विष्णुपुराणम्/षष्टांशः/अध्यायः ७

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८


केशिध्वज उवाच
न प्रार्थितं त्वया कस्मादस्मद्रा ज्यमकंटकम्
राज्यलाभाद्विना नान्यत्क्षत्त्रियाणामतिप्रियम् १
खांडिक्य उवाच
केशिध्वज निबोध त्वं मया न प्रार्थितं यतः
राज्यमेतदश्षॐ ते यत्र गृध्नंत्यपंडिताः २
क्षत्त्रियाणामयं धर्मो यत्प्रजापरिपालनम्
वधश्च धर्मयुद्धेन स्वराज्यपरिपंथिनाम् ३
तत्राशक्तस्य मे दोषो नैवास्त्यपहृते त्वया
बंधायैव भवत्येषा ह्यविद्याप्यक्रमोज्झिता ४
अल्पोमोपभोगलिप्सार्थमियं राज्यस्पृहा मम
अन्येषां दोषज सैव धर्मं वै नानुरुध्यते ५
न याच्ञा क्षत्त्रबंधूनां धर्मयैतत्सतां मतम्
अतो न याचितं राज्यमविद्यांतर्गतं तव ६
राज्ये गृध्नंत्यविद्वांसो ममत्वाहृतचेतसः
अहंमानमहापानमदमत्ता न मादृशाः ७
श्रीपराशर उवाच
प्रहृष्टस्साध्विति ततः प्राह केशिध्वजो नृपः
खांडिक्यजनकं प्रीत्या श्रूयतां वचनं मम ८
केशिध्वज उवाच
अहं ह्यविद्यया मृत्युं तर्तुकामः करोमि वै
राज्यं यागांश्च विविधान्योगैः पुण्यक्षयं तथा ९
तदिदं ते मनो दिष्ट्या विवेकैश्वर्यतां गतम्
तच्छ्रूयतामविद्यायास्स्वरूपं कुलनंदन १०
अनात्मन्यात्मबुद्धिर्या चास्वे स्वमिति या मतिः
संसारतरुसंभूतिबीजमेतद्द्विधा स्थितम् ११
पंचभूतात्मके देहे देही मोहतमोवृतः
अहं ममैतदित्युच्चैः कुरुते कुमतिर्मतिम् १२
आकाशवाय्वग्निजलपृथिवीभ्यः पृथक् स्थिते
आत्मन्यात्ममयं भावं कः करोति कलेवरे १३
कलेवरोपभोग्यं हि गृहक्षेत्रादिकं च कः
अदेहे ह्यात्मनि प्राज्ञे ममेदमिति मन्यते १४
इत्थं च पुत्त्रपौत्त्रेषु तद्देहोत्पादितेषु कः
करोति पंडितस्स्वाम्यमनात्मनि कलेवरे १५
सर्वं देहोपभोगाय कुरुते कर्म मानवः
देहश्चान्यो यदा पुंसस्तदा बंधाय तत्परम् १६
मृण्मयं हि यथा गेहं लिप्यते वै मृदंभसा
पार्थिवोऽयं तथा देहो मृदंब्वालेपनस्थितः १७
पंचभूतात्मकैर्भोगैः पंचभूतात्मकं वपुः
आप्यायते यदि ततः पुंसो भोगोऽत्र किं कृतः १८
अनेकजन्मसाहस्रीं संसारपदवीं व्रजन्
मोहश्रमं प्रयातोऽसौ वासनारेणुकुंठितः १९
प्रक्षाल्यते यदा सोस्य रेणुज्ञानोष्णवारिणा
तदा संसारपांथस्य याति मोहश्रमश्शमम् २०
मोहश्रमे शमं याते स्वस्थांतःकरणः पुमान्
अनन्यातिशयाबाधं परं निर्वाणमृच्छति २१
निर्वाणमय एवायमात्मा ज्ञानमयोऽमलः
दुःखाज्ञानमया धर्माः प्रकृतेस्ते तु नात्मनः २२
जलस्य नाग्निसंसर्गस्थालीसंगात्तथापि हि
शब्दोद्रेकादिकान्धर्मांस्तत्करोति यथा नृप २३
तथात्मा प्रकृतेस्संगादहंमानादिदूषितः
भजते प्राकृतान्धर्मानन्यस्तेभ्यो हि सोऽव्ययः २४
तदेतत्कथितं बीजमविद्याया मया तव
क्लेशानां च क्षयकरं योगादन्यन्न विद्यते २५
खांडिक्य उवाच
तं ब्रवीहि महाभाग योगं योगविदुत्तम
विज्ञातयोगशास्त्रार्थस्त्वमस्यां निमिसंततौ २६
केशिध्वज उवाच
योगस्वरूपं खांडिक्य श्रूयतां गदतो मम
यत्र स्थितो न च्यवते प्राप्य ब्रह्मलयं मुनिः २७
मन एव मनुष्याणां कारणं बंधमोक्षयोः
बंधाय विषयासंगि मुक्त्यै निर्विषयं मनः २८
विषयेभ्यस्समाहृत्य विज्ञानात्मामनो मुनिः
चिंतयेन्मुक्तये तेन ब्रह्मभूतं परेश्वरम् २९
आत्मभावं नयत्येनं तद्ब्रह्म ध्यायिनं मुनिम्
विकार्यमात्मनश्शक्त्या लोहमाकर्षको यथा ३०
आत्मप्रयत्नसापेक्षा विशिष्टा या मनोगतिः
तस्या ब्रह्मणि संयोगो योग इत्यभिधीयते ३१
एवमत्यंतवैशिष्ट्ययुक्तधर्मोपलक्षणः
यस्य योगस्स वै योगी मुमुक्षुरभिधीयते ३२
योगयुक्प्रथमं योगी युंजानो ह्यभिधीयते
विनिष्पन्नसमाधिस्तु परं ब्रह्मोपलब्धिमान् ३३
यद्यंतरायदोषेण दूष्यते चास्य मानसम्
जन्मांतरैरभ्यसतो मुक्तिः पूर्वस्य जायते ३४
विनिष्पन्नसमाधिस्तु मुक्तिं तत्रैव जन्मनि
प्राप्नोति योगी योगाग्निदग्धकर्मचयोऽचिरात् ३५
ब्रह्मचर्यमहिंसां च सत्यास्तेयापरिग्रहान्
सेवेत योगी निष्कामो योग्यतां स्वमनो नयन् ३६
स्वाध्यायशौचसंतोषतपांसि नियतात्मवान्
कुर्वीत ब्रह्मणि तथा परस्मिन्प्रवणं मनः ३७
एते यमास्सनियमाः पंच पंच च कीर्त्तिताः
विशिष्टफलदाः काम्या निष्कामानां विमुक्तिदाः ३८
एकं भद्रा सनादीनां समास्थाय गुणैर्युतः
यमाख्यैर्नियमाख्यैश्च युंजीत नियतो यतिः ३९
प्राणाख्यमनिलं वश्यमभ्यासात्कुरुते तु यत्
प्राणायामस्स विज्ञेयस्सबीजोऽबीज एव च ४०
परस्परेणाभिभवं प्राणापानौ यथानिलौ
कुरुतस्सद्विधानेन तृतीयस्संयमात्तयोः ४१
तस्य चालंबनवतः स्थूलरूपं द्विजोत्तम
आलंबनमनंतस्य योगिनोऽभ्यसतः स्मृतम् ४२
शब्दादिष्वनुरक्तानि निगृह्याक्षाणि योगवित्
कुर्याच्चित्तानुकारीणि प्रत्याहारपरायणः ४३
वश्यता परमा तेन जायतेति चलात्मनाम्
इन्द्रि याणामवश्यैस्तैर्न योगी योगसाधकः ४४
प्राणयामेन पवने प्रत्याहारेण चेंद्रि ये
वशीकृते ततः कुर्यात्स्थितं चेतश्शुभाश्रये ४५
खाडिक्य उवाच
कथ्यतां मे महाभाग चेतसो यश्शुभाश्रयः
यदाधारमश्षॐ तद्धंति दोषमलोद्भवम् ४६
केशिध्वज उवाच
आश्रयश्चेतसो ब्रह्म द्विधा तच्च स्वभावतः
भूप मूर्त्तममूर्त्तं च परं चापरमेव च ४७
त्रिविधा भावना भूप विश्वमेतन्निबोधताम्
ब्रह्माख्या कर्मसंज्ञा च तथा चैवोभयात्मिका ४८
कर्मभावात्मिका ह्येका ब्रह्मभावात्मिका परा
उभयात्मिका तथैवान्या त्रिविधा भावभावना ४९
सनंदनादयो ये तु ब्रह्मभावनया युताः
कर्मभावनया चान्ये देवाद्याः स्थावरावराः ५०
हिरण्यगर्भादिषु च ब्रह्मकर्मात्मिका द्विधा
बोधाधिकारयुक्तेषु विद्यते भावभावना ५१
अक्षीणेषु समस्तेषु विशेषज्ञानकर्मसु
विश्वमेतत्परं चान्यद्भेदभिन्नदृशां नृणाम् ५२
प्रत्यस्तमितभेदं यत्सत्तामात्रमगोचरम्
वचसामात्मसंवेद्यं तज्ज्ञानं ब्रह्मसंज्ञितम् ५३
तच्च विष्णोः परं रूपमरूपाख्यमनुत्तमम्
विश्वस्वरूपवैरूप्यलक्षणं परमात्मनः ५४
न तद्योगयुजा शक्यं नृप चिंतयितुं यतः
ततस्स्थूलं हरे रूपं चिंतयेद्विश्वगोचरम् ५५
हिरण्यगर्भो भगवान्वासुदेवः प्रजापतिः
मरुतो वसवो रुद्रा भास्करास्तारका ग्रहाः ५६
गंधर्वयक्षदैत्याद्यस्सकला देवयोनयः
मनुष्याः पशवश्शैलास्समुद्रा स्सरितो द्रु माः ५७
भूप भूतान्यशेषाणि भूतानां ये च हेतवः
प्रधानादिविशेषांतं चेतनाचेतनात्मकम् ५८
एकपादं द्विपादं च बहुपादमपादकम्
मूर्त्तमेतद्धरे रूपं भावनात्रितयात्मकम् ५९
एतत्सर्वमिदं विश्वं जगदेतच्चराचरम्
परब्रह्मस्वरूपस्य विष्णोश्शक्तिसमन्वितम् ६०
विष्णुशक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथाऽपरा
अविद्याकर्मसंज्ञान्या तृतीया शक्तिरिष्यते ६१
यया क्षेत्रज्ञशक्तिस्सा वेष्टिता नृपसर्वगा
संसारतापानखिलानवाप्नोत्यतिसंततान् ६२
तया तिरोहितत्वाच्च शक्तिः क्षेत्रज्ञसंज्ञिता
सर्वभूतेषु भूपाल तारतम्येन लक्ष्यते ६३
अप्राणवत्सुस्वल्पा सा स्थावरेषु ततोऽधिका
सरीसृपेषु तेभ्योपि ह्यतिशक्त्या पतत्त्रिषु ६४
पतत्त्रिभ्यो मृगास्तेभ्यस्तच्छक्त्या पशवोऽधिकाः
पशुभ्यो मनुजाश्चातिशक्त्या पुंसः प्रभाविताः ६५
तेभ्योपि नागगंधर्वयक्षाद्या देवता नृप ६६
शक्रस्समस्तदेवेभ्यस्ततश्चातिप्रजापतिः
हिरण्यगर्भोऽपि ततः पुंसश्शक्त्युपलक्षितः ६७
एतान्यशेषरूपाणि तस्य रूपाणि पार्थिव
यतस्तच्छक्तियोगेन युक्तानि नभसा यथा ६८
द्वितीयं विष्णुसंज्ञस्य योगिध्येयं महामते
अमूर्त्तं ब्रह्मणो रूपं यत्सदित्युच्यते बुधैः ६९
समस्ताश्शक्तयश्चैता नृप यत्र प्रतिष्ठिताः
तद्विश्वरूप्यं रूपमन्यद्धरेर्महत् ७०
समस्तशक्तिरूपाणि तत्करोति जनेश्वर
देवतिर्यङ्मनुष्यादिचेष्टावंति स्वलीलया ७१
जगतामुपकाराय न सा कर्मनिमित्तजा
चेष्टा तस्याप्रमेयस्य व्यापिन्यव्याहतात्मिका ७२
तद्रूपं विश्वरूपस्य तस्य योगयुजा नृप
चिंत्यमात्मविशुद्ध्यर्थं सर्वकिल्बिषनाशनम् ७३
यथाग्निरुद्धतशिखः कक्षं दहति सानिलः
तथा चित्तस्थितो विष्णुर्योगिनां सर्वकिल्बिषम् ७४
तस्मात्समस्तशक्तीनामाधारे तत्र चेतसः
कुर्वीत संस्थितिं सा तु विज्ञेया शुद्धधारणा ७५
शुभाश्रयस्य चित्तस्य सर्वगस्याचलात्मनः
त्रिभावभावनातीतो मुक्तये योगिनो नृप ७६
अन्ये तु पुरुषव्याघ्र चेतसो ये व्यपाश्रयाः
अशुद्धास्ते समस्तास्तु देवाद्याः कर्मयोनयः ७७
मूर्त्तं भगवतो रूपं सर्वापाश्रयनिस्पृहम्
एषा वै धारण प्रोक्ता यच्चित्तं तत्र धार्यते ७८
यच्च मूर्त्तं हरे रूपं यादृक् चिंत्यं नराधिप
तच्छ्रूयतामनाधारा धारणा नोपपद्यते ७९
प्रसन्नवदनं चारुपद्मपत्रोपमेक्षणम्
सुकपोलं सुविस्तीर्णललाटफकोज्ज्वलम् ८०
समकर्णांतविन्यस्तचारुकुंडलभूषणम्
कंबुग्रीवं सुवीस्तीर्णश्रीवत्सांकितवक्षसम् ८१
वलित्रिभंगिना मग्ननाभिना ह्युदरेण च
प्रलंबाष्टभुजं विष्णुमथवापि चतुर्भुजम् ८२
समस्थितोरुजंघं च सुस्थितांघ्रिवरांबुजम्
चिंतयेद्ब्रह्मभूतं तं पीतनिर्मलवाससम् ८३
किरीटहारकेयूरकटकादिविभूषितम् ८४
शार्ङ्गशंखगदाखड्गचक्राक्षवलयान्वितम्
वरदाभयहस्तं च मुद्रि कारत्नभूषितम् ८५
चिंतयेत्तन्मयो योगी समाधायात्ममानसम्
तावद्यावद्दृढीभूता तत्रैव नृप धारणा ८६
व्रजतस्तिष्ठतोन्यद्वा स्वेच्छया कर्म कुर्वतः
नापयाति यदा चित्तात्सिद्धां मन्येत तां तदा ८७
ततः शंखगदाचक्रशार्ङ्गादिरहितं बुधः
चिंतयेद्भगवद्रू पं प्रशांतं साक्षसूत्रकम् ८८
सा यदा धारणा तद्वदवस्थानवती ततः
किरीटकेयूरमुखैर्भूषणै रहितं स्मरेत् ८९
तदेकावयवं देवं चेतसा हि पुनर्बुधः
कुर्यात्ततोऽवयविनि प्रणिधानपरो भवेत् ९०
तद्रूपप्रत्यया चैका संततिश्चान्यनिःस्पृहा
तद्ध्यानं प्रथमैरंगैः षड्भिर्निष्पाद्यते नृप ९१
तस्यैव कल्पनाहीनं स्वरूपग्रहणं हि यत्
मनसा ध्याननिष्पाद्यं समाधिस्सोऽभिधीयते ९२
विज्ञानं प्रापकं प्राप्ये परे ब्रह्मणि पार्थिव
प्रापणीयस्तथैवात्मा प्रक्षीणाश्षोभावनः ९३
क्षेत्रज्ञः करणी ज्ञानं करणं तस्य तेन तत्
निष्पाद्य मुक्तिकार्यं वै कृतकृत्यं निवर्त्तते ९४
तद्भावभावमापन्नस्ततोऽसौ परमात्मना
भवत्यभेदी भेदश्च तस्याज्ञानकृतो भवेत् ९५
विभेदजनके ज्ञाने नाशमात्यंतिकं गते
आत्मनो ब्रह्मणो भेदमसंतं कः करिष्यति ९६
इत्युक्तस्ते मया योगः खांडिक्य परिपृच्छतः
संक्षेपविस्तराभ्यां तु किमन्यत्क्रियतां तव ९७
खांडिक्य उवाच
कथिते योगसद्भावे सर्वमेव कृतं मम
तवोपदेश्नोआ!श्षोओ! नष्टश्चित्तमलो यतः ९८
ममेति यन्मया चोक्तमसदेतन्न चान्यथा
नरेंद्र गदितुं शक्यमपि विज्ञेयवेदिभिः ९९
अहं ममेत्यविद्येयं व्यवहारस्तथानयोः
परमार्थस्त्वसंलापो गोचरे वचसां न यः १००
तद्गच्छ श्रेयसे सर्वं ममैतद्भवता कृतम्
यद्विमुक्तिप्रदो योगः प्रोक्तः केशिध्वजाऽव्ययः १०१
श्रीपराशर उवाच
यथार्हं पूजया तेन खांडिक्येन स पूजितः
आजगाम पुरं ब्रह्मंस्ततः केशिध्वजो नृपः १०२
खांडिक्योऽपि सुतं कृत्वा राजानं योगसिद्धये
वनं जगाम गोविंदे विनिवेशितमानसः १०३
तत्रैकांतमतिर्भूत्वा यमादिगुणसंयुतः
विष्ण्वाख्ये निर्मले ब्रह्मण्यवाप नृपतिर्लयम् १०४
केशिध्वजो विमुक्त्यर्थं स्वकर्मक्षपणोन्मुखः
बुभुजे विषयान्कर्म चक्रे चानभिसंहितम् १०५
अकल्याणोपभोगैश्च क्षीणपापोऽमलस्तथा
अवाप सिद्धिमत्यंतां तापक्षयफलां द्विज १०६
इति श्रीविष्णुमहापुराणे षष्ठांशो! सप्तमोऽध्यायः ७