वायुपुराणम्/पूर्वार्धम्/अध्यायः ४२

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ४१ वायुपुराणम्
अध्यायः ४२
वेदव्यासः
अध्यायः ४३ →
वायुपुराणम्/पूर्वार्धम्
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१

।।सूत उवाच।।
सरोवरेभ्यः पुण्योदा देव नद्यो विनिर्गताः।
महौघतोया नद्यश्च ताः श्रृणुध्वं यथाक्रमम् ।। ४२.१ ।।

आकाशाम्भोनिधेर्योऽसौ सोम इत्यभिधीयते।
आधारः सर्वभूतानां देवानाममृताकरः ।। ४२.२ ।।

तस्मात् प्रवृत्ता पुण्योदा नदी ह्याकाशगामिनी।
सप्तमेनानिलपथा प्रयाता विमलोदका ।। ४२.३ ।।

सा ज्योतिषि निवर्तन्ती ज्योतिर्गणनिषेविता।
ताराकोजिसहस्राणां नभसश्च समायता ।। ४२.४ ।।

माहेन्द्रेण गजेन्द्रेण आकाशपथयायिना।
क्रीडिता ह्यन्तरतले या सा विक्षोभितोदका ।। ४२.५ ।।

नैकैर्विमानसङ्घातैः प्रक्रामद्भिर्नभस्तलम्।
सिद्धैरुपस्पृष्टजला महापुण्यजला शिवा ।। ४२.६ ।।

वायुना प्रेर्यमाणा च अनेकाभोगगामिनी।
परिवर्त्तत्यहरहर्यथा सूर्यस्तथैव सा ।। ४२.७ ।।

चत्वार्यशीतिः प्रतता योजनानां समन्ततः।
वेगेन कुर्वती मेरुं सा प्रयाता प्रदक्षिणम् ।। ४२.८ ।।

विभिद्यमाना सलिलैस्तैजसेनानिलेन च।
मेरोरुत्तरकूटेषु पतिताथ चतुर्ष्वपि ।। ४२.९ ।।

मेरुकूटतटान्तेभ्य उत्कृष्टेभ्यो निवर्तिता।
विकीर्यमाण सलिला चतुर्द्धासंसृतोदका ।। ४२.१० ।।

षष्टियोजनसाहस्रं निरालम्बनमम्बरम्।
निपपात महाभाग मेरोस्तस्य चतुर्द्दिशम् ।। ४२.११ ।।

सा चतुर्ष्वभितश्चैव महापादेषु शोभना।
पुण्या मन्दरपूर्वेण पतिता हि महानदी ।। ४२.१२ ।।

पूर्वेणांशेन देवानां सर्वसिद्धगणालयम्।
सुवर्णचित्रकटकं नैकनिर्झरकन्दरम् ।। ४२.१३ ।।

प्लावयन्ती सशैलेन्द्रं मन्दरञ्चारुकन्दरम्।
वप्रप्रतापशमनैरनेकैः स्फाटिकोदकैः ।। ४२.१४ ।।

तथा चैत्ररथं रम्यं प्लावयन्ती प्रदक्षिणम्।
प्रविष्टा ह्यम्बरनदी ह्यरुणोदसरोवरम् ।। ४२.१५ ।।

अरुणोदान्निवृत्ताऽथ शीतान्ते रम्यनिर्झरे।
शैले सिद्धगणावासे निपपात सुगामिनी ।। ४२.१६ ।।

सीता नाम महा पुण्या नदीनां प्रवरा नदी।
सा निकुञ्जनिरुद्धा तु अनेकाभोगगामिनी ।। ४२.१७ ।।

शीतान्ताशिखराद्भ्रष्टा सुकुञ्जे वरपर्वते।
निपपात महाभागा तस्मादपि सुमञ्जसम् ।। ४२.१८ ।।

तस्मान्माल्यवतं शैलं भावयन्ती वरापगा।
वैकङ्कं समनुप्राप्ता वैकङ्कान्मणिपर्वतम्।
मणिपर्वतान्महाशैलं ऋषभं नैककन्दरम् ।। ४२.१९ ।।

एवं शैलसहस्राणि दारयन्ती महानदी।
पतिताऽथ महाशैले जठरे सिद्धसेविते ।। ४२.२० ।।

तस्मादपि महाशैलं देवकूटं तरङ्गिणी।
तस्य कुक्षिसमुद्रान्ता क्रमेण पृथिवीं गता ।। ४२.२१ ।।

सैवं स्थलीसहस्राणि शैलराजशतानि च।
वनानि च विचित्राणि सरांसि विविधानि च ।। ४२.२२ ।।

स्रावयन्ती महाभागा विस्फारेष्ववलीकदा।
नदी सहस्रानुगता प्रवृत्ता च महानदी ।। ४२.२३ ।।

भद्राश्वं सुमहाद्वीपं प्लावयन्ती वरापगा।
प्रविष्टा ह्यर्णवं पूर्वं पूर्वे द्वीपे महानदी ।। ४२.२४ ।।

दक्षिणेऽपि प्रपन्ना या शैलेन्द्रे गन्धमादने।
चित्रैः प्रपातैर्विधैर्नैकविस्फालितोदका ।। ४२.२५ ।।

तद्घन्धमादनवनं नन्दनं देवनन्दनम्।
प्लावयन्ती महाभागा प्रयाता सा प्रदक्षिणम् ।। ४२.२६ ।।

नाम्ना ह्यलकनन्देति सर्वलोकेषु विश्रुता।
प्रविशत्युत्तरसरो मानसं देवमानसम् ।। ४२.२७ ।।

मानसाच्छैलराजानं रम्यं त्रिशिखरं गता।
त्रिकूटाच्छैलशिखरात् कलिङ्गशिखरं गता ।। ४२.२८ ।।

कलिङ्गशिखराद्भ्रष्टा रुचके निपपात सा।
रुचकान्निषधं प्राप्ता ताम्राभं निषधादपि ।। ४२.२९ ।।

ताम्राभशिखरार्द्भ्रष्टा गता श्वेतोदरं गिरिम् ।
तस्मात्सुमूलं शैलेन्द्रं वसुधारञ्च पर्वतम् ।। ४२.३० ।।

हेमकूटं गता तस्माद्देवश्रृङ्गे ततो गता।
तस्माद्गता महाशैलं ततश्चापि पिशाचकम् ।। ४२.३१ ।।

पिशाचकाच्छैलवरात् पञ्चकूटङ्गता पुनः।
पञ्चकूटात्तु कैलासं देवावासं शिलोच्चयम् ।। ४२.३२ ।।

तस्य कुक्षिषु विभ्रान्ता नैककन्दरसानुषु।
हिमवत्युत्तमनदी निपपाताचलोत्तमे ।। ४२.३३ ।।

सैवं शैलसहस्राणि दारयन्ती महानदी।
स्थलीशतान्यनेकानि प्लावयन्त्याशुगाणिनी ।। ४२.३४ ।।

वनानाञ्च सहस्राणि कन्दराणां शतानि च ।
स्रावयन्ती महाभागा प्रयाता दक्षिणोदधिम् ।। ४२.३५ ।।

रम्या योजनविस्तीर्णा शैलकुक्षिषु संवृता।
याधृता देवदेवेन शङ्करेण महात्मना ।। ४२.३६ ।।

पावनी द्विजशार्दूल घोराणामपि पाप्मनाम्।
शङ्करस्याङ्कसंस्पर्शान्महादेवस्य धीमतः।
द्विगुणं पवित्रसलिला सर्वलोके महानदी ।। ४२.३७ ।।

अनुशैलं समन्ताच्च निर्गता बहुभिर्मुखैः।
अथोऽन्येनाभिधानेन ख्याता नद्यः सहस्रशः ।। ४२.३८ ।।

तस्माद्धिमवतो गङ्गा गता सा तु महानदी।
एवं गङ्गेति नाम्नादिप्रकाशा सिद्धसेविता ।। ४२.३९ ।।

धन्यास्ते सत्तमा देशा यत्र गङ्गा महानदी।
रुद्रसाद्ध्यानिलादित्यैर्जुष्टतोया यशस्वती ।। ४२.४० ।।

महापादं प्रवक्ष्यामि मेरोरपि हि पश्चिमम्।
नानारत्नाकारं पुण्यं पुण्यकृद्भिर्निषेवितम् ।। ४२.४१ ।।

विपुलं शैलराजानं विपुलोदरकन्दरम् ।
नितम्बकुञ्ज कटकैर्विमलैर्म्मण्डितोदरम् ।। ४२.४२ ।।

अपि या त्र्यम्बकस्यैषा त्रिदशैः सेवितोदका।
वायुवेगा गताभोगा लतेव भ्रामिता पुनः ।। ४२.४३ ।।

मेरुकूटतटाद्भ्रष्टा प्रहतैः स्वादितोदका।
विस्तीर्य्यमाणसलिला निर्म्मलांशुकसन्निभा ।। ४२.४४ ।।

तस्य कूटेऽम्बरनदी सिद्धचारणसेविता ।
प्रदक्षिणमथावृत्य पतिता सा तु गामिनी ।। ४२.४५ ।।

देवभ्राजं महाभ्राजं सवैभ्राजं महावनम्।
प्लावयन्ती महाभागा नानापुष्पफलोदका ।। ४२.४६ ।।

प्रदक्षिणं प्रकुर्वाणा नानावनविभूषिता।
प्रविष्टा पश्विमसरः सितोदं विमलोदकम् ।। ४२.४७ ।।

सा सितोदाद्विनिष्क्रान्ता सुपक्षं पर्व्वतं गता।
सुपक्षतस्तु पुण्योदात्ततो देवर्षिसेविता ।। ४२.४८ ।।

सुपक्षकूटतटगा तस्माच्च संशितोदका।
निपपात महाभागा रमण्यं शिखिपर्व्वतम् ।। ४२.४९ ।।

शिखेश्च पर्वतात् कङ्कं कङ्काद्वैढूर्य्यपर्व्वतम्।
वैढूर्य्यात् कपिलं शैलं तस्माच्च गन्धमादनम् ।। ४२.५० ।।

तस्माद्गिरिवरात् प्राप्ता पिञ्जरं वरपर्व्वतम्।
पिञ्जरात् सरसं याता तस्माच्च कुमुदाचलम् ।। ४२.५१ ।।

मधुमन्तं जनञ्चैव मुकुटञ्च शिलोच्चयम्।
मुकुटाच्छैलशिखरात् कृष्णं याता महागिरिम् ।। ४२.५२ ।।

कृष्णात् श्वेतं महाशैलं महानगनिषेवितम्।
श्वेतात् सहस्रशिखरं शैलेन्द्रं पतिता पुनः ।। ४२.५३ ।।

अनेकाभिः स्रवन्तीभिराप्यायितजला शिवा ।
एवं शैलसहस्राणि सादयन्ती महानदी।
पारिजाते महाशैले निपपाताशुगामिनी ।। ४२.५४ ।।

अनेकनिर्झरनदी गुहासानुषु राजते।
तस्य कुक्षिष्वनेकासु भ्रान्ततोया तरङ्गिणी ।। ४२.५५ ।।

व्याहन्यमानसंवेगा गण्डशैलैरनेकशः।
संविद्यमानसलिला गता च धरणीतले ।। ४२.५६ ।।

केतुमालं महाद्वीपं नानाम्लेच्छ गणैर्युतम् ।
प्लावयन्ती महाभागा प्रयाता पश्चिमार्णवम् ।। ४२.५७ ।।

सुवर्णचित्रपार्श्वे तु सुपार्श्वेऽप्युत्तरे गिरौ ।
मेरोश्चित्रमहापादे महासत्त्वनिषेविते ।। ४२.५८ ।।

मेरुकूटतटाद्भ्रष्टा पवनेनेरितोदका।
अनेकाभोगवक्राङ्गी क्षिप्यमाणा नभस्तले ।। ४२.५९ ।।

षष्टियोजनसाहस्रे निरालम्बेऽम्बरे शुभे।
विकीर्यमाणा मालेव निपपात महानदी ।। ४२.६० ।।

एवं कूटतटैर्भ्रष्टा नैकैर्देवर्षिसेवितैः।
विकीर्यमाणसलिला नैकपुष्पोडुपोत्कचा ।। ४२.६१ ।।

नानारत्नवनोद्देशमरण्यं सवितुर्व्वनम्।
महावनं महाभागा प्लावयन्ती प्रदक्षिणम् ।। ४२.६२ ।।

सरोवरं महापुण्यं महाभागनिषेवितम्।
तत्राविवेश कल्याणी महाभद्रं सितोदका ।। ४२.६३ ।।

भद्रसोमेति नाम्ना हि महापारा महाजवा।
महानदी महापुण्या महाभद्रा विनिर्गता ।। ४२.६४ ।।

नैकनिर्झरवप्राढ्या शंखकूटतटे तु सा।
तत्र कूटे गिरितटे निपपाताशुगामिनी ।। ४२.६५ ।।

शंखकूटतटाद्भ्रष्टा पपात वृषपर्व्वतम्।
वृषपर्व्वताद्वत्सगिरिं नागशैलं ततो गता ।। ४२.६६ ।।

तस्मान्नीलं नगश्रेष्ठं संप्राप्ता वर्षपर्व्वतम्।
नीलात् कपिञ्जलञ्चैव इन्द्रनीलं च निम्नगा ।। ४२.६७ ।।

ततः परं महानीलं हेमश्रृङ्गञ्च सा ययौ ।
हेमश्रृङ्गाद्गता श्वेतं श्वेताच्च सुनगं ययौ ।। ४२.६८ ।।

सुनगात् शतश्रृङ्गञ्च संप्राप्ता सा महानदी।
शतश्रृङ्गान्महाशैलं पुष्करं पुष्पमण्डितम् ।। ४२.६९ ।।

पुष्कराच्च महाशैलं द्विराजं सुमहाबलम् ।
वराहपर्व्वतं तस्मान्मयूरञ्च शिलोच्चयम् ।। ४२.७० ।।

मयूराच्चैकशिखरं कन्दरोदरमण्डितम् ।
जारुधिं शैल शिखरं निपपाताशुगामिनी ।। ४२.७१ ।।

एवं गिरिसहस्राणि दारयन्ती महानदी।
त्रिश्रृङ्गं श्रृङ्गकलिलं मर्यादापर्वतं गता ।। ४२.७२ ।।

त्रिश्रृङ्गतटविभ्रष्टा महाभागनिषेविता।
मेरुकूटतटाद्भ्रष्टा पवनेनेरितोदका ।। ४२.७३ ।।

विरुद्धं पर्वतवरं पपात विमलोदका।
प्लावयन्ती महाभागा प्रयाता पश्चिमार्णवम् ।। ४२.७४ ।।

सुवर्णभुवि पार्श्वे तु सुपार्श्वेप्युत्तरे गिरौ ।।

मेरोश्वित्रे महापादे महासत्त्वनिषेविते ।। ४२.७५ ।।

कन्दरोदरविभ्रष्टा तस्मादपि तरङ्गिणी।
नैकभोगा पपातोर्वीं चित्रपुष्पोढुपोत्कचा ।। ४२.७६ ।।

प्लावयन्ती प्रमुदिता उत्तरान् सा कुरून् शिवा।
महाद्वीपस्य मध्येन प्रयाता सोत्तरार्णवम् ।। ४२.७७ ।।

एवं तास्तु महानद्यश्चतस्रो विमलोदकाः।
महागिरितटभ्रष्टाः संप्रयाताश्चतुर्दिशम् ।। ४२.७८ ।।

तत्सेयं कथितप्राया पृथिवी बहुविस्तरा।
मेरुशैलमहाकीर्णाऽविशच्च सर्वतोदिशम् ।। ४२.७९ ।।

चतुर्महाद्वीपवती चतुराक्रीडकानना।
चतुष्केतुमहावृक्षा चतुर्वरसरस्वती ।। ४२.८० ।।

चतुर्महाशैलवती चतुर्भुजगसंश्रया।
अष्टोत्तरमहाशैला तथाष्टवरपर्वता ।। ४२.८१ ।।

इति श्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नाम द्विचत्वारिंशोऽध्यायः ।। ४२ ।।