विष्णुपुराणम्/षष्टांशः/अध्यायः ८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८

श्रीपराशर उवाच
इत्येष कथितस्सम्यक्तृतीयः प्रतिसंचरः
आत्यंतिको विमुक्तिर्या लयो ब्रह्मणि शाश्वते १
सर्गश्च प्रतिसर्गश्च वंशमन्वंतराणि च
वंशानुचरितं चैव भवतो गदितं मया २
पुराणं वैष्णवं चैतत्सर्वकिल्बिषनाशनम्
विशिष्टं सर्वशास्त्रेभ्यः पुरुषार्थोपपादकम् ३
तुभ्यं यथावन्मैत्रेय प्रोक्तं शुश्रूषवेऽव्ययम्
यदन्यदपि वक्तव्यं तत्पृच्छाद्य वदामि ते ४
मैत्रेय उवाच
भगवन्कथितं सर्वं यत्पृष्टोसि मया मुने
श्रुतं चैतन्मया भक्त्या नान्यत्प्रष्टव्यमस्ति मे ५
विच्छिन्नास्सर्वसंदेहा वैमल्यं मनसः कृतम्
त्वत्प्रसादान्मया ज्ञाता उत्पत्तिस्थितिसंक्षयाः ६
ज्ञातश्च त्रिविधो राशिश्शक्तिश्च त्रिविधा गुरो
विज्ञाता सा च कार्त्स्न्येन त्रिविधा भावभावना ७
त्वत्प्रसादान्मया ज्ञातं ज्ञेयमन्यैरलं द्विज
यदेतदखिलं विष्णोर्जगन्न व्यतिरिच्यते ८
कृतार्थोहमसंदेहस्त्वत्प्रसादान्महामुने
वर्णधर्मादयो धर्मा विदिता यदश्षोतः ९
प्रवृत्तं च निवृत्तं च ज्ञानं कर्ममयाखिलम्
प्रसीद विप्रप्रवर नान्यत्प्रष्टव्यमस्ति मे १०
यदस्य कथनायासैर्योजितोऽसि मया गुरो
तत्क्षम्यतां विश्षोओ!स्ति न सतां पुत्रशिष्ययोः ११
श्रीपराशर उवाच
एतत्ते यन्मयाख्यातं पुराणं वेदसंमतम्
श्रुतेऽस्मिन्सर्वदोषोत्थः पापराशिः प्रणश्यति १२
सर्गश्च प्रतिसर्गश्च वंशमन्वंतराणि च
वंशानुचरितं कृत्स्नं मयाऽत्र तव कीर्त्तितम् १३
अत्र देवास्तथा दैत्या गंधर्वोरगराक्षसाः
यक्षविद्याधरास्सिद्धाः कथ्यंतेऽप्सरसस्तथा १४
मुनयो भावितात्मानः कथ्यंते तपसान्विताः
चातुर्वण्यं तथा पुंसां विशिष्टचरितानि च १५
पुण्याः प्रदेशा मेदिन्याः पुण्या नद्योऽथ सागराः
पर्वताश्च महापुण्याश्चरितानि च धीमताम् १६
वर्णधर्मादयो धर्मा वेदशास्त्राणि कृत्स्नशः
येषां संस्मरणात्सद्यस्सर्वपापैः प्रमुच्यते १७
उत्पत्तिस्थितिनाशानां हेतुर्यो जगतोऽव्ययः
स सर्वभूतस्सर्वात्मा कथ्यते भगवान्हरिः १८
अवश्नोआ!पि यन्नाम्नि कीर्त्तिते सर्वपातकैः
पुमान्विमुच्यते सद्यस्सिंहत्रस्तैर्मृगैरिव १९
यन्नामकीर्त्तनं भक्त्या विलायनमनुत्तमम्
मैत्रेयाशेषपापानां धातूनामिव पावकः २०
कलिकल्मषमत्युग्रं नरकार्त्तिप्रदं नृणाम्
प्रयाति विलयं सद्यस्सकृद्यत्र च संस्मृते २१
हिरण्यगर्भदेवेंद्र रुद्रा दित्याश्विवायुभिः
पावकैर्वसुभिस्साध्यैर्विश्वेदेवादिभिस्सुरैः २२
यक्षरक्षोरगैस्सिद्धैर्दैत्यगंधर्वदानवैः
अप्सरोभिस्तथा तारानक्षत्रैस्सकलैर्ग्रहैः २३
सप्तर्षिभिस्तथा धिष्ण्यैर्धिष्ण्याधिपतिभिस्तथा
ब्रह्मणाद्यैर्मनुष्यैश्च तथैव पशुभिर्मृगैः २४
सरीसृपैर्विहंगैश्च पलाशाद्यैर्महीरुहैः
वनाग्निसागरसरित्पातालैस्ससुराग्निभिः २५
शब्दादिभिश्च सहितं ब्रह्मांडमखिलं द्विज
मेरोरिवाणुर्यस्यैतद्यन्मयं च द्विजोत्तम २६
स सर्वः सर्ववित्सर्वस्वरूपो रूपवर्जितः
भगवान्कीर्त्तितो विष्णुरत्र पापप्रणाशनः २७
यदश्वमेधावभृथे स्नातः प्राप्नोति वै फलम्
मानवस्तदवाप्नोति श्रुत्वैतन्मुनिसत्तम २८
प्रयागे पुष्करे चैव कुरुक्षेत्रे तथाऽर्णवे
कृतोपवासः प्राप्नोति तदस्य श्रवणान्नरः २९
यदग्निहोत्रे सुहुते वर्षेणाप्नोति मानवः
महापुण्यफलं विप्र तदस्य श्रवणात्सकृत् ३०
यज्ज्येष्ठशुक्लद्वादश्यां स्नात्वा वै यमुनाजले
मथुरायां हरिं दृष्ट्वा प्राप्नोति पुरुषः फलम् ३१
तदाप्नोत्यखिलं सम्यगध्यायं यश्शृणोति वै
पुराणस्यास्य विप्रर्षे केशवार्पितमानसः ३२
यमुनासलिलस्नातः पुरुषो मुनिसत्तम
ज्येष्ठामूले सिते पक्षे द्वादश्यां समुपोषितः ३३
समभ्यर्च्याच्युतं सम्यङ् मथुरायां समाहितः
अश्वमेधस्य यज्ञस्य प्राप्नोत्यविकलं फलम् ३४
आलोक्यर्द्धिमथान्येषामुन्नीतानां स्ववंशजैः
एतत्किलोचुरप्येषां पितरः सपितामहाः ३५
कच्चिदस्मत्कुले जातः कालिंदीसलिलाप्लुतः
अर्चयिष्यति गोविंदं मथुरायामुपोषितः ३६
ज्येष्ठामूले सिते पक्षे केनैवं वयमप्युत
परामृद्धिमवाप्स्यामस्तारितास्स्वकुलोद्भवैः ३७
ज्येष्ठामूले सिते पक्षे समभ्यर्च्य जनार्दनम्
धन्यानां कुलजः पिंडान्यमुनायां प्रदास्यति ३८
तस्मिन्काले समभ्यर्च्य तत्र कृष्णं समाहितः
दत्त्वा पिंडं पितृभ्यश्च यमुनासलिलाप्लुतः ३९
यदाप्नोति नरः पुण्यं तारयन्स्वपितामहान्
श्रुत्वाध्यायं तदाप्नोति पुराणस्यास्य शक्तितः ४०
एतत्संसारभीरूणां परित्राणमनुत्तमम्
श्राव्याणां परमं श्राव्यं पवित्राणामनुत्तमम् ४१
दुःस्वप्ननाशनं नॄणां सर्वदुष्टनिबर्हणम्
मंगलं मंगलानां च पुत्रसंपत्प्रदायकम् ४२
इदमार्षं पुरा प्राह ऋभवे कमलोद्भवः
ऋभुः प्रियव्रतायाह स च भागुरयेऽब्रवीत् ४३
भागुरिस्तंभमित्राय दधीचाय स चोक्तवान्
सारस्वताय तेनोक्तं भृगुस्सारस्वतेन च ४४
भृगुणा पुरुकुत्साय नर्मदायै स चोक्तवान्
नर्मदा धृतराष्ट्राय नागायापूरणाय च ४५
ताभ्यां च नागराजाय प्रोक्तं वासुकये द्विज
वासुकिः प्राह वत्साय वत्सश्चाश्वतराय वै ४६
कंबलाय च तेनोक्तमेलापुत्राय तेन वै ४७
पातालं समनुप्राप्तः ततो वेदशिरा मुनिः
प्राप्तवानेतदखिलं स च प्रमतये ददौ ४८
दत्तं प्रमतिना चैतज्जातुकर्णाय धीमते
जातुकर्णेन चैवोक्तमन्येषां पुण्यकर्मणाम् ४९
पुलस्त्यवरदानेन ममाप्येतत्स्मृतिं गतम्
मयापि तूभ्यं मैत्रेय यथावत्कथितं त्विदम् ५०
त्वमप्येतच्छिनीकाय कलेरंते वदिष्यसि ५१
इत्येतत्परमं गुह्यं कलिकल्मषनाशनम्
यश्शृणोति नरो भक्त्या सर्वपापैः प्रमुच्यते ५२
समस्ततीर्थस्नानानि समस्तामरसंस्तुतिः
कृता तेन भवेदेतद्यश्शृणोति दिनेदिते ५३
कपिलादानजनितं पुण्यमत्यंतदुर्लभम्
श्रुत्वैतस्य दशाध्यायानवाप्नोति न संशयः ५४
यस्त्वेतत्सकलं शृणोति पुरुषः कृत्वा मनस्यच्युतं सर्वं सर्वमयं समस्तजगतामाधारमात्माश्रयम्
ज्ञानज्ञेयमनादिमंतरहितं सर्वामराणां हितं स प्राप्नोति न संशयोस्त्यविकलं यद्वाजिमेधे फलम् ५५
यत्रादौ भगवांश्चराचरगुरुर्मध्ये तथांते च स ब्रह्मज्ञानमयोऽच्युतोऽखिलजगन्मध्यांतसर्गप्रभुः ।
ततसर्वं पुरुषः पवित्रममलं शृण्वन्पठन्वाचयन्प्राप्नोत्यस्ति न तत्फलं त्रिभुवनेष्वेकांतसिद्धिर्हरिः ५६
यस्मिन्न्यस्तमनिर्न याति नरकं स्वर्गोऽपि यच्चिंतने विघ्नो यत्र निवेशितात्ममनसो ब्राह्मोऽपि लोकोऽल्पकः ।
मुक्तिं चेतसि यस्स्थितो मलधियां पुंसां ददात्यव्ययः किं चित्रं यदघं प्रयाति विलयं तत्राच्युते कीर्त्तिते ५७
यज्ञैर्यज्ञविदो यजंति सततं यज्ञेश्वरं कर्मिणो यं वै ब्रह्ममयं परावरमयं ध्यायंति च ज्ञानिनः ।
यं संचित्य न जायते न म्रियते नो वर्द्धते हीयते नैवासन्न च सद्भवत्यति ततः किं वा हरेश्श्रूयताम् ५८
कव्यं यः पितृरूपधृग्विधिहुतं हव्यं च भुंक्ते विभुर्देवत्वे भगवाननादिनिधनस्स्वाहास्वधासंज्ञिते ।
यस्मिन्ब्रह्मणि सर्वशक्तिनिलये मानानि नो मानिनां विष्ठायै प्रभवंति हंति कलुषं श्रोत्रं स यातो हरिः ५९
नांतोस्ति यस्य न च यस्य समुद्भवोऽस्ति वृद्धिर्न यस्य परिणामविवर्जितस्य ।
नापक्षयं च समुपैत्यविकारि वस्तु यस्तं नतोस्मि पुरुषोत्तममीशमीड्यम् ६०
तस्यैव योनु गुमभुग्बहुधैक एव शुद्धोप्यशुद्ध इव भाति हि मूर्त्तिभेदैः ।
ज्ञानान्वितस्सकलसत्त्वविभूतिकर्त्ता तस्मै नमोस्तु पुरुषाय सदाव्ययाय ६१
ज्ञानप्रवृत्तिनियमैक्यमयाय पुंसो भोगप्रदानपटवे त्रिगुणात्मकाय ।
अव्याकृताय भवभावनकारणाय वंदे स्वरूपभवनाय सदाऽजराय ६२
व्योमानिलाग्निजलभूरचनामयाय शब्दादिभोग्यविषयोपनयक्षमाय ।
पुंसस्समस्तकरणैरुपकारकाय व्यक्ताय सूक्ष्मबृहदात्मवते नतोस्मि ६३
इति विविधमजस्य यस्य रूपं प्रकृतिपरात्ममयं सनातनस्य ।
प्रदिशतु भगवानश्षोपुंसां हरिरपजन्मजरादिकां सिद्धिम् ६४
इति श्रीविष्णुमहापुराणे षष्ठांशो!ऽष्टमोऽध्यायः ८