गुरौ ।
- तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ २३ ॥
- प्रकाशन्ते महात्मन इति ।
-
-
-
-
-
- ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु मा विद्विषावहै ॥
- ॐ शान्तिः शान्तिः शान्तिः ॥
- ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु मा विद्विषावहै ॥
-
-
-
-
-
-
-
- ॥ इति श्वेताश्वतरोपनिषत्समाप्ता ॥
-
-
-
-