विष्णुपुराणम्/षष्टांशः/अध्यायः ६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८

श्रीपराशर उवाच
स्वाध्यायसंयमाभ्यां स दृश्यते पुरुषोत्तमः
तत्प्राप्तिकारणं ब्रह्म तदेतदिति पठ्यते १
स्वाध्यायाद्योगमासीत योगात्स्वाध्यायमावसेत्
स्वाध्याययोगसंपत्त्या परमात्मा प्रकाशते २
तदीक्षणाय स्वाध्यायश्चक्षुर्योगस्तथा परम्
न मां स चक्षुषा द्र ष्टुं ब्रह्मभूतस्स शक्यते ३
मैत्रेय उवाच
भगवंस्तमहं योगं ज्ञातुमिच्छामि तं वद
ज्ञाते यत्राखिलाधारं पश्येयं परमेश्वरम् ४
श्रीपराशर उवाच
यथा केशिध्वजः प्राह खांडिक्याय महात्मने
जनकाय पुरा योग तमहं कथयामि ते ५
मैत्रेय उवाच
खांडिक्यः कोऽभवद्ब्रह्मन्को वा केशिध्वजः कृती
कथं तयोश्च संवादो योगसंबंधकारणात् ६
श्रीपराशर उवाच
धर्मध्वजो वै जनकस्तस्य पुत्रोऽमितध्वजः
कृतध्वजश्च नाम्नासीत्सदाध्यात्मरतिर्नृपः ७
कृतध्वजस्य पुत्रोऽभूत्ख्यातः केशिध्वजो नृपः
पुत्रोमितध्वजस्यापि खांडिक्यजनकोऽभवत् ८
कर्ममार्गेण खांडिक्यः पृतिव्यामभवत्पतिः
केशिध्वजोऽप्यतीवासीदात्मविद्याविशारदः ९
तावुभावपि चैवास्तां विजिगीषू परस्परम्
केशिध्वजेन खांडिक्यस्स्वराज्यादवरोपितः १०
पुरोधसा मंत्रिभिश्च समवेतोऽल्पसाधनः
राज्यान्निराकृतस्सोऽथ दुर्गारण्यचरोऽभवत् ११
इयाज सोऽपि सुबहून्यज्ञाञ्ज्ञानव्यपाश्रयः
ब्रह्मविद्यामधिष्ठाय तर्त्तुं मृत्युमविद्यया १२
एकदा वर्त्तमानस्य यागे योगविदां वर
घर्मधेनुं जघानोग्रश्शार्दूलो विजने वने १३
ततो राजा हतां श्रुत्वा धनुं व्याघ्रेण चर्त्विजः
प्रायश्चित्तं स पप्रच्छ किमत्रेति विधीयताम् १४
तेप्यूचुर्न वयं विद्मः कश्रोउः! पृच्छतामिति
कश्रोउ!रपि तेनोक्तस्तथैव प्राह भार्गवम् १५
शुनकं पृच्छ राजैंद्र नाहं वेद्मि स वेत्स्यति
स गत्वा तमपृच्छच्च सोप्याह शृणु यन्मुने १६
न केशरुर्न चैवाहं न चैकस्सांप्रतं भुवि
वेत्त्येक एव त्वच्छत्रुः खांडिक्यो यो जितस्त्वया १७
स चाह तं व्रजाम्येष प्रष्टुमात्मरिपुं मुने
प्राप्त एव महायज्ञो यदि मां स हनिष्यति १८
प्रायश्चित्तमश्षोए!ण स चेत्पृष्टो वदिष्यति
ततश्चाविकलो योगो मुनिश्रेष्ठ भविष्यति १९
श्रीपराशर उवाच
इत्युक्त्वा रथमारुह्य कृष्णाजिनधरो नृपः
वनं जगाम यत्रास्ते स खांडिक्यो महामतिः २०
तमापतंतमालोक्य खांडिक्यो रिपुमात्मनः
प्रोवाच क्रोधताम्राक्षस्समारोपितकार्मुकः २१
खांडिक्य उवाच
कृष्णाजिनं त्वं कवचमाबध्यास्मान्हनिष्यसि
कृष्णाजिनधरे वेत्सि न मयि प्रहरिष्यति २२
मृगाणां वद पृष्ठेषु मूढ कृष्णाजिनं न किम्
येषां मया त्वया चोग्राः प्रहिताश्शितसायकाः २३
स त्वामहं हनिष्यामि न मे जीवन्विमोक्ष्यसे
आतताय्यसि दुर्बुद्धे मम राज्यहरो रिपुः २४
केशिध्वज उवाच
खांडिक्य संशयं प्रष्टुं भवंतमहमागतः
न त्वां हंतुं विचार्यैतत्कोपं बाणं विमुंच वा २५
श्रीपराशर उवाच
ततस्स मंत्रिभिस्सार्द्धमेकांते सपुरोहितः
मंत्रयामास खांडिक्यस्सर्वैरेव महामतिः २६
तमूचुर्मंत्रिणो वध्यो रिपुरेष वशं गतः
हतेऽस्मिन्पृथिवी सर्वा तव वश्या भविष्यति २७
खांडिक्यश्चाह तान्सर्वानेवमेतन्न संशयः
हतेस्मिन्पृथिवी सर्वा मम वश्या भविष्यति २८
परलोकजयस्तस्य पृथिवी सकला मम
न हन्मि चेल्लोकजयो मम तस्य वसुंधरा २९
नाऽहं मन्ये लोकजयादधिका स्याद्वसुंधरा
परलोकजयोऽनंतस्स्वल्पकालो महीजयः ३०
तस्मान्नैनं हनिष्यामि यत्पृच्छति वदामि तत् ३१
श्रीपराशर उवाच
ततस्तमभ्युपेत्याह खांडिक्यजनको रिपुम्
प्रष्टव्यं यत्त्वया सर्वं तत्पृच्छस्व वदाम्यहम् ३२
श्रीपराशर उवाच
ततस्सर्वं यथावृत्तं घर्मधेनुवधं द्विज
कथयित्वा स पप्रच्छ प्रायश्चित्तं हि तद्गतम् ३३
स चाचष्ट यथान्यायं द्विज केशिध्वजाय तत्
प्रायश्चित्तमश्षोए!ण यद्वै तत्र विधीयते ३४
विदितार्थस्स तेनैव ह्यनुज्ञातो महात्मना
यागभूमिमुपागम्य चक्रे सर्वाः क्रियाः क्रमात् ३५
क्रमेण विधिवद्यागं नीत्वा सोऽवभृथाप्लुतः
कृतकृत्यस्ततो भूत्वा चिंतयामास पार्थिवः ३६
पूजिताश्च द्विजास्सर्वे सदस्या मानिता मया
तथैवार्थिजनोऽप्यर्थैर्योजितोऽभिमतैर्मया ३७
यथार्हमस्य लोकस्य मया सर्वं विचेष्टितम्
अनिष्पन्नक्रियं चेतस्तथापि मम किं यथा ३८
इत्थं संचिंतयन्नैव सस्मार स महीपतिः
खांडिक्याय न दत्तेति मया वै गुरुदक्षिणा ३९
स जगाम तदा भूयो रथमारुह्य पार्थिवः
मैत्रेय दुर्गगहनं खांडिक्यो यत्र संस्थितः ४०
खांडिक्योऽपि पुनर्दृष्ट्वा तमायांतं धृतायुधम्
तस्थौ हंतुं कृतमतिस्तमाह स पुनर्नृपः ४१
भो नाहं तेऽपराधाय प्राप्तः खांडिक्य मा क्रुधाः
गुरोर्निक्रयदानाय मामवेहि त्वमागतम् ४२
निष्पादितो मया यागः सम्यक्त्वदुपदेशतः
सोऽहं ते दातुमिच्छामि वृणीष्व गुरुदक्षिणाम् ४३
श्रीपराशर उवाच
भूयस्स मंत्रिभिस्सार्द्धं मंत्रयामास पार्थिवः
गुरुनिष्क्रयकामोऽयं किं मया प्रार्थ्यतामिति ४४
तमूचुर्मंत्रिणो राज्यमशेषं प्रार्थ्यतामयम्
शत्रुभिः प्रार्थ्यते राज्यमनायासितसैनिकैः ४५
प्रहस्य तानाह नृपस्स खांडिक्यो महामतिः
स्वल्पकालं महीपाल्यं मादृशैः प्रार्थ्यते कथम् ४६
एवमेतद्भवंतोऽत्र ह्यर्थसाधनमंत्रिणः
परमार्थः कथं कोऽत्र यूयं नात्र विचक्षणाः ४७
श्रीपराशर उवाच
इत्युक्त्वा समुपेत्यैनं स तु केशिध्वजं नृपः
उवाच किमवश्यं त्वं ददासि गुरुदक्षिणाम् ४८
बाढमित्येव तेनोक्तः खांडिक्यस्तमथाब्रवीत्
भवानद्यात्मविज्ञानपरमार्थविचक्षणः ४९
यदि चेद्दीयते मह्यं भवता गुरुनिष्क्रयः
तत्क्लेशप्रशमायालं यत्कर्म तदुदीरय ५०
इति श्रीविष्णुमहापुराणे षष्ठांशे षष्ठोऽध्यायः ६