सुभाषितरत्नकोशः/३४ वातव्रज्या

विकिस्रोतः तः
(वातव्रज्या (सुभाषितरत्नकोशः) इत्यस्मात् पुनर्निर्दिष्टम्)
← ३३ अन्यापदेशव्रज्या सुभाषितरत्नकोशः
३४ वातव्रज्या
विद्याकरः
३५ जातिव्रज्या →

ततो वातव्रज्या

उद्दामद्विरदावलूनबिसिनीसौरभ्यसम्भावित- व्योमानः कलहंसकम्पितगरुत्पालीमरुन्मांसलाः /
दूरोत्तानतरङ्गलङ्घनजलाजङ्घालगर्वस्पृशः कर्पूरद्रवशीकरैर् इव दिशो लिम्पन्ति पम्पानिलाः ३४.१ (११२५)

अन्ध्रीनीरन्ध्रपीनस्तनतटलुठनायासमन्दप्रचाराश् चारून् उल्लासयन्तो द्रविडवरवधूहारिधम्मिल्लभारान् /
जिघ्रन्तः सिंहलीनां मुखकमलम् अलं केरलीनां कपोलं चुम्बन्तो वान्ति मन्दं मलयपरिमला वायवो दाक्षिणात्याः ३४.२ (११२६)
वसुकल्पस्यैतौ

लतां पुष्पवतीं स्पृष्ट्वा कृतस्नानो जलाशये /
पुनस् तत्सङ्गशङ्कीव वाति वातः शनैः शनैः ३४.३ (११२७)
विनयदेवस्य

कान्ताकर्षणलोलकेरलवधूधमिल्लमल्लीरजश् चौराश् चोडनितम्बिनीस्तनतटे निष्पन्दताम् आगताः /
रेवाशीकरधारिणो ऽन्ध्रमुरलस्त्रीमानमुद्राभिदो वाता वान्ति नवीनकोकिलवधूहूंकारवाचालिताः ३४.४ (११२८)
श्रीकण्ठस्य

धुनानः कावेरीपरिसरभुवश् चम्पकतरून् मरुन् मन्दं कुन्दप्रकरमकरन्दान् अवकिरन् /
प्रियप्रेमाकर्षच्युतरचनम् आमूलसरलं ललाटे लाटीनां लुठितम् अलकं ताण्डवयति ३४.५ (११२९)

वहति ललितमन्दः कामिनीमानबन्धं श्लथयितुम् अयम् एको दक्षिणो दाक्षिणात्यः /
वितरति घनसारामोदम् अन्तर् धुनानो जलधिजलतरङ्गान् खेलयन् गन्धवाहः ३४.६ (११३०)

भुक्त्वा चिरं दक्षिणदिग्वधूम् इमां विहाय तस्या भयतः शनैः शनैः /
सगन्धसारादिकृताङ्गभूषणः प्रयात्य् उदीचीं दयिताम् इवानिलः ३४.७ (११३१)

भूषणः
भूषः

वाति व्यस्तलवङ्गलोध्रलवलीकुञ्जः करञ्जद्रुमान् आधुन्वन्न् उपभुक्तम् उक्तमुरलातोयोर्मिमालाजडः /
स्वैरं दक्षिणसिन्धुकूलकदलीकच्छोपकण्ठोद्भवः कावेरीतटताडिताडनतटत्कारोत्तरो मारुतः ३४.८ (११३२)

चुम्बन्न् आननम् आलुठन् स्तनतटीम् आन्दोलयन् कुन्तलं व्यस्यन्न् अंशुकपल्लवं मनसिजक्रीडाः समुल्लासयन् /
अङ्गं विह्वलयन् मनो विकलयन् मानं समुन्मूलयन् नारीणां मलयानिलः प्रिय इव प्रत्यङ्गम् आलिङ्गति ३४.९ (११३३)

अलीनां मालाभिर् विरचितजटाभारमहिमा परागैः पुष्पाणाम् उपरचितभस्मव्यतिकरः /
वनानाम् आभोगे कुसुमवति पुष्पोच्चयपरो मरुन् मन्दं मन्दं विचरति परिव्राजक इव ३४.१० (११३४)

शष्पश्यामलितालवालनिपतत्कुल्याजलप्लावित- क्रीडोद्याननिकेतनाजिरजुषाम् अस्पृष्टभूरेणवः /
सुप्तं सम्प्रति बोधयन्ति शनकैश् चेतोभुवं कामिनां प्रत्यग्रस्फुटमल्लिकासुरभयः सायंतना वायवः ३४.११ (११३५)
अचलसिंहस्य

अद्याभोगिनि गाढमर्मनिवहे हर्माग्रवेदीजुषां सद्यश् चन्दनशोषिणि स्तनतटे सङ्गे कुरङ्गीदृशाम् /
प्रायः प्रश्लथयन्ति पुष्पधनुषः पुष्पाकरे निष्ठिते निर्वेदं नवमल्लिकासुरभयः साय्ंनया वायवः ३४.१२ (११३६)
शतानन्दस्य

शिशिरशीकरवाहिनि मारुते चरति शीतभयाद् इव सत्वरः /
मनसिजः प्रविवेश वियोगिनी- हृदयम् आहितशोकहुताशनः ३४.१३ (११३७)
कुमारदासस्य

दीर्घान् मुक्तः सपदि मलयाधित्यकायाः प्रसङ्गाद् आविष्कुर्वन् प्रणयपिशुनं सौरभं चन्दनस्य /
मन्दं मन्दं निपतति चिराद् आगतो माधवीषु व्याकुर्वाणो भयम् इव परं दाक्षिणो गन्धवाहः ३४.१४ (११३८)
मधुशीलस्य

प्रभाते सन्नद्धस्तनितमहिमानं जलधरं स्पृशन्तः सर्वत्र स्फुटितवनमल्लीसुरभयः /
अमी मन्दं मन्दं सुरतसमरश्रान्ततरुणी- ललाटस्वेदाम्भःकणपरिमुषो वान्ति मरुतः ३४.१५ (११३९)

सुरतभरखिन्नपन्नगविलासिनीपानकेलिजर्जरितः /
पुनर् इह विरहिश्वासैर् मलयमरुन् मांसलीभवति ३४.१६ (११४०)

एते पल्लीपरिवृढवधूप्रौढकन्दर्पकेलि- क्लिष्टापीनस्तनपरिसरखेदसम्पद्विपक्षाः /
वान्ति स्वैरं सरसि सरसि क्रोडदंष्ट्राविमर्द- त्रुट्यद्गुन्द्रापरिमलगुणग्राहिणो गन्धवाहाः ३४.१७ (११४१)

नाधन्यैः शङ्खपाणेः क्षणधृतगतयः प्रांशुभिश् चन्द्रकान्त- प्रासादैर् द्वारकायां तरलितचरमाम्भोधिनीराः समीराः /
सेव्यन्ते नित्यमाद्यत्करिकाठिनकरास्फालकालप्रबुद्ध- क्रुध्यत्पञ्चाननाग्रध्वनिभरविगलद्गुग्गुलूद्गारगर्भाः ३४.१८ (११४२)

हिमस्पर्शाद् अङ्गे घनपुलकजालं विदधतः पिकत्रोटीत्रुट्यद्विकचसहकाराङ्कुरलिहः /
अमी स्वैरं स्वैरं मलयमरुतो वान्ति दिनजं दिनापाये चक्षुःक्लमम् अपहरन्तो मृगदृशाम् ३४.१९ (११४३)

अयम् उषसि विनिद्रद्राविडीतुङ्गपीन- स्तनपरिसरसान्द्रखेदबिन्दूपमर्दी /
स्रुतमलयजवृक्षक्षीरसौरभ्यसभ्यो वहति सखि भुजङ्गीभुक्तशेषः समीरः ३४.२० (११४४)

ये दोलाकेलिकाराः किम् अपि मृगदृशां मन्युतन्तुच्छिदो ये सद्यः शृङ्गारदीक्षाव्यतिकरगुरवो ये च लोकत्रये ऽपि /
ते कण्ठे लोठयन्तः परभृतवयसां पञ्चमं रागराजं वान्ति स्वैरं समीराः स्मरविजयमहासाक्षिणो दाक्षिणात्याः ३४.२१ (११४५)
राजशेखरस्य

दरोन्मीलच्चूडप्रकरमुकुलोद्गारसुरभिर् लतालास्यक्रीडाविधिनिबिडदीक्षापरिचयः /
विभिन्दन्न् उद्यानान्य् अतनुमकरन्दद्रवहर- श्रमस्वैरो वायुर् मनसिजशरैर् जर्जरयति ३४.२२ (११४६)

श्रान्ताश् चूतवनानि कुञ्जपटलप्रेङ्खोलनाद् उन्मिषन्- मल्लीकुड्मलसान्द्रसौरभसरित्संस्यन्दशृङ्गारिणः /
एते संवसथोपकण्ठविलसद्वृष्ट्यम्बुवीचीचयोन्- मीलद्बालतुषारशीकरकिरः क्रीडन्ति झञ्झानिलाः ३४.२३ (११४७)
बुद्धाकरगुप्तस्य

इति वातव्रज्या