विदुरनीतिः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

विदुर नीति-महाभारत.

प्रजागरपर्व (उद्योगपर्व) महाभारत.

प्रथमोऽध्यायः[सम्पाद्यताम्]

वैशंपायन उवाच .

द्वाःस्थं प्राह महाप्राज्ञो धृतराष्ट्रो महीपतिः .

विदुरं द्रष्टुमिच्छामि तमिहानय माचिरम् .. १..

प्रहितो धृतराष्ट्रेण दूतः क्षत्तारमब्रवीत् .

ईश्वरस्त्वां महाराजो महाप्राज्ञ दिदृक्षति .. २..

एवमुक्तस्तु विदुरः प्राप्य राजनिवेशनम् .

अब्रवीद्धृतराष्ट्राय द्वाःस्थ मां प्रतिवेदय .. ३..

द्वाःस्थ उवाच .

विदुरोऽयमनुप्राप्तो राजेन्द्र तव शासनात् .

द्रष्टुमिच्छति ते पादौ किं करोतु प्रशाधि माम् .. ४..

धृतराष्ट्र उवाच .

प्रवेशय महाप्राज्ञं विदुरं दीर्घदर्शिनम् .

अहं हि विदुरस्यास्य नाकाल्यो जातु दर्शने .. ५..

द्वाःस्थ उवाच .

प्रविशान्तः पुरं क्षत्तर्महाराजस्य धीमतः .

न हि ते दर्शनेऽकाल्यो जातु राजा ब्रवीति माम् .. ६..

वैशंपायन उवाच .

ततः प्रविश्य विदुरो धृतराष्ट्र निवेशनम् .

अब्रवीत्प्राञ्जलिर्वाक्यं चिन्तयानं नराधिपम् ..७..

विदुरोऽहं महाप्राज्ञ सम्प्राप्तस्तव शासनात् .

यदि किं चन कर्तव्यमयमस्मि प्रशाधि माम् ..८..

धृतराष्ट्र उवाच .

सञ्जयो विदुर प्राप्तो गर्हयित्वा च मां गतः .

अजातशत्रोः श्वो वाक्यं सभामध्ये स वक्ष्यति ..९..

तस्याद्य कुरुवीरस्य न विज्ञातं वचो मया .

तन्मे दहति गात्राणि तदकार्षीत्प्रजागरम् ..१०..

जाग्रतो दह्यमानस्य श्रेयो यदिह पश्यसि .

तद्ब्रूहि त्वं हि नस्तात धर्मार्थकुशलो ह्यसि ..११..

यतः प्राप्तः सञ्जयः पाण्डवेभ्यो न मे यथावन्मनसः प्रशान्तिः .

सवेन्द्रियाण्यप्रकृतिं गतानि किं वक्ष्यतीत्येव हि मेऽद्य चिन्ता ..१२..

तन्मे ब्रूहि विदुर त्वं यथावन् मनीषितं सर्वमजातशत्रोः .

यथा च नस्तात हितं भवेच्च प्रजाश्च सर्वाः सुखिता भवेयुः ..१३..

विदुर उवाच .

अभियुक्तं बलवता दुर्बलं हीनसाधनम् .

हृतस्वं कामिनं चोरमाविशन्ति प्रजागराः .. १४..

कच्चिदेतैर्महादोषैर्न स्पृष्टोऽसि नराधिप .

कच्चिन्न परवित्तेषु गृध्यन्विपरितप्यसे .. १५..

धृतराष्ट्र उवाच .

श्रोतुमिच्छामि ते धर्म्यं परं नैःश्रेयसं वचः .

अस्मिन्राजर्षिवंशे हि त्वमेकः प्राज्ञसंमतः ..१६..

विदुर उवाच .

रजा लक्षणसंपन्नस्त्रैलोक्यस्याधिपो भवेत् .

प्रेष्यस्ते प्रेषितश्चैव धृतराष्ट्र युधिष्ठिरः ..१७..

विपरीततरश्च त्वं भागधेये न संमतः .

अर्चिषां प्रक्षयाच्चैव धर्मात्मा धर्मकोविदः ..१..

आनृशंस्यादनुक्रोशाद्धर्मात्सत्यात्पराक्रमात् .

गुरुत्वात्त्वयि संप्रेक्ष्य बहून्क्लेषांस्तितिक्षते ..१७..

दुर्योधने सौबले च कर्णे दुःशासने तथा .

एतेष्वैश्वर्यमाधाय कथं त्वं भूतिमिच्छसि ..१..

एकस्मात्वृक्षाद्यज्ञपत्राणि राजन् स्रुक्च द्रौणी पेठनीपीडने च .

एतस्माद्राजन्ब्रुवतो मे निबोध एकस्माद्वै जायतेऽसच्च सच्च ..- ..

आत्मज्ञानं समारंभस्तितिक्षा धर्मनित्यता .

यमर्थान्नापकर्षन्ति स वै पण्दित उच्यते ..- ..

निषेवते प्रशस्तानि निन्दितानि न सेवते .

अनास्तिकः श्रद्दधान एतत्पण्डित लक्षणम् .. १६..

क्रोधो हर्षश्च दर्पश्च ह्रीस्तम्भो मान्यमानिता .

यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते .. १७..

यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे .

कृतमेवास्य जानन्ति स वै पण्डित उच्यते .. १८..

यस्य कृत्यं न विघ्नन्ति शीतमुष्णं भयं रतिः .

समृद्धिरसमृद्धिर्वा स वै पण्डित उच्यते .. १९..

यस्य संसारिणी प्रज्ञा धर्मार्थावनुवर्तते .

कामादर्थं वृणीते यः स वै पण्डित उच्यते .. २०..

यथाशक्ति चिकीर्षन्ति यथाशक्ति च कुर्वते .

न किं चिदवमन्यन्ते पण्डिता भरतर्षभ .. २१..

क्षिप्रं विजानाति चिरं शृणोति विज्ञाय चार्थं भजते न कामात् .

नासम्पृष्टो व्यौपयुङ्क्ते परार्थे तत्प्रज्ञानं प्रथमं पण्डितस्य .. २२..

नाप्राप्यमभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम् .

आपत्सु च न मुह्यन्ति नराः पण्डित बुद्धयः .. २३..

निश्चित्य यः प्रक्रमते नान्तर्वसति कर्मणः .

अवन्ध्य कालो वश्यात्मा स वै पण्डित उच्यते .. २४..

आर्य कर्मणि राज्यन्ते भूतिकर्माणि कुर्वते .

हितं च नाभ्यसूयन्ति पण्डिता भरतर्षभ .. २५..

न हृष्यत्यात्मसंमाने नावमानेन तप्यते .

गाङ्गो ह्रद इवाक्षोभ्यो यः स पण्डित उच्यते .. २६..

तत्त्वज्ञः सर्वभूतानां योगज्ञः सर्वकर्मणाम् .

उपायज्ञो मनुष्याणां नरः पण्डित उच्यते .. २७..

प्रवृत्त वाक्चित्रकथ ऊहवान्प्रतिभानवान् .

आशु ग्रन्थस्य वक्ता च स वै पण्डित उच्यते .. २८..

श्रुतं प्रज्ञानुगं यस्य प्रज्ञा चैव श्रुतानुगा .

असम्भिन्नार्य मर्यादः पण्डिताख्यां लभेत सः .. २९..

अर्थं महान्तमासद्य विद्यामैश्वर्यमेव च .

विचरत्यसमुन्नद्धो यस्य पण्डित उच्यते ..- ..

अश्रुतश्च समुन्नद्धो दरिद्रश्च महामनाः .

अर्थांश्चाकर्मणा प्रेप्सुर्मूढ इत्युच्यते बुधैः .. ३०..

स्वमर्थं यः परित्यज्य परार्थमनुतिष्ठति .

मिथ्या चरति मित्रार्थे यश्च मूढः स उच्यते .. ३१..

अकामां कामयति यः कामयानां परित्यजेत् .

बलवन्तं च यो द्वेष्टि तमाहुर्मूढचेतसम् ..- ..

अकामान्कामयति यः कामयानान्परिद्विषन् .

बलवन्तं च यो द्वेष्टि तमाहुर्मूढचेतसम् .. ३२..

अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च .

कर्म चारभते दुष्टं तमाहुर्मूढचेतसम् .. ३३..

संसारयति कृत्यानि सर्वत्र विचिकित्सते .

चिरं करोति क्षिप्रार्थे स मूढो भरतर्षभ .. ३४..

श्राद्धं पितृभ्यो न ददाति दैवतानि नार्चति .

सुहृन्मित्रं न लभते तमाहुर्मूढचेतसम् ..- ..

अनाहूतः प्रविशति अपृष्टो बहु भाषते .

विश्वसत्यप्रमत्तेषु मूढ चेता नराधमः .. ३५..

परं क्षिपति दोषेण वर्तमानः स्वयं तथा .

यश्च क्रुध्यत्यनीशः सन्स च मूढतमो नरः .. ३६..

आत्मनो बलमाज्ञाय धर्मार्थपरिवर्जितम् .

अलभ्यमिच्छन्नैष्कर्म्यान्मूढ बुद्धिरिहोच्यते .. ३७..

अशिष्यं शास्ति यो राजन्यश्च शून्यमुपासते .

कदर्यं भजते यश्च तमाहुर्मूढचेतसम् .. ३८..

अर्थं महान्तमासाद्य विद्यामैश्वर्यमेव वा .

विचरत्यसमुन्नद्धो यः स पण्डित उच्यते .. ३९..

एकः सम्पन्नमश्नाति वस्ते वासश्च शोभनम् .

योऽसंविभज्य भृत्येभ्यः को नृशंसतरस्ततः .. ४०..

एकः पापानि कुरुते फलं भुङ्क्ते महाजनः .

भोक्तारो विप्रमुच्यन्ते कर्ता दोषेण लिप्यते .. ४१..

एकं हन्यान्न वाहन्यादिषुर्मुक्तो धनुष्मता .

बुद्धिर्बुद्धिमतोत्सृष्टा हन्याद्राष्ट्रं सराजकम् .. ४२..

एकया द्वे विनिश्चित्य त्रींश्चतुर्भिर्वशे कुरु .

पञ्च जित्वा विदित्वा षट्सप्त हित्वा सुखी भव .. ४३..

एकं विषरसो हन्ति शस्त्रेणैकश्च वध्यते .

सराष्ट्रं स प्रजं हन्ति राजानं मन्त्रविस्रवः .. ४४..

एकः स्वादु न भुञ्जीत एकश्चार्थान्न चिन्तयेत् .

एको न गच्छेदध्वानं नैकः सुप्तेषु जागृयात् .. ४५..

एकमेवाद्वितीयं तद्यद्राजन्नावबुध्यसे .

सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव .. ४६..

एकः क्षमावतां दोषो द्वितीयो नोपलभ्यते .

यदेनं क्षमया युक्तमशक्तं मन्यते जनः .. ४७..

सोऽस्य दोषो न मन्तव्यः क्षमा हि परमं बलम् .

क्षमा गुणो ह्यशक्तानां शक्तानां भूषणं तथा ..- ..

क्षमा वशीकृतिर्लोके क्षमया किं न साध्यते .

शान्तिशङ्खः करे यस्य किं करिष्यति दुर्जनः ..- ..

अतृणे पतितो वह्निः स्वयमेवोपशाम्यति .

अक्षमावान्परं दोषैरात्मान्ं चैव योजयेत् ..- ..

एको धर्मः परं श्रेयः क्षमैका शान्तिरुत्तमा .

विद्यैका परमा दृष्टिरहिंसैका सुखावहा .. ४८..

द्वाविमौ ग्रसते भूमिः सर्पो बिलशयानिव .

राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् .. ४९..

द्वे कर्मणी नरः कुर्वन्नस्मिँल्लोके विरोचते .

अब्रुवन्परुषं किं चिदसतो नार्थयंस्तथा .. ५०..

द्वाविमौ पुरुषव्याघ्र परप्रत्यय कारिणौ .

स्त्रियः कामित कामिन्यो लोकः पूजित पूजकः .. ५१..

द्वाविमौ कण्टकौ तीक्ष्णौ शरीरपरिशोषणौ .

यश्चाधनः कामयते यश्च कुप्यत्यनीश्वरः .. ५२..

द्वावेव न विराजेते विपरीतेन कर्मणा .

गृहस्थश्च निरारंभः कार्यवांश्चैव भिक्षुकः ..- ..

द्वाविमौ पुरुषौ राजन्स्वर्गस्य परि तिष्ठतः .

प्रभुश्च क्षमया युक्तो दरिद्रश्च प्रदानवान् .. ५३..

न्यायागतस्य द्रव्यस्य बोद्धव्यौ द्वावतिक्रमौ .

अपात्रे प्रतिपत्तिश्च पात्रे चाप्रतिपादनम् .. ५४..

द्वावंभसि निवेष्टव्यौ गले बद्ध्वा दृढं शिलाम् .

धनवन्तमदातारं दरिद्रं चातपस्विनम् ..- ..

द्वाविमौ पुरुषव्याघ्र सुर्यमण्डलभेदिनौ .

परिव्राड्योगयुक्तश्च रणे चाभिमुखो हतः ..- ..

त्रयो न्याया मनुष्याणां श्रूयन्ते भरतर्षभ .

कनीयान्मध्यमः श्रेष्ठ इति वेदविदो विदुः .. ५५..

त्रिविधाः पुरुषा राजन्नुत्तमाधममध्यमाः .

नियोजयेद्यथावत्तांस्त्रिविधेष्वेव कर्मसु .. ५६..

त्रय एवाधना राजन्भार्या दासस्तथा सुतः .

यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् .. ५७..

हरणं च परस्वानां परदाराभिमर्शनम् .

सुहृदश्च परित्यागस्त्रयो दोषा क्षयावहः ..- ..

त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः .

कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ..- ..

वरप्रदानं राज्यां च पुत्रजन्म च भारत .

शत्रोश्च मोक्षणं कृच्छ्रात्त्रीणि चैकं च तत्समम् ..- ..

भक्तं च बजमानं च तवास्मीति वादिनम् .

त्रीनेतान् शरणं प्राप्तान्विषमेऽपि न सन्त्यजेत् ..- ..

चत्वारि राज्ञा तु महाबलेन वर्ज्यान्याहुः पण्डितस्तानि विद्यात् .

अल्पप्रज्ञैः सह मन्त्रं न कुर्यान् न दीर्घसूत्रैरलसैश्चारणैश्च .. ५८..

चत्वारि ते तात गृहे वसन्तु श्रियाभिजुष्टस्य गृहस्थ धर्मे .

वृद्धो ज्ञातिरवसन्नः कुलीनः सखा दरिद्रो भगिनी चानपत्या .. ५९..

चत्वार्याह महाराज सद्यस्कानि बृहस्पतिः .

पृच्छते त्रिदशेन्द्राय तानीमानि निबोध मे .. ६०..

देवतानां च सङ्कल्पमनुभावं च धीमताम् .

विनयं कृतविद्यानां विनाशं पापकर्मणाम् .. ६१..

चत्वारि कर्माण्यभयङ्कराणि भयं प्रयच्छन्त्ययथाकृतानि .

मानाग्निहोत्रं उत मानमौनं मानेनाधीतमुत मानयज्ञः ..- ..

पञ्चाग्नयो मनुष्येण परिचर्याः प्रयत्नतः .

पिता माताग्निरात्मा च गुरुश्च भरतर्षभ .. ६२..

पञ्चैव पूजयँल्लोके यशः प्राप्नोति केवलम् .

देवान्पितॄन्मनुष्यांश्च भिक्षूनतिथिपञ्चमान् .. ६३..

पञ्च त्वानुगमिष्यन्ति यत्र यत्र गमिष्यसि .

मित्राण्यमित्रा मध्यस्था उपजीव्योपजीविनः .. ६४..

पञ्चेन्द्रियस्य मर्त्यस्य छिद्रं चेदेकमिन्द्रियम् .

ततोऽस्य स्रवति प्रज्ञा दृतेः पादादिवोदकम् .. ६५..

षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता .

निद्रा तन्द्री भयं क्रोध आलस्यं दीर्घसूत्रता .. ६६..

षडिमान्पुरुषो जह्याद्भिन्नां नावमिवार्णवे .

अप्रवक्तारमाचार्यमनधीयानमृत्विजम् .. ६७..

अरक्षितारं राजानं भार्यां चाप्रिय वादिनीम् .

ग्रामकारं च गोपालं वनकामं च नापितम् .. ६८..

षडेव तु गुणाः पुंसा न हातव्याः कदाचन .

सत्यं दानमनालस्यमनसूया क्षमा धृतिः .. ६९..

अर्थागमो नित्यमरोगिता च प्रिया च भार्या प्रियवादिनी च .

वश्यश्च पुत्रोऽर्थकरी च विद्या षट् जीवलोकस्य सुखानि राजन् ..- ..

षण्णामात्मनि नित्यानामैश्वर्यं योऽधिगच्छति .

न स पापैः कुतोऽनर्थैर्युज्यते विजितेन्द्रियः .. ७०..

षडिमे षट्सु जीवन्ति सप्तमो नोपलभ्यते .

चोराः प्रमत्ते जीवन्ति व्याधितेषु चिकित्सकाः .. ७१..

प्रमदाः कामयानेषु यजमानेषु याजकाः .

राजा विवदमानेषु नित्यं मूर्खेषु पण्डिताः .. ७२..

षडिमानि विनश्यन्ति मुहूर्तमनवेक्षणात् .

गावः सेवा कृषिर्भार्या विद्या वृषलसंगतिः ..- ..

षडेते ह्यवमन्यन्ते नित्यं पूर्वोपकारिणम् .

आचार्यं शिक्षिता शिष्याः कृतदारश्च मातरम् ..- ..

नारिं विगतकामस्तु कृतार्थाश्च प्रयोजकम् .

नावं निस्तीर्णकान्तारा नातुराश्च चिकित्सकम् ..- ..

आरोग्यमानृण्यमविप्रवासः सद्भिर्मनुष्यैः सह संप्रयोगः .

स्वप्रत्यया वृत्तिरभीतवासः षट् जीवलोकस्य सुखानि राजन् ..- ..

ईर्षुर्घृणी नसन्तुष्टः क्रोधनो नित्यशङ्कितः .

परभाग्योपजीवी च षडेते नित्यदुःखिताः ..- ..

सप्त दोषाः सदा राज्ञा हातव्या व्यसनोदयाः .

प्रायशो यैर्विनश्यन्ति कृतमूलाश्च पार्थिवाः .. ७३..

स्त्रियोऽक्षा मृगया पानं वाक्पारुष्यं च पञ्चमम् .

महच्च दण्डपारुष्यमर्थदूषणमेव च .. ७४..

अष्टौ पूर्वनिमित्तानि नरस्य विनशिष्यतः .

ब्राह्मणान्प्रथमं द्वेष्टि ब्राह्मणैश्च विरुध्यते .. ७५..

ब्राह्मण स्वानि चादत्ते ब्राह्मणांश्च जिघांसति .

रमते निन्दया चैषां प्रशंसां नाभिनन्दति .. ७६..

नैतान्स्मरति कृत्येषु याचितश्चाभ्यसूयति .

एतान्दोषान्नरः प्राज्ञो बुद्ध्या बुद्ध्वा विवर्जयेत् .. ७७..

अष्टाविमानि हर्षस्य नव नीतानि भारत .

वर्तमानानि दृश्यन्ते तान्येव सुसुखान्यपि .. ७८..

समागमश्च सखिभिर्महांश्चैव धनागमः .

पुत्रेण च परिष्वङ्गः संनिपातश्च मैथुने .. ७९..

समये च प्रियालापः स्वयूथेषु च संनतिः .

अभिप्रेतस्य लाभश्च पूजा च जनसंसदि .. ८०..

अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमः श्रुतं च .

पराक्रमश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च ..- ..

नवद्वारमिदं वेश्म त्रिस्थूणं पञ्च साक्षिकम् .

क्षेत्रज्ञाधिष्ठितं विद्वान्यो वेद स परः कविः .. ८१..

दश धर्मं न जानन्ति धृतराष्ट्र निबोध तान् .

मत्तः प्रमत्त उन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः .. ८२..

त्वरमाणश्च भीरुश्च लुब्धः कामी च ते दश .

तस्मादेतेषु भावेषु न प्रसज्जेत पण्डितः .. ८३..

अत्रैवोदाहरन्तीममितिहासं पुरातनम् .

पुत्रार्थमसुरेन्द्रेण गीतं चैव सुधन्वना .. ८४..

यः काममन्यू प्रजहाति राजा पात्रे प्रतिष्ठापयते धनं च .

विशेषविच्छ्रुतवान्क्षिप्रकारी तं सर्वलोकः कुरुते प्रमाणम् .. ८५..

जानाति विश्वासयितुं मनुष्यान् विज्ञात दोषेषु दधाति दण्डम् .

जानाति मात्रां च तथा क्षमां च तं तादृशं श्रीर्जुषते समग्रा .. ८६..

सुदुर्बलं नावजानाति कंचिद्- युक्तो रिपुं सेवते बुद्धिपूर्वम् .

न विग्रहं रोचयते बलस्थैः काले च यो विक्रमते स धीरः .. ८७..

प्राप्यापदं न व्यथते कदा चिद् उद्योगमन्विच्छति चाप्रमत्तः .

दुःखं च काले सहते जितात्मा धुरन्धरस्तस्य जिताः सपत्नाः .. ८८..

अनर्थकं विप्र वासं गृहेभ्यः पापैः सन्धिं परदाराभिमर्शम् .

दम्भं स्तैन्यं पैशुनं मद्य पानं न सेवते यः स सुखी सदैव .. ८९..

न संरम्भेणारभतेऽर्थवर्गम् आकारितः शंसति तथ्यमेव .

न मात्रार्थे रोचयते विवादं नापूजितः कुप्यति चाप्यमूढः .. ९०..

न योऽभ्यसूयत्यनुकम्पते च न दुर्बलः प्रातिभाव्यं करोति .

नात्याह किं चित्क्षमते विवादं सर्वत्र तादृग्लभते प्रशंसाम् .. ९१..

यो नोद्धतं कुरुते जातु वेषं न पौरुषेणापि विकत्थतेऽन्यान् .

न मूर्च्छितः कटुकान्याह किं चित् प्रियं सदा तं कुरुते जनोऽपि .. ९२..

न वैरमुद्दीपयति प्रशान्तं न दर्ममारोहति नास्तमेति .

न दुर्गतोऽस्मीति करोति मन्युं तमार्य शीलं परमाहुरग्र्यम् .. ९३..

न स्वे सुखे वै कुरुते प्रहर्षं नान्यस्य दुःखे भवति प्रतीतः .

दत्त्वा न पश्चात्कुरुतेऽनुतापं न कत्थते सत्पुरुषार्य शीलः .. ९४..

देशाचारान्समयाञ्जातिधर्मान् बुभूषते यस्तु परावरज्ञः .

स तत्र तत्राधिगतः सदैव महाजनस्याधिपत्यं करोति .. ९५..

दम्भं मोहं मत्सरं पापकृत्यं राजद्विष्टं पैशुनं पूगवैरम् .

मत्तोन्मत्तैर्दुर्जनैश्चापि वादं यः प्रज्ञावान्वर्जयेत्स प्रधानः .. ९६..

दमं शौचं दैवतं मङ्गलानि प्रायश्चित्तं विविधाँल्लोकवादान् .

एतानि यः कुरुते नैत्यकानि तस्योत्थानं देवता राधयन्ति .. ९७..

समैर्विवाहं कुरुते न हीनैः समैः सख्यं व्यवहारं कथाश्च .

गुणैर्विशिष्टांश्च पुरो दधाति विपश्चितस्तस्य नयाः सुनीताः .. ९८..

मितं भुङ्क्ते संविभज्याश्रितेभ्यो मितं स्वपित्यमितं कर्मकृत्वा .

ददात्यमित्रेष्वपि याचितः सं- स्तमात्मवन्तं प्रजहात्यनर्थाः .. ९९..

चिकीर्षितं विप्रकृतं च यस्य नान्ये जनाः कर्म जानन्ति किं चित् .

मन्त्रे गुप्ते सम्यगनुष्ठिते च स्वल्पो नास्य व्यथते कश्चिदर्थः .. १००..

यः सर्वभूतप्रशमे निविष्टः सत्यो मृदुर्दानकृच्छुद्ध भावः .

अतीव सञ्ज्ञायते ज्ञातिमध्ये महामणिर्जात्य इव प्रसन्नः .. १०१..

य आत्मनापत्रपते भृशं नरः स सर्वलोकस्य गुरुर्भवत्युत .

अनन्त तेजाः सुमनाः समाहितः स्वतेजसा सूर्य इवावभासते .. १०२..

वने जाताः शापदग्धस्य राज्ञः पाण्डोः पुत्राः पञ्च पञ्चेन्द्र कल्पाः .

त्वयैव बाला वर्धिताः शिक्षिताश्च तवादेशं पालयन्त्याम्बिकेय .. १०३..

प्रदायैषामुचितं तात राज्यं सुखी पुत्रैः सहितो मोदमानः .

न देवानां नापि च मानुषाणां भविष्यसि त्वं तर्कणीयो नरेन्द्र .. १०४..

इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरनीतिवाक्ये त्रयस्त्रंशोऽध्यायः .. ३३..


द्वितीयोऽध्यायः[सम्पाद्यताम्]

धृतराष्ट्र उवाच .

जाग्रतो दह्यमानस्य यत्कार्यमनुपश्यसि .

तद्ब्रूहि त्वं हि नस्तात धर्मार्थकुशलः शुचिः .. १..

त्वं मां यथावद्विदुर प्रशाधि प्रज्ञा पूर्वं सर्वमजातशत्रोः .

यन्मन्यसे पथ्यमदीनसत्त्व श्रेयः करं ब्रूहि तद्वै कुरूणाम् .. २..

पापाशङ्गी पापमेव नौपश्यन् पृच्छामि त्वां व्याकुलेनात्मनाहम् .

कवे तन्मे ब्रूहि सर्वं यथावन् मनीषितं सर्वमजातशत्रोः .. ३..

विदुर उवाच .

शुभं वा यदि वा पापं द्वेष्यं वा यदि वा प्रियम् .

अपृष्टस्तस्य तद्ब्रूयाद्यस्य नेच्छेत्पराभवम् .. ४..

तस्माद्वक्ष्यामि ते राजन्भवमिच्छन्कुरून्प्रति .

वचः श्रेयः करं धर्म्यं ब्रुवतस्तन्निबोध मे .. ५..

मिथ्योपेतानि कर्माणि सिध्येयुर्यानि भारत .

अनुपाय प्रयुक्तानि मा स्म तेषु मनः कृथाः .. ६..

तथैव योगविहितं न सिध्येत्कर्म यन्नृप .

उपाययुक्तं मेधावी न तत्र ग्लपयेन्मनः .. ७..

अनुबन्धानवेक्षेत सानुबन्धेषु कर्मसु .

सम्प्रधार्य च कुर्वीत न वेगेन समाचरेत् .. ८..

अनुबन्धं च सम्प्रेक्ष्य विपाकांश्चैव कर्मणाम् .

उत्थानमात्मनश्चैव धीरः कुर्वीत वा न वा .. ९..

यः प्रमाणं न जानाति स्थाने वृद्धौ तथा क्षये .

कोशे जनपदे दण्डे न स राज्यावतिष्ठते .. १०..

यस्त्वेतानि प्रमाणानि यथोक्तान्यनुपश्यति .

युक्तो धर्मार्थयोर्ज्ञाने स राज्यमधिगच्छति .. ११..

न राज्यं प्राप्तमित्येव वर्तितव्यमसाम्प्रतम् .

श्रियं ह्यविनयो हन्ति जरा रूपमिवोत्तमम् .. १२..

भक्ष्योत्तम प्रतिच्छन्नं मत्स्यो बडिशमायसम् .

रूपाभिपाती ग्रसते नानुबन्धमवेक्षते .. १३..

यच्छक्यं ग्रसितुं ग्रस्यं ग्रस्तं परिणमेच्च यत् .

हितं च परिणामे यत्तदद्यं भूतिमिच्छता .. १४..

वनस्पतेरपक्वानि फलानि प्रचिनोति यः .

स नाप्नोति रसं तेभ्यो बीजं चास्य विनश्यति .. १५..

यस्तु पक्वमुपादत्ते काले परिणतं फलम् .

फलाद्रसं स लभते बीजाच्चैव फलं पुनः .. १६..

यथा मधु समादत्ते रक्षन्पुष्पाणि षट्पदः .

तद्वदर्थान्मनुष्येभ्य आदद्यादविहिंसया .. १७..

पुष्पं पुष्पं विचिन्वीत मूलच्छेदं न कारयेत् .

मालाकार इवारामे न यथाङ्गारकारकः .. १८..

किं नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः .

इति कर्माणि सञ्चिन्त्य कुर्याद्वा पुरुषो न वा .. १९..

अनारभ्या भवन्त्यर्थाः के चिन्नित्यं तथागताः .

कृतः पुरुषकारोऽपि भवेद्येषु निरर्थकः .. २०..

कांश्चिदर्थान्नरः प्राज्ञो लभु मूलान्महाफलान् .

क्षिप्रमारभते कर्तुं न विघ्नयति तादृशान् .. २१..

ऋजु पश्यति यः सर्वं चक्षुषानुपिबन्निव .

आसीनमपि तूष्णीकमनुरज्यन्ति तं प्रजाः .. २२..

चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम् .

प्रसादयति लोकं यस्तं लोकोऽनुप्रसीदति .. २३..

यस्मात्त्रस्यन्ति भूतानि मृगव्याधान्मृगा इव .

सागरान्तामपि महीं लब्ध्वा स परिहीयते .. २४..

पितृपैतामहं राज्यं प्राप्तवान्स्वेन तेजसा .

वायुरभ्रमिवासाद्य भ्रंशयत्यनये स्थितः .. २५..

धर्ममाचरतो राज्ञः सद्भिश्चरितमादितः .

वसुधा वसुसम्पूर्णा वर्धते भूतिवर्धनी .. २६..

अथ सन्त्यजतो धर्ममधर्मं चानुतिष्ठतः .

प्रतिसंवेष्टते भूमिरग्नौ चर्माहितं यथा .. २७..

य एव यत्नः क्रियते प्रर राष्ट्रावमर्दने .

स एव यत्नः कर्तव्यः स्वराष्ट्र परिपालने .. २८..

धर्मेण राज्यं विन्देत धर्मेण परिपालयेत् .

धर्ममूलां श्रियं प्राप्य न जहाति न हीयते .. २९..

अप्युन्मत्तात्प्रलपतो बालाच्च परिसर्पतः .

सर्वतः सारमादद्यादश्मभ्य इव काञ्चनम् .. ३०..

सुव्याहृतानि सुधियां सुकृतानि ततस्ततः .

सञ्चिन्वन्धीर आसीत शिला हारी शिलं यथा .. ३१..

गन्धेन गावः पश्यन्ति वेदैः पश्यन्ति ब्राह्मणाः .

चारैः पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः .. ३२..

भूयांसं लभते क्लेशं या गौर्भवति दुर्दुहा .

अथ या सुदुहा राजन्नैव तां विनयन्त्यपि .. ३३..

यदतप्तं प्रणमति न तत्सन्तापयन्त्यपि .

यच्च स्वयं नतं दारु न तत्संनामयन्त्यपि .. ३४..

एतयोपमया धीरः संनमेत बलीयसे .

इन्द्राय स प्रणमते नमते यो बलीयसे .. ३५..

पर्जन्यनाथाः पशवो राजानो मित्र बान्धवाः .

पतयो बान्धवाः स्त्रीणां ब्राह्मणा वेद बान्धवाः .. ३६..

सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते .

मृजया रक्ष्यते रूपं कुलं वृत्तेन रक्ष्यते .. ३७..

मानेन रक्ष्यते धान्यमश्वान्रक्ष्यत्यनुक्रमः .

अभीक्ष्णदर्शनाद्गावः स्त्रियो रक्ष्याः कुचेलतः .. ३८..

न कुलं वृत्ति हीनस्य प्रमाणमिति मे मतिः .

अन्त्येष्वपि हि जातानां वृत्तमेव विशिष्यते .. ३९..

य ईर्ष्युः परवित्तेषु रूपे वीर्ये कुलान्वये .

सुखे सौभाग्यसत्कारे तस्य व्याधिरनन्तकः .. ४०..

अकार्य करणाद्भीतः कार्याणां च विवर्जनात् .

अकाले मन्त्रभेदाच्च येन माद्येन्न तत्पिबेत् .. ४१..

विद्यामदो धनमदस्तृतीयोऽभिजनो मदः .

एते मदावलिप्तानामेत एव सतां दमाः .. ४२..

असन्तोऽभ्यर्थिताः सद्भिः किं चित्कार्यं कदा चन .

मन्यन्ते सन्तमात्मानमसन्तमपि विश्रुतम् .. ४३..

गतिरात्मवतां सन्तः सन्त एव सतां गतिः .

असतां च गतिः सन्तो न त्वसन्तः सतां गतिः .. ४४..

जिता सभा वस्त्रवता समाशा गोमता जिता .

अध्वा जितो यानवता सर्वं शीलवता जितम् .. ४५..

शीलं प्रधानं पुरुषे तद्यस्येह प्रणश्यति .

न तस्य जीवितेनार्थो न धनेन न बन्धुभिः .. ४६..

आढ्यानां मांसपरमं मध्यानां गोरसोत्तरम् .

लवणोत्तरं दरिद्राणां भोजनं भरतर्षभ .. ४७..

सम्पन्नतरमेवान्नं दरिद्रा भुञ्जते सदा .

क्षुत्स्वादुतां जनयति सा चाढ्येषु सुदुर्लभा .. ४८..

प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते .

दरिद्राणां तु राजेन्द्र अपि काष्ठं हि जीर्यते .. ४९..

अवृत्तिर्भयमन्त्यानां मध्यानां मरणाद्भयम् .

उत्तमानां तु मर्त्यानामवमानात्परं भयम् .. ५०..

ऐश्वर्यमदपापिष्ठा मदाः पानमदादयः .

ऐश्वर्यमदमत्तो हि नापतित्वा विबुध्यते .. ५१..

इन्द्रियौरिन्द्रियार्थेषु वर्तमानैरनिग्रहैः .

तैरयं ताप्यते लोको नक्षत्राणि ग्रहैरिव .. ५२..

यो जितः पञ्चवर्गेण सहजेनात्म कर्शिना .

आपदस्तस्य वर्धन्ते शुक्लपक्ष इवोडुराड् .. ५३..

अविजित्य य आत्मानममात्यान्विजिगीषते .

अमित्रान्वाजितामात्यः सोऽवशः परिहीयते .. ५४..

आत्मानमेव प्रथमं देशरूपेण यो जयेत् .

ततोऽमात्यानमित्रांश्च न मोघं विजिगीषते .. ५५..

वश्येन्द्रियं जितामात्यं धृतदण्डं विकारिषु .

परीक्ष्य कारिणं धीरमत्यन्तं श्रीर्निषेवते .. ५६..

रथः शरीरं पुरुषस्य राजन् नात्मा नियन्तेन्द्रियाण्यस्य चाश्वाः .

तैरप्रमत्तः कुशलः सदश्वैर् दान्तैः सुखं याति रथीव धीरः .. ५७..

एतान्यनिगृहीतानि व्यापादयितुमप्यलम् .

अविधेया इवादान्ता हयाः पथि कुसारथिम् .. ५८..

अनर्थमर्थतः पश्यन्नर्तं चैवाप्यनर्थतः .

इन्द्रियैः प्रसृतो बालः सुदुःखं मन्यते सुखम् .. ५९..

धर्मार्थौ यः परित्यज्य स्यादिन्द्रियवशानुगः .

श्रीप्राणधनदारेभ्य क्षिप्रं स परिहीयते .. ६०..

अर्थानामीश्वरो यः स्यादिन्द्रियाणामनीश्वरः .

इन्द्रियाणामनैश्वर्यादैश्वर्याद्भ्रश्यते हि सः .. ६१..

आत्मनात्मानमन्विच्छेन्मनो बुद्धीन्द्रियैर्यतैः .

आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः .. ६२..

क्षुद्राक्षेणेव जालेन झषावपिहितावुभौ .

कामश्च राजन्क्रोधश्च तौ प्राज्ञानं विलुम्पतः .. ६३..

समवेक्ष्येह धर्मार्थौ सम्भारान्योऽधिगच्छति .

स वै सम्भृत सम्भारः सततं सुखमेधते .. ६४..

यः पञ्चाभ्यन्तराञ्शत्रूनविजित्य मतिक्षयान् .

जिगीषति रिपूनन्यान्रिपवोऽभिभवन्ति तम् .. ६५..

दृश्यन्ते हि दुरात्मानो वध्यमानाः स्वकर्म भिः .

इन्द्रियाणामनीशत्वाद्राजानो राज्यविभ्रमैः .. ६६..

असन्त्यागात्पापकृतामपापांस् तुल्यो दण्डः स्पृशते मिश्रभावात् .

शुष्केणार्द्रं दह्यते मिश्रभावात् तस्मात्पापैः सह सन्धिं न कुर्यात् .. ६७..

निजानुत्पततः शत्रून्पञ्च पञ्च प्रयोजनान् .

यो मोहान्न निघृह्णाति तमापद्ग्रसते नरम् .. ६८..

अनसूयार्जवं शौचं सन्तोषः प्रियवादिता .

दमः सत्यमनायासो न भवन्ति दुरात्मनाम् .. ६९..

आत्मज्ञानमनायासस्तितिक्षा धर्मनित्यता .

वाक्चैव गुप्ता दानं च नैतान्यन्त्येषु भारत .. ७०..

आक्रोश परिवादाभ्यां विहिंसन्त्यबुधा बुधान् .

वक्ता पापमुपादत्ते क्षममाणो विमुच्यते .. ७१..

हिंसा बलमसाधूनां राज्ञां दण्डविधिर्बलम् .

शुश्रूषा तु बलं स्त्रीणां क्षमागुणवतां बलम् .. ७२..

वाक्संयमो हि नृपते सुदुष्करतमो मतः .

अर्थवच्च विचित्रं च न शक्यं बहुभाषितुम् .. ७३..

अभ्यावहति कल्याणं विविधा वाक्सुभाषिता .

सैव दुर्भाषिता राजन्ननर्थायोपपद्यते .. ७४..

संरोहति शरैर्विद्धं वनं परशुना हतम् .

वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम् .. ७५..

कर्णिनालीकनाराचा निर्हरन्ति शरीरतः .

वाक्षल्यस्तु न निर्हर्तुं शक्यो हृदि शयो हि सः .. ७६..

वाक्सायका वदनान्निष्पतन्ति यैराहतः शोचति रत्र्यहानि .

परस्य नामर्मसु ते पतन्ति तान्पण्डितो नावसृजेत्परेषु .. ७७..

यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम् .

बुद्धिं तस्यापकर्षन्ति सोऽपाचीनानि पश्यति .. ७८..

बुद्धौ कलुष भूतायां विनाशे प्रत्युपस्थिते .

अनयो नयसङ्काशो हृदयान्नापसर्पति .. ७९..

सेयं बुद्धिः परीता ते पुत्राणां तव भारत .

पाण्डवानां विरोधेन न चैनाम् अवबुध्यसे .. ८०..

राजा लक्षणसम्पन्नस्त्रैलोक्यस्यापि यो भवेत् .

शिष्यस्ते शासिता सोऽस्तु धृतराष्ट्र युधिष्ठिरः .. ८१..

अतीव सर्वान्पुत्रांस्ते भागधेय पुरस्कृतः .

तेजसा प्रज्ञया चैव युक्तो धर्मार्थतत्त्ववित् .. ८२..

आनृशंस्यादनुक्रोशाद्योऽसौ धर्मभृतां वरः .

गौरवात्तव राजेन्द्र बहून्क्लेशांस्तितिक्षति .. ८३..

इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरनीतिवाक्ये चतुस्त्रिंशोऽध्यायः .. ३४..


तृतीयोऽध्यायः[सम्पाद्यताम्]

धृतराष्ट्र उवाच .

ब्रूहि भूयो महाबुद्धे धर्मार्थसहितं वचः .

शृण्वतो नास्ति मे तृप्तिर्विचित्राणीह भाषसे .. १..

विदुर उवाच .

सर्वतीर्थेषु वा स्नानं सर्वभूतेषु चार्जवम् .

उभे एते समे स्यातामार्जवं वा विशिष्यते .. २..

आर्जवं प्रतिपद्यस्व पुत्रेषु सततं विभो .

इह कीर्तिं परां प्राप्य प्रेत्य स्वर्गमवाप्स्यसि .. ३..

यावत्कीर्तिर्मनुष्यस्य पुण्या लोकेषु गीयते .

तावत्स पुरुषव्याघ्र स्वर्गलोके महीयते .. ४..

अत्राप्युदाहरन्तीममितिहासं पुरातनम् .

विरोचनस्य संवादं केशिन्यर्थे सुधन्वना .. ५..

केशिन्युवाच .

किं ब्राह्मणाः स्विच्छ्रेयांसो दितिजाः स्विद्विरोचन .

अथ केन स्म पर्यङ्कं सुधन्वा नाधिरोहति .. ६..

विरोचन उवाच .

प्राजापत्या हि वै श्रेष्ठा वयं केशिनि सत्तमाः .

अस्माकं खल्विमे लोकाः के देवाः के द्विजातयः .. ७..

केशिन्युवाच .

इहैवास्स्व प्रतीक्षाव उपस्थाने विरोचन .

सुधन्वा प्रातरागन्ता पश्येयं वां समागतौ .. ८..

विरोचन उवाच .

तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे .

सुधन्वानं च मां चैव प्रातर्द्रष्टासि सङ्गतौ .. ९..

विदुर उवाच .

अन्वालभे हिरण्मयं प्राह्रादेऽहं तवासनम् .

एकत्वमुपसम्पन्नो न त्वासेयं त्वया सह .. १०..

विरोचन उवाच .

अन्वाहरन्तु फलकं कूर्चं वाप्यथ वा बृसीम् .

सुधन्वन्न त्वमर्होऽसि मया सह समासनम् .. ११..

सुधन्वोवाच .

पितापि ते समासीनमुपासीतैव मामधः .

बालः सुखैधितो गेहे न त्वं किं चन बुध्यसे .. १२..

विरोचन उवाच .

हिरण्यं च गवाश्वं च यद्वित्तमसुरेषु नः .

सुधन्वन्विपणे तेन प्रश्नं पृच्छाव ये विदुः .. १३..

सुधन्वोवाच .

हिरण्यं च गवाश्वं च तवैवास्तु विरोचन .

प्राणयोस्तु पणं कृत्वा प्रश्नं पृच्छाव ये विदुः .. १४..

विरोचन उवाच .

आवां कुत्र गमिष्यावः प्राणयोर्विपणे कृते .

न हि देवेष्वहं स्थाता न मनुष्येषु कर्हि चित् .. १५..

सुधन्वोवाच .

पितरं ते गमिष्यावः प्राणयोर्विपणे कृते .

पुत्रस्यापि स हेतोर्हि प्रह्रादो नानृतं वदेत् .. १६..

प्रह्लाद उवाच .

इमौ तौ सम्प्रदृश्येते याभ्यां न चरितं सह .

आशीविषाविव क्रुद्धावेकमार्गमिहागतौ .. १७..

किं वै सहैव चरतो न पुरा चरतः सह .

विरोचनैतत्पृच्छामि किं ते सख्यं सुधन्वना .. १८..

विरोचन उवाच .

न मे सुधन्वना सख्यं प्राणयोर्विपणावहे .

प्रह्राद तत्त्वामृप्च्छामि मा प्रश्नमनृतं वदीः .. १९..

प्रह्लाद उवाच .

उदकं मधुपर्कं चाप्यानयन्तु सुधन्वने .

ब्रह्मन्नभ्यर्चनीयोऽसि श्वेता गौः पीवरी कृता .. २०..

सुधन्वोवाच .

उदकं मधुपर्कं च पथ एवार्पितं मम .

प्रह्राद त्वं तु नौ प्रश्नं तथ्यं प्रब्रूहि पृच्छतोः .. २१..

प्रह्लाद उवाच .

पुर्तो वान्यो भवान्ब्रह्मन्साक्ष्ये चैव भवेत्स्थितः .

तयोर्विवदतोः प्रश्नं कथमस्मद्विभो वदेत् .. २२..

अथ यो नैव प्रब्रूयात्सत्यं वा यदि वानृतम् .

एतत्सुधन्वन्पृच्छामि दुर्विवक्ता स्म किं वसेत् .. २३..

सुधन्वोवाच .

यां रात्रिमधिविन्ना स्त्री यां चैवाक्ष पराजितः .

यां च भाराभितप्ताङ्गो दुर्विवक्ता स्म तां वसेत् .. २४..

नगरे प्रतिरुद्धः सन्बहिर्द्वारे बुभुक्षितः .

अमित्रान्भूयसः पश्यन्दुर्विवक्ता स्म तां वसेत् .. २५..

पञ्च पश्वनृते हन्ति दश हन्ति गवानृते .

शतमश्वानृते हन्ति सहस्रं पुरुषानृते .. २६..

हन्ति जातानजातांश्च हिरण्यार्थोऽनृतं वदन् .

सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदीः .. २७..

प्रह्लाद उवाच .

मत्तः श्रेयानङ्गिरा वै सुधन्वा त्वद्विरोचन .

मातास्य श्रेयसी मातुस्तस्मात्त्वं तेन वै जितः .. २८..

विरोचन सुधन्वायं प्राणानामीश्वरस्तव .

सुधन्वन्पुनरिच्छामि त्वया दत्तं विरोचनम् .. २९..

सुधन्वोवाच .

यद्धर्ममवृणीथास्त्वं न कामादनृतं वदीः .

पुनर्ददामि ते तस्मात्पुत्रं प्रह्राद दुर्लभम् .. ३०..

एष प्रह्राद पुत्रस्ते मया दत्तो विरोचनः .

पादप्रक्षालनं कुर्यात्कुमार्याः संनिधौ मम .. ३१..

विदुर उवाच .

तस्माद्राजेन्द्र भूम्यर्थे नानृतं वक्तुमर्हसि .

मा गमः स सुतामात्योऽत्ययं पुत्राननुभ्रमन् .. ३२..

न देवा यष्टिमादाय रक्षन्ति पशुपालवत् .

यं तु रक्षितुमिच्छन्ति बुद्ध्या संविभजन्ति तम् .. ३३..

यथा यथा हि पुरुषः कल्याणे कुरुते मनः .

तथा तथास्य सर्वार्थाः सिध्यन्ते नात्र संशयः .. ३४..

न छन्दांसि वृजिनात्तारयन्ति आयाविनं मायया वर्तमानम् .

नीडं शकुन्ता इव जातपक्षाश् छन्दांस्येनं प्रजहत्यन्तकाले .. ३५..

मत्तापानं कलहं पूगवैरं भार्यापत्योरन्तरं ज्ञातिभेदम् .

राजद्विष्टं स्त्रीपुमांसोर्विवादं वर्ज्यान्याहुर्यश्च पन्थाः प्रदुष्ठः .. ३६..

सामुद्रिकं वणिजं चोरपूर्वं शलाक धूर्तं च चिकित्सकं च .

अरिं च मित्रं च कुशीलवं च नैतान्साख्येष्वधिकुर्वीत सप्त .. ३७..

मानाग्निहोत्रमुत मानमौनं मानेनाधीतमुत मानयज्ञः .

एतानि चत्वार्यभयङ्कराणि भयं प्रयच्छन्त्ययथा कृतानि .. ३८..

अगार दाही गरदः कुण्डाशी सोमविक्रयी .

पर्व कारश्च सूची च मित्र ध्रुक्पारदारिकः .. ३९..

भ्रूणहा गुरु तल्पी च यश्च स्यात्पानपो द्विजः .

अतितीक्ष्णश्च काकश्च नास्तिको वेद निन्दकः .. ४०..

स्रुव प्रग्रहणो व्रात्यः कीनाशश्चार्थवानपि .

रक्षेत्युक्तश्च यो हिंस्यात्सर्वे ब्रह्मण्हणैः समाः .. ४१..

तृणोक्लया ज्ञायते जातरूपं युगे भद्रो व्यवहारेण साधुः .

शूरो भयेष्वर्थकृच्छ्रेषु धीरः कृच्छ्रास्वापत्सु सुहृदश्चारयश् च .. ४२..

जरा रूपं हरति हि धैर्यमाशा मृत्युः प्राणान्धर्मचर्यामसूया .

क्रोधः श्रियं शीलमनार्य सेवा ह्रियं कामः सर्वमेवाभिमानः .. ४३..

श्रीर्मङ्गलात्प्रभवति प्रागल्भ्यात्सम्प्रवर्धते .

दाक्ष्यात्तु कुरुते मूलं संयमात्प्रतितिष्ठति .. ४४..

अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमः श्रुतं च .

पराक्रमश्चाबहु भाषिता च दानं यथाशक्ति कृतज्ञता च .. ४५..

एतान्गुणांस्तात महानुभावान् एको गुणः संश्रयते प्रसह्य .

राजा यदा सत्कुरुते मनुष्यं सर्वान्गुणानेष गुणोऽतिभाति .. ४६..

अष्टौ नृपेमानि मनुष्यलोके स्वर्गस्य लोकस्य निदर्शनानि .

चत्वार्येषामन्ववेतानि सद्भिश् चत्वार्येषामन्ववयन्ति सन्तः .. ४७..

यज्ञो दानमध्ययनं तपश् च चत्वार्येतान्यन्ववेतानि सद्भिः .

दमः सत्यमार्जवमानृशंस्यं चत्वार्येतान्यन्ववयन्ति सन्तः .. ४८..

न सा सभा यत्र न सन्ति वृद्धा न ते वृद्धा ये न वदन्ति धर्मम् .

नासौ हर्मो यतन सत्यमस्ति न तत्सत्यं यच्छलेनानुविद्धम् .. ४९..

सत्यं रूपं श्रुतं विद्या कौल्यं शीलं बलं धनम् .

शौर्यं च चिरभाष्यं च दशः संसर्गयोनयः .. ५०..

पापं कुर्वन्पापकीर्तिः पापमेवाश्नुते फलम् .

पुण्यं कुर्वन्पुण्यकीर्तिः पुण्यमेवाश्नुते फलम् .. ५१..

पापं प्रज्ञां नाशयति क्रियमाणं पुनः पुनः .

नष्टप्रज्ञः पापमेव नित्यमारभते नरः .. ५२..

पुण्यं प्रज्ञां वर्धयति क्रियमाणं पुनः पुनः .

वृद्धप्रज्ञः पुण्यमेव नित्यमारभते नरः .. ५३..

असूयको दन्द शूको निष्ठुरो वैरकृन्नरः .

स कृच्छ्रं महदाप्नोतो नचिरात्पापमाचरन् .. ५४..

अनसूयः कृतप्रज्ञ्टः शोभनान्याचरन्सदा .

अकृच्छ्रात्सुखमाप्नोति सर्वत्र च विराजते .. ५५..

प्रज्ञामेवागमयति यः प्राज्ञेभ्यः स पण्डितः .

प्राज्ञो ह्यवाप्य धर्मार्थौ शक्नोति सुखमेधितुम् .. ५६..

दिवसेनैव तत्कुर्याद्येन रातौ सुखं वसेत् .

अष्ट मासेन तत्कुर्याद्येन वर्षाः सुखं वसेत् .. ५७..

पूर्वे वयसि तत्कुर्याद्येन वृद्धसुखं वसेत् .

यावज्जीवेन तत्कुर्याद्येन प्रेत्य सुखं वसेत् .. ५८..

जीर्णमन्नं प्रशंसन्ति भार्यं च गतयौवनाम् .

शूरं विगतसङ्ग्रामं गतपारं तपस्विनम् .. ५९..

धनेनाधर्मलब्धेन यच्छिद्रमपिधीयते .

असंवृतं तद्भवति ततोऽन्यदवदीर्यते .. ६०..

गुरुरात्मवतां शास्ता शासा राजा दुरात्मनाम् .

अथ प्रच्छन्नपापानां शास्ता वैवस्वतो यमः .. ६१..

ऋषीणां च नदीनां च कुलानां च महामनाम् .

प्रभवो नाधिगन्तव्यः स्त्रीणां दुश्चरितस्य च .. ६२..

द्विजातिपूजाभिरतो दाता ज्ञातिषु चार्जवी .

क्षत्रियः स्वर्गभाग्राजंश्चिरं पालयते महीम् .. ६३..

सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः .

शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् .. ६४..

बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत .

तानि जङ्घा जघन्यानि भारप्रत्यवराणि च .. ६५..

दुर्योधने च शकुनौ मूढे दुःशासने तथा .

कर्णे चैश्वर्यमाधाय कथं त्वं भूतिमिच्छसि .. ६६..

सर्वैर्गुणैरुपेताश्च पाण्डवा भरतर्षभ .

पितृवत्त्वयि वर्तन्ते तेषु वर्तस्व पुत्रवत् .. ६७..

इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरहितवाक्ये पञ्चत्रिंशोऽध्यायः .. ३५..


चतुर्थोऽध्यायः[सम्पाद्यताम्]

विदुर उवाच .

अत्रैवोदाहरन्तीममितिहासं पुरातनम् .

आत्रेयस्य च संवादं साध्यानां चेति नः श्रुतम् .. १..

चरन्तं हंसरूपेण महर्षिं संशितव्रतम् .

साध्या देवा महाप्राज्ञं पर्यपृच्छन्त वै पुरा .. २..

साध्या ऊचुः .

साध्या देवा वय्मस्मो महर्षे दृष्ट्वा भवन्तं न शक्नुमोऽनुमातुम् .

श्रुतेन धीरो बुद्धिमांस्त्वं मतो नः काव्यां वाचं वक्तुमर्हस्युदाराम् .. ३..

हंस उवाच .

एतत्कार्यममराः संश्रुतं मे धृतिः शमः सत्यधर्मानुवृत्तिः .

ग्रन्थिं विनीय हृदयस्य सर्वं प्रियाप्रिये चात्मवशं नयीत .. ४..

आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षितः .

आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति .. ५..

नाक्रोशी स्यान्नावमानी परस्य मित्रद्रोही नोत नीचोपसेवी .

न चातिमानी न च हीनवृत्तो रूक्षां वाचं रुशतीं वर्जयीत .. ६..

मर्माण्यस्थीनि हृदयं तथासून् घोरा वाचो निर्दहन्तीह पुंसाम् .

तस्माद्वाचं रुशतीं रूक्षरूपां धर्मारामो नित्यशो वर्जयीत .. ७..

अरुं तुरं परुषं रूक्षवाचं वाक्कण्टकैर्वितुदन्तं मनुष्यान् .

विद्यादलक्ष्मीकतमं जनानां मुखे निबद्धां निरृतिं वहन्तम् .. ८..

परश्चेदेनमधिविध्येत बाणैर् भृशं सुतीक्ष्णैरनलार्क दीप्तैः .

विरिच्यमानोऽप्यतिरिच्यमानो विद्यात्कविः सुकृतं मे दधाति .. ९..

यदि सन्तं सेवते यद्यसन्तं तपस्विनं यदि वा स्तेनमेव .

वासो यथा रङ्ग वशं प्रयाति तथा स तेषां वशमभ्युपैति .. १०..

वादं तु यो न प्रवदेन्न वादयेद् यो नाहतः प्रतिहन्यान्न घातयेत् .

यो हन्तुकामस्य न पापमिच्छेत् तस्मै देवाः स्पृहयन्त्यागताय .. ११..

अव्याहृतं व्याहृताच्छ्रेय आहुः सत्यं वदेद्व्याहृतं तद्द्वितीयम् .

प्रियंवदेद्व्याहृतं तत्तृतीयं धर्म्यं वदेद्व्याहृतं तच्चतुर्थम् .. १२..

यादृशैः संविवदते यादृशांश् चोपसेवते .

यादृगिच्छेच्च भवितुं तादृग्भवति पूरुषः .. १३..

यतो यतो निवर्तते ततस्ततो विमुच्यते .

निवर्तनाद्धि सर्वतो न वेत्ति दुःखमण्वपि .. १४..

न जीयते नोत जिगीषतेऽन्यान् न वैरक्कृच्चाप्रतिघातकश् च .

निन्दा प्रशंसासु समस्वभावो न शोचते हृष्यति नैव चायम् .. १५..

भावमिच्छति सर्वस्य नाभावे कुरुते मतिम् .

सत्यवादी मृदुर्दान्तो यः स उत्तमपूरुषः .. १६..

नानर्थकं सान्त्वयति प्रतिज्ञाय ददाति च .

राद्धापराद्धे जानाति यः स मध्यमपूरुषः .. १७..

दुःशासनस्तूपहन्ता न शास्ता नावर्तते मन्युवशात्कृतघ्नः .

न कस्य चिन्मित्रमथो दुरात्मा कलाश्चैता अधमस्येह पुंसः .. १८..

न श्रद्दधाति कल्याणं परेभ्योऽप्यात्मशङ्कितः .

निराकरोति मित्राणि यो वै सोऽधम पूरुषः .. १९..

उत्तमानेव सेवेत प्राप्ते काले तु मध्यमान् .

अधमांस्तु न सेवेत य इच्छेच्छ्रेय आत्मनः .. २०..

प्राप्नोति वै वित्तमसद्बलेन नित्योत्थानात्प्रज्ञया पौरुषेण .

न त्वेव सम्यग्लभते प्रशंसां न वृत्तमाप्नोति महाकुलानाम् .. २१..

धृतराष्ट्र उवाच .

महाकुलानां स्पृहयन्ति देवा धर्मार्थवृद्धाश्च बहुश्रुताश् च .

पृच्छामि त्वां विदुर प्रश्नमेतं भवन्ति वै कानि महाकुलानि .. २२..

विदुर उवाच .

तमो दमो ब्रह्मवित्त्वं वितानाः पुण्या विवाहाः सततान्न दानम् .

येष्वेवैते सप्तगुणा भवन्ति सम्यग्वृत्तास्तानि महाकुलानि .. २३..

येषां न वृत्तं व्यथते न योनिर् वृत्तप्रसादेन चरन्ति धर्मम् .

ये कीर्तिमिच्छन्ति कुले विशिष्टां त्यक्तानृतास्तानि महाकुलानि .. २४..

अनिज्ययाविवाहैर्श्च वेदस्योत्सादनेन च .

कुलान्यकुलतां यान्ति धर्मस्यातिक्रमेण च .. २५..

देव द्रव्यविनाशेन ब्रह्म स्वहरणेन च .

कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च .. २६..

ब्राह्मणानां परिभवात्परिवादाच्च भारत .

कुलान्यकुलतां यान्ति न्यासापहरणेन च .. २७..

कुलानि समुपेतानि गोभिः पुरुषतोऽश्वतः .

कुलसङ्ख्यां न गच्छन्ति यानि हीनानि वृत्ततः .. २८..

वृत्ततस्त्वविहीनानि कुलान्यल्पधनान्यपि .

कुलसङ्ख्यां तु गच्छन्ति कर्षन्ति च मयद्यशः .. २९..

मा नः कुले वैरकृत्कश् चिदस्तु राजामात्यो मा परस्वापहारी .

मित्रद्रोही नैकृतिकोऽनृती वा पूर्वाशी वा पितृदेवातिथिभ्यः .. ३०..

यश्च नो ब्राह्मणं हन्याद्यश्च नो ब्राह्मणान्द्विषेत् .

न नः स समितिं गच्छेद्यश्च नो निर्वपेत्कृषिम् .. ३१..

तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता .

सतामेतानि गेहेषु नोच्छिद्यन्ते कदा चन .. ३२..

श्रद्धया परया राजन्नुपनीतानि सत्कृतिम् .

प्रवृत्तानि महाप्राज्ञ धर्मिणां पुण्यकर्मणाम् .. ३३..

सूक्ष्मोऽपि भारं नृपते स्यन्दनो वै शक्तो वोढुं न तथान्ये महीजाः .

एवं युक्ता भारसहा भवन्ति

महाकुलीना न तथान्ये मनुष्याः .. ३४..

न तन्मित्रं यस्य कोपाद्बिभेति यद्वा मित्रं शङ्कितेनोपचर्यम् .

यस्मिन्मित्रे पितरीवाश्वसीत तद्वै मित्रं सङ्गतानीतराणि .. ३५..

यदि चेदप्यसम्बन्धो मित्रभावेन वर्तते .

स एव बन्धुस्तन्मित्रं सा गतिस्तत्परायणम् .. ३६..

चलचित्तस्य वै पुंसो वृद्धाननुपसेवतः .

पारिप्लवमतेर्नित्यमध्रुवो मित्र सङ्ग्रहः .. ३७..

चलचित्तमनात्मानमिन्द्रियाणां वशानुगम् .

अर्थाः समतिवर्तन्ते हंसाः शुष्कं सरो यथा .. ३८..

अकस्मादेव कुप्यन्ति प्रसीदन्त्यनिमित्ततः .

शीलमेतदसाधूनामभ्रं पारिप्लवं यथा .. ३९..

सत्कृताश्च कृतार्थाश्च मित्राणां न भवन्ति ये .

तान्मृतानपि क्रव्यादाः कृतघ्नान्नोपभुञ्जते .. ४०..

अर्थयेदेव मित्राणि सति वासति वा धने .

नानर्थयन्विजानाति मित्राणां सारफल्गुताम् .. ४१..

सन्तापाद्भ्रश्यते रूपं सन्तापाद्भ्रश्यते बलम् .

सन्तापाद्भ्रश्यते ज्ञानं सन्तापाद्व्याधिमृच्छति .. ४२..

अनवाप्यं च शोकेन शरीरं चोपतप्यते .

अमित्राश्च प्रहृष्यन्ति मा स्म शोके मनः कृथाः .. ४३..

पुनर्नरो म्रियते जायते च पुनर्नरो हीयते वर्धते पुनः .

पुनर्नरो याचति याच्यते च पुनर्नरः शोचति शोच्यते पुनः .. ४४..

सुखं च दुःखं च भवाभवौ च लाभालाभौ मरणं जीवितं च .

पर्यायशः सर्वमिह स्पृशन्ति तस्माद्धीरो नैव हृष्येन्न शोचेत् .. ४५..

चलानि हीमानि षडिन्द्रियाणि तेषां यद्यद्वर्तते यत्र यत्र .

ततस्ततः स्रवते बुद्धिरस्य छिद्रोद कुम्भादिव नित्यमम्भः .. ४६..

धृतराष्ट्र उवाच .

तनुरुच्छः शिखी राजा मिथ्योपचरितो मया .

मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति .. ४७..

नित्योद्विग्नमिदं सर्वं नित्योद्विग्नमिदं मनः .

यत्तत्पदमनुद्विग्नं तन्मे वद महामते .. ४८..

विदुर उवाच .

नान्यत्र विद्या तपसोर्नान्यत्रेन्द्रिय निग्रहात् .

नान्यत्र लोभसन्त्यागाच्छान्तिं पश्याम तेऽनघ .. ४९..

बुद्ध्या भयं प्रणुदति तपसा विन्दते महत् .

गुरुशुश्रूषया ज्ञानं शान्तिं त्यागेन विन्दति .. ५०..

अनाश्रिता दानपुण्यं वेद पुण्यमनाश्रिताः .

रागद्वेषविनिर्मुक्ता विचरन्तीह मोक्षिणः .. ५१..

स्वधीतस्य सुयुद्धस्य सुकृतस्य च कर्मणः .

तपसश्च सुतप्तस्य तस्यान्ते सुखमेधते .. ५२..

स्वास्तीर्णानि शयनानि प्रपन्ना न वै भिन्ना जातु निद्रां लभन्ते .

न स्त्रीषु राजन्रतिमाप्नुवन्ति न मागधैः स्तूयमाना न सूतैः .. ५३..

न वै भिन्ना जातु चरन्ति धर्मं न वै सुखं प्राप्नुवन्तीह भिन्नाः .

न वै भिन्ना गौरवं मानयन्ति न वै भिन्नाः प्रशमं रोचयन्ति .. ५४..

न वै तेषां स्वदते पथ्यमुक्तं योगक्षेमं कल्पते नोत तेषाम् .

भिन्नानां वै मनुजेन्द्र परायणं न विद्यते किं चिदन्यद्विनाशात् .. ५५..

सम्भाव्यं गोषु सम्पन्नं सम्भाव्यं ब्राह्मणे तपः .

सम्भाव्यं स्त्रीषु चापल्यं सम्भाव्यं ज्ञातितो भयम् .. ५६..

तन्तवोऽप्यायता नित्यं तन्तवो बहुलाः समाः .

बहून्बहुत्वादायासान्सहन्तीत्युपमा सताम् .. ५७..

धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च .

धृतराष्ट्रोल्मुकानीव ज्ञातयो भरतर्षभ .. ५८..

ब्राह्मणेषु च ये शूराः स्त्रीषु ज्ञातिषु गोषु च .

वृन्तादिव फलं पक्वं धृतराष्ट्र पतन्ति ते .. ५९..

महानप्येकजो वृक्षो बलवान्सुप्रतिष्ठितः .

प्रसह्य एव वातेन शाखा स्कन्धं विमर्दितुम् .. ६०..

अथ ये सहिता वृक्षाः सङ्घशः सुप्रतिष्ठिताः .

ते हि शीघ्रतमान्वातान्सहन्तेऽन्योन्यसंश्रयात् .. ६१..

एवं मनुष्यमप्येकं गुणैरपि समन्वितम् .

शक्यं द्विषन्तो मन्यन्ते वायुर्द्रुममिवौकजम् .. ६२..

अन्योन्यसमुपष्टम्भादन्योन्यापाश्रयेण च .

ज्ञातयः सम्प्रवर्धन्ते सरसीवोत्पलान्युत .. ६३..

अवध्या ब्राह्मणा गावो स्त्रियो बालाश्च ज्ञातयः .

येषां चान्नानि भुञ्जीत ये च स्युः शरणागताः .. ६४..

न मनुष्ये गुणः कश्चिदन्यो धनवताम् अपि .

अनातुरत्वाद्भद्रं ते मृतकल्पा हि रोगिणः .. ६५..

अव्याधिजं कटुकं शीर्ष रोगं पापानुबन्धं परुषं तीक्ष्णमुग्रम् .

सतां पेयं यन्न पिबन्त्यसन्तो मन्युं महाराज पिब प्रशाम्य .. ६६..

रोगार्दिता न फलान्याद्रियन्ते न वै लभन्ते विषयेषु तत्त्वम् .

दुःखोपेता रोगिणो नित्यमेव न बुध्यन्ते धनभोगान्न सौख्यम् .. ६७..

पुरा ह्युक्तो नाकरोस्त्वं वचो मे द्यूते जितां द्रौपदीं प्रेक्ष्य राजन् .

दुर्योधनं वारयेत्यक्षवत्यां कितवत्वं पण्डिता वर्जयन्ति .. ६८..

न तद्बलं यन्मृदुना विरुध्यते मिश्रो धर्मस्तरसा सेवितव्यः .

प्रध्वंसिनी क्रूरसमाहिता श्रीर् मृदुप्रौढा गच्छति पुत्रपौत्रान् .. ६९..

धार्तराष्ट्राः पाण्डवान्पालयन्तु पाण्डोः सुतास्तव पुत्रांश्च पान्तु .

एकारिमित्राः कुरवो ह्येकमन्त्रा जीवन्तु राजन्सुखिनः समृद्धाः .. ७०..

मेढीभूतः कौरवाणां त्वमद्य त्वय्याधीनं कुरु कुलमाजमीढ .

पार्थान्बालान्वनवास प्रतप्तान् गोपायस्व स्वं यशस्तात रक्षन् .. ७१..

सन्धत्स्व त्वं कौरवान्पाण्डुपुत्रैर् मा तेऽन्तरं रिपवः प्रार्थयन्तु .

सत्ये स्थितास्ते नरदेव सर्वे दुर्योधनं स्थापय त्वं नरेन्द्र .. ७२..


इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरहितवाक्ये षट्त्रिंशोऽध्यायः .. ३६..

पञ्चमोऽध्यायः[सम्पाद्यताम्]

विदुर उवाच .

सप्तदशेमान्राजेन्द्र मनुः स्वायम्भुवोऽब्रवीत् .

वैचित्रवीर्य पुरुषानाकाशं मुष्टिभिर्घ्नतः .. १..

तानेविन्द्रस्य हि धनुरनाम्यं नमतोऽब्रवीत् .

अथो मरीचिनः पादाननाम्यान्नमतस्तथा .. २..

यश्चाशिष्यं शासति यश् च कुप्यते यश्चातिवेलं भजते द्विषन्तम् .

स्त्रियश्च योऽरक्षति भद्रमस्तु ते यश्चायाच्यं याचति यश् च कत्थते .. ३..

यश्चाभिजातः प्रकरोत्यकार्यं यश्चाबलो बलिना नित्यवैरी .

अश्रद्दधानाय च यो ब्रवीति यश्चाकाम्यं कामयते नरेन्द्र .. ४..

वध्वा हासं श्वशुरो यश् च मन्यते वध्वा वसन्नुत यो मानकामः .

परक्षेत्रे निर्वपति यश्च बीजं स्त्रियं च यः परिवदतेऽतिवेलम् .. ५..

यश्चैव लब्ध्वा न स्मरामीत्युवाच दत्त्वा च यः कत्थति याच्यमानः .

यश्चासतः सान्त्वमुपासतीह एतेऽनुयान्त्यनिलं पाशहस्ताः .. ६..

यस्मिन्यथा वर्तते यो मनुष्यस् तस्मिंस्तथा वर्तितव्यं स धर्मः .

मायाचारो मायया वर्तितव्यः साध्वाचारः साधुना प्रत्युदेयः .. ७..

धृतराष्ट्र उवाच .

शतायुरुक्तः पुरुषः सर्ववेदेषु वै यदा .

नाप्नोत्यथ च तत्सर्वमायुः केनेह हेतुना .. ८..

विदुर उवाच .

अतिवादोऽतिमानश्च तथात्यागो नराधिपः .

क्रोधश्चातिविवित्सा च मित्रद्रोहश्च तानि षट् .. ९..

एत एवासयस्तीक्ष्णाः कृन्तन्त्यायूंषि देहिनाम् .

एतानि मानवान्घ्नन्ति न मृत्युर्भद्रमस्तु ते .. १०..

विश्वस्तस्यैति यो दारान्यश्चापि गुरु तक्पगः .

वृषली पतिर्द्विजो यश्च पानपश्चैव भारत .. ११..

शरणागतहा चैव सर्वे ब्रह्महणैः समाः .

एतैः समेत्य कर्तव्यं प्रायश्चित्तमिति श्रुतिः .. १२..

गृही वदान्योऽनपविद्ध वाक्यः शेषान्न भोकाप्यविहिंसकश् च .

नानर्थकृत्त्यक्तकलिः कृतज्ञः सत्यो मृदुः स्वर्गमुपैति विद्वान् .. १३..

सुलभाः पुरुषा राजन्सततं प्रियवादिनः .

अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः .. १४..

यो हि धर्मं व्यपाश्रित्य हित्वा भर्तुः प्रियाप्रिये .

अप्रियाण्याह पथ्यानि तेन राजा सहायवान् .. १५..

त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत् .

ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् .. १६..

आपदर्थं धनं रक्षेद्दारान्रक्षेद्धनैरपि .

आत्मानं सततं रक्षेद्दारैरपि धनैरपि .. १७..

उक्तं मया द्यूतकालेऽपि राजन् नैवं युक्तं वचनं प्रातिपीय .

तदौषधं पथ्यमिवातुरस्य न रोचते तव वैचित्र वीर्य .. १८..

काकैरिमांश्चित्रबर्हान्मयूरान् पराजैष्ठाः पाण्डवान्धार्तराष्ट्रैः .

हित्वा सिंहान्क्रोष्टु कान्गूहमानः प्राप्ते काले शोचिता त्वं नरेन्द्र .. १९..

यस्तात न क्रुध्यति सर्वकालं भृत्यस्य भक्तस्य हिते रतस्य .

तस्मिन्भृत्या भर्तरि विश्वसन्ति न चैनमापत्सु परित्यजन्ति .. २०..

न भृत्यानां वृत्ति संरोधनेन बाह्यं जनं सञ्जिघृक्षेदपूर्वम् .

त्यजन्ति ह्येनमुचितावरुद्धाः स्निग्धा ह्यमात्याः परिहीनभोगाः .. २१..

कृत्यानि पूर्वं परिसङ्ख्याय सर्वाण्य् आयव्ययावनुरूपां च वृत्तिम् .

सङ्गृह्णीयादनुरूपान्सहायान् सहायसाध्यानि हि दुष्कराणि .. २२..

अभिप्रायं यो विदित्वा तु भर्तुः सर्वाणि कार्याणि करोत्यतन्द्रीः .

वक्ता हितानामनुरक्त आर्यः शक्तिज्ञ आत्मेव हि सोऽनुकम्प्यः .. २३..

वाक्यं तु यो नाद्रियतेऽनुशिष्टः प्रत्याह यश्चापि नियुज्यमानः .

प्रज्ञाभिमानी प्रतिकूलवादी त्याज्यः स तादृक्त्वरयैव भृत्यः .. २४..

अस्तब्धमक्लीबमदीर्घसूत्रं सानुक्रोशं श्लक्ष्णमहार्यमन्यैः .

अरोग जातीयमुदारवाक्यं दूतं वदन्त्यष्ट गुणोपपन्नम् .. २५..

न विश्वासाज्जातु परस्य गेहं गच्छेन्नरश्चेतयानो विकाले .

न चत्वरे निशि तिष्ठेन्निगूढो न राजन्यां योषितं प्रार्थयीत .. २६..

न निह्नवं सत्र गतस्य गच्छेत् संसृष्ट मन्त्रस्य कुसङ्गतस्य .

न च ब्रूयान्नाश्वसामि त्वयीति स कारणं व्यपदेशं तु कुर्यात् .. २७..

घृणी राजा पुंश्चली राजभृत्यः पुत्रो भ्राता विधवा बाल पुत्रा .

सेना जीवी चोद्धृत भक्त एव व्यवहारे वै वर्जनीयाः स्युरेते .. २८..

गुणा दश स्नानशीलं भजन्ते बलं रूपं स्वरवर्णप्रशुद्धिः .

स्पर्शश्च गन्धश्च विशुद्धता च श्रीः सौकुमार्यं प्रवराश्च नार्यः .. २९..

गुणाश्च षण्मितभुक्तं भजन्ते आरोग्यमायुश्च सुखं बलं च .

अनाविलं चास्य भवेदपत्यं न चैनमाद्यून इति क्षिपन्ति .. ३०..

अकर्म शीलं च महाशनं च लोकद्विष्टं बहु मायं नृशंसम् .

अदेशकालज्ञमनिष्ट वेषम् एतान्गृहे न प्रतिवासयीत .. ३१..

कदर्यमाक्रोशकमश्रुतं च वराक सम्भूतममान्य मानिनम् .

निष्ठूरिणं कृतवैरं कृतघ्नम् एतान्भृतार्तोऽपि न जातु याचेत् .. ३२..

सङ्क्लिष्टकर्माणमतिप्रवादं नित्यानृतं चादृढ भक्तिकं च .

विकृष्टरागं बहुमानिनं चाप्य् एतान्न सेवेत नराधमान्षट् .. ३३..

सहायबन्धना ह्यर्थाः सहायाश्चार्थबन्धनाः .

अन्योन्यबन्धनावेतौ विनान्योन्यं न सिध्यतः .. ३४..

उत्पाद्य पुत्राननृणांश्च कृत्वा वृत्तिं च तेभ्योऽनुविधाय कां चित् .

स्थाने कुमारीः प्रतिपाद्य सर्वा अरण्यसंस्थो मुनिवद्बुभूषेत् .. ३५..

हितं यत्सर्वभूतानामात्मनश्च सुखावहम् .

तत्कुर्यादीश्वरो ह्येतन्मूलं धर्मार्थसिद्धये .. ३६..

बुद्धिः प्रभावस्तेजश्च सत्त्वमुत्थानमेव च .

व्यवसायश्च यस्य स्यात्तस्यावृत्ति भयं कुतः .. ३७..

पश्य दोषान्पाण्डवैर्विग्रहे त्वं यत्र व्यथेरन्नपि देवाः स शक्राः .

पुत्रैर्वैरं नित्यमुद्विग्नवासो यशः प्रणाशो द्विषतां च हर्षः .. ३८..

भीष्मस्य कोपस्तव चेन्द्र कल्प द्रोणस्य राज्ञश्च युधिष्ठिरस्य .

उत्सादयेल्लोकमिमं प्रवृद्धः श्वेतो ग्रहस्तिर्यगिवापतन्खे .. ३९..

तव पुत्रशतं चैव कर्णः पञ्च च पाण्डवाः .

पृथिवीमनुशासेयुरखिलां सागराम्बराम् .. ४०..

धार्तराष्ट्रा वनं राजन्व्याघ्राः पाण्डुसुता मताः .

मा वनं छिन्धि स व्याघ्रं मा व्याघ्रान्नीनशो वनात् .. ४१..

न स्याद्वनमृते व्याघ्रान्व्याघ्रा न स्युरृते वनम् .

वनं हि रक्ष्यते व्याघ्रैर्व्याघ्रान्रक्षति काननम् .. ४२..

न तथेच्छन्त्यकल्याणाः परेषां वेदितुं गुणान् .

यथैषां ज्ञातुमिच्छन्ति नैर्गुण्यं पापचेतसः .. ४३..

अर्थसिद्धिं परामिच्छन्धर्ममेवादितश् चरेत् .

न हि धर्मादपैत्यर्थः स्वर्गलोकादिवामृतम् .. ४४..

यस्यात्मा विरतः पापात्कल्याणे च निवेशितः .

तेन सर्वमिदं बुद्धं प्रकृतिर्विकृतिर्श्च या .. ४५..

यो धर्ममर्थं कामं च यथाकालं निषेवते .

धर्मार्थकामसंयोगं योऽमुत्रेह च विन्दति .. ४६..

संनियच्छति यो वेगमुत्थितं क्रोधहर्षयोः .

स श्रियो भाजनं राजन्यश्चापत्सु न मुह्यति .. ४७..

बलं पञ्च विधं नित्यं पुरुषाणां निबोध मे .

यत्तु बाहुबलं नाम कनिष्ठं बलमुच्यते .. ४८..

अमात्यलाभो भद्रं ते द्वितीयं बलमुच्यते .

धनलाभस्तृतीयं तु बलमाहुर्जिगीषवः .. ४९..

यत्त्वस्य सहजं राजन्पितृपैतामहं बलम् .

अभिजात बलं नाम तच्चतुर्थं बलं स्मृतम् .. ५०..

येन त्वेतानि सर्वाणि सङ्गृहीतानि भारत .

यद्बलानां बलं श्रेष्ठं तत्प्रज्ञा बलमुच्यते .. ५१..

महते योऽपकाराय नरस्य प्रभवेन्नरः .

तेन वैरं समासज्य दूरस्थोऽस्मीति नाश्वसेत् .. ५२..

स्त्रीषु राजसु सर्पेषु स्वाध्याये शत्रुसेविषु .

भोगे चायुषि विश्वासं कः प्राज्ञः कर्तुमर्हति .. ५३..

प्रज्ञा शरेणाभिहतस्य जन्तोश् चिकित्सकाः सन्ति न चौषधानि .

न होममन्त्रा न च मङ्गलानि नाथर्वणा नाप्यगदाः सुसिद्धाः .. ५४..

सर्पश्चाग्निश्च सिंहश्च कुलपुत्रश्च भारत .

नावज्ञेया मनुष्येण सर्वे ते ह्यतितेजसः .. ५५..

अग्निस्तेजो महल्लोके गूढस्तिष्ठति दारुषु .

न चोपयुङ्क्ते तद्दारु यावन्नो दीप्यते परैः .. ५६..

स एव खलु दारुभ्यो यदा निर्मथ्य दीप्यते .

तदा तच्च वनं चान्यन्निर्दहत्याशु तेजसा .. ५७..

एवमेव कुले जाताः पावकोपम तेजसः .

क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते .. ५८..

लता धर्मा त्वं सपुत्रः शालाः पाण्डुसुता मताः .

न लता वर्धते जातु महाद्रुममनाश्रिता .. ५९..

वनं राजंस्त्वं सपुत्रोऽम्बिकेय सिंहान्वने पाण्डवांस्तात विद्धि .

सिंहैर्विहीनं हि वनं विनश्येत् सिंहा विनश्येयुरृते वनेन .. ६०..

इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरवाक्ये सप्तत्रिंशोऽध्यायः .. ३७..

षष्ठोऽध्यायः[सम्पाद्यताम्]

विदुर उवाच .

ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति .

प्रत्युत्थानाभिवादाभ्यां पुनस्तान्पतिपद्यते .. १..

पीठं दत्त्वा साधवेऽभ्यागताय आनीयापः परिनिर्णिज्य पादौ .

सुखं पृष्ट्वा प्रतिवेद्यात्म संस्थं ततो दद्यादन्नमवेक्ष्य धीरः .. २..

यस्योदकं मधुपर्कं च गां च न मन्त्रवित्प्रतिगृह्णाति गेहे .

लोभाद्भयादर्थकार्पण्यतो वा तस्यानर्थं जीवितमाहुरार्याः .. ३..

चिकित्सकः शक्य कर्तावकीर्णी स्तेनः क्रूरो मद्यपो भ्रूणहा च .

सेनाजीवी श्रुतिविक्रायकश् च भृशं प्रियोऽप्यतिथिर्नोदकार्हः .. ४..

अविक्रेयं लवणं पक्वमन्नं दधि क्षीरं मधु तैलं घृतं च .

तिला मांसं मूलफलानि शाकं रक्तं वासः सर्वगन्धा गुडश् च .. ५..

अरोषणो यः समलोष्ट काञ्चनः प्रहीण शोको गतसन्धि विग्रहः .

निन्दा प्रशंसोपरतः प्रियाप्रिये चरन्नुदासीनवदेष भिक्षुकः .. ६..

नीवार मूलेङ्गुद शाकवृत्तिः सुसंयतात्माग्निकार्येष्वचोद्यः .

वने वसन्नतिथिष्वप्रमत्तो धुरन्धरः पुण्यकृदेष तापसः .. ७..

अपकृत्वा बुद्धिमतो दूरस्थोऽस्मीति नाश्वसेत् .

दीर्घौ बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः .. ८..

न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् .

विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति .. ९..

अनीर्ष्युर्गुप्तदारः स्यात्संविभागी प्रियंवदः .

श्लक्ष्णो मधुरवाक्स्त्रीणां न चासां वशगो भवेत् .. १०..

पूजनीया महाभागाः पुण्याश्च गृहदीप्तयः .

स्त्रियः श्रियो गृहस्योक्तास्तस्माद्रक्ष्या विशेषतः .. ११..

पितुरन्तःपुरं दद्यान्मातुर्दद्यान्महानसम् .

गोषु चात्मसमं दद्यात्स्वयमेव कृषिं व्रजेत् .

भृत्यैर्वणिज्याचारं च पुत्रैः सेवेत ब्राह्मणान् .. १२..

अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् .

तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति .. १३..

नित्यं सन्तः कुले जाताः पावकोपम तेजसः .

क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते .. १४..

यस्य मन्त्रं न जानन्ति बाह्याश्चाभ्यन्तराश् च ये .

स राजा सर्वतश्चक्षुश्चिरमैश्वर्यमश्नुते .. १५..

करिष्यन्न प्रभाषेत कृतान्येव च दर्शयेत् .

धर्मकामार्थ कार्याणि तथा मन्त्रो न भिद्यते .. १६..

गिरिपृष्ठमुपारुह्य प्रासादं वा रहोगतः .

अरण्ये निःशलाके वा तत्र मन्त्रो विधीयते .. १७..

नासुहृत्परमं मन्त्रं भारतार्हति वेदितुम् .

अपण्डितो वापि सुहृत्पण्डितो वाप्यनात्मवान् .

अमात्ये ह्यर्थलिप्सा च मन्त्ररक्षणमेव च .. १८..

कृतानि सर्वकार्याणि यस्य वा पार्षदा विदुः .

गूढमन्त्रस्य नृपतेस्तस्य सिद्धिरसंशयम् .. १९..

अप्रशस्तानि कर्माणि यो मोहादनुतिष्ठति .

स तेषां विपरिभ्रंशे भ्रश्यते जीवितादपि .. २०..

कर्मणां तु प्रशस्तानामनुष्ठानं सुखावहम् .

तेषामेवाननुष्ठानं पश्चात्तापकरं महत् .. २१..

स्थानवृद्ध क्षयज्ञस्य षाड्गुण्य विदितात्मनः .

अनवज्ञात शीलस्य स्वाधीना पृथिवी नृप .. २२..

अमोघक्रोधहर्षस्य स्वयं कृत्यान्ववेक्षिणः .

आत्मप्रत्यय कोशस्य वसुधेयं वसुन्धरा .. २३..

नाममात्रेण तुष्येत छत्रेण च महीपतिः .

भृत्येभ्यो विसृजेदर्थान्नैकः सर्वहरो भवेत् .. २४..

ब्राह्मणो ब्राह्मणं वेद भर्ता वेद स्त्रियं तथा .

अमात्यं नृपतिर्वेद राजा राजानमेव च .. २५..

न शत्रुरङ्कमापन्नो मोक्तव्यो वध्यतां गतः .

अहताद्धि भयं तस्माज्जायते नचिरादिव .. २६..

दैवतेषु च यत्नेन राजसु ब्राह्मणेषु च .

नियन्तव्यः सदा क्रोधो वृद्धबालातुरेषु च .. २७..

निरर्थं कलहं प्राज्ञो वर्जयेन्मूढ सेवितम् .

कीर्तिं च लभते लोके न चानर्थेन युज्यते .. २८..

प्रसादो निष्फलो यस्य क्रोधश्चापि निरर्थकः .

न तं भर्तारमिच्छन्ति षण्ढं पतिमिव स्त्रियः .. २९..

न बुद्धिर्धनलाभाय न जाड्यमसमृद्धये .

लोकपर्याय वृत्तान्तं प्राज्ञो जानाति नेतरः .. ३०..

विद्या शीलवयोवृद्धान्बुद्धिवृद्धांश्च भारत .

धनाभिजन वृद्धांश्च नित्यं मूढोऽवमन्यते .. ३१..

अनार्य वृत्तमप्राज्ञमसूयकमधार्मिकम् .

अनर्थाः क्षिप्रमायान्ति वाग्दुष्टं क्रोधनं तथा .. ३२..

अविसंवादनं दानं समयस्याव्यतिक्रमः .

आवर्तयन्ति भूतानि सम्यक्प्रणिहिता च वाक् .. ३३..

अविसंवादको दक्षः कृतज्ञो मतिमानृजुः .

अपि सङ्क्षीण कोशोऽपि लभते परिवारणम् .. ३४..

धृतिः शमो दमः शौचं कारुण्यं वागनिष्ठुरा .

मित्राणां चानभिद्रोहः सतैताः समिधः श्रियः .. ३५..

असंविभागी दुष्टात्मा कृतघ्नो निरपत्रपः .

तादृङ्नराधमो लोके वर्जनीयो नराधिप .. ३६..

न स रात्रौ सुखं शेते स सर्प इव वेश्मनि .

यः कोपयति निर्दोषं स दोषोऽभ्यन्तरं जनम् .. ३७..

येषु दुष्टेषु दोषः स्याद्योगक्षेमस्य भारत .

सदा प्रसादनं तेषां देवतानामिवाचरेत् .. ३८..

येऽर्थाः स्त्रीषु समासक्ताः प्रथमोत्पतितेषु च .

ये चानार्य समासक्ताः सर्वे ते संशयं गताः .. ३९..

यत्र स्त्री यत्र कितवो यत्र बालोऽनुशास्ति च .

मज्जन्ति तेऽवशा देशा नद्यामश्मप्लवा इव .. ४०..

प्रयोजनेषु ये सक्ता न विशेषेषु भारत .

तानहं पण्डितान्मन्ये विशेषा हि प्रसङ्गिनः .. ४१..

यं प्रशंसन्ति कितवा यं प्रशंसन्ति चारणाः .

यं प्रशंसन्ति बन्धक्यो न स जीवति मानवः .. ४२..

हित्वा तान्परमेष्वासान्पाण्डवानमितौजसः .

आहितं भारतैश्वर्यं त्वया दुर्योधने महत् .. ४३..

तं द्रक्ष्यसि परिभ्रष्टं तस्मात्त्वं नचिरादिव .

ऐश्वर्यमदसंमूढं बलिं लोकत्रयादिव .. ४४..

इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरवाक्ये अष्टत्रिंशोऽध्यायः .. ३८..

सप्तमोऽध्यायः[सम्पाद्यताम्]

धृतराष्ट्र उवाच .

अनीश्वरोऽयं पुरुषो भवाभवे सूत्रप्रोता दारुमयीव योषा .

धात्रा हि दिष्टस्य वशे किलायं तस्माद्वद त्वं श्रवणे घृतोऽहम् .. १..

विदुर उवाच .

अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन् .

लभते बुद्ध्यवज्ञानमवमानं च भारत .. २..

प्रियो भवति दानेन प्रियवादेन चापरः .

मन्त्रं मूलबलेनान्यो यः प्रियः प्रिय एव सः .. ३..

द्वेष्यो न साधुर्भवति न मेधावी न पण्डितः .

प्रिये शुभानि कर्माणि द्वेष्ये पापानि भारत .. ४..

न स क्षयो महाराज यः क्षयो वृद्धिमावहेत् .

क्षयः स त्विह मन्तव्यो यं लब्ध्वा बहु नाशयेत् .. ५..

समृद्धा गुणतः के चिद्भवन्ति धनतोऽपरे .

धनवृद्धान्गुणैर्हीनान्धृतराष्ट्र विवर्जयेत् .. ६..

धृतराष्ट्र उवाच .

सर्वं त्वमायती युक्तं भाषसे प्राज्ञसंमतम् .

न चोत्सहे सुतं त्यक्तुं यतो धर्मस्ततो जयः .. ७..

विदुर उवाच .

स्वभावगुणसम्पन्नो न जातु विनयान्वितः .

सुसूक्ष्ममपि भूतानामुपमर्दं प्रयोक्ष्यते .. ८..

परापवाद निरताः परदुःखोदयेषु च .

परस्परविरोधे च यतन्ते सततोथिताः .. ९..

स दोषं दर्शनं येषां संवासे सुमहद्भयम् .

अर्थादाने महान्दोषः प्रदाने च महद्भयम् .. १०..

ये पापा इति विख्याताः संवासे परिगर्हिताः .

युक्ताश्चान्यैर्महादोषैर्ये नरास्तान्विवर्जयेत् .. ११..

निवर्तमाने सौहार्दे प्रीतिर्नीचे प्रणश्यति .

या चैव फलनिर्वृत्तिः सौहृदे चैव यत्सुखम् .. १२..

यतते चापवादाय यत्नमारभते क्षये .

अल्पेऽप्यपकृते मोहान्न शान्तिमुपगच्छति .. १३..

तादृशैः सङ्गतं नीचैर्नृशंसैरकृतात्मभिः .

निशाम्य निपुणं बुद्ध्या विद्वान्दूराद्विवर्जयेत् .. १४..

यो ज्ञातिमनुगृह्णाति दरिद्रं दीनमातुरम् .

सपुत्रपशुभिर्वृद्धिं यशश्चाव्ययमश्नुते .. १५..

ज्ञातयो वर्धनीयास्तैर्य इच्छन्त्यात्मनः शुभम् .

कुलवृद्धिं च राजेन्द्र तस्मात्साधु समाचर .. १६..

श्रेयसा योक्ष्यसे राजन्कुर्वाणो ज्ञातिसत्क्रियाम् .

विगुणा ह्यपि संरक्ष्या ज्ञातयो भरतर्षभ .. १७..

किं पुनर्गुणवन्तस्ते त्वत्प्रसादाभिकाङ्क्षिणः .

प्रसादं कुरु दीनानां पाण्डवानां विशां पते .. १८..

दीयन्तां ग्रामकाः के चित्तेषां वृत्त्यर्थमीश्वर .

एवं लोके यशःप्राप्तो भविष्यत्सि नराधिप .. १९..

वृद्धेन हि त्वया कार्यं पुत्राणां तात रक्षणम् .

मया चापि हितं वाच्यं विद्धि मां त्वद्धितैषिणम् .. २०..

ज्ञातिभिर्विग्रहस्तात न कर्तव्यो भवार्थिना .

सुखानि सह भोज्यानि ज्ञातिभिर्भरतर्षभ .. २१..

सम्भोजनं सङ्कथनं सम्प्रीतिश् च परस्परम् .

ज्ञातिभिः सह कार्याणि न विरोधः कथं चन .. २२..

ज्ञातयस्तारयन्तीह ज्ञातयो मज्जयन्ति च .

सुवृत्तास्तारयन्तीह दुर्वृत्ता मज्जयन्ति च .. २३..

सुवृत्तो भव राजेन्द्र पाण्डवान्प्रति मानद .

अधर्षणीयः शत्रूणां तैर्वृतस्त्वं भविष्यसि .. २४..

श्रीमन्तं ज्ञातिमासाद्य यो ज्ञातिरवसीदति .

दिग्धहस्तं मृग इव स एनस्तस्य विन्दति .. २५..

पश्चादपि नरश्रेष्ठ तव तापो भविष्यति .

तान्वा हतान्सुतान्वापि श्रुत्वा तदनुचिन्तय .. २६..

येन खट्वां समारूढः परितप्येत कर्मणा .

आदावेव न तत्कुर्यादध्रुवे जीविते सति .. २७..

न कश्चिन्नापनयते पुमानन्यत्र भार्गवात् .

शेषसम्प्रतिपत्तिस्तु बुद्धिमत्स्वेव तिष्ठति .. २८..

दुर्योधनेन यद्येतत्पापं तेषु पुरा कृतम् .

त्वया तत्कुलवृद्धेन प्रत्यानेयं नरेश्वर .. २९..

तांस्त्वं पदे प्रतिष्ठाप्य लोके विगतकल्मषः .

भविष्यसि नरश्रेष्ठ पूजनीयो मनीषिणाम् .. ३०..

सुव्याहृतानि धीराणां फलतः प्रविचिन्त्य यः .

अध्यवस्यति कार्येषु चिरं यशसि तिष्ठति .. ३१..

अवृत्तिं विनयो हन्ति हन्त्यनर्थं पराक्रमः .

हन्ति नित्यं क्षमा क्रोधमाचारो हन्त्यलक्षणम् .. ३२..

परिच्छदेन क्षत्रेण वेश्मना परिचर्यया .

परीक्षेत कुलं राजन्भोजनाच्छादनेन च .. ३३..

ययोश्चित्तेन वा चित्तं नैभृतं नैभृतेन वा .

समेति प्रज्ञया प्रज्ञा तयोर्मैत्री न जीर्यते .. ३४..

दुर्बुद्धिमकृतप्रज्ञं छन्नं कूपं तृणैरिव .

विवर्जयीत मेधावी तस्मिन्मैत्री प्रणश्यति .. ३५..

अवलिप्तेषु मूर्खेषु रौद्रसाहसिकेषु च .

तथैवापेत धर्मेषु न मैत्रीमाचरेद्बुधः .. ३६..

कृतज्ञं धार्मिकं सत्यमक्षुद्रं दृढभक्तिकम् .

जितेन्द्रियं स्थितं स्थित्यां मित्रमत्यागि चेष्यते .. ३७..

इन्द्रियाणामनुत्सर्गो मृत्युना न विशिष्यते .

अत्यर्थं पुनरुत्सर्गः सादयेद्दैवतान्यपि .. ३८..

मार्दवं सर्वभूतानामनसूया क्षमा धृतिः .

आयुष्याणि बुधाः प्राहुर्मित्राणां चाविमानना .. ३९..

अपनीतं सुनीतेन योऽर्थं प्रत्यानिनीषते .

मतिमास्थाय सुदृढां तदकापुरुष व्रतम् .. ४०..

आयत्यां प्रतिकारज्ञस्तदात्वे दृढनिश्चयः .

अतीते कार्यशेषज्ञो नरोऽर्थैर्न प्रहीयते .. ४१..

कर्मणा मनसा वाचा यदभीक्ष्णं निषेवते .

तदेवापहरत्येनं तस्मात्कल्याणमाचरेत् .. ४२..

मङ्गलालम्भनं योगः श्रुतमुत्थानमार्जवम् .

भूतिमेतानि कुर्वन्ति सतां चाभीक्ष्ण दर्शनम् .. ४३..

अनिर्वेदः श्रियो मूलं दुःखनाशे सुखस्य च .

महान्भवत्यनिर्विण्णः सुखं चात्यन्तमश्नुते .. ४४..

नातः श्रीमत्तरं किं चिदन्यत्पथ्यतमं तथा .

प्रभ विष्णोर्यथा तात क्षमा सर्वत्र सर्वदा .. ४५..

क्षमेदशक्तः सर्वस्य शक्तिमान्धर्मकारणात् .

अर्थानर्थौ समौ यस्य तस्य नित्यं क्षमा हिता .. ४६..

यत्सुखं सेवमानोऽपि धर्मार्थाभ्यां न हीयते .

कामं तदुपसेवेत न मूढ व्रतमाचरेत् .. ४७..

दुःखार्तेषु प्रमत्तेषु नास्तिकेष्वलसेषु च .

न श्रीर्वसत्यदान्तेषु ये चोत्साह विवर्जिताः .. ४८..

आर्जवेन नरं युक्तमार्जवात्सव्यपत्रपम् .

अशक्तिमन्तं मन्यन्तो धर्षयन्ति कुबुद्धयः .. ४९..

अत्यार्यमतिदातारमतिशूरमतिव्रतम् .

प्रज्ञाभिमानिनं चैव श्रीर्भयान्नोपसर्पति .. ५०..

अग्निहोत्रफला वेदाः शीलवृत्तफलं श्रुतम् .

रतिपुत्र फला दारा दत्तभुक्त फलं धनम् .. ५१..

अधर्मोपार्जितैरर्थैर्यः करोत्यौर्ध्व देहिकम् .

न स तस्य फलं प्रेत्य भुङ्क्तेऽर्थस्य दुरागमात् .. ५२..

कानार वनदुर्गेषु कृच्छ्रास्वापत्सु सम्भ्रमे .

उद्यतेषु च शस्त्रेषु नास्ति शेषवतां भयम् .. ५३..

उत्थानं संयमो दाक्ष्यमप्रमादो धृतिः स्मृतिः .

समीक्ष्य च समारम्भो विद्धि मूलं भवस्य तत् .. ५४..

तपोबलं तापसानां ब्रह्म ब्रह्मविदां बलम् .

हिंसा बलमसाधूनां क्षमागुणवतां बलम् .. ५५..

अष्टौ तान्यव्रतघ्नानि आपो मूलं फलं पयः .

हविर्ब्राह्मण काम्या च गुरोर्वचनमौषधम् .. ५६..

न तत्परस्य सन्दध्यात्प्रतिकूलं यदात्मनः .

सङ्ग्रहेणैष धर्मः स्यात्कामादन्यः प्रवर्तते .. ५७..

अक्रोधेन जयेत्क्रोधमसाधुं साधुना जयेत् .

जयेत्कदर्यं दानेन जयेत्सत्येन चानृतम् .. ५८..

स्त्री धूर्तकेऽलसे भीरौ चण्डे पुरुषमानिनि .

चौरे कृतघ्ने विश्वासो न कार्यो न च नास्तिके .. ५९..

अभिवादनशीलस्य नित्यं वृद्धोपसेविनः .

चत्वारि सम्प्रवर्धन्ते कीर्तिरायुर्यशोबलम् .. ६०..

अतिक्लेशेन येऽर्थाः स्युर्धर्मस्यातिक्रमेण च .

अरेर्वा प्रणिपातेन मा स्म तेषु मनः कृथाः .. ६१..

अविद्यः पुरुषः शोच्यः शोच्यं मिथुनमप्रजम् .

निराहाराः प्रजाः शोच्याः शोच्यं राष्ट्रमराजकम् .. ६२..

अध्वा जरा देहवतां पर्वतानां जलं जरा .

असम्भोगो जरा स्त्रीणां वाक्षल्यं मनसो जरा .. ६३..

अनाम्नाय मला वेदा ब्राह्मणस्याव्रतं मलम् .

कौतूहलमला साध्वी विप्रवास मलाः स्त्रियः .. ६४..

सुवर्णस्य मलं रूप्यं रूप्यस्यापि मलं त्रपु .

ज्ञेयं त्रपु मलं सीसं सीसस्यापि मलं मलम् .. ६५..

न स्वप्नेन जयेन्निद्रां न कामेन स्त्रियं जयेत् .

नेन्धनेन जयेदग्निं न पानेन सुरां जयेत् .. ६६..

यस्य दानजितं मित्रममित्रा युधि निर्जिताः .

अन्नपानजिता दाराः सफलं तस्य जीवितम् .. ६७..

सहस्रिणोऽपि जीवन्ति जीवन्ति शतिनस्तथा .

धृतराष्ट्रं विमुञ्चेच्छां न कथं चिन्न जीव्यते .. ६८..

यत्पृथिव्यां व्रीहि यवं हिरण्यं पशवः स्त्रियः .

नालमेकस्य तत्सर्वमिति पश्यन्न मुह्यति .. ६९..

राजन्भूयो ब्रवीमि त्वां पुत्रेषु सममाचर .

समता यदि ते राजन्स्वेषु पाण्डुसुतेषु च .. ७०..

इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरवाक्ये एकोनचत्वारिंशोऽध्यायः .. ३९..

अष्टमोऽध्यायः[सम्पाद्यताम्]

विदुर उवाच .

योऽभ्यर्थितः सद्भिरसज्जमानः करोत्यर्थं शक्तिमहापयित्वा .

क्षिप्रं यशस्तं समुपैति सन्तमलं प्रसन्ना हि सुखाय सन्तः .. १..

महान्तमप्यर्थमधर्मयुक्तं यः सन्त्यजत्यनुपाक्रुष्ट एव .

सुखं स दुःखान्यवमुच्य शेते जीर्णां त्वचं सर्प इवावमुच्य .. २..

अनृतं च समुत्कर्षे राजगामि च पैशुनम् .

गुरोश्चालीक निर्बन्धः समानि ब्रह्महत्यया .. ३..

असूयैक पदं मृत्युरतिवादः श्रियो वधः .

अशुश्रूषा त्वरा श्लाघा विद्यायाः शत्रवस्त्रयः .. ४..

सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखम् .

सुखार्थी वा त्यजेद्विद्यां विद्यार्थी वा सुखं त्यजेत् .. ५..

नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः .

नान्तकः सर्वभूतानां न पुंसां वामलोचना .. ६..

आशा धृतिं हन्ति समृद्धिमन्तकः क्रोधः श्रियं हन्ति यशः कदर्यता .

अपालनं हन्ति पशूंश्च राजन्न् एकः क्रुद्धो ब्राह्मणो हन्ति राष्ट्रम् .. ७..

अजश्च कांस्यं च रथश्च नित्यं मध्वाकर्षः शकुनिः श्रोत्रियश् च .

वृद्धो ज्ञातिरवसन्नो वयस्य एतानि ते सन्तु गृहे सदैव .. ८..

अजोक्षा चन्दनं वीणा आदर्शो मधुसर्पिषी .

विषमौदुम्बरं शङ्खः स्वर्णं नाभिश्च रोचना .. ९..

गृहे स्थापयितव्यानि धन्यानि मनुरब्रवीत् .

देव ब्राह्मण पूजार्थमतिथीनां च भारत .. १०..

इदं च त्वां सर्वपरं ब्रवीमि पुण्यं पदं तात महाविशिष्टम् .

न जातु कामान्न भयान्न लोभाद् धर्मं त्यजेज्जीवितस्यापि हेतोः .. ११..

नित्यो धर्मः सुखदुःखे त्वनित्ये नित्यो जीवो धातुरस्य त्वनित्यः .

त्यक्त्वानित्यं प्रतितिष्ठस्व नित्ये सन्तुष्य त्वं तोष परो हि लाभः .. १२..

महाबलान्पश्य मनानुभावान् प्रशास्य भूमिं धनधान्य पूर्णाम् .

राज्यानि हित्वा विपुलांश्च भोगान् गतान्नरेन्द्रान्वशमन्तकस्य .. १३..

मृतं पुत्रं दुःखपुष्टं मनुष्या उत्क्षिप्य राजन्स्वगृहान्निर्हरन्ति .

तं मुक्तकेशाः करुणं रुदन्तश् चितामध्ये काष्ठमिव क्षिपन्ति .. १४..

अन्यो धनं प्रेतगतस्य भुङ्क्ते वयांसि चाग्निश्च शरीरधातून् .

द्वाभ्यामयं सह गच्छत्यमुत्र पुण्येन पापेन च वेष्ट्यमानः .. १५..

उत्सृज्य विनिवर्तन्ते ज्ञातयः सुहृदः सुताः .

अग्नौ प्रास्तं तु पुरुषं कर्मान्वेति स्वयं कृतम् .. १६..

अस्माल्लोकादूर्ध्वममुष्य चाधो महत्तमस्तिष्ठति ह्यन्धकारम् .

तद्वै महामोहनमिन्द्रियाणां बुध्यस्व मा त्वां प्रलभेत राजन् .. १७..

इदं वचः शक्ष्यसि चेद्यथावन् निशम्य सर्वं प्रतिपत्तुमेवम् .

यशः परं प्राप्स्यसि जीवलोके भयं न चामुत्र न चेह तेऽस्ति .. १८..

आत्मा नदी भारत पुण्यतीर्था सत्योदका धृतिकूला दमोर्मिः .

तस्यां स्नातः पूयते पुण्यकर्मा पुण्यो ह्यात्मा नित्यमम्भोऽम्भ एव .. १९..

कामक्रोधग्राहवतीं पञ्चेन्द्रिय जलां नदीम् .

कृत्वा धृतिमयीं नावं जन्म दुर्गाणि सन्तर .. २०..

प्रज्ञा वृद्धं धर्मवृद्धं स्वबन्धुं विद्या वृद्धं वयसा चापि वृद्धम् .

कार्याकार्ये पूजयित्वा प्रसाद्य यः सम्पृच्छेन्न स मुह्येत्कदा चित् .. २१..

धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा .

चक्षुः श्रोत्रे च मनसा मनो वाचं च कर्मणा .. २२..

नित्योदकी नित्ययज्ञोपवीती नित्यस्वाध्यायी पतितान्न वर्जी .

ऋतं ब्रुवन्गुरवे कर्म कुर्वन् न ब्राह्मणश्च्यवते ब्रह्मलोकात् .. २३..

अधीत्य वेदान्परिसंस्तीर्य चाग्नीन् इष्ट्वा यज्ञैः पालयित्वा प्रजाश् च .

गोब्राह्मणार्थे शस्त्रपूतान्तरात्मा हतः सङ्ग्रामे क्षत्रियः स्वर्गमेति .. २४..

वैश्योऽधीत्य ब्राह्मणान्क्षत्रियांश् च धनैः काले संविभज्याश्रितांश् च .

त्रेता पूतं धूममाघ्राय पुण्यं प्रेत्य स्वर्गे देव सुखानि भुङ्क्ते .. २५..

ब्रह्मक्षत्रं वैश्य वर्णं च शूद्रः क्रमेणैतान्न्यायतः पूजयानः .

तुष्टेष्वेतेष्वव्यथो दग्धपापस् त्यक्त्वा देहं स्वर्गसुखानि भुङ्क्ते .. २६..

चातुर्वर्ण्यस्यैष धर्मस्तवोक्तो हेतुं चात्र ब्रुवतो मे निबोध .

क्षात्राद्धर्माद्धीयते पाण्डुपुत्रस् तं त्वं राजन्राजधर्मे नियुङ्क्ष्व .. २७..

धृतराष्ट्र उवाच .

एवमेतद्यथा मां त्वमनुशासति नित्यदा .

ममापि च मतिः सौम्य भवत्येवं यथात्थ माम् .. २८..

सा तु बुद्दिः कृताप्येवं पाण्डवान्रप्ति मे सदा .

दुर्योधनं समासाद्य पुनर्विपरिवर्तते .. २९..

न दिष्टमभ्यतिक्रान्तुं शक्यं मर्त्येन केन चित् .

दिष्टमेव कृतं मन्ये पौरुषं तु निरर्थकम् .. ३०..

इति श्रीमाहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरवाक्ये चत्वारिंशोऽध्यायः .. ४०..

इति विदुर नीति समाप्ता ..

"https://sa.wikisource.org/w/index.php?title=विदुरनीतिः&oldid=37534" इत्यस्माद् प्रतिप्राप्तम्