वामनपुराणम्/सप्तचत्वारिंशत्तमोऽध्यायः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः
  54. चतुष्पञ्चाषत्तमोऽध्यायः
  55. पञ्चपञ्चाषत्तमोऽध्यायः
  56. षट्पञ्चाषत्तमोऽध्यायः
  57. सप्तपञ्चाषत्तमोऽध्यायः
  58. अष्टपञ्चाषत्तमोऽध्यायः
  59. नवपञ्चाषत्तमोऽध्यायः
  60. षष्टितमोऽध्यायः
  61. एकषष्टितमोऽध्यायः
  62. द्विषष्टितमोऽध्यायः
  63. त्रिषष्टितमोऽध्यायः
  64. चतुष्षष्टितमोऽध्यायः
  65. पञ्चषष्टितमोऽध्यायः
  66. षड्षष्टितमोऽध्यायः
  67. सप्तषष्टितमोऽध्यायः
  68. अष्टषष्टितमोऽध्यायः
  69. नवषष्टितमोऽध्यायः
  70. सप्ततितमोऽध्यायः
  71. एकसप्ततितमोऽध्यायः
  72. द्विसप्ततितमोऽध्यायः
  73. त्रिसप्ततितमोऽध्यायः
  74. चतुस्सप्ततितमोऽध्यायः
  75. पञ्चसप्ततितमोऽध्यायः
  76. षट्सप्ततितमोऽध्यायः
  77. सप्तसप्ततितमोऽध्यायः
  78. अष्टसप्ततितमोऽध्यायः
  79. नवसप्ततितमोऽध्यायः
  80. अशीतितमोशऽध्यायः
  81. एकाशीतितमोऽध्यायः
  82. द्व्यशीतितमोऽध्यायः
  83. त्र्यशीतितमोऽध्यायः
  84. चतुरशीतितमोऽध्यायः
  85. पञ्चाशीतितमोऽध्यायः
  86. षडशीतितमोऽध्यायः
  87. सपाशीतितमोऽध्यायः
  88. अष्टाशीतितमोऽध्यायः
  89. नवाशीतितमोऽध्यायः
  90. नवतितमोऽध्यायः
  91. एकनवतितमोऽध्यायः
  92. द्विनवतितमोऽध्यायः
  93. त्रिनवतितमोऽध्यायः
  94. चतुर्नवतितमोऽध्यायः
  95. पञ्चनवतितमोऽध्यायः
  96. षण्णवतितमोऽध्यायः

मार्कण्डेय उवाच।
स्थाणुतीर्थप्रभावं तु श्रोतुमिच्छाम्यहं मुने ।
केन सिद्धिरथ प्राप्ता सर्वपापभयापहा १ ।
सनत्कुमार उवाच।
शृणु सर्वमशेषेण स्थाणुमाहात्म्यमुत्तमम् ।
यच्छ्रुत्वा सर्वपापेभ्यो मुक्तो भवति मानवः २ ।
एकार्णवे जगत्यस्मिन् नष्टे स्थावरजङ्गमे ।
विष्णोर्नाभिसमुद्भूतं पद्ममव्यक्तजन्मनः ।
तस्मिन् ब्रह्मा समुद्भूतः सर्वलोकपितामहः ३ ।
तस्मान्मरीचिरभवन्मरीचेः कश्यपः सुतः ।
कश्यपादभवद् भास्वांस्तस्मान्मनुरजायत ४ ।
मनोस्तु क्षुवतः पुत्र उत्पन्नो मुखसंभवः ।
पृथिव्यां चतुरन्तायां राजासीद् धर्मरक्षिता ५ ।
तस्य पत्नी बभूवाथ भया नाम भयावहा ।
मृत्योः सकाशादुत्पन्ना कालस्य दुहिता तदा ६ ।
तस्यां समभवद् वेनो दुरात्मा वेदनिन्दकः ।
स दृष्ट्वा पुत्रवदनं क्रुद्धो राजा वनं ययौ ७ ।
तत्र कृत्वा तपो घोरं धर्मेणावृत्य रोदसी ।
प्राप्तवान् ब्रह्मसदनं पुनरावृत्तिदुर्लभम् ८ ।
वेनो राजा समभवत् समस्ते क्षितिमण्डले ।
स मातामहदोषेण तेन कालात्मजात्मजः ९ ।
घोषयामस नगरे दुरात्मा वेदनिन्दकः ।
न दातव्यं न यष्टव्यं न होतव्यं कदाचन १० ।
अहमेकोऽत्र वै वन्द्यः पूज्योऽहं भवतां सदा ।
मया हि पालिता यूयं निवसध्वं यथासुखम् ११ ।
तन्मत्तोऽन्यो न देवोऽस्ति युष्माकं यः परायणम् ।
एतच्छ्रुत्वा तु वचनमृषयः सर्व एव ते १२ ।
परस्परं समागम्य राजानं वाक्यमब्रुवन् ।
श्रुतिः प्रमाणं धर्मस्य ततो यज्ञः प्रतिष्ठितः १३ ।
यज्ञैर्विना नो प्रीयन्ते देवाः स्वर्गनिवासिनः ।
अप्रीता न प्रयच्छन्ति वृष्टिं सस्यस्य वृद्धये १४ ।
तस्माद् यज्ञैश्च देवैश्च धार्यते सचराचरम् ।
एतच्छ्रुत्वा क्रोधदृष्टिर्वेनः प्राह पुनः पुनः १५ ।
न यष्टव्यं न दातव्यमित्याह क्रोधमूर्च्छितः ।
ततः क्रोधसमाविष्टा ऋषयः सर्व एव ते १६ ।
निजघ्नुर्मन्त्रपूतैस्ते कुशैर्वज्रसमन्वितैः ।
ततस्त्वराजके लोके तमसा संवृते तदा १७ ।
दस्युभिः पीड्यमानास्तान् ऋषींस्ते शरणं ययुः ।
ततस्ते ऋषयः सर्वे ममन्थुस्तस्य वै करम् १८ ।
सव्यं तस्मात् समुत्तस्थौ पुरुषो ह्रस्वदर्शनः ।
तमूचुरृषयः सर्वे निषीदतु भवानिति १९ ।
तस्मान्निषादा उत्पन्ना वेनकल्मषसंभवाः ।
ततस्ते ऋषयः सर्वे मन्मथुर्दक्षिणं करम् २० ।
मथ्यमाने करे तस्मिन् उत्पन्नः पुरुषोऽपरः ।
बृहत्सालप्रतीकाशो दिव्यलक्षणलक्षितः २१ ।
धनुर्बाणाङ्कितकरश्चक्रध्वजसमन्वितः ।
तमुत्पन्नं तदा दृष्ट्वा सर्वे देवाः सवासवाः २२ ।
अभ्यषिञ्चन् पृथिव्यां तं राजानं भूमिपालकम् ।
ततः स रञ्जयामास धर्मेण पृथिवीं तदा २३ ।
पित्राऽपरञ्जिता तस्य तेन सा परिपालिता ।
तत्र राजेतिशब्दोऽस्य पृथिव्या रञ्जनादभूत् २४ ।
स राज्यं प्राप्य तेभ्यस्तु चिन्तयामास पार्थिवः ।
पिता मम अधर्मिष्ठो यज्ञव्युच्छित्तिकारकः २५ ।
कथं तस्य क्रिया कार्या परलोकसुखावहा ।
इत्येवं चिन्तयानस्य नारदोऽभ्याजगाम ह २६ ।
तस्मै स चासनं दत्त्वा प्रणिपत्य च पृष्टवान् ।
भगवन् सर्वलोकस्य जानासि त्वं शुभाशुभम् २७ ।
पिता मम दुराचारो देवब्राह्मणनिन्दकः ।
स्वकर्मरहितो विप्र परलोकमवाप्तवान् २८ ।
ततोऽब्रवीन्नारदस्तं ज्ञात्वा दिव्येन चक्षुषा ।
म्लेच्छमघ्ये समुत्पन्नं क्षयकुष्ठसमन्वितम् २९ ।
तच्छ्रुत्वा वचनं तस्य नारदस्य महात्मनः ।
चिन्तयामास दुःखार्तः कथं कार्यं मया भवेत् ३० ।
इत्येवं चिन्तयानस्य मतिर्जाता महात्मनः ।
पुत्रः स कथ्यते लोके यः पितॄंस्त्रायते भयात् ३१ ।
एवं संचिन्त्य स तदा नारदं पृष्टवान् मुनिम् ।
तारणं मत्पितुस्तस्य मया कार्यं कथं मुने ३२ ।
नारद उवाच।
गच्छ त्वं तस्य तं देहं तीर्थेषु कुरु निर्मलम् ।
यत्र स्थाणोर्महत्तीर्थं सरः संनिहितं प्रति ३३ ।
एतच्छ्रुत्वा तु वचनं नारदस्य महात्मनः ।
सचिवे राज्यमाधाय राजा स तु जगाम ह ३४ ।
स गत्वा चोत्तरां भूमिं म्लेच्छमध्ये ददर्श ह ।
कुष्ठरोगेण महता क्षयेण च समन्वितम् ३५ ।
ततः शोकेन महता संतप्तो वाक्यमब्रवीत् ।
हे म्लेच्छा नौमि पुरुषं स्वगृहं च नयाम्यहम् ३६ ।
तत्राहमेनं निरुजं करिष्ये यदि मन्यथ ।
तथेति सर्वे ते म्लेच्छाः पुरुषं तं दयापरम् ३७ ।
ऊचुः प्रणतसर्वाङ्गा यथा जानासि तत्कुरु ।
तत आनीय पुरुषान् शिविकावाहनोचितान् ३८ ।
दत्त्वा शुल्कं च द्विगुणं सुखेन नयत द्विजम् ।
ततः श्रुत्वा तु वचनं तस्य राज्ञो दयावतः ३९ ।
गृहीत्वा शिविकां क्षिप्रं कुरुक्षेत्रेण यान्ति ते ।
तत्र नीत्वा स्थाणुतीर्थे अवतार्य च ते गताः ४० ।
ततः स राजा मध्याह्ने तं स्नापयति वै तदा ।
ततो वायुरन्तरिक्षे इदं वचनमब्रवीत् ४१ ।
मा तात साहसं कार्षीस्तीर्थं रक्ष प्रयत्नतः ।
अयं पापेन घोरेण अतीव परिवेष्टितः ४२ ।
वेदनिन्दा महत्पापं यस्यान्तो नैव लभ्यते ।
सोऽयं स्नानान्महत्तीर्थं नाशयिष्यति तत्क्षणात् ४३ ।
एतद् वायोर्वचः श्रुत्वा दुःखेन महतान्वितः ।
उवाच शोकसंतप्तस्तस्य दुःखेन दुःखितः ।
एष घोरेण पापेन अतीव परिवेष्टितः ४४ ।
प्रायश्चित्तं करिष्येऽहं यद्वदिष्यन्ति देवताः ।
ततस्ता देवताः सर्वा इदं वचनमब्रुवन् ४५ ।
स्नात्वा स्नात्वा च तीर्थेषु अभिषिञ्चस्व वारिणा ।
ओजसा चुलुकं यावत् प्रतिकूले सरस्वतीम् ४६ ।
स्नात्वा मुक्तिमवाप्नोति पुरुषः श्रद्धयान्वितः ।
एष स्वपोषणपरो देवदूषणतत्परः ४७ ।
ब्राह्मणैश्च परित्यक्तो नैष शुद्ध्यति कर्हिचित् ।
तस्मादेनं समुद्दिश्य स्नात्वा तीर्थेषु भक्तितः ४८ ।
अभिषिञ्चस्व तोयेन ततः पूतो भविष्यति ।
इत्येतद्वचनं श्रुत्वा कृत्वा तस्याश्रमं ततः ४९ ।
तीर्थयात्रां ययौ राजा उद्दिश्य जनकं स्वकम् ।
स तेषु प्लावनं कुर्वंस्तीर्थेषु च दिने दिने ५० ।
अभ्यषिञ्चत् स्वपितरं तीर्थतोयेन नित्यशः ।
एतस्मिन्नेव काले तु सारमेयो जगाम ह ५१ ।
स्थाणोर्मठे कौलपतिर्देवद्र व्यस्य रक्षिता ।
परिग्रहस्य द्र व्यस्य परिपालयिता सदा ५२ ।
प्रियश्च सर्वलोकेषु देवकार्यपरायणः ।
तस्यैवं वर्तमानस्य धर्ममार्गे स्थितस्य च ५३ ।
कालेन चलिता बुद्धिर्देवद्र व्यस्य नाशने ।
तेनाधर्मेण युक्तस्य परलोकगतस्य च ५४ ।
दृष्ट्वा यमोऽब्रवीद् वाक्यं श्वयोनिं व्रज मा चिरम् ।
तद्वाक्यानन्तरं जातः श्वा वै सौगन्धिके वने ५५ ।
ततः कालेन महता श्वयूथपरिवारितः ।
परिभूतः सरमया दुःखेन महता वृतः ५६ ।
त्यक्त्वा द्वैतवनं पुण्यं सान्निहत्यं ययौ सरः ।
तस्मिन् प्रविष्टमात्रस्तु स्थाणोरेव प्रसादतः ५७ ।
अतीव तृषया युक्तः सरस्वत्यां ममञ्ज ह ।
तत्र संप्लुतदेहस्तु विमुक्तः सर्वकिल्बिषैः ५८ ।
आहारलोभेन तदा प्रविवेश कुटीरकम् ।
प्रविशन्तं तदा दृष्ट्वा श्वानं भयसमन्वितः ५९ ।
स तं पस्पर्श शनकैः स्थाणुतीर्थे ममञ्ज ह ।
पततः पूर्वतीर्थेषु विप्रुषैः परिषिञ्चतः ६० ।
शुनोऽस्य गात्रसंभूतैरब्बिन्दुभिः स सिञ्चितः ।
विरक्तदृष्टिश्च शुनः क्षेपेण च ततः परम् ६१ ।
स्थाणुतीर्थस्य माहात्म्यात् स पुत्रेण च तारितः ।
नियतस्तत्क्षणाज्जातो दिव्यदेहसमन्वितः।
प्रणिपत्य तदा स्थाणुं स्तुतिं कर्तुं प्रचक्रमे ६२ ।
वेन उवाच।
प्रपद्ये देवमीशानं त्वामजं चन्द्र भूषणम् ।
महादेवं महात्मानं विश्वस्य जगतः पतिम् ६३ ।
नमस्ते देवदेवेश सर्वशत्रुनिषूदन ।
देवेश बलिविष्टम्भ देवदैत्यैश्च पूजित ६४ ।
विरूपाक्ष सहस्राक्ष त्र्! यक्ष यक्षेश्वरप्रिय ।
सर्वतः पाणिपादान्त सर्वतोऽक्षिशिरोमुख ६५ ।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठसि ।
शङ्कुकर्ण महाकर्ण कुम्भकर्णार्णवालय ६६ ।
गजेन्द्र कर्ण गोकर्ण पाणिकर्ण नमोऽस्तु ते ।
शतजिह्व शतावर्त शतोदर शतानन ६७ ।
गायन्ति त्वां गायत्रिणो ह्यर्चयन्त्यर्क्कमर्चिणः ।
ब्रह्माणं त्वा शतक्रतो उद्वंशमिव मेनिरे ६८ ।
मूर्तौ हि ते महामूर्ते समुद्रा म्बुधरास्तथा ।
देवताः सर्व एवात्र गोष्ठे गाव इवासते ६९ ।
शरीरे तव पश्यामि सोममग्निं जलेश्वरम् ।
नारायणं तथा सूर्यं ब्रह्माणं च बृहस्पतिम् ७० ।
भगवान् कारणं कार्यं क्रियाकारणमेव तत् ।
प्रभवः प्रलयश्चैव सदसच्चापि दैवतम् ७१ ।
नमो भवाय शर्वाय वरदायोग्ररूपिणे ।
अन्धकासुरहन्त्रे च पशूनां पतये नमः ७२ ।
त्रिजटाय त्रिशीर्षाय त्रिशूलासक्तपाणये ।
त्र्! यम्बकाय त्रिनेत्राय त्रिपुरघ्न नमोऽस्तु ते ७३ ।
नमो मुण्डाय चण्डाय अण्डायोत्पत्तिहेतवे ।
डिण्डिमासक्तहस्ताय डिण्डिमुण्डाय ते नमः ७४ ।
नमोर्ध्वकेशदंष्ट्राय शुष्काय विकृताय च ।
धूम्रलोहितकृष्णाय नीलग्रीवाय ते नमः ७५ ।
नमोऽस्त्वप्रतिरूपाय विरूपाय शिवाय च ।
सूर्यमालाय सूर्याय स्वरूपध्वजमालिने ७६ ।
नमो मानातिमानाय नमः पटुतराय ते ।
नमो गणेन्द्र नाथाय वृषस्कन्धाय धन्विने ७७ ।
संक्रन्दनाय चण्डाय पर्णधारपुटाय च ।
नमो हिरण्यवर्णाय नमः कनकवर्चसे ७८ ।
नमः स्तुताय स्तुत्याय स्तुतिस्थाय नमोऽस्तु ते ।
सर्वाय सर्वभक्षाय सर्वभूतशरीरिणे ७९ ।
नमो होत्रे च हन्त्रे च सितोदग्रपताकिने ।
नमो नम्याय नम्राय नमः कटकटाय च ८० ।
नमोऽस्तु कृशनाशाय शयितायोत्थिताय च ।
स्थिताय धावमानाय मुण्डाय कुटिलाय च ८१ ।
नमो नर्तनशीलाय लयवादित्रशालिने ।
नाट्योपहारलुब्धाय मुखवादित्रशालिने ८२ ।
नमो ज्योष्ठाय श्रेष्ठाय बलातिबलघातिने ।
कालनाशाय कालाय संसारक्षयरूपिणे ८३ ।
हिमवद्दुहितुः कान्त भैरवाय नमोऽस्तु ते ।
उग्राय च नमो नित्यं नमोऽस्तु दशबाहवे ८४ ।
चितिभस्मप्रियायैव कपालासक्तपाणये ।
विभीषणाय भीष्माय भीमव्रतधराय च ८५ ।
नमो विकृतवक्त्राय नमः पूतोग्रदृष्टये ।
पक्वाममांसलुब्धाय तम्बिवीणाप्रियाय च ८६ ।
नमो वृषाङ्कवृक्षाय गोवृषाभिरुते नमः ।
कटङ्कटाय भीमाय नमः परपराय च ८७ ।
नमः सर्ववरिष्ठाय वराय वरदायिने ।
नमो विरक्तरक्ताय भावनायाक्षमालिने ८८ ।
विभेदभेदभिन्नाय छायायै तपनाय च ।
अघोरघोररूपाय घोरघोरतराय च ८९ ।
नमः शिवाय शान्ताय नमः शान्ततमाय च ।
बहुनेत्रकपालाय एकमूर्ते नमोऽस्तु ते ९० ।
नमः क्षुद्रा य लुब्धाय यज्ञभागप्रियाय च ।
पञ्चालाय सिताङ्गाय नमो यमनियामिने ९१ ।
नमश्चित्रोरुघण्टाय घण्टाघण्टनिघण्टिने ।
सहस्रशतघण्टाय घण्टामालविभूषिणे ९२ ।
प्राणसंघट्टगर्वाय नमः किलिकिलिप्रिये ।
हुंहुङ्काराय पाराय हुंहुङ्कारप्रियाय च ९३ ।
नमः समसमे नित्यं गृहवृक्षनिकेतिने ।
गर्भमांसशृगालाय तारकाय तराय च ९४ ।
नमो यज्ञाय यजिने हुताय प्रहुताय च ।
यज्ञवाहाय हव्याय तप्याय तपनाय च ९५ ।
नमस्तु पयसे तुभ्यं तुण्डानां पतये नमः ।
अन्नदायान्नपतये नमो नानान्नभोजिने ९६ ।
नमः सहस्रशीर्षाय सहस्रचरणाय च ।
सहस्रोद्यतशूलाय सहस्राभरणाय च ९७ ।
बालानुचरगोप्त्रे च बाललीलाविलासिने ।
नमो बालाय वृद्धाय क्षुब्धाय क्षोभणाय च ९८ ।
गङ्गालुलितकेशाय मुञ्जकेशाय वै नमः ।
नमः षट्कर्मतुष्टाय त्रिकर्मनिरताय च ९९ ।
नग्नप्राणाय चण्डाय कृशाय स्फोटनाय च ।
धर्मार्थकाममोक्षाणां कथ्याय कथनाय च १०० ।
साङ्ख्याय साङ्ख्यमुख्याय साङ्ख्ययोगमुखाय च ।
नमो विरथरथ्याय चतुष्पथरथाय च १०१ ।
कृष्णाजिनोत्तरीयाय व्यालयज्ञोपवीतिने ।
वक्त्रसंधानकेशाय हरिकेश नमोऽस्तु ते ।
त्र्! यम्बिकाम्बिकनाथाय व्यक्ताव्यक्ताय वेधसे १०२ ।
कामकामदकामघ्न तृप्तातृप्तविचारिणे ।
नमः सर्वद पापघ्न कल्पसंख्याविचारिणे १०३ ।
महासत्त्व महाबाहो महाबल नमोऽस्तु ते ।
महामेघ महाप्रख्य महाकाल महाद्युते १०४ ।
मेघावर्त युगावर्त चन्द्रा र्कपतये नमः ।
त्वमन्नमन्नभोक्ता च पक्वभुक् पावनोत्तम १०५ ।
जरायुजाण्डजाश्चैव स्वेदजोद्भिदजाश्च ये ।
त्वमेव देवदेवेश भूतग्रामश्चतुर्विधः १०६ ।
स्रष्टा चराचरस्यास्य पाता हन्ता तथैव च ।
त्वामाहुर्ब्रह्म विद्वांसो ब्रह्म ब्रह्मविदां गतिम् १०७ ।
मनसः परमज्योतिस्त्वं वायुर्ज्योतिषामपि ।
हंसवृक्षे मधुकरमाहुस्त्वं ब्रह्मवादिनः १०८ ।
यजुर्मयो ऋङ्मयस्त्वामाहुः साममयस्तथा ।
पठ्यसे स्तुतिभिर्नित्यं वेदोपनिषदां गणैः १०९ ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वर्णावराश्च ये ।
त्वमेव मेघसंघाश्च विद्युतोऽशनिगर्जितम् ११० ।
संवत्सरस्त्वमृतवो मासो मासार्धमेव च ।
युगा निमेषाः काष्ठाश्च नक्षत्राणि ग्रहाः कलाः १११ ।
वृक्षाणां ककुभोऽसि त्वं गिरीणां हिमवान् गिरिः ।
व्याघ्रो मृगाणां पततां तार्क्ष्योऽनन्तश्च भोगिनाम् ११२ ।
क्षिरोदोऽस्युदधीनां च यन्त्राणां धनुरेव च ।
वज्रं प्रहरणानां च व्रतानां सत्यमेव च ११३ ।
त्वमेव द्वेष इच्छा च रागो मोहः क्षमाक्षमे ।
व्यवसायो धृतिर्लोभः कामक्रोधौ जयाजयौ ११४ ।
त्वं शरी त्वं गदी चापि खट्वाङ्गी च शरासनी ।
छेत्ता मेत्ता प्रहर्तासि मन्ता नेता सनातनः ११५ ।
दशलक्षणसंयुक्तो धर्मोऽर्थः काम एव च ।
समुद्रा ः! सरितो गङ्गा पर्वताश्च सरांसि च ११६ ।
लतावल्ल्यस्तृणौषध्यः पशवो मृगपक्षिणः ।
द्र व्यकर्मगुणारम्भः कालपुष्पफलप्रदः ११७ ।
आदिश्चान्तश्च वेदानां गायत्री प्रणवस्तथा ।
लोहितो हरितो नीलः कृष्णः पीतः सितस्तथा ११८ ।
कद्रुश्च कपिलश्चैव कपोतो मेचकस्तथा ।
सवर्णश्चाप्यवर्णाश्च कर्ता हर्ता त्वमेव हि ११९ ।
त्वमिन्द्र श्च यमश्चैव वरुणो धनदोऽनिलः ।
उपप्लवश्चित्रभानुः स्वर्भानुरेव च १२० ।
शिक्षाहैत्रं त्रिसौपर्णं यजुषां शतरुद्रि यम् ।
पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम् १२१ ।
तिन्दुको गिरिजो वृक्षो मुद्गं चाखिलजीवनम् ।
प्राणाः सत्त्वं रजश्चैव तमश्च प्रतिपत्पतिः १२२ ।
प्राणोऽपानः समानश्च उदानो व्यान एव च ।
उन्मेषश्च निमेषश्च क्षुतं जृम्भितमेव च १२३ ।
लोहितान्तर्गतो दृष्टिर्महावक्त्रो महोदरः ।
शुचिरोमा हरिश्मश्रुरूर्ध्वकेशश्चलाचलः १२४ ।
गीतवादित्रनृत्यज्ञो गीतवादित्रकप्रियः ।
मत्स्यो जालो जलौकाश्च कालः केलिकला कलिः १२५ ।
अकालश्च विकालश्च दुष्कालः काल एव च ।
मृत्युश्च मृत्युकर्ता च यक्षो यक्षभयङ्करः १२६ ।
संवर्तकोऽन्तकश्चैव संवर्तकबलाहकः ।
घण्टो घण्टी महाघण्टी चिरी माली च मातलिः १२७ ।
ब्रह्मकालयमाग्नीनां दण्डी मुण्डी त्रिमुण्डधृक् ।
चतुर्युगश्चतुर्वेदश्चातुर्होत्रप्रवर्तकः १२८ ।
चातुराश्रम्यनेता च चातुर्वर्ण्यकरस्तथा ।
नित्यमक्षप्रियो धूर्तो गणाध्यक्षो गणाधिपः १२९ ।
रक्तमाल्याम्बरधरो गिरिको गिरिकप्रियः ।
शिल्पं च शिल्पिनां श्रेष्ठः सर्वशिल्पप्रवर्तकः १३० ।
भगनेत्राङ्कुशश्चण्डः पूष्णो दन्तविनाशनः ।
स्वाहा स्वधा वषट्कारो नमस्कारो नमो नमः १३१ ।
गूढव्रतो गुह्यतपास्तारकास्तारकामयः ।
धाता विधाता संधाता पृथिव्या धरणोऽपरः १३२ ।
ब्रह्मा तपश्च सत्यं च व्रतचर्यमथार्जवम् ।
भूतात्मा भूतकृद् भूतिर्भूतभव्यभवोद्भवः १३३ ।
भूर्भुवः स्वरृतं चैव ध्रुवो दान्तो महेश्वरः ।
दीक्षितोऽदीक्षितः कान्तो दुर्दान्तो दान्तसंभवः १३४ ।
चन्द्रा वर्तो युगावर्तः संवर्तकप्रवर्तकः ।
बिन्दुः कामो ह्यणुः स्थूलः कर्णिकारस्रजप्रियः १३५ ।
नन्दीमुखो भीममुखः सुमुखो दुर्मुखस्तथा ।
हिरण्यगर्भः शकुनिर्महोरगपतिर्विराट् १३६ ।
अधर्महा महादेवो दण्डधारो गणोत्कटः ।
गोनर्दो गोप्रतारश्च गोवृषेश्वरवाहनः १३७ ।
त्रैलोक्यगोप्ता गोविन्दो गोमार्गो मार्ग एव च ।
स्थिरः श्रेष्ठश्च स्थाणुश्च विक्रोशः क्रोश एव च १३८ ।
दुर्वारणो दुर्विषहो दुःसहो दुरतिक्रमः ।
दुर्द्धर्षो दुष्प्रकाशश्च दुर्दुर्शो दुर्जयो जयः १३९ ।
शशाङ्कानलशीतोष्णः क्षुत्तृष्णा च निरामयः ।
आधयो व्याधयश्चैव व्याधिहा व्याधिनाशनः १४० ।
समूहश्च समूहस्य हन्ता देवः सनातनः ।
शिखण्डी पुण्डरीकाक्षः पुण्डरीकवनालयः १४१ ।
त्र्! यम्बको दण्डधारश्च उग्रदंष्ट्रः कुलान्तकः ।
विषापहः सुरश्रेष्ठः सोमपास्त्वं मरुत्पते ।
अमृताशी जगन्नातो देवदेव गणेश्वरः १४२ ।
मधुश्च्युतानां मधुपो ब्रह्मवाक् त्वं घृतच्युतः ।
सर्वलोकस्य भोक्ता त्वं सर्वलोकपितामहः १४३ ।
हिरण्यरेताः पुरुषस्त्वमेकः त्वं स्त्री पुमांस्त्वं हि नपुंसकं च ।
बालो युवा स्थविरो देवदंष्ट्रा त्वन्नो गिरिर्विश्वकृद् विश्वहर्ता १४४ ।
त्वं वै धाता विश्वकृतां वरेण्यस्त्वां पूजयन्ति प्रणताः सदैव ।
चन्द्रा दित्यौ चक्षुषी ते भवान् हि त्वमेव चाग्निः प्रपितामहश्च ।
आराध्य त्वां सरस्वतीं वाग्लभन्ते अहोरात्रे निमिषोन्मेषकर्ता १४५ ।
न ब्रह्मा न च गोविन्दः पौराणा ऋषयो न ते ।
माहात्म्यं वेदितुं शक्ता याथातथ्येन शङ्कर १४६ ।
पुंसां शतसहस्राणि यत्समावृत्य तिष्ठति ।
महतस्तमसः पारे गोप्ता मन्ता भवान् सदा १४७ ।
यं विनिद्रा जितश्वासाः सत्त्वस्थाः संयतेन्द्रि याः ।
ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः १४८ ।
या मूर्तयश्च सूक्ष्मास्ते न शक्या या निदर्शितुम् ।
ताभिर्मां सततं रक्ष पिता पुत्रमिवौरसम् १४९ ।
रक्ष मां रक्षणीयोऽहं तवानघ नमोऽस्तु ते ।
भक्तानुकम्पी भगवान् भक्तश्चाहं सदा त्वयि १५० ।
जटिने दण्डिने नित्यं लम्बोदरशरीरिणे ।
कमण्डलुनिषङ्गाय तस्मै रुद्रा त्मने नमः १५१ ।
यस्य केशेषु जीमूता नद्यः सर्वाङ्गसन्धिषु ।
कुक्षौ समुद्रा श्चत्वारस्तस्मै तोयात्मने नमः १५२ ।
संभक्ष्य सर्वभूतानि युगान्ते पर्युपस्थिते ।
यः शेते जलमध्यस्थस्तं प्रपद्येऽम्बुशायिनम् १५३ ।
प्रविश्य वदनं राहोर्यः सोमं पिबते निशि ।
ग्रसत्यर्कं च स्वर्भानू रक्षितस्तव तेजसा १५४ ।
ये चात्र पतिता गर्भा रुद्र गन्धस्य रक्षणे ।
नमस्तेऽस्तु स्वधा स्वाहा प्राप्नुवन्ति तदद्भुते १५५ ।
येऽङ्गुष्ठमात्राः पुरुषा देहस्थाः सर्वदेहिनाम् ।
रक्षन्तु ते हि मां नित्यं ते मामाप्याययन्तु वै १५६ ।
ये नदीषु समुद्रे षु पर्वतेषु गुहासु च ।
वृक्षमूलेषु गोष्ठेषु कान्तारगहनेषु च १५७ ।
चतुष्पथेषु रथ्यासु चत्वरेषु सभासु च ।
हस्त्यश्वरथशालासु जीर्णोद्यानालयेषु च १५८ ।
ये च पञ्चसु भूतेषु दिशासु विदिशासु च ।
चन्द्रा र्कयोर्मध्यगता ये च चन्द्रा र्करश्मिषु १५९ ।
रसातलगता ये च ये च तस्मात् परं गताः ।
नमस्तेभ्यो नमस्तेभ्यो नमस्तेभ्यश्च नित्यशः १६० ।
येषां न विद्यते संख्या प्रमाणं रूपमेव च ।
असंख्येयगणा रुद्रा नमस्तेभ्योऽस्तु नित्यशः १६१ ।
प्रसीद मम भद्रं ते तव भावगतस्य च ।
त्वयि मे हृदयं देव त्वयि बुद्धिर्मतिस्त्वयि १६२ ।
स्तुत्वैवं स महादेवं विरराम द्विजोत्तमः १६३ ।
इति श्रीवामनपुराणे सरोमाहात्म्ये सप्तचत्वारिंशत्तमोऽध्यायः।