वल्लभदेवः सुभाषितावलिः

विकिस्रोतः तः
(वल्लभदेवः सुभासितवलि इत्यस्मात् पुनर्निर्दिष्टम्)
नेविगेशन पर जाएँ खोज पर जाएँ

वल्लभदेवः सुभासितवलि


०००१-१ तां भवानीं भवानीतक्लेशनाशविशारदां ।
०००१-२ शारदां शारदां भोदसितंसिहासनां नुमः । ।
०००२-१ अनपेक्षितगुरुवचना सर्वान्ग्रन्थीन्विभेदयति सम्यक् ।
०००२-२ प्रकटयति पररहस्यं विमर्शशक्तिर्निजा जयति । ।
०००३-१ दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये ।
०००३-२ स्वानुभूत्येकमानाय नमः शान्ताय तेजसे । ।
०००४-१ जगत्सिसृक्षाप्रलयक्रियाविधौ224

०००४-२ प्रयत्नमुन्मेषनिमेषविभ्रमं ।
०००४-३ वदन्ति यस्येक्षणलोलपक्ष्मणां
०००४-४ पराय तस्मै परमेष्ठिने नमः । ।
०००५-१ नमस्त्रिभुवनोत्पत्तिस्थितिसंहारहेतवे ।
०००५-२ विष्णवेपारसंसारपारोत्तरणसेतवे । ।
०००६-१ सुरासुरशिरोरत्नकान्तिविच्छुरिताङ्घ्रये ।
०००६-२ नमस्त्रिभुवनेशाय हरये सिंहरूपिणे । ।
०००७-१ नमस्तस्मै वराहाय हेलयोद्धरते महीं ।
०००७-२ खुरमध्यगतो यस्य मेरुः खुरखुरायते । ।
०००८-१ नमस्तुङ्गशिरश्चुम्बिचन्द्रचामरचारवे ।
०००८-२ त्रैलोक्यनगरारम्भमूलस्तम्भाय शंभवे । ।
०००९-१ अभिप्रेतार्थसिद्ध्यर्थं पूजितो यः सुरैरपि ।
०००९-२ सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः । ।
००१०-१ नितम्बालसगामिन्यः पीनोन्नतपयोधराः ।
००१०-२ मन्मथाय नमस्तस्मै यस्यायतनमङ्गनाः । ।
००११-१ अनन्तमामधेयाय सर्वाकरविधायिने ।
००११-२ समस्तमन्त्रवाच्याय विश्वैकपतये नमः । ।
००१२-१ ॐ नमः परमार्थैकरूपाय परमात्मने ।
००१२-२ स्वेच्छावभासितासत्यभेदभिन्नाय शंभवे । ।
००१३-१ कुलशैलदलं पूर्णसुवर्णगिरिकर्णिकं ।
००१३-२ नमोधितिष्ठतेनन्तनालं कमलविष्टरं । ।
००१४-१ कर्णिकादिष्विव स्वर्णमर्णवादिष्विवोदकं ।
००१४-२ भेदिष्वभेदि यत्तस्मै परस्मै महसे नमः । ।
००१५-१ नमो वाङ्मनसातीतमहिम्ने परमेष्ठिने ।
००१५-२ त्रिगुणाष्टगुणानन्तगुणन्निर्गुणमूर्तये । ।
००१६-१ नमः शिवाय निःशेषक्लेशप्रशमशालिने ।
००१६-२ त्रिगुणग्रन्थिदुर्भेदभवबन्धविभेदिने । ।
००१७-१ समस्तलक्षणायोग एव यस्योपलक्षणं ।
००१७-२ तस्मै नमोस्तु देवाय कस्मैचिदपि शंभवे । ।
००१८-१ संसारैकनिमित्ताय संसारैकविरोधिने ।
००१८-२ नमः संसाररूपाय निःसंसाराय शंभवे । ।
००१९-१ यथा तथापि यः पूज्यो यत्र तत्रापि योर्चितः ।
००१९-२ योपि वा सोपि वा योसौ देवस्तस्मै नमोस्तु ते । ।
००२०-१ सदसत्त्वेन भावानां युक्ता या द्वितयी स्थितिः ।
००२०-२ तामुल्लङ्घ्य तृतीयस्मै नमश्चित्राय शंभवे । ।
००२१-१ नमः स्वतन्त्रचिच्छक्तिमुद्रितस्वविभूतये ।
००२१-२ अव्यक्तव्यक्तरूपाय कस्मैचिन्मन्त्रमूर्तये । ।
००२२-१ आसन्नाय सुदूराय गुप्ताय प्रकटात्मने ।
००२२-२ सुलभायातिदुर्गाय नमश्चित्राय शंभवे । ।
००२३-१ चराचरजगत्स्फारस्फुरत्तामात्रधर्मिणे ।
००२३-२ दुर्विज्ञेयरहस्याय युक्तैरप्यात्मने नमः । ।
००२४-१ विष्णुर्वा त्रिपुरान्तको भवतु वा ब्रह्मा सुरेन्द्रोथवा
००२४-२ भानुर्वा शशलक्षणोथ भगवान्बुद्धोथ सिद्धोथवा ।
००२४-३ रागद्वेषविषार्तिमोहरहितः सत्त्वानुकम्पोद्यतो
००२४-४ यः सर्वैः सह संस्कृतो गुणगुणैस्तस्मै नमः सर्वदा । ।
००२५-१ श्लोकोयं स्वामिदत्तस्य तत्स्मृत्यै काव्यलक्षितः ।
००२५-२ योकरोत्कविनामाङ्कं चक्रपाणिययाभिधं । ।
००२६-१ भवबीजाङ्कुरजलदा रागाद्याः क्षयमुपागता यस्य ।
००२६-२ ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै । ।
००२७-१ कस्तूरीतिलकं ललाटफलके वक्षःस्थले कौस्तुभं
००२७-२ नासाग्रे नवमौक्तिकं करतले वेणुं करे कङ्कणं ।
००२७-३ सर्वाङ्गे हरिचन्दनं सुविमलं कण्ठे च मुक्तावलीं
००२७-४ बिभ्रत्स्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः । ।
००२८-१ अविरताम्बुजसंगतिसंगलद्बहलकेसरसंवलितेव वः ।
००२८-२ ललितवस्तुविधानसुखोल्लसत्तनुरुहा तनुरात्मभुवोवतात् । ।
००२९-१ लक्ष्मीकपोलसंक्रान्तकान्तपत्त्रलतोज्ज्वलाः ।
००२९-२ दोर्द्रुमाः पान्तु वः शौरेर्घनच्छाया महाफलाः । ।
००३०-१ पातु वो मेदिनीदोला बलेन्दुद्युतितस्करी ।
००३०-२ दंष्ट्रा महावराहस्य पातलगृहदीपका । ।
००३१-१ मदमयमदमयदुरगं यमुनामवतीर्य वीर्यशाली यः ।
००३१-२ मम रतिममरतिरस्कृतिशमनपुरः स क्रियात्कृष्णः । ।
००३२-१ स पातु वो यस्य हतावशेषास्
००३२-२ तत्तुल्यवर्णाञ्जनरञ्जितेषु ।
००३२-३ वालण्ययुक्तेष्वपि वित्रसन्ति
००३२-४ दैत्याः स्वकान्तानयनोत्पलेषु । ।
००३३-१ चण्डचाणूरदोर्दण्डमण्डलीखण्डमण्डितं ।
००३३-२ अव्याद्वो बालवेषस्य विष्णोर्गोपतनोर्वपुः । ।
००३४-१ गोवर्धनोद्धरणहृष्टसमस्तगोप-
००३४-२ नानास्तुतिश्रवणलज्जितमानसस्य ।
००३४-३ स्मृत्वा वराहवपुरिन्दुकलाप्रकाश-
००३४-४ दंष्ट्रोद्धृतक्षिति हरेरवतु स्मितं वः । ।
००३५-१ मन्थक्ष्माधरघूर्णितार्णवपयः पूरान्तरालोल्लसल्-
००३५-२ लक्ष्मीकन्दलक्ॐअलाङ्गदलनप्रादुर्भवत्संभ्रमाः ।
००३५-३ हर्षोत्कण्टकितत्वचो मधुरिपोर्देवासुराकर्षण-
००३५-४ व्यापारोपरमाय पान्तु जगतीमाबद्धवीप्सा गिरः । ।
००३६-१ पृष्ठभ्राम्यदमन्दमन्दरगिरिग्रावाग्रकण्डूयनान्-
००३६-२ निद्रालोः कमठाकृतेर्भगवतः श्वासानिलाः पान्तु वः ।
००३६-३ यत्संस्कारकलानुवर्तनवशाद्वेलानिभेनाम्भसो
००३६-४ यातायातमतन्द्रितं जलनिधेर्नाद्यापि विश्राम्यति । ।
००३७-१ किंचित्कुञ्चितलोचनस्य पिबतः पर्याप्तमेकं स्तेनं
००३७-२ सद्यःप्रस्रुतदुघविन्दुमपरं हस्तेन संमार्जतः ।
००३७-३ मात्रैकाङ्गुलिलालितस्य चिबुके स्मेराननस्यानना-
००३७-४ च्छौरेः क्षीरकणावलीव पतिता दन्तद्युतिः पातु वः । ।
००३८-१ कालिन्दीपुलिनोदरेषु मुसली यावद्गतः क्रीडितुं
००३८-२ तावत्कर्बुरिकापयः पिब हरे वर्धिष्यते ते शिखा ।
००३८-३ इत्थं बालतया प्रतारणपराः श्रुत्वा यशोदागिरः
००३८-४ पायाद्वः स्वशिखां स्पृशन्प्रमुदितः क्षीरेर्धपीते हरिः । ।
००३९-१ आनन्देन यशोदया समदनं गोपाङ्गनाभिश्चिरं
००३९-२ साशङ्कं बलविद्विषा सकुसुमं सिद्धैः पृथिव्याकुलं ।
००३९-३ सेर्ष्यं गोपकुमारकैः सकरुणं पौरैः सुरैः सस्मितं
००३९-४ यो दृष्टः स पुनातु वो मधुरिपुः प्रोत्क्षिप्रगोवर्धनः । ।
००४०-१ कृष्णेनाम्ब गतेन रन्तुमधुना मृद्भक्षिता स्वेच्छया
००४०-२ सत्यं कृष्ण क एवमाह मुसली मिथ्याम्ब पश्याननं ।
००४०-३ व्यादेहीति विकासितेथ वदने माता समस्तं जगद्-
००४०-४ दृष्ट्वा यस्य जगाम विस्मयवशं पायात्स वः केशवः । ।
००४१-१ किं युक्तं बत मामनन्यमनसं वक्षःस्थलस्थायिनीं
००४१-२ भक्तामप्यवधूय कर्तुं अधुना कान्तासहस्रं तव ।
००४१-३ इत्युक्त्वा फणभृत्फणामणिगतां स्वामेव मत्वा तनुं
००४१-४ निद्राछेदकरं हरेरवतु वो लक्ष्म्या विलक्षस्मितं । ।
००४२-१ स्वप्रासादितदर्शनामनुनयन्प्रानेश्वरीमादरा-
००४२-२ दंसेस्मिन्पतितैरपाङ्गवलितैर्यद्बोधितोप्यश्रुभिः ।
००४२-३ प्रत्याय्यस्त्वमतो मया ननु हरे कोयं क्रमव्यत्ययः
००४२-४ पातु त्वां व्रजयोषितेत्यभिहितं लज्जाकर्शार्ङ्गिणः । ।
००४३-१ भक्तिप्रह्वविलोकनप्रणयिणी नीलोत्पलस्पर्धिनी
००४३-२ ध्यानालम्बनतां समाधिनिरतैर्नीते हितप्राप्तये ।
००४३-३ लावण्यस्य महानिधी रसिकतां लक्ष्मीदृशोस्तन्वती
००४३-४ युष्माकं कुरुतां भवार्तिहरणं नेत्रे तनुर्वा हरेः । ।
००४४-१ येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो
००४४-२ यश्चोद्वृत्तभुजंगरहारवलयो गङ्गां च योधारयत् ।
००४४-३ यस्याहुः शशिमच्छिरो हर इति स्तुत्यं च नामामराः
००४४-४ पापात्स स्वयमन्धकक्षयकरस्त्वां सर्वद्ॐआधवः । ।
००४५-१ किंचिन्निर्मुच्यमाने गगन इव मुखे नाट्यनिद्रापयोदैर्-
००४५-२ न्यक्कुर्वाणे स्वभासा फणिपतिशिरसां रत्नदीपांशुजालं ।
००४५-३ पायास्तां वो मुरोरेः शशितपनमये लोचने यद्विभासा
००४५-४ लक्ष्म्या कस्तस्थमर्धं विकसति कमलस्यार्धमभ्येति निद्रां । ।
००४६-१ मल्लैः शैलेन्द्रकल्पः शिशुरखिलजनैः पुष्पचापोङ्गनाभिर्-
००४६-२ गोपैस्तु प्राकृतात्मा दिवि कुलिशभृता विश्वकायोप्रमेयः ।
००४६-३ क्रुद्धः कंसेन कालो भयचकितदृशा योगिभिर्ध्येयमूर्तिर्-
००४६-४ दृष्टो रङ्गावतारे हरिरमरजनानन्दकृत्पातु युष्मान् । ।
००४७-१ भिन्दन्नरातिहृदयानि हरेः पुनातु
००४७-२ निःश्वासवातमुखरीकृतकोटरो वः ।
००४७-३ संक्रान्तकुक्षिकुहरास्पदसप्तसिन्धु-
००४७-४ संघट्टघोरतरघोष इवाशु शङ्खः । ।
००४८-१ पायात्स वः कुमुदकुन्दमृणालगौरः
००४८-२ शङ्खो हरेः करतलाम्बरपूर्णचन्द्रः ।
००४८-३ नादेन यस्य सुरशत्रुविलासिनीनां
००४८-४ काञ्च्यो भवन्ति शिथिला जघनस्थलीषु । ।
००४९-१ दृष्टस्य यस्य हरिणा रणमूर्ध्नि मूर्तिर्-
००४९-२ उद्भूतदुःसहमहःप्रसरा समन्तात् ।
००४९-३ तल्लोचनस्थितरविप्रतिबिम्बगर्भे-
००४९-४ वाभाति चक्रमरिचक्रनुदेस्तु तद्वः । ।
००५०-१ उद्वृत्तदैत्यपृतनापतिकण्ठपीठ-
००५०-२ च्छेदोच्छलद्बहलशोणितशोणधारं ।
००५०-३ चक्रं क्रियादभिमतानि हरेरुदार-
००५०-४ दिग्दाहदारुणनभःश्रियमुद्वहद्वः । ।
००५१-१ यस्योद्यद्बाणवाहुद्रुमगहनवनच्छेदगोष्ठीकुठारं
००५१-२ चक्रं निष्क्रान्ततीव्रानलबहलकणाकीर्णधारं विचिन्त्य ।
००५१-३ जातग्रासावसायो दिवसकृतिसलन्मांसलांशुप्रवाहे
००५१-४ मुह्यत्यद्यापि राहुः स दहतु दुरितान्याशु दैत्यान्तको वः । ।
००५२-१ दैत्यास्थिपञ्जरविदारणलब्धरन्ध्र-
००५२-२ रक्ताम्बुनिर्जरसरिद्धनजातपङ्काः ।
००५२-३ बालेन्दुकोटिकुटिलाः शुकचञ्चुभासो
००५२-४ रक्षन्तु सिंहवपुषो नखरा हरेर्वः । ।
००५३-१ आदित्याः किं दशैते प्रलयभयकृतः स्वीकृताकाशदेशाः
००५३-२ किं वोल्कामण्डलानि त्रिभुवनदहनायोद्यतानीति भीतैः ।
००५३-३ पायासुर्नारसिंहं वपुरमरगणैर्बिभ्रतः शार्ङ्गपाणेर्-
००५३-४ दृष्ट्वा दृप्तासुरोरस्तलदरणगलद्रक्तरक्ता नखा वः । ।
००५४-१ मेरूरुकेसरमुदारदिगन्तपत्त्रम्-
००५४-२ आमूललम्बिचलशेषशरीरनालं ।
००५४-३ येनोद्धृतं कुवलयं सलिलात्सलीलम्-
००५४-४ उत्तंसकार्थमिव पातु स वो वराहः । ।
००५५-१ न मृद्नीयान्मृद्वी कथमिव मही पोत्रनिकषैर्-
००५५-२ मुखाग्निज्वालाभिः कनकगिरिरीयान्न विलयं ।
००५५-३ न शुष्येयुः श्वासैः सलिलनिधयः सप्त च कथं
००५५-४ वराहो वः पायादिति विपुलचिन्तापरिकरः । ।
००५६-१ स्वामी सन्भुवनत्रयस्य विकृतिं नीतोसि किं याच्ञया
००५६-२ यद्वा विश्वसृजा त्वयैव न कृतं तद्दीयतां ते कुतः ।
००५६-३ दानं श्रेष्ठतमाय तुभ्यमतुलं बन्धाय नो मुक्तये
००५६-४ विज्ञप्तो बलिना निरुत्तरतया ह्रीतो हरिः पातु वः । ।
००५७-१ लीने श्रोत्रैकदेशे नभसि नयनयोस्तेजसि क्वापि याते
००५७-२ श्वासग्रासोपयुक्ते मरुति जलनिधौ पायुरन्ध्रार्धपीते ।
००५७-३ पोत्रप्रान्तैकर्ॐआन्तरविवरगतां मृग्यतः शार्ङ्गपाणेः
००५७-४ क्रोडाकारस्य पृथ्वीमकलितविषयं वैभवं वः पुनातु । ।
००५८-१ क्वेदानीं दर्पितास्ते घनमदमदिरामोदिनो दिग्धिपेन्द्रा
००५८-२ हे मेरो मन्दरान्द्रे मलय हिमगिरे साधु वः क्ष्माधरत्वं ।
००५८-३ शेष श्लाघ्योसि दीर्घैः पृथुभुवनभरोच्चण्डशौण्डैः शिरोभिः
००५८-४ शंसन्सोत्प्रासमुच्चैरिति धरणिभृतः पातु युष्मान्वराहः । ।
००५९-१ आव्याद्वो वामनो यस्य कौस्तुभप्रतिबिम्बिता ।
००५९-२ कौतुकालोकिनी जाता जाठरीव जगत्त्रयी । ।
००६०-१ एकस्थं जीवितेशे त्वयि सकलजगत्सारमालोकयामः
००६०-२ श्यामे चक्षुस्तवास्मिन्वपुषि निविशते नाल्पपुण्यस्य पुंसः ।
००६०-३ कस्यान्यत्रामृतेस्मिन्रतिरतिविपुला दृष्टिरेवामृतं ते
००६०-४ दैत्यैरित्युच्यमानो मुनिभिरपि हरिः स्त्रैणरूपोवताद्वः । ।
००६१-१ भ्राम्यन्महागिरिनिघर्षणलब्धपृष्ठ-
००६१-२ कण्डूयनक्षणसुखायितगाढनिद्रः ।
००६१-३ सुष्वाप दीर्घतरघर्घरघोरघोषः
००६१-४ श्वासाभिभूतजलधिः कमठः स वोव्यातु । ।
००६२-१ स धूर्जटिजटाजूटो जायतां विजयाय वः ।
००६२-२ यस्यैकपलितभ्रान्तिं करोत्पद्यापि जाह्नवी । ।
००६३-१ स पातु वो यस्य जटाकलापे
००६३-२ स्थितः शशाङ्कः स्फुटहारगौरः ।
००६३-३ नीलोत्पलानामिव नालपुञ्जे
००६३-४ निद्रायमाणः शरदीव हंसः । ।
००६४-१ दिश्यात्स शीतकिरणाभरणः शिवं वो
००६४-२ यस्योत्तमाङ्गभुवि विस्फुरदूर्मिपक्षा ।
००६४-३ हंसीव निर्मलशशाङ्ककलामृणाल-
००६४-४ कन्दार्थिनी सुरसरिन्नभसः पपात । ।
००६५-१ श्रेयांसि वो दिशतु यस्य सिताभ्रशुभ्रा
००६५-२ विभ्राजते सुरसरिद्वरमौलिमाला ।
००६५-३ ऊर्ध्वेक्षणज्वलनतापविलीयमान-
००६५-४ चन्द्रामृतप्रविततामृतवाहिनीव । ।
००६६-१ च्युतामिन्दोर्लेखां रतिकलहभग्नं च वलयं
००६६-२ शनैरेकीकृत्य प्रहसितमुखी शैलतनया ।
००६६-३ अवोचद्यं पश्योत्यवतु स शिवः सा च गिरिजा
००६६-४ स च क्रीडाचन्द्रो दशनकिरणापूरिततनुः । ।
००६७-१ एषा ते हर का सुगात्रि कतमा मूर्ध्नि स्थिता किं जटा
००६७-२ हंसः किं भजते जटां नहि शशी चन्द्रो जलं सेवते ।
००६७-३ मुग्धो भूतिरियं कुतोत्र सलिलं भूतिस्तरङ्गायते
००६७-४ एवं यो विनिगूहते त्रिपथगां पायात्स वः शंकरः । ।
००६८-१ आश्लेषाधरविम्बचुम्बनसुखालापस्मितान्यासतां
००६८-२ दूरे तावदिदं मिथो न सुलभं जातं मुखालोकनं ।
००६८-३ इत्थं व्यर्थकृतैकदेहघटनोपन्यासयोरावयोः
००६८-४ केयं प्रेमविडम्बनेत्यवतु वः स्मेरोर्धनारीश्वरः । ।
००६९-१ मातर्जीव किमेतदञ्जलिपुटे तातेन गोपाय्यते
००६९-२ वत्स स्वादु फलं प्रयच्छति न मे गत्वा गृहाण स्वयं ।
००६९-३ मात्रैवं प्रहिते गृहे विघटयत्याकृष्य संध्याञ्जलिं
००६९-४ शंभोर्भिन्नसमाधिरुद्धरभसो हासोद्गमः पातु वः । ।
००७०-१ एकं चन्तच्छदस्य स्फुरति जपवशादर्धमन्यत्प्रकोपाद्-
००७०-२ एकः पाणिः प्रणन्तुं शिरसि कृतपदः क्षेप्तुमन्यस्तमेव ।
००७०-३ एकं ध्यानान्निमीलत्यपरमविषहं वीक्षितुं चक्षुरित्थं
००७०-४ तुल्यानिच्छापि वामा तनुरवतु स वो यस्य संध्यावसाने । ।
००७१-१ शैलराजतनयास्तनयग्मव्यापृतास्ययुगलस्य गृहस्य ।
००७१-२ शेषवक्रकमलानि मलं वो दुग्धपानविधुराणि हरन्तु । ।
००७२-१ करजालमपूर्वचेष्टितं वस्तदभीष्टप्रदमस्तु तिग्मभासाः ।
००७२-२ क्रियते भवबन्धनाद्विमुक्तिः प्रणतानामुपसेवितेन येन । ।
००७३-१ युष्माकमम्बरमणे प्रथमे मयूखास्-
००७३-२ ते मङ्गलं विदधतूदयरागभाजः ।
००७३-३ कुर्वन्ति ये दिवसजन्ममहोत्सवेषु
००७३-४ सिन्दूरपाटलमुखीरिव दिक्पुरंध्रीः । ।
००७४-१ आबाहूद्गतमण्डलाग्ररुचयः संनद्धवक्षःस्थलाः
००७४-२ सोष्माणो व्रणिनो विपक्षहृदय्प्रोन्माथिनः कर्कशाः ।
००७४-३ उत्सृष्टाम्बरदृष्टविग्रहभरा यस्य स्मराग्रेसरा
००७४-४ योधा वारवधूस्तनाश्च न दधुः क्षोभं स वोव्याज्जिनः । ।
००७५-१ किं स्याद्भास्वान्न भानोरमृतघनरसस्यन्दिनः सन्ति पादाः
००७५-२ किं वा राकाशशाङ्को नहि तुहिनरुचिः कुत्रचिन्निष्कलङ्कः ।
००७५-३ साक्षाच्चिन्तामणिः किं विपुलफलमणेः सौकुमार्यं कुतस्त्यं
००७५-४ संदेहान्मुग्धधीभिः प्रथममिति मुनेः पातु दृष्टं वपुर्वः । ।
००७६-१ चिरमाविष्कृतप्रीतिभीतयः पान्तु वो द्विषां ।
००७६-२ वलयज्यारवोन्मिश्राश्चण्ड्याः कोदण्डकृष्टयः । ।
००७७-१ दिश्यान्महासुरशिरःसरसीप्सितानि
००७७-२ प्रेङ्खन्नखावलिमयूखमृणालनालं ।
००७७-३ चण्ड्याश्चलच्चटुलनूपुरचञ्चरीक-
००७७-४ झांकारहारि चरणाम्बुरुहद्वयं वः । ।
००७८-१ सव्रीडा दयितानने सकरुणा मातङ्गचर्माम्बरे
००७८-२ सत्रासा भुजगे सविस्मयरसा चन्द्रेमृतस्यन्दिनि ।
००७८-३ सेर्ष्या जह्नुसुतावलोकनविधौ दीना कपालोदरे
००७८-४ पार्वत्या नवसंगमप्रणयिनी दृष्टिः शिवायस्तु वः । ।
००७९-१ उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा
००७९-२ धृत्वा चान्येन वासो विगलितकबरीभारमंसं वहन्त्याः ।
००७९-३ भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः
००७९-४ शय्यामालिङ्ग्य नीतं वपुरलसलसद्बाहु लक्ष्म्याः पुनातु । ।
००८०-१ पायाद्गजेन्द्रवदनः स इमां त्रिलोकीं
००८०-२ यस्योद्गतेन गगने महता करेण ।
००८०-३ मूलावलग्नसितदन्तबिसाङ्कुरेण
००८०-४ नालायितं तपनबिम्बसरोरुहस्य । ।
००८१-१ सानन्दं नन्दिहस्ताहतमुरजरवाह्वतक्ॐआरबर्हि-
००८१-२ त्रासान्नासाग्ररन्ध्रं विशति फणिपतौ भोगसंकोचभाजि ।
००८१-३ गण्डोड्डीनालिमालामुखरितककुभस्ताण्डवे शूलपाणेर्-
००८१-४ वैनायक्यश्चिरं वो वदनविधुतयः पान्तु सीत्कारवत्यः । ।
००८२-१ धनुर्माला मौर्वी क्वणदलिकुलं लक्ष्यमबला
००८२-२ मनो भेद्यं शब्दप्रभृतय इमे पञ्च विशिखाः ।
००८२-३ इयाञ्जेतुं यस्य त्रिभुवनमदेहस्य विभवः
००८२-४ स कामः कामान्वो दिशतु दयितापाङ्गवसतिः । ।
००८३-१ ब्रह्मा दक्षः कुबेरो यमवरुणमरुद्वह्निचन्द्रेन्द्ररुद्राः
००८३-२ शैला नद्यः समुद्रा ग्रहगणमनुजा दैत्यगन्धर्वनागाः ।
००८३-३ द्वीःआ नक्षत्रतारारविवसुमुनयो व्य्ॐअ भूरश्चिनौ च
००८३-४ संलीना यस्य सर्वे वपुषि स भगवापातु वो विश्वरूपः । ।
००८४-१ मुग्धे मुञ्च विषादमत्र बलजित्कम्पो गुरुस्त्यज्यतां
००८४-२ सद्भावं भज पुण्डरीकनयने मान्यानिमान्मानय ।
००८४-३ लक्ष्मीं बोधयतः स्वयंवरविधौ धन्वन्तरेर्वाक्छला-
००८४-४ दन्यत्र प्रतिषेधमात्मनि विधिं शृण्वन्हरिः पातु वः । ।
००८५-१ दिश्यात्सुखं नरहरिर्भुवनैकवीरो
००८५-२ यस्याहवे दितिसुतोद्दलनोद्यतस्य ।
००८५-३ क्रोधोद्धतं मुखमवेक्षितुमक्षमत्वं
००८५-४ जानेभवन्निजनखेष्वपि यन्नतास्ते । ।
००८६-१ स्वस्ति स्वागतमर्थ्यहं वद विभो किं दीयतां मेदिनी
००८६-२ का मात्रा मम विक्रमत्रयपदं दत्तं गृहीतां मया ।
००८६-३ मा देहीत्युशनाः कुतो हरिरयं पात्रं किमस्मात्परं
००८६-४ यो हीत्थं बलिनार्चितो मखमुखे पायात्स वो वामनः । ।
००८७-१ चक्र ब्रूहि विभो गदे जय हरे कम्बो समाज्ञापय
००८७-२ भो भो नन्दक जीव पन्नगरियो किं नाथ भिन्नो मया ।
००८७-३ को दैत्यः कतमो हिरण्यकशिपुः सत्यं भवद्भ्यः शपे
००८७-४ केनास्त्रेण नखैरिति प्रवदतो विष्णोर्मुखं पातु वः । ।
००८८-१ चिन्ताचक्रिणि हन्त चक्रिणि भिया कुब्जासनेब्जासने
००८८-२ नश्यद्धामनि तिग्मधामनि धृताशङ्के शशाङ्के भृशं ।
००८८-३ भ्रश्यच्चेतसि च प्रचेतसि शुचा तान्ते कृतान्ते च यो
००८८-४ व्यग्रोभूत्कटुकालकूटकवलीकाराय पायात्स वः । ।
००८९-१ नित्यं नरावृति निजानुभवैकमानम्-
००८९-२ आनन्दधाम जगदङ्कुरबीजमेकं ।
००८९-३ दिग्देशकालकलनादिसमस्तहस्त-
००८९-४ मर्दासहं दिशतु शर्म महन्महो वः । ।
००९०-१ व्य्ॐनीव नीरदभरः सरसीव वीचि-
००९०-२ व्यूहः सहस्रमहसीव सुधांशुधां ।
००९०-३ यस्मिन्निदं जगदुदेति च लीयते च
००९०-४ तच्छाम्भवं भवतु वैभवमृर्द्धये वः । ।
००९१-१ लोकत्रयस्थितिलयोदयकेलिकारः
००९१-२ कार्येण यो हरिहरद्रुहिणत्वमेति ।
००९१-३ देवः स विश्वजनवाङ्मनसातिवृत्ति-
००९१-४ शक्तिः शिवं दिशतु शश्वदनश्वरं वः । ।
००९२-१ सर्वः किलायमवशः पुरुषाणुकर्म-
००९२-२ कायादिकारणगणो यदनुग्रहेण ।
००९२-३ विश्व प्रपञ्चरचनाचतुरत्वमेति
००९२-४ स त्रायतां त्रिभुवनैकमहेश्वरो वः । ।
००९३-१ यः कन्दुकैरिव पुरंदर पद्मसद्म-
००९३-२ पद्मापतिप्रभृतिभिः प्रभुरप्रमेयः ।
००९३-३ खेलत्यलङ्घ्यमहिमा स हिमाद्रिकन्या-
००९३-४ कान्तः कृतान्तदलनो लघयत्वधं वः । ।
००९४-१ मुक्तिर्हि नाम परमः पुरुषार्थ एकस्-
००९४-२ तामन्तरायमवयन्ति यदन्तरज्ञाः ।
००९४-३ किं भूयसा भवतु सैव सुधामयूख-
००९४-४ लेखाशिखाभरणभक्तिरभङ्गुरा वः । ।
००९५-१ श्रीकण्ठस्य सकृत्तिकार्तभरणी मूर्तिः सदारोहिणी
००९५-२ ज्येष्ठा भद्रपदा पुनर्वसुयुता चित्रा विशाखान्विता ।
००९५-३ दिश्यादक्षतहस्तमूलघटिताषाढा मघालङ्कृता
००९५-४ श्रेयो वैश्रवणान्विता भगवतो नक्षत्रपालीव वः । ।
००९६-१ त्राता भीतिभृतां पतिश्चिदचितां क्लेशं सतं शंसतां
००९६-२ हन्ता भक्तिमतां सतां स्वसमतां कर्तापकर्तासतां ।
००९६-३ देवः सेवकभुक्तिमुक्तिरचनाभूर्भूर्भुवःस्वस्त्रयी-
००९६-४ निर्माणस्थितिसंहृतिप्रकटितक्रीडो मृडः पातु वः । ।
००९७-१ राजा राजार्चिताङ्घ्रेरनुपचितकलो यस्य चूडामणित्वं
००९७-२ नागा गागात्मजार्धं न भसितधवलं यद्वपुर्भूषयन्ति ।
००९७-३ मा रामारागिणी भून्मतिरिति यमिनां येन वोदाहि मारः
००९७-४ स प्ताः सप्ताश्वनुन्नारुणकिरणनिभाः पातु बिभ्रत्त्रिनेत्रः । ।
००९८-१ राधामोहनमन्दिरं जगमिषोश्चन्द्रावलीमन्दिराद्-
००९८-२ राधो क्षेममिति प्रियस्य वचनं श्रुत्वाह चन्द्रावली ।
००९८-३ क्षेमं कंस ततः प्रियः प्रकुपितः कंसः क्व दृष्टस्त्वया
००९८-४ राधा क्वेति तयोः प्रिसन्नमनसोर्हासोद्गमः पातु वः । ।
००९९-१ आकृष्टे युधि कार्मुके समवदद्वामः करो दक्षिणं
००९९-२ रे रे दक्षिणहस्त भोजनमहादानादि ते कुर्वतः ।
००९९-३ पश्चाद्गन्तुमयुक्तमित्यथ पुनः सोप्यब्रवीदद्रवं
००९९-४ प्रष्टुं राघवमाशु रावणशिरोवृन्दानि भिन्दानि किं । ।
०१००-१ दृष्टः क्वापि स केशवो व्रजवधूमादाय कांचिद्गतः
०१००-२ सर्वा एव हि वञ्चिताः खुल वयं सोन्वेषणीयो यदि ।
०१००-३ द्वे द्वे गच्छत इत्युदीर्य सहसा राधां गृहीत्वा करे
०१००-४ गोपीवेषधरो निकुञ्जभवनं प्राप्तो हरिः पातु वः । ।
०१०१-१ मातस्तर्णकरक्षणाय यमुनाकच्छं न गच्छाम्यहं
०१०१-२ कस्माद्वत्स पिनष्टि पीवरकुचद्वन्द्वेन गोपीजनः ।
०१०१-३ भ्रूभङ्गैर्विनिवारितोपि बहुशो जल्पन्यशोदाग्रतो
०१०१-४ गोपीभिः करपद्ममुद्रितमुखः पायात्स वः केशवः । ।
०१०२-१ संध्यां यत्प्रणिपत्य लोकपुरतो बद्धाञ्जलिर्याचसे
०१०२-२ धत्से यच्च नदीं विलज्ज शिरसा तन्नाम सोढं मया ।
०१०२-३ श्रीर्यातामृतमन्थने यदि हरिं कस्माद्विषं भक्षितं
०१०२-४ मा स्त्रीलंपट मां स्पृशेति गदितो गौर्या हरः पातु वः । ।
०१०३-१ कस्त्वं शूली मृगय भिषजं नीलकण्ठः प्रियेहं
०१०३-२ केकामेकां वद पशुपतिर्नैव दृश्ये विषाणे ।
०१०३-३ मुग्धे स्थाणुः स चरति कथं जीवितेशः शिवाया
०१०३-४ गच्छाटव्यामिति हतवचाः पातु वश्चन्द्रचूडः । ।
०१०४-१ कोयं द्वारि हरिः प्रयाह्युपवनः शाखामृगस्यात्र किं
०१०४-२ कृष्णोहं दयिते बिभेमि सुतरां कृष्णादहं वानरात् ।
०१०४-३ मुग्धेहं मधुसूदनः पिब लतां तामेव तन्मीवले
०१०४-४ इत्थं निर्वचनीकृतो दयितया ह्रीतो हरिः पातु वः । ।
०१०५-१ निर्लज्ज हरे किमिदं प्रमदानुगतः सदा परिभ्रमसि ।
०१०५-२ मुग्धे त्वत्संपर्कात्प्रमदो भवतीति किं चित्रं । ।
०१०६-१ शठ वर्णयामि भवतो नारीणामुपरिभूयसी प्रीतिः ।
०१०६-२ प्रलपसि किमसंबद्धं कस्यारिषु विद्यते प्रेम । ।
०१०७-१ व्यामोहयसि किमेवं रामासक्तिं ब्रवीमि भवदीयां ।
०१०७-२ ज्येष्ठे भ्रातरि रामे न क्रियतां कथमिवासक्तिः । ।
०१०८-१ किं मामेवं भ्रमयसि शोचामि व्यसनमेव भवदीयं ।
०१०८-२ निष्कारणकुपितायां त्वयि कथय किमल्पकं व्यसनं । ।
०१०९-१ वक्रवचनैरमीभिर्गोपवधूमिति नरुत्तरीकृत्य ।
०१०९-२ मण्डलितगुरुपयोधरमुपगूढं पातु वः शौरेः । ।
०११०-१ अयि संप्रसीद पार्वति शिवोपि तव पादयोर्निपतितोहं ।
०११०-२ शिव इति कथं हि जल्पसि सरुधिरगजचर्मसंवीतः । ।
०१११-१ शिव इति यदि तव गदिते द्विगुणो रोषो भवाम्यहं स्थाणुः ।
०१११-२ स्थानुरसि सत्यमेतच्चेतसि भवतो न किंचिदपि । ।
०११२-१ त्यज रुषमवेहि मानिनि मामीश्वरमर्चितः त्रिभुवनस्य ।
०११२-२ त्र्यम्बक यदीश्वरस्त्वं नग्नः किं धूलिधूसरितः । ।
०११३-१ संप्रति किमत्र वक्ष्यसि पशुपतिरेषोस्मि पाण्डुरकपोले ।
०११३-२ पशुपतिरेव न गणयसि युक्तायुक्तानि यस्मात्त्वं । ।
०११४-१ मुग्धे भ्रमसि किमेवं सत्यमिमं मां भवं विजानीहि ।
०११४-२ सत्यं भवोसि शठ हे येनातिविचित्ररूपोसि । ।
०११५-१ पण्डितबादस्तव यदि लोकेहं त्र्यम्बको विदित एषः ।
०११५-२ अम्बा ह्येकापि न ते प्रजल्पसि त्वं कुतस्तिस्रः । ।
०११६-१ वादो महानिहैव हि तथा विजानीह्यनङ्गदहनं मां ।
०११६-२ दग्धमिदमङ्गमङ्गं त्वया ममैवेदृशैश्चरितैः । ।
०११७-१ संध्याप्रणामदोषाद्योनुनयति तं विजित्य पार्वत्या ।
०११७-२ आलिङ्गितश्च सरभसमुरसा वै हरतु दुरितं वः । ।
०११८-१ भव निःस्नेहस्त्वं मे न भवाम्येवं यथा त्वया गदितं ।
०११८-२ निःस्नेहताभिलाषस्तव देवि कुतः समुत्पन्नः । ।
०११९-१ कुसृतिभिरलमेताभिः किमर्थमुपरिस्थिता नदीयं ते ।
०११९-२ का नरकपालमाला ममोपरिस्था गृहाणैताः । ।
०१२०-१ जनमनुरागिणमेवं संतापयसि व्यलीककरणेन ।
०१२०-२ तव नरकपालपङ्क्तिभिरवश्यमेवोपरि स्थेयं । ।
०१२१-१ किं कुपितोसि त्यज रुषमपनयतां विग्रहं मया हि भवान् ।
०१२१-२ सह विग्रहो भवत्या न जातु विघाटिष्यतेस्माकं । ।
०१२२-१ गङ्गाविग्रहकलुषामिति शिववचनैर्निरुत्तरां गौरीं ।
०१२२-२ परिहास्य योनुनिन्ये स करोतु शिवः शिवं भवतां । ।
०१२३-१ विजये कुशलस्त्र्यक्षो न क्रीडितुमहमनेन सह शक्ता ।
०१२३-२ विजये कुशलोस्मि न तु त्र्यक्षोक्षद्वयमिदं पाणौ । ।
०१२४-१ किं मे दुरोदरेण प्रयातु यदि गणपतिर्न तेभिमतः ।
०१२४-२ कः प्रद्वेष्टि विनायकमहिलोकः किं न जानासि । ।
०१२५-१ वसुरहितेन क्रीडा भवता सह कीदृशी न जिह्रेषि ।
०१२५-२ किं वसुभिन्नमत्ॐऊन्सुरासुरानेव पश्य पुरः । ।
०१२६-१ चन्द्रग्रहणेन विना नास्मि रमे किं प्रवर्तयस्येवं ।
०१२६-२ देव्यै यदि रुचितमिदं नन्दिन्नाह्वयतां राहुः । ।
०१२७-१ हा राहौ निकटस्थे सितदंष्ट्रे भयकृति रतिः कस्य ।
०१२७-२ यदि नेच्छसि तत्त्यक्तः संप्रत्येवैष हाराहिः । ।
०१२८-१ आरोपयसि मुधा किं नाहमभिज्ञा त्वदङ्कस्य ।
०१२८-२ दिव्यं वर्षसहस्रं स्थित्वैवं युक्तमभिधातुं । ।
०१२९-१ इत्थं पशुपतिपेशलपाशकलीलाप्रयुक्तवक्रोक्तेः ।
०१२९-२ हर्षवशतरलतारकमाननमव्याद्भवान्या वः । ।
०१३०-१ अङ्गुल्या कः कवाटे प्रहरति कुटिलो माधवः किं वसन्तो
०१३०-२ नो चक्री किं कुलालो नहि धरणिधरः किं प्रणीन्द्रो द्विजिह्वः ।
०१३०-३ मुग्धे घोराहिमाथी किमुत खगपतिर्नो हरिः किं कपीन्द्र
०१३०-४ इत्थं लक्ष्म्या कृतोसौ प्रतिहतवचनः पातुलक्ष्मीधवो वः । ।
०१३१-१ खेदः किं खलु दयिते न वेत्सि रविमण्डलं जगद्विदितं ।
०१३१-२ न क्रोधः कर्तव्यो जलचरमूर्ध्वं न जातु पश्यामः । ।
०१३२-१ कोपस्त्यक्तुं योग्यो यस्य पिपासा न संभवति ।
०१३२-२ संत्यज मानिनि मानं किं मानेनाधुना ममानेन । ।
०१३३-१ किं तेन किल काव्येन मृद्यमानस्य यस्य ताः ।
०१३३-२ उदधेरिव नायान्ति रसामृतपरम्पराः । ।
०१३४-१ किं कवेस्तस्य काव्येन किं काण्डेन धनुष्मतः ।
०१३४-२ परस्य हृदये लग्नं न घूर्णयति यच्छिरः । ।
०१३५-१ अप्रगल्भपदन्यासा जननीरागहेतवः ।
०१३५-२ सन्त्येके बहुलालापाः कवयो बालका इव । ।
०१३६-१ किं तेन काव्यमधुना प्लाविता रसनिर्झरैः ।
०१३६-२ जडात्मानोपि नो यस्य भवन्त्यङ्कुरितान्तराः । ।
०१३७-१ नवोर्थो जातिरग्राम्या श्लेषोक्लिष्टः स्फुतो रसः ।
०१३७-२ विकटाक्षरबन्धश्च कृत्स्नमेकत्र दुष्करं । ।
०१३८-१ मुखमात्रेण काव्यस्य करोत्यहृदयो जनः ।
०१३८-२ छायामछामपि श्यामां राहुस्तारापतेरिव । ।
०१३९-१ बोद्धार्ॐअत्सरग्रस्ता विभवः स्मयदूषिताः ।
०१३९-२ अबोधोपहताश्चान्ये जीर्नमङ्गे सुभाषितं । ।
०१४०-१ पदद्वयस्य संधानं कर्तुमप्रतिभाः खलाः ।
०१४०-२ तथापि परकाव्येषु दुष्करेष्वप्यसंभ्रमाः । ।
०१४१-१ क्व दोषोत्र मया लभ्य इति संचिन्त्य चेतसा ।
०१४१-२ खलः काव्येषु साधूनां श्रवणाय प्रवर्तते । ।
०१४२-१ उपपत्तिभिरम्लाना नोपदेशैः कदर्थिताः ।
०१४२-२ स्वसंवेदनसंवेद्यसाराः सहृदयोक्तयः । ।
०१४३-१ केषांचिद्वाचि शुकवत्परेषां हृदि मूकवत् ।
०१४३-२ कस्याप्या हृदयाद्वक्त्रे वल्गु वल्गन्ति सूक्तयः । ।
०१४४-१ बहूनि नरशीर्षाणि ल्ॐअशानि बृहन्ति च ।
०१४४-२ ग्रीवासु प्रतिबद्धानि किंचित्तेषु सकर्णकं । ।
०१४५-१ साध्वीव भारती भाति सूक्तिसद्व्रतचारिणी ।
०१४५-२ ग्राम्यार्थवस्तुसंस्पर्शबहिरङ्गा महाकवेः । ।
०१४६-१ ते वन्द्यास्ते महात्मानस्तेषां लोके स्थिरं यशः ।
०१४६-२ यैर्निबद्धानि काव्यानी ये वा काव्येषु कीर्तिताः । ।
०१४७-१ प्रसन्नाः कान्तिहारिण्यो नानाश्लेषविचक्षणाः ।
०१४७-२ भवन्ति कस्यचित्पुण्यैर्मुखे वाचो गृहे स्त्रियः । ।
०१४८-१ कवीनां महतां सूक्तैर्गूढार्थान्तरसूचिभिः ।
०१४८-२ विध्यमानश्रुतेर्मा भूहुर्जनस्य कथं व्यथा । ।
०१४९-१ यास्यति सज्जनहस्तं रमयिष्यति तं भवेच्च निर्दोषा ।
०१४९-२ उत्पादितयापि कविस्ताम्यति कथया दुहित्रेव । ।
०१५०-१ अवसरपठितं सर्वं सुभाषितत्वं प्रयात्पसूक्तमपि ।
०१५०-२ क्षुधि कदशनमपि नितरां भोक्तुः संपद्यते स्वादु । ।
०१५१-१ दुर्जनहुताशतप्तं काव्यसुवर्णं विशुद्धिमुपयाति ।
०१५१-२ दर्शयितव्यं तस्मान्मत्सरिमनसः प्रयत्नेन । ।
०१५२-१ गणयन्ति नापशब्दं न वृत्तभङ्गं क्षतिं न चार्थस्य ।
०१५२-२ रसिकत्वेनाकुलिता वेश्यापतयः कुकवयश्च । ।
०१५३-१ विपुलहृदयाभियोग्ये खिद्यति काव्ये जडो न मौर्ख्ये स्वे ।
०१५३-२ निन्दति कञ्चुकमेव प्रायः शुष्कस्तना नारी । ।
०१५४-१ ख्यातिं गमयति सुजनः सुकविर्विदधाति केवलं काव्यं ।
०१५४-२ पुष्णाति कमलमम्भो लक्ष्म्या तु रविर्नियोजयति । ।
०१५५-१ व्याख्यातुमेव केचित्कुशलाः शास्त्रं प्रयोक्तुमलमन्ये ।
०१५५-२ उपनामयति करोन्नं रसांस्तु जिह्बैव जानाति । ।
०१५६-१ जिवित इव कण्ठगते सूक्ते दुःखासिका कवेस्तावत् ।
०१५६-२ नयनविकासविधायी सचेतनाभ्यागमो यावत् । ।
०१५७-१ प्रतीयमानं पुनरन्यदेव
०१५७-२ वस्त्वस्ति वाणीषु महाकवीनां ।
०१५७-३ यत्तत्प्रसिद्धावयवातिरिक्त-
०१५७-४ माभाति लावण्यमिवाङ्गनासु । ।
०१५८-१ कवेरभिप्रायमशब्दगोचरं
०१५८-२ स्फुरन्तमार्द्रेषु पदेषु केवलं ।
०१५८-३ वदद्भिरङ्गैः कृतर्ॐअविक्रियैर्-
०१५८-४ जनस्य तूष्णींभवतोयमञ्जलिः । ।
०१५९-१ सहृदयाः कविगुम्फनिकासु ये
०१५९-२ कतिपयास्त इमे न विशृङ्खलाः ।
०१५९-३ रसमयीषु लतास्विव षट्पदा
०१५९-४ हृदयसारजुषो न मुखस्पृशः । ।
०१६०-१ ख्याता नराधिपतयः कविसंश्रयेण
०१६०-२ राजाश्रयेण च गताः कवयः प्रसिद्धिं ।
०१६०-३ राज्ञा समोस्ति न कवेः परमोपकारी
०१६०-४ राज्ञो न चास्ति कविना सदृशः सहायः । ।
०१६१-१ चेतःप्रसादजननः विबुद्धोत्तमानाम्-
०१६१-२ आनन्दि सर्वरसयुक्तमतिप्रसन्नं ।
०१६१-३ काव्यं खलस्य न करोति हृदि प्रतिष्ठां
०१६१-४ पीयूषपानमिव वक्त्रविवर्ति राहोः । ।
०१६२-१ बद्धा यदर्पणरसेन विमर्दपूर्वम्-
०१६२-२ अर्थान्कथं झटिति तान्प्रकृतान्न दद्युः ।
०१६२-३ चौरा इवातिमृदवो महतां कवीनाम्-
०१६२-४ अर्थान्तराण्यपि हठाद्वितरन्ति शब्दाः । ।
०१६३-१ तत्किं काव्यमनल्पपीतमधुवत्कुर्यान्न यद्धृद्गतं
०१६३-२ मात्सर्यावृतचेतसां रसवशादप्युद्गतिं ल्ॐअसु ।
०१६३-३ कम्पं मूर्ध्नि कपोलयुग्ममरुणं बाष्पाविले लोचने
०१६३-४ अध्यारोपितवस्तुकीर्तनपरं वाचः करालम्बनं । ।
०१६४-१ ये तावत्स्वगुणोपबृंहितधियस्तेषामरण्यं जगद्-
०१६४-२ येप्येते कृतमत्सराः परगुणं स्वप्नेपि नेच्छन्ति ते ।
०१६४-३ अन्येषामनुरागिणां क्वचिदपि स्निग्धं मनो निर्वृता-
०१६४-४ वित्थं यान्तु तपोवनानि महतां सूक्तानि मन्येधुना । ।
०१६५-१ या साधूनिव साधुवादमुखरान्मात्सर्यमूकानपि
०१६५-२ प्रोच्चैर्नो कुरुते सतां मतिमतां दृष्टिर्न सा वास्तवी ।
०१६५-३ या याताः श्रुतिगोचरं च सहसा हर्षोल्लसत्कंधरास्-
०१६५-४ तिर्यञ्चोपि न मुक्तशष्पकवलास्ताः किं कवीनां गिरः । ।
०१६६-१ स्वेच्छाभङ्गुरभाग्यमेघतडितः शक्या न रोद्धुं श्रियः
०१६६-२ प्राणानां सततं प्रयाणपटहश्रद्धा न विश्राम्यति ।
०१६६-३ त्राणं येत्र यश्ॐअये वपुषि वः कुर्वन्ति काव्यामृतैस्-
०१६६-४ तानाराध्यपदे विधत्त सुकवीन्निर्गर्वमुर्वीश्वराः । ।
०१६७-१ हे राजानस्त्यजत सुकविप्रेमबन्धे विरोधं
०१६७-२ शुद्धा कीर्तिः स्फुरति भवतां नूनमेतत्प्रसादात् ।
०१६७-३ तुष्टैर्बद्धं तदलघु रघुस्वामिनः सच्चरित्रं
०१६७-४ रुष्टैर्नीतस्त्रिभुवनजयी हास्यमार्गं दशास्यः । ।
०१६८-१ नमो नमः काव्यरसाय तस्मै
०१६८-२ निषिक्तमन्तः पृषतापि यस्य ।
०१६८-३ सुवर्णतां वक्त्रमुपैति साधोर्-
०१६८-४ दुर्वर्णतां याति च दुर्जनस्य । ।
०१६९-१ अज्ञातपाण्डित्यरहस्यमुद्रा
०१६९-२ ये काव्यमार्गे दधतेभिमानं ।
०१६९-३ ते गारुडीयाननधीत्य मन्त्रान्-
०१६९-४ हालाहलास्वादनमारभन्ते । ।
०१७०-१ सरस्वतीमातुरभूच्चिरं न यः
०१७०-२ कवित्वपाण्डित्यघनस्तनंधयः ।
०१७०-३ कथं स सर्वाङ्गमनाप्तसौष्ठवो
०१७०-४ दिनाद्दिनं प्रौढिविशेषमश्नुते । ।
०१७१-१ वितीर्णशिक्षा इव हृत्पदस्थ-
०१७१-२ सरस्वतीवाहनराजहंसैः ।
०१७१-३ ये क्षीरनीरप्रविभागदक्षा
०१७१-४ विवेकिनस्ते कवयो जयन्ति । ।
०१७२-१ काव्यामृतं दुर्जनराहुनीतं
०१७२-२ प्राप्यं भवेन्नो सुमोनजनस्य ।
०१७२-३ सच्चक्रमव्याजविराजमानत्-
०१७२-४ ऐक्ष्ण्यप्रकर्षं यदि नाम न स्यात् । ।
०१७३-१ विना न साहित्यविदापरत्र
०१७३-२ गुणः कथंचित्प्रथते कवीनां ।
०१७३-३ आलम्बते तत्क्षणमम्भसीव
०१७३-४ विस्तारमन्यत्र न तैलबिन्दुः । ।
०१७४-१ अत्यर्थवक्रत्वमनर्थकं या
०१७४-२ शून्या तु सर्वान्यगुणैर्व्यनक्ति ।
०१७४-३ अस्पृश्यतादूषितया तया किं
०१७४-४ तुच्छश्वपुच्छच्छटयेव वाचा । ।
०१७५-१ नीचस्तनोत्वश्रु नितान्तकार्ष्ण्यं
०१७५-२ पुष्णातु साधर्म्यभृदञ्जनेन ।
०१७५-३ विना तु जायेत कथं तदीय-
०१७५-४ क्षोदेन सारस्वतदृक्प्रसादः । ।
०१७६-१ अर्थोस्तिचेन्न पदशुद्धिरथास्ति सापि
०१७६-२ नो रीतिरस्ति यदि सा घटना कुतस्त्या ।
०१७६-३ साप्यस्ति चेन्न नववक्रगतिस्तदेतद्-
०१७६-४ व्यर्थं विना रसमहो गहनं कवित्वं । ।
०१७७-१ श्लाघ्यैव वक्रिमगतिर्घनदार्ढ्यबन्धोस्-
०१७७-२ तस्याः कविप्रवरसूक्तिधनुर्लतायाः ।
०१७७-३ कर्णान्तिकप्रणयभाजि गुणे यदीये
०१७७-४ चेतांसि मत्सरवतां झटिति त्रुटन्ति । ।
०१७८-१ यातास्ते रससारसंग्रहविधिं निष्पीड्य निष्पीड्य ये
०१७८-२ वाक्तत्वेक्षुलतां पुरा कतिपये तत्त्वस्पृशश्चक्रिरे ।
०१७८-३ जायन्तेद्य यथायथं तु कवयस्ते तत्र संतन्वते
०१७८-४ येनुप्रासकठोरचित्रयमकश्लेषादिशल्कोच्चयं । ।
०१७९-१ परश्लोकान्स्तोकाननुदिवसमभ्यस्य ननु ये
०१७९-२ चतुष्पादीं कुर्युर्बहव इह ते सन्ति कवयः ।
०१७९-३ अविच्छिन्नोद्गच्छज्जलधिलहरीरीतिसुहृदः
०१७९-४ सुहृद्या वैशद्यं दधति किल केषाम्चन गिरः । ।
०१८०-१ हेम्नो भारशतानि वा मदमुचां वृन्दानि वा दन्तिनां
०१८०-२ श्रीहर्षेण समर्पितानि गुणिने बाणाय कुत्राद्य तत् ।
०१८०-३ या बाणेन तु तस्य सूक्तिविसरैरुट्टङ्किताः कीर्तयस्-
०१८०-४ ताः कल्पप्रलयेपि यान्ति न मनाङ्मन्ये परिम्लानतां । ।
०१८१-१ धन्याः शूचीनि सुरभीणि गुण्ॐभितानि
०१८१-२ वाग्वीरुधः स्ववदनोपवनोद्गतायाः ।
०१८१-३ उच्चित्य सूक्तिकुसुमानि सतांविविक्त-
०१८१-४ वर्णानि कर्णपुलिनेष्ववतंसयन्ति । ।
०१८२-१ तेनन्तवाङ्मयमहार्णवदृष्टपाराः
०१८२-२ सांयात्रिका इव महाकवयो जयन्ति ।
०१८२-३ यत्सूक्तिपेलवलवङ्गलवैर्वैमि
०१८२-४ सन्तः सदः सुवदनान्यधिवासयन्ति । ।
०१८३-१ त्रैलोक्यभूषणमणिर्गुणिवर्गबन्धुर्-
०१८३-२ एकश्चकास्ति कविता सविता द्वितीयः ।
०१८३-३ शंसन्ति यस्य महिमातिशयं शिरोभिः
०१८३-४ पादग्रहं विदधतः पृथिवीभृतोपि । ।
०१८४-१ शब्दार्थमात्रमपि ये न विदन्ति तेपि
०१८४-२ यां मूर्छनामिव मृगाः श्रवणैः पिबन्तः ।
०१८४-३ संरुद्धसर्वकरणप्रसरा भवन्ति
०१८४-४ चित्रस्थिता इव कवीन्द्रगिरं नुमस्तां । ।
०१८५-१ अस्थाने गमिता लयं हतधियां वाग्देवता कल्पते
०१८५-२ धिक्काराय पराभवाय महते तापाय पापाय वा ।
०१८५-३ स्थाने तु व्ययिता सतां प्रभवति प्रख्यातये भूतये
०१८५-४ चेतोनिर्वृतये परोपकृतये प्रान्ते शिवावाप्तये । ।
०१८६-१ वल्मीकप्रभवेण रामनृपतिर्व्यासेन धर्मात्मजो
०१८६-२ व्याख्यातः किल कालिदासकविना श्रीविक्रमाङ्को नृपः ।
०१८६-३ भोजश्चित्तपबिह्लणप्रभृतिभिः कर्णोपि विद्यापतेः
०१८६-४ ख्यातिं यान्ति निरेश्वराः कविवरैः स्फारैर्न भेरीरवैः । ।
०१८७-१ भुजतरुवनच्छायां येसां निषेव्य महौजसां
०१८७-२ जलधिरशना मेदिन्यासीदसावकुतोभया ।
०१८७-३ स्मृतिमपि न ते यान्ति क्ष्मापा विना यदनुग्रहं
०१८७-४ प्रकृतिमहते कुर्मस्तस्मै नमः कविकर्मणे । ।
०१८८-१ येप्यासन्निभकुम्भशायितपदा येपि श्रियं लेभिरे
०१८८-२ येषामप्यवसन्पुरा युवतयो गेहेष्वहश्चन्द्रिकाः ।
०१८८-३ तांल्लोकोयमवैति लोकतिलकान्स्वप्नेप्यजातानिव
०१८८-४ भ्रातः सत्कविकृत्य किं स्तुतिशतैरन्धं जगत्त्वां विना । ।
०१८९-१ स्फारेण सौरभभरेण किमेणनाभेस्-
०१८९-२ तद्धानसारमपि सारमसारमेव ।
०१८९-३ स्रक्स्ॐअनस्यपि न पुष्यति स्ॐअनस्यं
०१८९-४ प्रस्यन्दते यदि मधुद्रवमुक्तिदेवी । ।
०१९०-१ प्रयच्छति चमत्कृतिं विरचनाविधौ चेतसः
०१९०-२ सभासु पठितो भवत्यसमसाधुवादाप्तये ।
०१९०-३ प्रथामुपगतस्तनोत्यतितरामुदारं यशो
०१९०-४ न पुष्यति मनोरथं कमिव काव्यचिन्तामणिः । ।
०१९१-१ यः सत्पदस्थमिव काव्यमधु प्रसन्नं
०१९१-२ मुष्णन्परस्य तनुते निजपद्ममध्ये ।
०१९१-३ अस्थानदोषजनितेव पिपीलकाली
०१९१-४ काली विभाति लिखिताक्षरपङ्क्तिरस्य । ।
०१९२-१ यः स्यात्केवललक्ष्यलक्षणरतो नो तर्कसंपर्कभृन्-
०१९२-२ नालंकारविचारचारुधिषणः काव्यज्ञशिक्षोज्झितः ।
०१९२-३ तस्माच्चेद्रसशालि काव्यमुदयेदेकान्ततः सुन्दरं
०१९२-४ प्रासादो धवलस्तदा क्षितिपतेः काकस्य कार्ष्ण्याद्भवेत् । ।
०१९३-१ स्वप्रज्ञया कुञ्चिकयेव कंचित्-
०१९३-२ सारस्वतं वक्रिमभङ्गिभाजं ।
०१९३-३ कवीश्वरः कोपि पदार्थकोश-
०१९३-४ मुद्धाट्य विश्वाभरणं करोति । ।
०१९४-१ दैवीर्गिरः केपि कृतार्थयन्ति
०१९४-२ ताः कुण्ठयन्त्येव पुनर्विमूढाः ।
०१९४-३ या विप्रुषः शुक्तिमुखेषु दैव्यस्-
०१९४-४ ता एव मुक्ता न तु चातकेषु । ।
०१९५-१ परिश्रमज्ञं जनमन्तरेण
०१९५-२ मौनव्रतं बिभ्रति वाग्मिनोपि ।
०१९५-३ वाचंयमाः सन्ति विना वसन्तः
०१९५-४ पुंस्कोकिलाः पञ्चमचञ्चवोपि । ।
०१९६-१ व्यालाश्च राहुश्च सुधाप्रसादाज्-
०१९६-२ जिह्वाशिरोनिग्रहमुग्रमापुः ।
०१९६-३ इतीव भीताः पिशुना भवन्ति
०१९६-४ पराङ्मुखाः काव्यरसामृतेषु । ।
०१९७-१ साकूतं निजसंविदेकविषयं तत्त्वं सचेता ब्रुवन्-
०१९७-२ नग्रे नूनमबोधमोहितधियां हास्यत्वमायास्यति ।
०१९७-३ तद्युक्तं विदुषो जनस्य जडवज्जोषं नु नामासितुं
०१९७-४ जात्यन्धं प्रतिरूपवर्णनविधौ कोयं वृथैवोद्यमः । ।
०१९८-१ जयन्ति जितमत्सराः परहितार्थमभ्युद्यताः
०१९८-२ पराभ्युदयसुस्थिताः परविपत्तिखेदाकुलाः ।
०१९८-३ महापुरुषसत्कथाश्रवणजातकौतूहलाः
०१९८-४ समस्तदुरितार्णवप्रकटसेतवः साधवः । ।
०१९९-१ परपरिवादे मूकः परनारीदर्शनेपि जात्यन्धः ।
०१९९-२ पङ्गुः परधनहरणे स जयति लोके महापुरुषः । ।
०२००-१ संपत्सु महतां चेतो भवत्युत्पलक्ॐअलं ।
०२००-२ आपत्सु च महाशैलशिलासंघातकर्कशं । ।
०२०१-१ कुसुमस्तबकस्येव द्वयी मृत्तिर्मनस्विनः ।
०२०१-२ मूर्ध्नि वा सर्वलोकस्य शीर्यते वन एव वा । ।
०२०२-१ उपकारेण दूयन्ते न सहन्तेनुकम्पितां ।
०२०२-२ आपत्स्वपि दुराराध्या नित्यदुःखा मनस्विनः । ।
०२०३-१ जलसेकेन वर्धन्ते तरवो नाश्मसंचयाः ।
०२०३-२ भव्यो हि द्रव्यतामेति क्रियां प्राप्य तथाविधां । ।
०२०४-१ अवृत्तिभयमन्त्यानां मध्यानां मरणाद्भयं ।
०२०४-२ उत्तमानां तु सत्त्वानामवमानात्परं भयं । ।
०२०५-१ तापं हन्ति सुखं सूते जीवयत्युज्ज्वलं यशः ।
०२०५-२ अमृतस्य प्रकारोयं दुर्लभः साधुसंगमः । ।
०२०६-१ रसायनमयी शीता परमानन्ददायिनी ।
०२०६-२ नानन्दयति कं नाम साधुसंगतिचन्द्रिका । ।
०२०७-१ साधुसङ्गतरोर्जातं विवेककुसुमं शुभं ।
०२०७-२ रक्षन्ति ये महात्मानो भाजनं ते फलश्रियः । ।
०२०८-१ शून्यमाकीर्णतामेति मृत्युरप्युत्सवायते ।
०२०८-२ आपत्संपदिवाभाति विद्वज्जनसमागमे । ।
०२०९-१ हिममापत्सरोजिन्या मोहनीहारमारुतः ।
०२०९-२ जयत्येको जगत्यस्मिन्साधुः साधुसमागमः । ।
०२१०-१ परं विवर्धनं बुद्धेरज्ञानतरुशातनं ।
०२१०-२ समुत्सारणमाधीनां विद्धि साधुसमागमं । ।
०२११-१ यः स्नातः शीतसितया साधुसंगतिगङ्गया ।
०२११-२ किं तस्य दानैः किं तीर्थैः किं तपोभिः किमध्वरैः । ।
०२१२-१ हृदयानि सतामेव कठिनानीति मे मतिः ।
०२१२-२ खलवाग्विशिखैस्तीक्ष्णैर्भिद्यन्ते न मनाग्यतः । ।
०२१३-१ आः किमर्थमिदं चेतः सतामम्भोधिदुर्भरं ।
०२१३-२ इति क्रुधेव दुर्वेधाः परदुःखैरपूरयत् । ।
०२१४-१ काचो मणिर्मणिः काचो येषां तेन्ये हि देहिनः ।
०२१४-२ सन्ति ते सुधियो येषां काचः काचो मणिर्मणिः । ।
०२१५-१ दोषानपि गुणीकर्तुं दोषीकर्तुं गुणानपि ।
०२१५-२ शक्तो वादी न तत्तथ्यं दोषा गुणा गुणाः । ।
०२१६-१ गुणराशिमहाभारनिर्भरापूरितान्तराः ।
०२१६-२ सन्तो गौरवमायान्ति यदि तत्र किमद्भुतं । ।
०२१७-१ स्वात्मन्येव लयं यातु तादृशो गुणिनां गुणः ।
०२१७-२ स्वयं प्रख्याप्यमानोपि यस्तृणाय न मन्यते । ।
०२१८-१ गुणवज्जनसंपर्काद्याति स्वल्पोपि गौरवं ।
०२१८-२ पुष्पमालानुषङ्गेण तृणं शिरसि धार्यते । ।
०२१९-१ सुवृत्तस्यैकरूपस्य परप्रीत्यै धृतोन्नतेः ।
०२१९-२ साधोः स्तनयुगस्येव पतनं कस्य तुष्टये । ।
०२२०-१ उदेति सविता रक्तो रक्त एवास्तमेति च ।
०२२०-२ संपतौ च विपतौ च महतामेकरूपता । ।
०२२१-१ पातेन कन्दुक इवोत्पतत्यार्यः पतन्नपि ।
०२२१-२ तथा त्वनार्यः पतति मृत्पिण्डपतनं यथा । ।
०२२२-१ पातितोपि कराघातैरुत्पतत्येव कन्दुकः ।
०२२२-२ प्रायेण हि सुवृत्तानामस्थायिन्यो विपत्तयः । ।
०२२३-१ घ्युतोप्युद्गच्छति पुनः प्रज्ञावान्न तु मूढधीः ।
०२२३-२ कन्दुकः पतनोत्थायी न तु कान्ताकुचद्वयी । ।
०२२४-१ अपेक्षन्ते न च स्नेहं न पात्रं न दशान्तरं ।
०२२४-२ सदा लोकहिते युक्ता रत्नदीपा इवोत्तमाः । ।
०२२५-१ निर्गुणेष्वपि सत्त्वेषु दयां कुर्वन्ति साधवः ।
०२२५-२ नहि संहरते ज्योत्स्नां चन्द्रश्चण्डालवेश्मनि । ।
०२२६-१ नालोकः क्रियते सूर्ये भूः प्रतीपं न धार्यते ।
०२२६-२ नहि प्रत्युपकाराणामपेक्षा सत्सु विद्यते । ।
०२२७-१ अपकुर्वन्नपि प्रायः प्राप्नोति महतः शुभं ।
०२२७-२ दहन्तमप्यौर्वमग्निं संतरपयति वारिधिः । । Qस्व्०२२७-३ कस्यापि
०२२७-४ सत्पक्षा ऋजवः शुद्धाः सफला गुणसेविनः दृष्ट्वापि दृश्यते दृश्यं श्रुत्वापि श्रूयते पुनः ।
०२२७-५ सत्यं न साधुवृत्तस्य दृश्यते पुनरुक्तता । ।
०२२९-१ सत्पक्षा ऋजवः शुद्धाः सफला गुणसेविनः ।
०२२९-२ तुल्यैरपि गुणैश्चित्रं सन्तः सन्तः शराः शराः । ।
०२३०-१ लाभप्रणयिनो नीचा मानकामा मनस्विनः ।
०२३०-२ मद्गुः सरसि मत्स्यार्थी हंसस्येष्टा प्रसन्नता । ।
०२३१-१ परदुःखं समाकर्ण्य स्वभावसरलो जनः ।
०२३१-२ उपकारासमर्थत्वात्प्राप्नोति हृदये व्यथां । ।
०२३२-१ ते वन्द्यास्ते कृतिनः श्लाघ्या तेषां हि जन्मनोत्पत्तिः ।
०२३२-२ यैरुज्झितात्मकार्यैः सुहृदामर्था हि साध्यन्ते । ।
०२३३-१ अशठमलोलमजिह्मं त्यागिनमनुरागिणं विशेषज्ञं ।
०२३३-२ यदि नाश्रयति नरं श्रीः श्रीरेव हि वञ्चिता तत्र । ।
०२३४-१ आरोग्यं विद्वत्ता सज्जनमैत्त्री महाकुले जन्म ।
०२३४-२ स्वाधीनता च पुंसां महदैश्वर्यं विनाप्यर्थैः । ।
०२३५-१ स्वल्पापि साधुसंपद्भोग्या महतां न पृथ्व्यपि खलश्रीः ।
०२३५-२ सारसमेव पयस्तृषमपहरति न वारिधेर्जातु । ।
०२३६-१ न भवति भवति च न चिरं भवति चिरं चेल्फलो विसंवदति ।
०२३६-२ मन्युः सत्पुरुषाणां तुल्यः स्नेहेन नीचानां । ।
०२३७-१ दोषो गुणाय गुणिनां महदपि दोषाय दोषिणां सुकृतं ।
०२३७-२ तृणमिव दुग्धाय गवां दुग्धमिव विषाय सर्पाणां । ।
०२३८-१ विषमगता अपि न बुधाः परिभवमिश्रां श्रियं हि वाञ्छन्ति ।
०२३८-२ न पिबन्ति भ्ॐअमम्भः सरजसमिति चातका एते । ।
०२३९-१ योग्यतयैव विनाशं प्रायोनार्येषु यान्ति गुणवन्तः ।
०२३९-२ स्फुटवचना एव शुकाः पञ्जरबन्धं निषेवन्ते । ।
०२४०-१ सकृदपि दृष्ट्वा पुरुषं प्राज्ञास्तुलयन्ति सारफल्गुत्वं ।
०२४०-२ हस्ततुलयापि निपुणाः पलपरिमाणं विजानन्ति । ।
०२४१-१ सुजनो न याति वैरं परहितनिरतो विनाशकालेपि ।
०२४१-२ छेदेपि चन्दनतरुः सुरभयति मुखं कुठारस्य । ।
०२४२-१ निर्गुणमप्यनुरक्तं प्रायो न समाश्रितं जहति सन्तः ।
०२४२-२ सहवृद्धिक्षयभाजं वहति शशाङ्कः कलङ्कमपि । ।
०२४३-१ अन्त्यावस्थोपि बुधः स्वगुणं न जहाति जातिशुद्धतया ।
०२४३-२ न श्वेतभावमुज्झति शङ्खः शिखिभुक्तमुक्तोपि । ।
०२४४-१ दोषमपि गुणवति जने दृष्ट्वा गुणरागिणो न खिद्यन्ते ।
०२४४-२ प्रीत्यैव शशिनि पतितं पश्यति लोकः कलङ्कमपि । ।
०२४५-१ साप्तपदीनं सख्यं भवेत्प्रकृत्या विशुद्धचित्तानां ।
०२४५-२ किमुतान्योन्यगुणकथाविस्रम्भनिबद्धभावानां । ।
०२४६-१ स्पृहणीयाः कस्य न ते सुमतेः सरलाशया महात्मानः ।
०२४६-२ त्रयमपि येषां सदृशं हृदयं वचनं तथाचारः । ।
०२४७-१ गुणिनः समीपवर्ती पूज्यो लोकस्य गुणविहीनोपि ।
०२४७-२ विमलेक्षणप्रसङ्कादञ्जनमाप्नोति काणाक्षि । ।
०२४८-१ सहसिद्धमिदं महतां धनेष्वनास्था गुणेषु कृपणत्वं ।
०२४८-२ परदुःखे कातरता महच्च धैर्यं स्वदुःखेषु । ।
०२४९-१ अतिकुपिता अपि सुजना योगेन मृदूभवन्ति न तु नीचाः ।
०२४९-२ हेम्नः कठिनस्यापि द्रवणोपायोस्ति न तृणानां । ।
०२५०-१ उपकृतिसाहसिकतया क्षतिमपि गणयन्ति नो गुणिनः ।
०२५०-२ जनयन्ति हि प्रकाशं दीपशिखाः स्वाङ्गदाहेन । ।
०२५१-१ रक्तत्वं कमलानां सत्पुरुषाणां परोपकारित्वं ।
०२५१-२ असतां च निर्दयत्वं स्वभावसिद्धं त्रिषु त्रितयं । ।
०२५२-१ उपकर्तुमप्रकाशं क्षन्तुं न्यूनेष्वयाचितं दातुं ।
०२५२-२ अभिसंधातुं च गुणैः शतेषु केचिद्विजानन्ति । ।
०२५३-१ गुणिनि गुणज्ञो रमते नागुणशीलस्य गुणिनि परितोषः ।
०२५३-२ अलिरेति वनात्कमलं न दर्दुरस्तान्निवासोपि । ।
०२५४-१ आदौ तु मन्दमन्दानि मध्ये समरसानि च ।
०२५४-२ अन्ते स्नेहायमानानि संगतानि बुधैः सह । ।
०२५५-१ इयमुन्नतसत्त्वशालिनां
०२५५-२ महतां कापि कठोरचित्तता ।
०२५५-३ उपकृत्य भवन्ति दूरतः
०२५५-४ परतः प्रत्युपकारशङ्कया । ।
०२५६-१ उपकारिणि वीतमत्सरे वा
०२५६-२ सदयत्वं यदि तत्र कोतिरेकः ।
०२५६-३ अहिते सहसापराद्धलब्धे
०२५६-४ सघृणं यस्य मनः सतां स धुर्यः । ।
०२५७-१ आदिमध्यनिधनेषु सौहृदं
०२५७-२ सज्जने भवति नेतरे जने ।
०२५७-३ छेदताडननिघर्षतापनैर्-
०२५७-४ नान्यभावमुपयाति काञ्चनं । ।
०२५८-१ दीपाः स्थितं वस्तु विभावयन्ति
०२५८-२ कुलप्रदीपास्तु भवन्ति केचित् ।
०२५८-३ चिरव्यतीतानपि पूर्वजान्ये
०२५८-४ प्रकाशयन्ति स्वगुणप्रकर्षात् । ।
०२५९-१ तुङ्गात्मनाः तुङ्गतराः समर्था
०२५९-२ मनोरुजं ध्वंसयितुं न नीचाः ।
०२५९-३ धाराधरा एव धराधराणां
०२५९-४ निदाघदावौघहरा न नद्यः । ।
०२६०-१ गुणा गुणज्ञेषु गुणीभवन्ति
०२६०-२ ते निर्गुणं प्राप्य भवन्ति दोषाः ।
०२६०-३ सुस्वादुतोयप्रभवा हि नद्यः
०२६०-४ समुद्रमासाद्य भवन्त्यपेयाः । ।
०२६१-१ तृणानि नोन्मूलयति प्रभञ्जनो
०२६१-२ मृदूनि नीचैः प्रणतानि सर्वशः ।
०२६१-३ समुच्छ्रितानेव तरून्प्रबाधते
०२६१-४ महान्महत्स्वेव करोति विक्रियां । ।
०२६२-१ चिराय सत्संगमशुद्धमानसो
०२६२-२ न यात्यसत्संगतमात्मवान्नरः ।
०२६२-३ मनोहरेन्दीवरखण्डगोचरो
०२६२-४ न जातु भृङ्गः कुणपे निलीयते । ।
०२६३-१ अपि विभवविहीनः प्रच्युतो वा स्वदेशान्-
०२६३-२ नहि खलजनसेवां प्रार्थयत्युन्नतात्मा ।
०२६३-३ तनु तृणमुपभुङ्क्ते न क्षुधार्तोपि सिंहः
०२६३-४ पिबति रुधिरमुष्णं प्रायशः कुञ्जराणां । ।
०२६४-१ वित्ते त्यागः क्षमा शक्तौ दुःखे दैन्यविहीनता ।
०२६४-२ निर्दम्भता सदाचारे स्वभावोयं महात्मनां । ।
०२६५-१ सुखलवदशाहर्षक्लैव्ये खलः खलु खेलते
०२६५-२ स्खलति भजते लेशक्लेशे विषादविषूचिकां ।
०२६५-३ भवति न सतां दर्पोद्दामा न दैन्यमयी मतिर्-
०२६५-४ दुरभिभवता गम्भीराणां सुखेष्वसुखेषु च । ।
०२६६-१ स्वाम्ये पेशलता गुणे प्रणयिता हर्षे निरुत्सेकता
०२६६-२ मन्त्रे संवृतता श्रुते सुमतिता वित्तोदये त्यागिता ।
०२६६-३ साधौ सादरता खले विमुखता पापे परं भीरुता
०२६६-४ दुःखे क्लेशसहिष्णुता च महतां कल्याणमाकाङ्क्षति । ।
०२६७-१ विपदि धैर्यमथाभ्युदये क्षमा
०२६७-२ सदसि वाक्पटुता युधि विक्रमः ।
०२६७-३ यशसि चाभिरतिर्व्यसनं श्रुते
०२६७-४ प्रकृतिसिद्धमिदं हि महात्मनां । ।
०२६८-१ इदं हि माहात्म्यविशेषसूचकं
०२६८-२ वदन्ति चिह्नं महतां मनीषिणः ।
०२६८-३ मनो यदेषां सुखदुःखसंभवे
०२६८-४ प्रयाति नो हर्षविषादवश्यतां । ।
०२६९-१ सुभाषितैः प्रीतिरनुन्नतिः श्रिया
०२६९-२ परार्थनिष्पत्तिपटीयसी क्रिया ।
०२६९-३ गुणेष्वतृप्तिर्गुणवत्सु चादरो
०२६९-४ निगूढमेतच्चरितं महात्मनां । ।
०२७०-१ सत्यं गुणा गुणवतां विधिवैपरीत्याद्-
०२७०-२ यत्नार्जिता अपि कलौ विफला भवन्ति ।
०२७०-३ साफल्यमस्ति सुतरामिदमेव तेषां
०२७०-४ यत्तापयन्ति हृदयानि पुनः खलानां । ।
०२७१-१ यद्वञ्चनाहितमतिर्बहु चाटुगर्भं
०२७१-२ कार्योन्मुखः खलजनः कृतकं ब्रवीति ।
०२७१-३ तत्साधवो न न विदन्ति विदन्ति किं तु
०२७१-४ कर्तुं वृथा प्रणयमस्य न पारयन्ति । ।
०२७२-१ पापं समाचरति वीतघृणो जघन्यः
०२७२-२ प्राप्यापदं सघृण एव तु मध्यबुद्धिः ।
०२७२-३ प्राणात्ययेपि न तु साधुजनः सुवृत्तं
०२७२-४ वेलां समुद्र इव लङ्घयितुं समर्थः । ।
०२७३-१ शुद्धिः स एव कुलजश्च स एव धीरः
०२७३-२ श्लाघ्यो विपत्स्वपि न मुञ्चति यः स्वभावं ।
०२७३-३ तप्तं यथा दिनकरस्य मरीचिजालैर्-
०२७३-४ देहं त्यजेदपि हिमं न तु शीतलत्वं । ।
०२७४-१ याञ्चापदं मरणदुःखमिवानुभाव्य
०२७४-२ दत्तेन किं खलु भवत्यतिभूयसापि ।
०२७४-३ कल्पद्रुमान्परिहसन्त इवेह सन्तः
०२७४-४ संकल्पितैरतिददत्यकदर्थितं यत् । ।
०२७५-१ ते साधवो भुवनमण्डलमौलिभूता
०२७५-२ ये साधुतां निरुपकारिषु दर्शयन्ति ।
०२७५-३ आत्मप्रयोजनवशीकृतखिन्नदेहः
०२७५-४ पूर्वोपकारिषु खलोपि हि सानुकम्पः । ।
०२७६-१ नान्तर्विचिन्तयति किंचिदपि प्रतीपम्-
०२७६-२ अकोपितोपि सुजनः पिशुनेन पापं ।
०२७६-३ अर्कद्विषोपि हि मुखे पतिताग्रभागास्-
०२७६-४ तारापतेरमृतमेव कराः किरन्ति । ।
०२७७-१ आकोपितोपि कुलजो न वदत्यवाच्यं
०२७७-२ निष्पीडितो मधुरमेव वमेत्किलेक्षुः ।
०२७७-३ नीचो जनो गुणशतैरपि सेव्यमानो
०२७७-४ हासेषु तद्वदति यत्कलहेषु वाच्यं । ।
०२७८-१ निदन्तु नीतिनिपुणा अथवा स्तुवन्तु
०२७८-२ लक्ष्मीः परापततु गच्छतु वा यथेच्छं ।
०२७८-३ अद्यैव वा मरणमस्तु युगान्तरे वा
०२७८-४ न्याय्यात्पथः प्रचलयन्ति पदं न धीराः । ।
०२७९-१ हेतोः कुतोप्यसदृशाः सुजना गरीयः
०२७९-२ कार्यं निसर्गगुरवः स्फुटमारभन्ते ।
०२७९-३ उत्थाय किं कलशतोपि न सिन्धुनाथम्-
०२७९-४ उद्वीचिमालमपिबद्भगवानगस्त्यः । ।
०२८०-१ प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेप्यसुकरं
०२८०-२ ह्यसन्तो नाभ्यर्थ्याः सुहृदपि न याच्योकृशधनः ।
०२८०-३ विपद्युच्चैः स्थेयं पदमनुविधेयं च महतां
०२८०-४ सतां केनोद्दिष्टं विषममसिधाराव्रतमिदं । ।
०२८१-१ प्रदानं सुच्छन्नं गृहमुपगते संभ्रमविधिर्-
०२८१-२ अनुत्सेको लक्ष्म्याप्यनभिभवनीयाः परकथाः ।
०२८१-३ प्रियं कृत्वा मौनं सदसि कथनं चाप्युपकृतेः
०२८१-४ श्रुतेत्यन्तासक्तिः पुरुषमभिजातं कथयति । ।
०२८२-१ कस्यादेशात्क्षपयति तमः सप्तसप्तिः प्रजानां
०२८२-२ छायाहेतोः पथि विटपिनामञ्जलिः केन बद्धः ।
०२८२-३ अभ्यर्थ्यन्ते जललवमुचः केन वा वृष्टिहेतोर्-
०२८२-४ जात्यैवैते परहितविधौ साधवो बद्धकक्ष्या । ।
०२८३-१ स्वफलनिचयः शाखाभङ्गं करोति वनस्पतेर्-
०२८३-२ गमनमलसं बर्हाटोपि करोति शिखण्डिनः ।
०२८३-३ चतुरगमनो यो जात्याश्वः स गौरिव वाह्यते
०२८३-४ गुणवति जने प्रायेणैते गुणाः खलु वैरिणः । ।
०२८४-१ ख्यातिं यत्र गुणा न यान्ति गुणिनस्तत्रादरः स्यात्कुतः
०२८४-२ किं कुर्याद्बहुशिक्षितोपि पुरुषः पाषाणभूते जने ।
०२८४-३ प्रेमारूढविलासिनीमदवशव्यावृत्तकण्ठस्वनः
०२८४-४ सीत्कारो हि मनोहरोपि बधिरे किं नाम कुर्याद्गुणं । ।
०२८५-१ क्षुद्राः सन्ति सहस्रशः स्वभरणव्यापारमात्रोन्मुखाः
०२८५-२ स्वार्थो यस्य परार्थ एव स पुमानेकः सतामग्रणीः ।
०२८५-३ दुष्पूरोदरपूरणाय पिबति स्रोतःपतिं वाडवो
०२८५-४ जीमूतस्तु निदाघतापितजगत्संतापविच्छित्तये । ।
०२८६-१ नम्रत्वेनोन्नमन्तः परगुणनुतिभिः स्वान्गुणान्ख्यापयन्तः
०२८६-२ पुष्णन्तः स्वीयमर्थं सततकृतमहारम्भयत्नाः परार्थे ।
०२८६-३ क्षान्त्यैवाक्षेपरूक्षाक्षरमुखरमुखादुर्मुखान्दुःखयन्तः
०२८६-४ सन्तः साश्चर्यचर्या जगति बहुमताः कस्य नाभ्यर्थनीयाः । ।
०२८७-१ सज्जना एव साधूनां प्रथयन्ति गुणोत्करं ।
०२८७-२ पुष्पाणां सौरभं प्रायस्तन्वते दिक्षु मारुताः । ।
०२८८-१ साधुरेव प्रवीणः स्यात्सद्गुणामृतचर्वणे ।
०२८८-२ नवचूताङ्कुरास्वादकुशलः कोकिलः किल । ।
०२८९-१ प्रायः सन्त्युपदेशार्हा धीमन्तो न जडाशयाः ।
०२८९-२ तिलाः कुसुमसौगन्ध्यग्राहिणो न यवाः क्वचित् । ।
०२९०-१ मनस्विहृदयं धत्ते रौक्ष्येणैव प्रसन्नतां ।
०२९०-२ भस्मना मकुरः प्रायः प्रसादं लभतेतरां । ।
०२९१-१ उत्तमः क्लेशविक्षोभं क्षमः सोढुं नहीतरः ।
०२९१-२ मणिरेव महाशाणघर्षणं न तु मृत्कणः । ।
०२९२-१ जडे प्रभवति प्रायो दुःखं बिभ्रति साधवः ।
०२९२-२ सितांशावुदिते पद्माः संकोचातङ्कधारिणः । ।
०२९३-१ गुणानामन्तरं प्रायस्तज्ज्ञो जानाति नेतरः ।
०२९३-२ मालतीमल्लिकामोदं घ्राणं वेत्ति न लोचनं । ।
०२९४-१ स्वभावं नैव मुञ्चन्ति सन्तः संसर्गतोसतां ।
०२९४-२ न त्यजन्ति रुतं मञ्जु काकसंपर्कतः पिकाः । ।
०२९५-१ संपत्तौ क्ॐअलं चित्तं साधोरापदि कर्कशं ।
०२९५-२ सुकुमारं मधौ पत्त्रं तरोः स्यात्कठिनं शुचौ । ।
०२९६-१ स्वभावं न जहात्यन्तः साधुरापद्गतोपि सन् ।
०२९६-२ कर्पूरः पावकप्लुष्टः सौरभं भजतेतरां । ।
०२९७-१ अप्यापत्समयः साधोः प्रयाति श्लाघनीयतां ।
०२९७-२ विधोर्विधुंतुदास्कन्दविपत्कालोपि सुन्दरः । ।
०२९८-१ दृष्टदुर्जनदौरात्म्यः सज्जने रज्यते जनः ।
०२९८-२ आरुह्य पर्वतं पान्थः निर्वृतिमेत्यलं । ।
०२९९-१ क्षणक्षयिणि सापाये भोगे रज्यन्ति नोत्तमाः ।
०२९९-२ संत्यज्याम्भोजकिंजल्कं हंसाः प्राश्नन्ति शैवलं । ।
०३००-१ अधमं बाधते भूयो दुःखावेगो न तूत्तमं ।
०३००-२ पाणिपादं रुजत्याशु शीतस्पर्शो न चक्षुषी । ।
०३०१-१ गुणवान्सुचिरस्थायी दैवेनापि न सह्यते ।
०३०१-२ तिष्ठत्येकां निशां चन्द्रः श्रीमान्संपूर्णमण्डलः । ।
०३०२-१ सर्वत्र गुणवान्देशे चकास्ति प्रथतेतरां ।
०३०२-२ मणिर्मूर्ध्नि गले बाहौ पादपीठेपि शोभते । ।
०३०३-१ उत्तमं सुचिरं नैव विपदोभिभवन्त्यलं ।
०३०३-२ राहुग्रसनसंभूता क्षणं विच्छायता विधोः । ।
०३०४-१ संतुष्यत्युत्तमः स्तुत्या धनेन महताधमः ।
०३०४-२ प्रसीदन्ति जपैर्देवा बलिभिर्भूतविग्रहाः । ।
०३०५-१ न कदाचित्सतां चेतः प्रसरत्यघकर्मसु ।
०३०५-२ जलेषु द्रुतमप्यन्तः सर्पिराश्यानतां व्रजेत् । ।
०३०६-१ नराः संस्कारार्हा जगति किल केचित्सुकृतिनः
०३०६-२ समानायां जातावपि वयसि सत्यामपि धियि ।
०३०६-३ अयं दृष्टान्तोत्र स्फुटपरिचयादभ्यसनतः
०३०६-४ शुकः श्लोकान्वक्तुं प्रभवति न काकः क्वचिदपि । ।
०३०७-१ धनमपि परदत्तं दुःकमौचित्यभाजां
०३०७-२ भवति हृदि तदेवानन्दकारीतरेषां ।
०३०७-३ मलयजरसबिन्दुर्बाधते नेत्रमन्तर्-
०३०७-४ जनयति च स एवाह्लादमन्यत्र गात्रे । ।
०३०८-१ सद्वंशजस्य परितापनुदः सुवृत्त-
०३०८-२ शुद्धात्मनः सकललोकविभूषणस्य ।
०३०८-३ छिद्रं प्रजातमपि साधुजनस्य दैवान्-
०३०८-४ मुक्तामणेरिव गुणाय भवत्यवश्यं । ।
०३०९-१ गेहं दुर्गतबन्धुर्भिर्गुरुगृहं छात्रैरहंकारिभिर्-
०३०९-२ हट्टं पत्तनवञ्चकैर्मुनिजनैः शापोन्मुखैराश्रमान् ।
०३०९-३ सिंहाद्यैश्च वनं खलैर्नृपसभां चौरौर्दिगन्तानपि
०३०९-४ संकीर्णान्यवलोक्य सत्यसरलः साधुः क्व विश्राम्यति । ।
०३१०-१ साभिमानमसंभाव्यमौचित्यच्युतमप्रियं ।
०३१०-२ दुःखावमानदीनं वा न वदन्ति गुणोन्नताः । ।
०३११-१ भवति सुभगत्वमधिकं विस्तारितपरगुणस्य सुजनस्य ।
०३११-२ वहति विकासितकुमुदो द्विगुणरुचिं हिमकरोद्द्योतः । ।
०३१२-१ गुणिनामपि निजरूपप्रतिपत्तिः परत एव संभवति ।
०३१२-२ स्वमहिमदर्शनमक्ष्णोर्मकुरतले जायते यस्मात् । ।
०३१३-१ कोतिभारः समर्थानां किं दूरं व्यवसायिनां ।
०३१३-२ को विदेशः सविद्यानां कः परः प्रियवादिनां । ।
०३१४-१ अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च ।
०३१४-२ पुरुषविशेषं प्राप्ता भवन्ति योग्या अयोग्याश्च । ।
०३१५-१ उत्साहसंपन्नमदीर्घसूत्रं
०३१५-२ क्रियाविधिज्ञं व्यसनेष्वसक्तं ।
०३१५-३ शूरं कृतज्ञं दृढसौहृदं च
०३१५-४ लक्ष्मीः स्वयं वाञ्छति वासहेतोः । ।
०३१६-१ कदर्थितस्यापि महाशयस्य
०३१६-२ न शक्यते सर्गगुणः प्रमार्ष्टुं ।
०३१६-३ अध्ॐउखस्यापि कृतस्य वह्नेर्-
०३१६-४ नाधः शिखा यान्ति कदाचिदेव । ।
०३१७-१ न्यायः खलैः परिहृतश्चलितश्च धर्मः
०३१७-२ कालः कलिः कलुष एव परं प्रवृत्तः ।
०३१७-३ प्रायेण दुर्जनजनः प्रभाविष्णुरेव
०३१७-४ निश्चक्रिकः परिभवास्पदमेव साधुः । ।
०३१८-१ व्रते विवादं विमतिं विवेके
०३१८-२ सत्येतिशङ्कां विनये विकारं ।
०३१८-३ गुणेवमानं कुशले निषेधं
०३१८-४ धर्मे विरोधं न करोति साधुः । ।
०३१९-१ वन्द्यः स पुंसं त्रिदशाभिनन्द्यः
०३१९-२ कारुण्यपुण्योपचयक्रियाभिः ।
०३१९-३ संसारसारत्वमुपैतै यस्य
०३१९-४ परोपकाराभरणं शरीरं । ।
०३२०-१ अभेदेनोपास्ते कुमुदमुदरे वा स्थितवतो
०३२०-२ विपक्षादम्भोजादुपगतवतो वा मधुलिहः ।
०३२०-३ अपर्याप्तः कोपि स्वपरपरिचर्यापरिचय-
०३२०-४ प्रबन्धः साधूनामयमनभिसंधानमधुरः । ।
०३२१-१ यैर्वातूलो भवति पुरतः कथ्यमानैर्जनानां
०३२१-२ कामप्यन्तर्विदधति रुजं येप्यनुद्गीर्यमाणाः ।
०३२१-३ तेभिप्रायाः किमपि हृदये कण्ठलग्नः स्फुरन्तो
०३२१-४ यस्याख्येयास्तमिह सुहृदं पुण्यवन्तो लभन्ते । ।
०३२२-१ उदन्वच्छिन्ना भूः स च निधिरपां योजनशतं
०३२२-२ सदा पान्थः पूषा गगनपरिमाणं कथयति ।
०३२२-३ इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः
०३२२-४ सतां प्रज्ञोन्मेषः पुनरयमसीमा विजयते । ।
०३२३-१ सागसेपि न कुप्यन्ति कृपया चोपकुर्वते ।
०३२३-२ बोधं स्वस्यैव नेच्छन्ति ते विश्वोद्धरणक्षमाः । ।
०३२४-१ पात्रं पवित्रयति नैव गुणान्क्षिणोति
०३२४-२ स्नेहं न संहरति नापि मलं प्रसूते ।
०३२४-३ दोषावसानरुचिरश्चलतां न धत्ते
०३२४-४ सत्संगमः सुकृतसद्मनि कोपि दीपः । ।
०३२५-१ अणुरपि मणिः प्राणत्राणक्षमो विषभक्षिणां
०३२५-२ शिशुरपि रुषा सिंहीसूनः समाह्वयते गजान् ।
०३२५-३ तनुरपि तरुस्कन्धोद्भूतो दहत्यनलो वनं
०३२५-४ प्रकृतिमहतां जात्यं तेजो न मूर्तिमपेक्षते । ।
०३२६-१ नमः खलेभ्यः क इवाथवा न ता-
०३२६-२ नलं नमस्येदिह यो जिजीविषुः ।
०३२६-३ विनैव ये दोषमृषिप्रकाण्डवन्-
०३२६-४ नयन्ति शापेन रसातलं नरान् । ।
०३२७-१ विषधरतोप्यतिविषमः खल इति न मृषा वदन्ति विद्वांसः ।
०३२७-२ यदयं नकुलद्वेषी सकुलद्वेषी सदा पिशुनः । ।
०३२८-१ अतिमलिने कर्तव्ये भवति खलानामतीव निपुणा धीः ।
०३२८-२ तिमिरे हि कौशिकानां रूपं प्रतिपद्यते दृष्टिः । ।
०३२९-१ विध्वस्तपरगुणानां भवति खलानामतीव मलिनत्वं ।
०३२९-२ अन्तरितशशिरुचामपि सलिलमुचां मलिनिमाभ्यधिकः । ।
०३३०-१ हस्त इव भूतिमलिनो लङ्घयति यथा यथा खलः सूजनं ।
०३३०-२ दर्पणमिव तं कुरुते तथा तथा निर्मलच्छायं । ।
०३३१-१ जीवनग्रहणे नम्रा गृहीत्वा पुनरुत्थिताः ।
०३३१-२ किं कनिष्ठा उत ज्येष्ठा घटीयन्त्रस्य दुर्जनाः । ।
०३३२-१ सदा खण्डनयोग्याय तुषपूर्णाशयाय च ।
०३३२-२ नमोस्तु बहुबीजाय खलायोलूखलाय च । ।
०३३३-१ जिह्वादूषितसत्पात्रः पिण्डार्थी कलहोत्कटः ।
०३३३-२ तुल्यतामशुचिर्नित्यं बिभर्ति पिशुनः शुनः । ।
०३३४-१ अहो बत खलः पुण्यैर्मूर्खोप्यश्रुतपण्डितः ।
०३३४-२ स्वगुणोदीरणे शेषः परनिन्दासु वाक्पतिः । ।
०३३५-१ खलः सुजनपैशुन्ये सर्वतोक्षि शिर्ॐउखः ।
०३३५-२ सर्वतः श्रुतिमांल्लोके सर्वमावृत्य तिष्ठति । ।
०३३६-१ सत्साधुवादे मूर्खस्य मात्सर्यगलरोगिणः ।
०३३६-२ जिह्वा कङ्कमुखेनापि कृष्टा नैव प्रवर्तते । ।
०३३७-१ मायामयः प्रकृत्यैव रागद्वेषमदाकुलः ।
०३३७-२ महतामपि मोहाय संसार इव दुर्जनः । ।
०३३८-१ खचित्रमपि मायावी रचयत्येव लीलया ।
०३३८-२ लघुश्च महतां मध्ये तस्मात्खल इति स्मृतः । ।
०३३९-१ खलेन धनमत्तेन नीचेन प्रभविष्णुना ।
०३३९-२ पिशुनेन पदस्थेन हा प्रजे क्व गमिष्यसि । ।
०३४०-१ कृतशतमसत्सु नष्टं सुभाषितशतं च नष्टमबुधेषु ।
०३४०-२ वचनशतमवचनकरे बुद्धिशतमचेतने नष्टं । ।
०३४१-१ नष्टमपात्रे दानं नष्टं हितमफलबुद्ध्यवज्ञाने ।
०३४१-२ नष्टो गुणोगुणज्ञे नष्टं दाक्षिण्यमकृतज्ञे । ।
०३४२-१ दूरादुच्छ्रितपाणिरार्द्रनयनः प्रोत्सारितार्धासनो
०३४२-२ गाढालिङ्गनतत्परः प्रियकथाप्रश्नेषु सक्तोत्तरः ।
०३४२-३ अन्तर्गूढविषो बहिर्मधुमयश्चातीव मायामयः
०३४२-४ को नामायमपूर्वनाटकविधिर्यः शिक्षितो दुर्जनैः । ।
०३४३-१ ये श्रमं हर्तुमीहन्ते महतां चिरसंभृतं ।
०३४३-२ वन्द्यास्तेसरलात्मानो दुर्जनाः सज्जना इव । ।
०३४४-१ अहो कुटिलबुद्धीनां दुर्ग्राहमसतां मनः ।
०३४४-२ अन्यद्वचसि कण्ठेन्यदन्यदोष्ठपुटे स्थितं । ।
०३४५-१ खलेषु सत्सु निर्याता वयमर्जयितुं गुणान् ।
०३४५-२ इयं सा तस्करग्रामे रत्नक्रयविडम्बना । ।
०३४६-१ वर्धेते स्पर्धयेवोभौ संपदा शतशाखया ।
०३४६-२ अङ्कुरोवस्करोद्भूतः पुरुषश्चाकुलोद्भवः । ।
०३४७-१ दह्यमानाः सुतीक्ष्णेन नीचाः परयशोग्निना ।
०३४७-२ अशक्तास्तत्पदं गन्तुं ततो निन्दां प्रचक्रिरे । ।
०३४८-१ यत्स्मृत्वैव परां यान्ति सन्तः संतापसंततिं ।
०३४८-२ तदसन्तो हसन्तोपि हेलयैव हि कुर्वते । ।
०३४९-१ गुणदोषावशास्त्रज्ञः कथं विभजते जनः ।
०३४९-२ किमन्धस्याधिकारोस्ति रूपभेदोपलब्धिषु । ।
०३५०-१ प्रायः प्रकाशतां याति मलिनः साधुबाधया ।
०३५०-२ नाग्रसिष्यत चेदर्कं कोज्ञास्यत्सिंहिकासुतं । ।
०३५१-१ प्रायः परोपतापाय दुर्जनः सततोद्यतः ।
०३५१-२ अवश्यकरणीयत्वान्न कारणमपेक्षते । ।
०३५२-१ स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिं ।
०३५२-२ अहो सुसदृशी वृत्तिस्तुलाकोटेः खलस्य च । ।
०३५३-१ अहो प्रकृतिसादृश्यं श्लेष्मणो दुर्जनस्य च ।
०३५३-२ मधुरैः कोपमायाति कटुकैरुपशाम्यति । ।
०३५४-१ यथा गजपतिः श्रान्तश्छायार्थी वृक्षमाश्रितः ।
०३५४-२ विश्रम्य तं द्रुमं हन्ति तथा नीचः स्वमाश्रयं । ।
०३५५-१ दुर्जनः परिहर्तव्यो विद्ययालंकृतोपि सन् ।
०३५५-२ मणिना भूषितः सर्पो भवेत्किं न भयंकरः । ।
०३५६-१ चारुता परदारार्थं धनं लोकोपतप्तये ।
०३५६-२ प्रभूत्वं साधुनाशाय खले खलतरा गुणाः । ।
०३५७-१ परोपघातविज्ञानमात्रलाभोपजीविनां ।
०३५७-२ दाशानामिव धूर्तानां जालाय गुणसंग्रहः । ।
०३५८-१ दुर्जनेनोच्यमानानि वचांसि मधुराण्यपि ।
०३५८-२ अकालकुसुमानीव त्रासं संजनयन्ति मे । ।
०३५९-१ न लज्जते सज्जनवर्जनीयया
०३५९-२ भुजंगवक्रक्रिययापि दुर्जनः ।
०३५९-३ धियं कुमायासमयाभिचारिणीं
०३५९-४ विदग्धतामेव हि मन्यते खलः । ।
०३६०-१ वृतिं स्वां बहु मन्यते हृदि शुचं धत्तेनुकम्पोक्तिभिर्-
०३६०-२ व्यक्तं निन्दति योग्यतां मितमतिः कुर्वन्स्तुतीरात्मनः ।
०३६०-३ गर्ह्योपायनिषेवणं कथयति स्थास्नुं वदन्व्यापदं
०३६०-४ श्रुत्वा दुःखमरुंतुदां वितनुते पीडां जनः प्राकृतः । ।
०३६१-१ पाकश्चेन्न शुभस्य मेद्य तदसौ प्रागेव नादात्किमु
०३६१-२ स्वार्थश्चेन्न मयास्य किं न भजते दीनान्स्वबन्धूनयं ।
०३६१-३ मत्तो रन्ध्रुदृशोस्य भीर्यदि न तल्लुब्धः किमेष त्यजेद्-
०३६१-४ इत्यन्तः पुरुषोधंअः कलयति प्रायः कृतोपक्रियः । ।
०३६२-१ साश्चर्यं युधि शौर्यमप्रतिहतं तत्कण्डिताखण्डलं
०३६२-२ पाञ्चोत्तानकरः कृत सभगवान्दानेन लक्ष्मीपतिः ।
०३६२-३ ऐश्वर्यं स्वकराप्तसप्तभुवनं लब्धाब्धिपारं यशः
०३६२-४ सर्वं दुर्जनसंगमेन सहसा स्पष्टं विनष्टं बलेः । ।
०३६३-१ शमयति यशः क्लेशं सूते दिशत्यशिवां गतिं
०३६३-२ जनयति जनोद्वेगायासं नयत्युपहास्यतां ।
०३६३-३ भ्रमयति मतिं मानं हन्ति क्षिणोति च जीवितं
०३६३-४ क्षिपति सकलं कल्याणानां कुलं खलसंगमः । ।
०३६४-१ अविनयभुवामज्ञानानां शमाय भवन्नपि
०३६४-२ प्रकृतिकुटिलाद्विद्याभ्यासः खलत्वविवृद्धये ।
०३६४-३ फणिभयभृतामस्तु च्छेदक्षमस्तमसामसौ
०३६४-४ विषधरफणारत्नालोको भयं तु भृशायते । ।
०३६५-१ करोति पूज्यमानोपि लोकव्यसनदीक्षितः ।
०३६५-२ दर्शने दर्शने त्रासं गृहाहिरिव दुर्जनः । ।
०३६६-१ सत्यधर्मच्युतात्पुंसः क्रुद्धादाशीविषादिव ।
०३६६-२ नास्तिकोपि ह्युद्विजते जनः किं पुनरास्तिकः । ।
०३६७-१ येषां प्राणिवधः क्रीडा नर्म मर्मच्छिदो गिरः ।
०३६७-२ कार्यं परोपतापित्वं ते मृत्योरपि मृत्यवः । ।
०३६८-१ अहो बत महत्कष्टं विपरीतमिदं जगत् ।
०३६८-२ येनापत्र्पते साधुरसाधुस्तेन तुष्यति । ।
०३६९-१ न तथेच्छन्त्यकल्याणाः परेषां वेदितुं गुणान् ।
०३६९-२ यथैषां ज्ञातुमिच्छन्ति नैर्गुण्यं पापचेतसः । ।
०३७०-१ वर्जनीयो मतिमतां दुर्जनः सख्यवैरयोः ।
०३७०-२ श्वा भवत्युपघायाय लडन्नपि दशन्नपि । ।
०३७१-१ अतो हास्यतरं लोके किंचिदन्यन्न विद्यते ।
०३७१-२ यत्र दुर्जन इत्याह दुर्जनः सज्जनं जनं । ।
०३७२-१ अपकारमसंप्राप्य तुष्येत्साधुरसाधुतः ।
०३७२-२ नैष लाभो भुजंगेन वेष्टितो यन्न दश्यते । ।
०३७३-१ लब्धः स्तब्धोनृजुर्मूर्खः प्रभुरेकान्तदारुणः ।
०३७३-२ बहूनेष खलः साधून्मारयित्वा मरिष्यति । ।
०३७४-१ का खलेन सह स्पर्धा सज्जनस्याभिमानिनः ।
०३७४-२ भाषणं भीषणं साधुदूषणं यस्य भूषणं । ।
०३७५-१ मुखेनैकेन विध्यन्ति पादमेकस्य कण्टकाः ।
०३७५-२ दूरान्मुखसहस्रेण सर्वप्राणहराः खलाः । ।
०३७६-१ निर्माय खलजिह्वाग्रं सर्वप्राणहरं नृणां ।
०३७६-२ चकार किं वृथा शस्त्रविषवह्नीन्प्रजापतिः । ।
०३७७-१ यथा परोपकारेषु नित्यं जागर्ति सज्जनः ।
०३७७-२ तथा परापकारेषु जागर्ति सततं खलः । ।
०३७८-१ बिभेति पिशुनान्नीचः प्रकाशनपटीयसः ।
०३७८-२ न पुनर्मूढहृदयो निन्दनीयात्स्वकर्मणः । ।
०३७९-१ वृथाज्वलितकोपाग्नेः परुषाक्षरवादिनः ।
०३७९-२ दुर्जनस्यौषधं नास्ति किंचिदन्यदनुत्तरात् । ।
०३८०-१ खलानां कण्टकानां च द्विधैवास्ति प्रतिक्रिया ।
०३८०-२ उपानन्मुखभङ्गो वा दूरतो वापि वर्जनं । ।
०३८१-१ जीवन्नपि न तत्कर्तुं शक्नोति सुजनस्तथा ।
०३८१-२ दुर्जनो यन्मृतः कुर्यात्परेभ्योहितमुत्तरं । ।
०३८२-१ यद्यदिष्टतमं तत्तद्देयं गुणवते किल ।
०३८२-२ अत एव खलो दोषान्साधुभ्यः संप्रयच्छति । ।
०३८३-१ रोगोण्डजोङ्कुरोग्निर्विषमश्वतरो घुणाः क्रिमयः ।
०३८३-२ प्रकृतिकृतघ्नश्च नरः स्वाश्रयमविनाश्य नैधन्ते । ।
०३८४-१ न विना परवादेन रमते दुर्जनो जनः ।
०३८४-२ श्वा हि सर्वरसान्भुक्त्वा विनामेध्यं न तृप्यति । ।
०३८५-१ वरमत्यन्तविफलः सुखसेव्यो हि सज्जनः ।
०३८५-२ न तु प्राणहरस्तीक्ष्णः शरवत्सफलः खलः । ।
०३८६-१ स्वभावेनैव निशितः कृतपक्षग्रहोपि सन् ।
०३८६-२ शरवद्गुणनिर्मुक्तः खलः कस्य न भेदकः । ।
०३८७-१ दुर्जनः सुजनीकर्तुं यत्नेनापि न शक्यते ।
०३८७-२ संस्कारेणापि लशुनं कः सुगन्धीकरिष्यति । ।
०३८८-१ नीचः समुत्थितोवश्यमनवाप्य पराश्रयं ।
०३८८-२ छिद्रेण रतिमाप्नोति दृष्टान्तोत्र कटीभवः । ।
०३८९-१ परवादे दशवदनः पररन्ध्रनिरीक्षणे सहस्राक्षः ।
०३८९-२ सद्वृत्तवृत्तिहरणे बाहुसहस्रार्जुनो नीचः । ।
०३९०-१ दुर्जनदूषितमनसां पुंसां सुजनेपि नास्ति विश्वासः ।
०३९०-२ बालः पायसदग्धोदध्यपि फूत्कृत्य भक्षयति । ।
०३९१-१ आदौ लज्जयति कृतं मध्ये परिभवति रिक्तमवसाने ।
०३९१-२ खलसंगतस्य कथयत यदि सुस्थितमस्ति किंचिदपि । ।
०३९२-१ परमर्मदिव्यदर्शिषु जात्यैवोचितनिगूढवैरेषु ।
०३९२-२ कः खलु खलेषु शङ्कां श्लथयिष्यति दम्भानिरतेषु । ।
०३९३-१ अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः ।
०३९३-२ ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति । ।
०३९४-१ अस्थानाभिनिवेशी प्रायो जडे एव भवति नो विद्वान् ।
०३९४-२ बालादन्यः क्ॐभसि जिघृक्षतीन्दोः स्फुरबिम्बं । ।
०३९५-१ लब्धोदयोपि हि खलः प्रथमं स्वजनं नयति परितापं ।
०३९५-२ उद्गच्छन्दवदहनो जन्मभुवं दारु निर्दहति । ।
०३९६-१ अल्पश्रुतलव एव प्रायः प्रकटयति वाग्विभवमुच्चैः ।
०३९६-२ सर्वत्र कुनट एव हि नाटकमधिकं विडम्बयति । ।
०३९७-१ प्रखला एव गुणावतामाक्रम्य धुरं पुरः प्रकर्षन्ति ।
०३९७-२ तृणकाष्ठमेव जलधेरुपरिप्लवते न रत्नानि । ।
०३९८-१ महतां यदेव मूर्धसु तदेव नीचास्तृणाय मन्यन्ते ।
०३९८-२ लिङ्गं प्रणमन्ति बुधाः काकः पुनरासनीकुरते । ।
०३९९-१ सह वसतामप्यसतां जलरुहजलवद्भवत्यसंश्लेषः ।
०३९९-२ दूरेपि सतां वसतां प्रीतिः कुमुदेन्दुवद्भवति । ।
०४००-१ परिशुद्धामपि वृत्तिं समाश्रितो दुर्जनः परान्व्यथते ।
०४००-२ पवनाशिनोपि भुजगाः परोपतापं न मुञ्चन्ति । ।
०४०१-१ साधयति यत्प्रयोजनमज्ञस्तत्तस्य काकतालीयं ।
०४०१-२ दैवात्कथमप्यक्षरमुत्किरति घुणोपि काष्ठेषु । ।
०४०२-१ प्रायः खलप्रकृतयो नापरिभूता हिताय कल्पन्ते ।
०४०२-२ पुष्प्यत्यधिकमशोको गणिकाचरणप्रहारेण । ।
०४०३-१ परमर्मघट्टनादिषु खलस्य यत्कौशलं न तत्कृत्ये ।
०४०३-२ यत्सामर्थ्यमुपहतौ विषस्य तन्नोपकाराय । ।
०४०४-१ अतिसत्कृताअपि शठाः सहभुवमुज्झन्ति जातु न प्रकृतिं ।
०४०४-२ शिरसा महाश्वरेणापि ननु धृतो वक्र एव शशी । ।
०४०५-१ वायुरिव खलजनोयं प्रायः पररूपमेति संपर्कात् ।
०४०५-२ सन्तस्तु रविकरा इव सदसद्योगेप्यसंश्लिष्टाः । ।
०४०६-१ प्रेरयति परमनार्यः शक्रिदरिद्रोपि जगदभिद्रोहे ।
०४०६-२ तेजयति खङ्गधारां स्वयमसमर्था शिला छेत्तुं । ।
०४०७-१ दूरेपि परस्यागसि पटुर्जनो नात्मनः समीपेपि ।
०४०७-२ स्वं व्रणमक्षि न पश्यति शशिनि कलङ्कं निरूपयति । ।
०४०८-१ साधुष्वेवातितरामरुंतुदाः स्वां विवृण्वते वृत्तिं ।
०४०८-२ व्याधा निघ्नन्ति मृगान्मृतमपि न तु सिंहमाददते । ।
०४०९-१ अविकारिणमपि सज्जनमनिशमनार्यः प्रबाधतेत्यर्थं ।
०४०९-२ कमलिन्या किमिह कृतं हिमस्य यत्तां सदा दहति । ।
०४१०-१ स्वगुणानिव परदोषान्वक्तुं न सतोपि शक्रुवन्ति बुधाः ।
०४१०-२ स्वगुणानिव परदोषानसतोपि खलास्तु कथयन्ति । ।
०४११-१ कृत्वापि येन लज्जामुपैति साधुः परोदितेनापि ।
०४११-२ तदकृत्वैव खलजनः स्वयमुद्गिरतीति धिग्लघुतां । ।
०४१२-१ आप्त्वाप्यात्मविनाशं गणयति न खलः परव्यसनकष्टं ।
०४१२-२ प्रायः सहस्रनाशे समरमुखे नृत्यति कबन्धः । ।
०४१३-१ प्रकृतिखलत्वादसतां दोष इव गुणोपि बाधते लोकान् ।
०४१३-२ विषकुसुमानां गन्धः सुरभिरपि मनांसि मोहयति । ।
०४१४-१ लब्धोच्छ्रायो नीचः प्रथमतरं स्वामिनं पराभवति ।
०४१४-२ पथि धूलिरजो ह्यादावुत्थापकमेव संवृणुते । ।
०४१५-१ मृगमदकर्पूरागुरुचन्दनगन्धाधिवासितो लशुनः ।
०४१५-२ न त्यजति गन्धमशुभं प्रकृतिमिव सहोत्थितां नीचः । ।
०४१६-१ उपकृतमनेन सुहृदयमिति दुर्जनेष्वस्ति न क्वचिदपेक्षा ।
०४१६-२ होत्रा सह स्वमाश्रयमुद्वृत्तोग्निर्दहत्येव । ।
०४१७-१ उपकृतिरेव खलानां दोषस्य गरीयसो भवति हेतुः ।
०४१७-२ अनुकूलाचरणेन हि कुप्यन्ति व्याधयोत्यर्थं । ।
०४१८-१ न परं फलति हि किंचित्खल एवानर्थमावहति यावत् ।
०४१८-२ मारयति सपदि विषतरुराश्रयमाणं श्रमापनुदे । ।
०४१९-१ स्वार्थनिरपेक्ष एव हि परोपघातोसतां व्यसनमेव ।
०४१९-२ अशनायोदन्या वा विरमति फणिनो न दन्दशतः । ।
०४२०-१ एकीभावं गतयोर्जलपयसोर्मित्त्रचेतसोश्वैव ।
०४२०-२ व्यतिरेककृतौ शक्तिर्हंसानां दुर्जनानां च । ।
०४२१-१ शल्यमपि स्खलदन्तः सोढुं शक्यते हालहलदिग्धं ।
०४२१-२ धीरैर्न पुनरकारणकुपितखलालीकदुर्वचनं । ।
०४२२-१ मृगमीनसज्जनानां तृणजलसंतोषविहितवृत्तीनां ।
०४२२-२ लुब्धकधीवरपिशुना निष्कारणवैरिणो जगति । ।
०४२३-१ प्रारम्भतोतिविपुलं भृशकृशमन्ते विभेदकृन्मलिनं ।
०४२३-२ महिषविषाणमिवानृजु पुरुषं भयदं खलप्रेम । ।
०४२४-१ पात्रमपात्रीकुरुते दहति गुणान्स्नेहमाशु नाशयति ।
०४२४-२ अमले मलं प्रयच्छति दीपज्वालेव खलमैत्त्री । ।
०४२५-१ समर्पिताः कस्य न तेन दोषा
०४२५-२ हठाद्गुणा वा न हृताः खलेन ।
०४२५-३ तथापि दोषैर्न वियुज्यतेसौ
०४२५-४ स्पृष्टोपि नैकेन गुणेन चित्रं । ।
०४२६-१ आराध्यमानो बहुभिः प्रकारैर्-
०४२६-२ नाराध्यते नाम किमत्र चित्रं ।
०४२६-३ अयं त्वपूर्वः प्रतिभाविशेषो
०४२६-४ यत्सेव्यमानो रिपुतामुपैति । ।
०४२७-१ विद्वानुपालम्भमवाप्य दोषान्-
०४२७-२ निवर्ततेसौ परितप्यते च ।
०४२७-३ ज्ञातस्तु दोषो मम सर्वथेति
०४२७-४ पापो जनः पापतरं करोति । ।
०४२८-१ एवमेव नहि जीव्यते खलात्-
०४२८-२ तत्र का नृपतिवल्लभे कथा ।
०४२८-३ पूर्वमेव हि सुदुःसहो नलः
०४२८-४ किं पुनः प्रबलवायुनेरितः । ।
०४२९-१ अमरैरमृतं न पीतमब्धेर्-
०४२९-२ न च हालाहलमुल्वणं हरेण ।
०४२९-३ विधिना निहितं खलस्य वाचि
०४२९-४ द्वयमेतद्बहिरेकमन्तरन्यत् । ।
०४३०-१ निमित्तमुद्दिश्य हि यः प्रकुप्यति
०४३०-२ ध्रुवं स तस्यापगसे प्रसीदति ।
०४३०-३ अकारणद्वेषि मनो हि यस्य वै
०४३०-४ कथं परस्तं परितोषयिष्यति । ।
०४३१-१ इतरदेव बहिर्मुखमुच्यते
०४३१-२ हृदि तु यत्स्फुरतीतरदेव तत् ।
०४३१-३ चरितमेतदधीरवितारकं
०४३१-४ धुरि पयःप्रतिबिम्बमिवासतां । ।
०४३२-१ क्व पिशुनस्य गतिः प्रतिहन्यते
०४३२-२ दशति दृष्टमपि श्रुतमप्यसौ ।
०४३२-३ अतिसुदुष्करमव्यतिरिक्तदृक्-
०४३२-४ छ्रुतिभिरप्यथ दृष्टिविषैरिदं । ।
०४३३-१ गजतुरगशतैः प्रयान्तु मूर्खा
०४३३-२ धनरहिता विबुधाः प्रयान्तु पद्भ्यां ।
०४३३-३ गिरिशिखिरगतापि काकपाली
०४३३-४ पुलिनगतैर्न समेति राजहंसैः । ।
०४३४-१ ह्रेपयति प्रियवचनैरादरमुपदर्शयन्खलीकुरुते ।
०४३४-२ उत्कर्षयंश्च लघयति मूर्खसुहृत्सर्वथा वर्ज्यः । ।
०४३५-१ प्रकटमपि न संवृणोति दोषं
०४३५-२ गुणलवलम्पट एष साधुवर्गः ।
०४३५-३ अतिपरुषरुषं विनापि दोषैः
०४३५-४ पिशुनशुनां रुषतां प्रयाति कालः । ।
०४३६-१ यदा विगृह्णाति तदा हतं यशः
०४३६-२ करोति मैत्त्रीमथ दूषिता गुणाः ।
०४३६-३ स्थितिं समीक्ष्योभयथा परीक्षकः
०४३६-४ करोत्यवज्ञोपहतं पृथग्जनं । ।
०४३७-१ इष्टो वा सुकृतशतोपलालितो वा
०४३७-२ श्लिष्टो वा व्यसनशताभिरक्षितो वा ।
०४३७-३ दौःशील्याज्जनयति नैव जात्वसाधुर्-
०४३७-४ विस्रम्भं भुजग इवाङ्कमध्यसुप्तः । ।
०४३८-१ रूक्षं विरौति परिकुप्यति निर्निमित्तं
०४३८-२ स्पर्शेन दूषयति वारयति प्रवेशं ।
०४३८-३ लज्जाकरं दशति नैव च तृप्यतीति
०४३८-४ कौलेयकस्य च खलस्य च को विशेषः । ।
०४३९-१ पादाहतोथ दृढदण्डविघट्टितो वा
०४३९-२ यं दंष्ट्रया दशति तं किल हन्ति सर्पः ।
०४३९-३ कोप्यन्य एव पिशुनोद्य भुजंगधर्मा
०४३९-४ कर्णे परं स्पृशति हन्त्यपरं समूलं । ।
०४४०-१ युक्तं यया किल निरन्तरलब्धवृत्तेर्-
०४४०-२ अस्याभिमानतमसः प्रसरं निरोद्धुं ।
०४४०-३ विद्वत्तया जगति तामवलम्ब्य केचित्-
०४४०-४ तन्वन्त्यहंकृतिमहो शतशाखमान्ध्यं । ।
०४४१-१ नन्वाश्रयस्थितिरियं तव कालकूट
०४४१-२ केनोत्तरोत्तरविशिष्टपदोपदिष्टा ।
०४४१-३ प्रागर्णवस्य हृदये वृषलक्ष्मणोथ
०४४१-४ कण्ठेधुना वससि वाचि पुनः खलानां । ।
०४४२-१ प्रायः स्वभावमलिनो महतां समीपे
०४४२-२ टिष्ठन्खलः प्रकुरुतेर्थिजनोपघातं ।
०४४२-३ शीतार्दितैः सकललोकसुखावहोपि
०४४२-४ धूमे स्थिते नहि सुखेन निषेव्यतोग्निः । ।
०४४३-१ धूमः पयोधरपदं कथमप्यवाप्य
०४४३-२ वर्षाम्बुभिः शमयति ज्वलनस्य तेजः ।
०४४३-३ दैवादवाप्य कलुषप्रकृतिर्महत्त्वं
०४४३-४ प्रायः स्वबन्धुजनमेव तिरस्करोति । ।
०४४४-१ उल्लासिताखिलखलस्य विशृङ्खलस्य
०४४४-२ प्राग्जातविस्मृतनिजाधमकर्मवृत्तेः ।
०४४४-३ दैवादवाप्तविभवस्य गुणद्विषोस्य
०४४४-४ नीचस्य गोचरगतैः सुखमास्यते कैः । ।
०४४५-१ नाश्चर्यमेतदधुना हतदैवयोगा-
०४४५-२ दुर्च्चैःस्थितिर्यदधमो न महानुभावः ।
०४४५-३ रथ्याकलङ्कशतसंकरसंकुलोपि
०४४५-४ पृष्ठे भवत्यवकरो न पुनर्निधानं । ।
०४४६-१ प्रसह्य मणिमुद्धरेन्मकरवक्त्रदंष्ट्रान्तरात्-
०४४६-२ समुद्रमपि संतरेत्प्रचलदूर्मिमालाकुलं ।
०४४६-३ भुजगमपि कोपितं शिरसि पुश्पवद्धारयेन्-
०४४६-४ न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् । ।
०४४७-१ लभेत सिकतासु तैलमपि यत्नतः पीडयन्-
०४४७-२ पिबेच्च मृगतृष्णिकासु सलिलं पिपासार्दितः ।
०४४७-३ कदाचिदपि पर्यटच्छशविषाणमासादयेन्-
०४४७-४ न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् । ।
०४४८-१ अरण्यरुदितं कृतं शवशरीरमुद्वर्तितं
०४४८-२ स्थलेब्जमवरोपितं सुचिरमूषरे वर्षितं ।
०४४८-३ श्वपुच्छमवनामितं बधिरकर्णजापः कृतः
०४४८-४ कृतान्धमुखमण्डना यदबुधो जनः सेचितः । ।
०४४९-१ वृथा दुग्धोनड्वान्स्तनभरनता गौरिति चिरं
०४४९-२ परिष्वक्तः षण्ढो युवतिरित लावण्यसहिता ।
०४४९-३ कृता वैदूर्याशा विकचकिरणे काचशकले
०४४९-४ मया मूढेन त्वां कृपणमगुणज्ञं प्रणमता । ।
०४५०-१ स्वपक्षच्छेदं वा समुचितफलभ्रंशमथवा
०४५०-२ स्वमूर्तेर्भङ्गं वा पतनमशुचौ नाशमथवा ।
०४५०-३ शरः प्राप्नोत्येतान्हृदयपथसंस्थोपि धनुष
०४५०-४ ऋजोर्वक्राश्लेषाद्भवति खलु सुव्यक्तमशुभं । ।
०४५१-१ गुणाणां सा शक्तिर्विपदमनुबध्नन्ति यदमी
०४५१-२ प्रसन्नस्तद्वेधा मम यदि न तैर्योगमकरोत् ।
०४५१-३ विषण्णं दौर्गत्यादिति गुणिनमालोक्य विगुणः
०४५१-४ करोति स्वे गेहे ध्रुवमतिसमृद्ध्योत्सवमसौ । ।
०४५२-१ अवेक्ष्य स्वात्मानं विगुणमपरानिछ्हति तथा
०४५२-२ फलत्येतन्नो चेद्विलपति न सन्तीह गुणिनः ।
०४५२-३ निमार्ष्टुं शप्तुं वा परिभवितुमुद्यच्छति ततो-
०४५२-४ प्यहो नीचे रम्या सगुणविजिगीषा विधिक्ता । ।
०४५३-१ यदि परगुणा न क्षम्यन्ते यतस्व तदर्जने
०४५३-२ नहि परयशो निन्दाव्याजैरलं परिमार्जितुं ।
०४५३-३ विरमसि न चेदिच्छाद्वेषप्रसक्तमनोरथा
०४५३-४ दिनकरकरान्पाणिच्छत्त्रैर्नुदच्छ्रममेष्यसि । ।
०४५४-१ प्रकृष्टे संपर्के भणिभुजगयोर्जन्मजनिते
०४५४-२ मणिर्नाहेर्दोषान्भजति न च सर्पो मणिगुणान् ।
०४५४-३ असाधुः साधुर्वा भवति ननु जात्यैव पुरुषो
०४५४-४ नसङ्गाद्दौर्जन्यं न च सुजनता कस्यचिदपि । ।
०४५५-१ न विषममृतीकर्तुं शक्यं प्रयत्नशतैरपि
०४५५-२ त्यजति कटुतां न स्वां निम्बः स्थितोपि पयोह्रदे ।
०४५५-३ गुणपरिचितामार्यां वाणीं न जल्पति दुर्जनश्-
०४५५-४ चिरमपि बलाध्माते लोहे कुतः कनकाकृतिः । ।
०४५६-१ वरमहिमुखे क्रोधाविष्टे करौ विनिवेशितौ
०४५६-२ विषमपि वरं पीत्वा सुप्तं कृतान्तनिवेशने ।
०४५६-३ गिरिवरतटान्मुक्तश्चात्मा वरं शतधा कृतो
०४५६-४ न तु खलजनावाप्तैरर्थैः कृतं हितमात्मनः । ।
०४५७-१ वर्णस्थं गुरुलाघवं न गणथत्याशङ्कते न क्वचिद्-
०४५७-२ रूपं नैव परीक्षते न पुरुषं वृत्तेषु वार्ता कुतः ।
०४५७-३ कष्टं नायशसो विभेति महतो नैवापशब्दान्तरान्-
०४५७-४ मृत्युर्मूर्खकविः खलः कुनृपतिश्चौरश्च तुल्यक्रियाः । ।
०४५८-१ सिंहो व्याकरणस्य कर्तुरहरत्प्राणान्प्रियान्पाणिनेर्-
०४५८-२ मींआंसाकृतमुन्ममाथ तरसा हस्ती मुनिं जैमिनिं ।
०४५८-३ छन्दोज्ञाननिधिं जघान मकरो वेलातटे पिङ्गलम्-
०४५८-४ अज्ञानाहतचेतसामतिरुषां कोर्थस्तिरश्चां गुणैः । ।
०४५९-१ वन्द्यान्निन्दति दुःखितानुपहसत्याबाधते बान्धवाञ्-
०४५९-२ छूरान्द्वेष्टि धनच्युतान्परिभवत्याज्ञापयत्याश्रितान् ।
०४५९-३ गुह्यानि प्रकटिकरोति घटयन्यत्नेन वैराशयं
०४५९-४ ब्रूते शीघ्रमवाच्यमुज्झति गुणान्गृह्णाति दोषान्खलः । ।
०४६०-१ हसति लसति हर्षात्तीव्रदुःखे परेषां
०४६०-२ स्खलति गलति मोहादात्मनः क्लेशलेशे ।
०४६०-३ नदति वदति निन्द्यं मानिनां किं च नीचः
०४६०-४ परुषवचनमल्पं श्रावितो हन्तुमेति । ।
०४६१-१ यदि सत्सङ्गनिरतो भविष्यसि भविष्यसि ।
०४६१-२ अथासज्जगनोष्ठीषु पतिष्यसि पतिष्यसि । ।
०४६२-१ कर्णे तत्कथयन्ति दुन्दुभिरवै राष्ट्रे यदुद्धोषितं
०४६२-२ तन्नम्राङ्गतया वदन्ति करुणं यस्मात्रपावान्भवेत् ।
०४६२-३ श्लाघन्ते तदुदीर्यते यदरिणाप्युग्रं न मर्मान्तकृ-
०४६२-४ द्ये केचिन्ननु शाव्यमौग्ध्यनिधयस्ते भूभृतां रञ्जकाः । ।
०४६३-१ भण्डस्ताण्डवमण्डपे चटुकथावीथीषु कन्थाकविर्-
०४६३-२ गोष्ठश्व स्वगृहाङ्गणे शिखरिभूगर्ते खटाखुः स्फुटं ।
०४६३-३ पिण्डीशूरतया विटश्व पटुतां भूभृद्गृहे गाहते
०४६३-४ गच्छन्ति ह्रदकृष्टकच्छपतुलां चित्रं ततोन्यत्र ते । ।
०४६४-१ जाड्यं ह्रीमति गण्यते व्रतरुचौ दम्भः शुचौ कैतवं
०४६४-२ शूरे निर्घृणता ऋजौ विमतिता दैन्यं प्रियालापिनि ।
०४६४-३ तेजस्विन्यवलिप्तता मुखरता वक्तर्यशक्तिः स्थिरे
०४६४-४ तत्को नाम गुणो भवेद्गुणवतां यो दुर्जनैर्नाङ्कितः । ।
०४६५-१ आखुः कैलासशैलं तुलयति करटस्तार्क्ष्यमांसाभिलाषी
०४६५-२ बभ्रुर्लाङ्गूलमूलं चलयति चपलस्तक्षकाहिं जिघांसुः ।
०४६५-३ भेकः पारं यियाऔर्भुजगमपि महाघस्मरस्याम्बुराशेः
०४६५-४ प्रायेणासन्नपातः स्मरति समुचितं कर्म न क्षुद्रकर्मा । ।
०४६६-१ अगुणकणो गुणोराशिर्द्वयमिह दैवात्खलमुखे पतितं ।
०४६६-२ प्रसरति तैलमिवैकः सलिले घृतवज्जडत्वमेत्यन्यः । ।
०४६७-१ शरणं किं प्रपन्नानि विषवन्मारयन्ति किं ।
०४६७-२ न त्यज्यन्ते न भुज्यन्ते कृपणेन धनानि यत् । ।
०४६८-१ कृपणेन समो दाता न भूतो न भविष्यति ।
०४६८-२ अस्पृशन्नेव वित्तानि यः परेभ्यः प्रयच्छति । ।
०४६९-१ या विपत्तिर्धनापाये नवा भोगिवदान्ययोः ।
०४६९-२ प्रज्ञापकर्षात्प्रागेव प्राप्ता हि कृपणेन सा । ।
०४७०-१ त्यागोपभोगशून्येन धनेन धनिनो यदि ।
०४७०-२ भवामः किं न तेनैव धनेन धनिनो वयं । ।
०४७१-१ गृहमध्यनिखातेन धनेन रमते यदि ।
०४७१-२ स तु तेनानुसारेण रमते किं न मेरुणा । ।
०४७२-१ किंशुके किं शुकः कुर्यात्फलितेपि बुभुक्षितः ।
०४७२-२ अदातरि समृद्धेपि किं कुर्युरुपजीविनः । ।
०४७३-१ दानोपभोगबन्ध्या या सुहृध्बिर्या न भुज्यते ।
०४७३-२ पुंसां यदि हि सा लक्ष्मीरलक्ष्मीः कतम भवेत् । ।
०४७४-१ अतिसंचयकर्त्णां वित्तमन्यस्य कारणां ।
०४७४-२ अन्यैः संचीयते यत्नादन्यैश्च मधु पीयते । ।
०४७५-१ यद्ददासि विशिष्टेभ्यो यदाश्नासि दिने दिने ।
०४७५-२ तत्ते वित्तमहं मन्ये शेषं कस्यापि रक्षसि । ।
०४७६-१ विडम्बनैव पुंसि श्रीः परप्रणयपांसुले ।
०४७६-२ कान्तिं कामिह कुर्वीत कुणौ कटककल्पना । ।
०४७७-१ कृत्वोपकारं यस्तस्माद्वाञ्छति प्रत्युपक्रियां ।
०४७७-२ दीनस्तृष्णाविधेयत्वाद्वान्तमप्युपलेढि सः । ।
०४७८-१ दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य ।
०४७८-२ यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्नाशः । ।
०४७९-१ दानं भोगं च विना धनसत्तामात्रकेण चेद्धनिनः ।
०४७९-२ वयमपि किमिति न धनिनिस्तिष्ठति नः काञ्चनो मेरुः । ।
०४८०-१ धनिनोप्यदानभोगा गण्यन्ते धुरि महादरिद्राणां ।
०४८०-२ हन्ति न यतः पिपासामतः समुद्रोपि मरुरेव । ।
०४८१-१ अभ्युपयुक्ताः सद्भिर्गतागतैरहरहः सुनिर्विण्णाः ।
०४८१-२ कृपणजनसंनिकर्षं संप्राप्यार्थाः स्वपन्तीव । ।
०४८२-१ उपभोगकातराणां पुरुषाणामर्थसंचयपराणां ।
०४८२-२ कन्यारत्नमिव गृहे तिष्ठन्त्यर्थाः परस्यार्थे । ।
०४८३-१ ते मूर्खतरा लोके येषां धनमस्ति नास्ति च त्यागः ।
०४८३-२ केवलमर्जुनरक्षणवियोगदुःखान्यनुभवन्ति । ।
०४८४-१ कृपणसमृद्धीनामपि भोक्तारः सन्ति केचिदतिनिपुणाः ।
०४८४-२ जलसंपद्ॐबुराशेर्यान्ति लयं शश्वदौर्वाग्नौ । ।
०४८५-१ प्राप्तानपि न लभन्ते भोगान्भोक्तुं स्वकर्मभिः कृपणाः ।
०४८५-२ मुखरोगः किल भवति द्राक्षापाके बलिभुजां हि । ।
०४८६-१ न निर्यियासन्ति कदर्यहस्ताद्-
०४८६-२ धनानि पांसोरिव तैललेशाः ।
०४८६-३ दैवात्कदाचिद्विनियोक्तुरेव
०४८६-४ निर्गन्तुमिच्छन्त्यसुभिः सहैव । ।
०४८७-१ संचितं क्रतुषु नोपयुज्यते
०४८७-२ याचितं गुणवते न दीयत्ये ।
०४८७-३ तत्कदर्यपरिरक्षितं धनं
०४८७-४ चौरपार्थिवगृहेषु गच्छति । ।
०४८८-१ वरममी तरवो वनगोचराः
०४८८-२ शकुनिसार्थविलुप्तफलश्रियः ।
०४८८-३ न तु धनाढ्यगृहाः कृपणाः फण-
०४८८-४ निहितरत्नभुजंगमवृत्तयः । ।
०४८९-१ सुसंवृतैर्जीवितवत्सुरक्षितैर्-
०४८९-२ निजेपि देहे कृतयन्त्रणस्य च ।
०४८९-३ तवानुमार्गं व्रजतो भवान्तरे
०४८९-४ शठैर्धनैः पञ्चपदी न पूरिता । ।
०४९०-१ अहो धनानां महती विदग्धता
०४९०-२ सुखोषितानां कृपणस्य वेश्मनि ।
०४९०-३ व्रजन्ति न त्यागदशां न भोग्यतां
०४९०-४ परां च काञ्चित्प्रथयन्ति निर्वृतिं । ।
०४९१-१ न शान्तान्तस्तृष्णां धनलवणवारिव्यतिकरैः
०४९१-२ क्षतच्छायः कायश्चिरविरसरूक्षाशनतया ।
०४९१-३ अनिद्रा मन्दाग्निर्नृपसलिलचौरानलभयात्-
०४९१-४ कदर्याणां कष्टं स्फुटमधनकष्टादपि परं । ।
०४९२-१ एकैकातिशयालवः परगुणज्ञानैकवैज्ञानिकाः
०४९२-२ सन्त्येते धनिकाः कलासु सकलास्वाचार्यचर्याचणाः ।
०४९२-३ अप्येते सुमनोगिरां निशमनाद्बिभ्यत्यहो श्लाघया
०४९२-४ धूते मूर्धनि कुण्डले कषणतः क्षीणे भवेतामिति । ।
०४९३-१ प्रीतिं न प्रकटीकरोति सुहृदि द्रव्यव्ययाशङ्कया
०४९३-२ भीतः प्रत्युपकारकारणभयान्नाकृष्यते सेवया ।
०४९३-३ मिथ्या जल्पति वित्तमार्गणभयात्स्तुत्यापि न प्रीयते
०४९३-४ कीनाशो विभवव्ययव्यतिकरत्रस्तः कथं प्राणिति । ।
०४९४-१ मत्वा सारं गुणानां शिरसि यदि शशी स्थापितो दैवयोगा-
०४९४-२ दीशेन क्षीणबिम्बं सकलमुपचयं किं न नीतः क्षणेन ।
०४९४-३ मिथ्यैवं ख्यापयन्तो गुणिनि सरलतां लोकभक्त्यर्थमुच्चैर्-
०४९४-४ आढ्याः कुर्वन्ति वित्तव्ययचकितधियो मानमर्थेन शून्यं । ।
०४९५-१ ब्रह्माण्डमण्डलीमात्रं किं लोभाय मनस्विनः ।
०४९५-२ शफरीस्फुरितैर्नाब्धेः क्षुब्धता जातु जायते । ।
०४९६-१ नाल्पीयसि निबध्नन्ति पदमुद्दामचेतसः ।
०४९६-२ येषां भुवनलाभेपि निःसीमानो मनोरथाः । ।
०४९७-१ पुंसामुन्नतचित्तानां सुखावहमिदं द्वयं ।
०४९७-२ सर्वसङ्गनिवृत्तिर्वा विभूतिर्वा सुविस्तरा । ।
०४९८-१ अयं बन्धुः परो वेति गणना लघुचेतसां ।
०४९८-२ पुंसामुदारचित्तानां वसुधैव कुटुम्बकं । ।
०४९९-१ जरामरणदौर्गत्यव्याधयस्तावदासतां ।
०४९९-२ जन्मैव किं न धीरस्य भूयो भूयस्त्रपाकरं । ।
०५००-१ परिवर्तिनि संसारे मृतः को वा न जायते ।
०५००-२ स जातो येन जातेन याति वंशः समुन्नतिं । ।
०५०१-१ अपि नाम स दृश्येत पुरुषातिशयो भुवि ।
०५०१-२ गर्वोच्छूनमुखा येन धनिनो नावलोकिताः । ।
०५०२-१ पृथ्वी पृथ्वी गुणा मान्याः सन्ति भूपा विवेकिनः ।
०५०२-२ पराभवापदं यान्ति कस्मादुन्नतबुद्धयः । ।
०५०३-१ अदृष्टमुखभङ्गस्य युक्तमन्धस्य याचितुं ।
०५०३-२ अहो बत महत्कष्टं चक्षुष्मानपि याचते । ।
०५०४-१ दारिद्र्यानलसंतापः शान्तः संतोषवारिणा ।
०५०४-२ याचकाशाविघातान्तर्दाहं को नाम पश्यतु । ।
०५०५-१ परिपूर्णगुणाभोगगरिमोद्नार एव सः ।
०५०५-२ त्रिजगत्स्पृहणीयेस्मिन्न रुचिर्द्रविणेपि यत् । ।
०५०६-१ विद्ययैव मदो येषां कार्पण्यं च धने सति ।
०५०६-२ तेषां दैवाभिशप्तानां सलिलादग्निरुत्थितः । ।
०५०७-१ किं तया क्रियते लक्ष्म्या या वधूरिव केवला ।
०५०७-२ या न वेश्येव सामान्या पथिकैरपि भुज्यते । ।
०५०८-१ त्यागो गुणो वित्तवतां वित्तं त्यागवतां गुणः ।
०५०८-२ परस्परवियुक्तौ तु वित्तत्यागौ विडम्बना । ।
०५०९-१ कुसुमस्तबकस्येव द्वयी वृत्तिर्मनस्विनः ।
०५०९-२ मूर्ध्नि वा सर्वलोकस्य शीर्यते वन एव वा । ।
०५१०-१ नृणां धुरि स एवैको यः कश्चित्त्यागपाणिना ।
०५१०-२ निर्मार्ष्टि प्रार्थनापांसुधूसरं मुखमर्थिनां । ।
०५११-१ आकारमात्रविज्ञानसंपादितमनोरथाः ।
०५११-२ धन्यास्ते ये न शृण्वन्ति दीनाः प्रणयिनां गिरः । ।
०५१२-१ बुद्धिर्या सत्त्वरहिता स्त्रीत्वं तत्केवलं मतं ।
०५१२-२ सत्त्वं चानयसंपन्नं तत्पशुत्वं न पौरुषं । ।
०५१३-१ कामं प्रियानपि प्राणान्विमुञ्चन्ति मनस्विनः ।
०५१३-२ इच्छन्ति न त्वमित्रेभ्यो महतीमपि सत्क्रियां । ।
०५१४-१ अत्यद्भुतमिमं मन्ये स्वभावममनस्विनः ।
०५१४-२ यदुपक्रियमाणोपि प्रीयते न विलीयते । ।
०५१५-१ प्रत्युपकुर्वत्पूर्वं कृतोपकारमपि लज्जयति चेतः ।
०५१५-२ यस्तु विहितोपकारादुपकारः सोधिको मृत्योः । ।
०५१६-१ प्रत्युपकुर्वन्बह्वपि न भवति पूर्वोपकारिणा तुल्यः ।
०५१६-२ एकोनुकरोति कृतं निष्कारणमेव कुरुतेन्यः । ।
०५१७-१ जीवञ्जीवयति हि यो ज्ञातिजनं परिजनं च सुहृदश्च ।
०५१७-२ तस्य सफला गृहश्रीर्धिगनुपजीव्यां धनसमृद्धिं । ।
०५१८-१ यच्छञ्जलमपि जलदो वल्लभतामेति सर्वलोकस्य ।
०५१८-२ नित्यं प्रसारितकरः सवितामपि भवत्यचक्षुष्यः । ।
०५१९-१ नाप्तं यत्केनचिदपि मनोरथा अपि यतो निवर्तन्ते ।
०५१९-२ तद्यपि न लभ्यतेन्यन्मनस्विनः किमभिमानफलं । ।
०५२०-१ घटनं विघटनमथवा कार्याणां भवति विधिनियोगेन ।
०५२०-२ उचितेनुचिते कर्मणि वृत्तिनिवृत्ती ममायत्ते । ।
०५२१-१ कल्पस्थायि न जीवितमैश्चर्यं नाप्यते च यदभिमतं ।
०५२१-२ लोकस्तथाप्यकार्यं कुरुते कार्यं किमुद्दिश्य । ।
०५२२-१ धनबाहुल्यमहेतुः कोपि निसर्गेण मुक्तकरः ।
०५२२-२ प्रावृषि कस्याम्बुमुचः संपत्तिः किमधिकाम्बुनिधेः । ।
०५२३-१ उत्पादिता स्वयमियं यदि तत्तनूजा
०५२३-२ तातेन वा यदि तदा भगिनी खलु श्रीः ।
०५२३-३ यद्यन्यसंगमवती च तदा परस्त्री
०५२३-४ तत्त्यागबद्धमनसः सुधियो भवन्ति । ।
०५२४-१ द्रविणार्जनजः परिश्रमः
०५२४-२ फलितोप्यस्य जनस्य नीरसः ।
०५२४-३ द्रविणार्जनमात्मतुष्टये
०५२४-४ परमावर्जयितुं गुणार्जनं । ।
०५२५-१ यः प्रशंसति नरो नरमन्यं
०५२५-२ देवतासु वरदासु सतीषु ।
०५२५-३ मुग्धधीर्धनलवस्पृहयालुस्-
०५२५-४ तं नृशंसमहमाद्यमवैमि । ।
०५२६-१ यथा शरीरं किल जीवितेन
०५२६-२ विनाकृतं काष्ठमिवावभाति ।
०५२६-३ तथैव लज्जीवितमप्यवैमि
०५२६-४ लोकोत्तरेण स्फुरितेन शून्यं । ।
०५२७-१ सन्तोपि सन्तः क्व किरन्तु तेजः
०५२७-२ क्व नोज्ज्वलन्तु क्व नु न प्रथन्तां ।
०५२७-३ विधाय रुद्धा ननु वेधसैव
०५२७-४ ब्रह्माण्डकोशे घटदीपकल्पाः । ।
०५२८-१ कदर्थितस्यापि हि धैर्यवृत्तेर्-
०५२८-२ न शक्यते सत्त्वगुणः प्रमार्ष्टुं ।
०५२८-३ अध्ॐउखस्यापि कृतस्य वह्नेर्-
०५२८-४ नाधः शिखा यान्ति कदाचिदेव । ।
०५२९-१ जातश्च नाम न विनङ्क्ष्यन्ति चेत्ययुक्तम्-
०५२९-२ उत्पाद एव नियमेव विनाशहेतुः ।
०५२९-३ तुल्ये च नाम मरणव्यसनोपतापे
०५२९-४ मृत्युर्वरं परहितावहिताशयस्य । ।
०५३०-१ इयत्यप्येतस्मिन्निरवधिमहत्यध्वनि गुणास्-
०५३०-२ त एवामी द्वित्रा जरठजरठा यान्ति गणनां ।
०५३०-३ अहो ग्राम्यो लोकः स न परममीभिः कृतधृतिः
०५३०-४ स्मयस्तब्धोयावत्कलयति समग्रं तृणमिदं । ।
०५३१-१ स्वचित्तपरिचिन्तयैव परितापमात्मन्यमी
०५३१-२ न बिभ्रति मनास्विनो यदमुना न तावत्क्षतिः ।
०५३१-३ अहर्निशमिहैव ये परमनोनुवृत्त्या पुनर्-
०५३१-४ वहन्ति विजिगीषुतां किमिव तेनुकम्पास्पदं । ।
०५३२-१ विपुलहृदयैरन्यैः कैश्चिज्जगज्जनितं पुरा
०५३२-२ विधृतमपरैर्दत्तं चान्यैर्विजित्य तृणं यथा ।
०५३२-३ इह हि भुवनान्यन्ये धीराश्चतुर्दश भुञ्जते
०५३२-४ कतिपयपुरस्वाम्ये पुंसां क एष मदज्वरः । ।
०५३३-१ अभुक्तायां यस्यां क्षणमपि न यातं नृपशतैर्-
०५३३-२ भुवस्तस्या लाभे क इव बहुमानः क्षितिभुजां ।
०५३३-३ तदंशस्याप्यंशे तदवयवलेशेपि पतयो
०५३३-४ विषादे कर्तव्ये विदधति जडाः प्रत्युत मुदं । ।
०५३४-१ परेषां चेतांसि प्रतिदिवसमायास्य बहुधा
०५३४-२ प्रसादं किं नेतुं विशासि हृदय क्लेशकलिलं ।
०५३४-३ प्रसन्ने त्वय्येव स्वयमुदितचिन्तामणिगुणे
०५३४-४ विविक्तः संकल्पः किमभिलषितं पुष्यति न ते । ।
०५३५-१ विनाप्यर्थैर्धीरः स्पृशति बहुमानोन्नतिपदं
०५३५-२ परिष्वक्तोप्यर्थैः परिभवपदं याति कृपणः ।
०५३५-३ स्वभावेनोद्भूतां गुणसमुदयावाप्तिविपुलां
०५३५-४ द्युतिं सैंहीं न श्वा धृतकनकमालोपि लभते । ।
०५३६-१ भुज्यन्ते स्वगृहस्थिता इव सुखं यस्याथिभिः संपदः
०५३६-२ पट्वी यस्य मतिस्तमःप्रहतये द्वावेव तौ प्राणितः ।
०५३६-३ यस्त्वात्मंभरिरुन्नतेपि विभवे हीनश्च विद्वत्तया
०५३६-४ तस्यालेख्यमणेरिवाकृतिधृतः सत्ताप्यसत्ता ननु । ।
०५३७-१ आधाराय धरावकाशविधयेप्याकाशमालोकने
०५३७-२ भास्वानात्ममहत्त्वसाधनविधावन्ये गुणाः केचन ।
०५३७-३ इत्यस्मिन्नुपकारकारिणि सदा वर्गे परं दुस्त्यजे
०५३७-४ दैन्यव्रीडकलङ्कमुज्झतु कथं चेतो महाचेतसां । ।
०५३८-१ नित्यं या गुरुभृत्यबन्धुसुजनैर्न स्वेच्छया भुज्यते
०५३८-२ पश्यन्ति स्पृहयालवो न रिपवो यां विक्रमासादितां ।
०५३८-३ यस्याः साधुपरिक्षयेण सुहृदां नाशेन वा संभवो
०५३८-४ नो संपद्विपदेव सा गुणवतां प्रीतिस्तया कीदृशी । ।
०५३९-१ न्याय्यं मार्गमनुज्झतः सुकृतिनो दैवाद्भवन्त्यापदो
०५३९-२ यास्ताः सन्तु बलेरिवादिपुरुषायोर्वीं स्वयं यच्छतः ।
०५३९-३ शक्रस्येव जुगुप्सितैः सुबहुभिर्निन्द्यैर्भृशं कर्मभिर्-
०५३९-४ देवानामुपरि प्रभुत्वमपि मे मा भूत्त्रपाकारणं । ।
०५४०-१ शय्या शाद्वलमासनं शुचिशिला सद्म द्रमाणामधः
०५४०-२ शीतं निर्झरवारि पानमशनं कन्दाः सहाया मृगाः ।
०५४०-३ इत्य्प्रार्थितसर्वलभ्यविभवे दोषोयमेको वने
०५४०-४ दुष्प्रापार्थिनि यत्परार्थघटनावन्ध्यैर्वृथा स्थीयते । ।
०५४१-१ अल्पीयसामेव हि जन्मभूमेस्-
०५४१-२ त्यागः प्रमादो विदुषां न सोस्ति ।
०५४१-३ स्थानादपेता मणयो व्रजन्ति
०५४१-४ राज्ञां शिरः काकमुखानि भेकाः । ।
०५४२-१ शूराश्च कृतविद्याश्च रूपवत्यश्च योषितः ।
०५४२-२ यत्र यत्र गमिष्यन्ति तत्र तत्र कृतालयाः । ।
०५४३-१ रुद्रोद्रिं जलधिं हरिर्दिविषदो दूरं विहायः श्रिता
०५४३-२ भोगीन्द्राः प्रबला अपि प्रथमतः पातालमूले स्थिताः ।
०५४३-३ लीना पद्मवने सरोजनिलया मन्येर्थिसार्थाद्भिया
०५४३-४ दीनोद्धारपरायणाः कलियुगे सत्पूरुषाः केवलं । ।
०५४४-१ प्रारभ्यते न खलु विघ्नभयेन नीचैः
०५४४-२ प्रारभ्य विघ्नविहता विरमन्ति मध्याः ।
०५४४-३ विघ्नैः सहस्रगुणितैरपि हन्यमानाः
०५४४-४ प्रारब्धमुत्तमगुणा न परित्यजन्ति । ।
०५४५-१ प्रसरद्भिः करैर्यस्य विकसन्ति न सद्गुणाः ।
०५४५-२ तस्य दोषाकरस्येयं कथं नित्यास्ति पूर्णता । ।
०५४६-१ क्षीणः क्षीणः समीपत्वं पूर्णः पूर्णोतिदूरतां ।
०५४६-२ उपैति मित्राद्यच्चन्द्रो युक्तं यन्मलिनः सदा । ।
०५४७-१ कथं न लज्जितस्तादृक्सविता तेजसां निधिः ।
०५४७-२ ब्रह्माण्डखण्डिकां प्राप्य कुर्वन्पादप्रसारिकां । ।
०५४८-१ रवेरेवोदयः श्लाघ्यः कोन्येषामुदयग्रहः ।
०५४८-२ न तमांसि न तेजांसि यस्मिन्नभ्युदिते सति । ।
०५४९-१ किमनेन न पर्याप्तं कान्तत्वं शशलक्ष्मणा ।
०५४९-२ सुसंतप्तापि नलिनी यद्विश्वासमुपागमत् । ।
०५५०-१ करान्प्रसार्य रविणा दक्षिणाशाविलम्बिना ।
०५५०-२ न केवलमनेनात्मा दिवसोपि लघूकृतः । ।
०५५१-१ वर्तते येन पातङ्गिः षण्मासान्द्वौ च वत्सरौ ।
०५५१-२ राशिः स एव चन्द्रस्य न याति दिवसत्रयं । ।
०५५२-१ शिरसा धार्यमाणोपि स्ॐअः स्ॐएन शंभुना ।
०५५२-२ तथापि कृशतां धत्ते कष्टः खलु पराश्रयः । । Qस्व्०५५२-३ प. पाजकस्य
०५५२-४ पततु वारिणि यातु दिगन्तरं
०५५२-५ विशतु वह्निमथो व्रजतु क्षितिं कथं स दन्तरहितः सूर्यः सूरिभिरुच्यते ।
०५५२-६ यो मीनराशिं भुक्त्वैव मेषं भोक्तुं समुद्यतः । ।
०५५४-१ पततु वारिणि यातु दिगन्तरं
०५५४-२ विशतु वह्निमथो व्रजतु क्षितिं ।
०५५४-३ रविरसावियतास्य गुणेषु का
०५५४-४ सकललोकचमत्कृतिषु क्षतिः । ।
०५५५-१ तत्तावदेव शशिनः स्फुरितं महीयो
०५५५-२ यावन्नो तीक्ष्णरुचिमण्डलमभ्युपैति ।
०५५५-३ अभ्युद्यते सकलधामनिधौ च तस्मिन्-
०५५५-४ निन्दोः सिताभ्रशकलस्य च को विशेषः । ।
०५५६-१ सद्वृत्तयः सदसदर्थविवेकिनो ये
०५५६-२ ते पश्य कीदृशममुं समुदाहरन्ति ।
०५५६-३ चौरासतीप्रभृतयो ब्रुवते यदस्य
०५५६-४ तद्गृह्यते यदि कृतं तदहस्करेण । ।
०५५७-१ एकैव सामृतमयी सुतरामनर्घा
०५५७-२ काप्यस्त्यसौ शशधरस्य कला ययैव ।
०५५७-३ आरोपितो गुणविदा परमेश्वरेण
०५५७-४ चूडामणौ न गणितोस्य कलङ्कदोषः । ।
०५५८-१ उद्यन्त्यमूनि सुबहूनि महामहांसि
०५५८-२ चन्द्रोप्यलं भुवनमण्डलमण्डनाय ।
०५५८-३ सूर्यादृते न तदुदेति न चास्तमेति
०५५८-४ येनोदितेन दिनमस्तमितेन रात्रिः । ।
०५५९-१ लोकानन्दाद्विरमति न यः क्षीयमाणोपि भूयः
०५५९-२ स्वःस्थे तस्मिन्किल दिनमुखं नूतनं नाभविष्यत् ।
०५५९-३ दैवं कीदृक्कथमपि यथा भर्तुमात्मानमेव
०५५९-४ व्यग्रः कालं गमयति सखे सोप्ययं पश्य चन्द्रः । ।
०५६०-१ क्षीणश्चन्द्रो विशाति तरणेर्मण्डलं मासि मासि
०५६०-२ लब्ध्वा कांचित्पुनरपि कलां दूरदूरानुवर्ती ।
०५६०-३ संपूर्णश्चेत्कथमपि तथा स्पर्धयोदेति भानोर्-
०५६०-४ नो दौर्जन्याद्विरमति जडो नापि दैन्याद्व्यरंसीत् । ।
०५६१-१ पादन्यासं क्षितिधरगुरोर्मूर्ध्नि कृत्वा सुमेरोः
०५६१-२ क्रान्तं येन क्षपिततमसा मध्यमं धाम विष्णोः ।
०५६१-३ सोयं चन्द्रः पतति गगनादल्पशेषैर्मयूखैर्-
०५६१-४ दूरारोहो भवति महतामप्युपभ्रंशनिष्ठः । । Qस्व्०५६१-५ कलशकस्य
०५६१-६ पातः पूष्णो भवति महते नोपतापाय यस्मात्-
०५६१-७ कालेनास्तं क इव न गता यान्ति यास्यन्ति चान्ये क्व तत्तेजस्तादृग्ज्वलनमहसो नाशपिशुनं
०५६१-८ पराभूतिः क्वासौ विसदृशतराद्राहुशिरसः ।
०५६१-९ विधेर्योगादेतत्समुचितमिदं तु व्यथयति
०५६१-१० त्रपाहीनो मित्रात्तदपि गगने यद्विहरति । ।
०५६३-१ पातः पूष्णो भवति महते नोपतापाय यस्मात्-
०५६३-२ कालेनास्तं क इव न गता यान्ति यास्यन्ति चान्ये ।
०५६३-३ एतावत्तु व्यथयति यदालोकबाह्यैस्तमोभिस्-
०५६३-४ तस्मिन्नेव प्रकृतिमहति व्य्ॐनि लब्धोवकाशः । ।
०५६४-१ आ सर्गात्प्रतिवासरं रसशतैर्या बोधिता पोषिता
०५६४-२ कल्पान्तावसरेथ सैव पृथिवी स्वैरेव दग्धा करैः ।
०५६४-३ कृत्वेत्थं किमपि स्वकर्म नियतेः पूर्वापरोपप्लुतं
०५६४-४ कष्टं सोपि दिनान्तवीतकिरणस्तिग्मांशुरस्तं गतः । ।
०५६५-१ येनोन्मथ्य तमांसि मांसलघनस्पर्धीनि सर्वं जगच्-
०५६५-२ चक्षुष्मत्परमार्थतः कृतमिदं देवेन तिग्मत्विषा ।
०५६५-३ तस्मिन्नस्तमिते विवस्वति कियान्क्रूरो जनो दुर्जनो
०५६५-४ यद्बध्नाति धृतिं शशाङ्कशकलालोकेथ दीपेथवा । ।
०५६६-१ शोच्यस्तावदुमापतिः प्रभुतया यो मूर्ध्नि गङ्गोक्षिते
०५६६-२ सच्छिद्रं नृशिरःकपालममलं चन्द्रं च धत्ते समं ।
०५६६-३ चन्द्रः शोच्यतरस्ततः परिभवेप्येवंविधे यः सति
०५६६-४ ज्योत्स्नाहासविकासपाण्डुरवपुर्मुख्यां मुदं पुष्यति । ।
०५६७-१ पूर्णं वीचिभुजैः स्ववृद्धिरभसादिन्न्दुं समालिङ्गति
०५६७-२ क्षीणं दूरत एव मुञ्चति पिता भूत्वा जलानां निधिः ।
०५६७-३ प्रक्षीणस्य तु येन तस्य वसुना कृत्वा क्रमेणोदयं
०५६७-४ पूर्णत्वे च दवीयसि स्थितमहो मित्राय तस्मै नमः । ।
०५६८-१ ध्वान्तेन ग्रथितैर्ग्रहक्षितिपतेर्देवस्य दूरस्थितेः
०५६८-२ सच्चक्रप्रमदावहाभ्युदितता कैर्नाम नाकाङ्क्षिता ।
०५६८-३ एतेनाभ्युदितेन संप्रति पुनः कष्टं तथा चेष्टितं
०५६८-४ लोकस्तीक्ष्णकरोयमित्यभिमुखं नैनं यथा प्रेक्षते । ।
०५६९-१ दृष्टैव यं करसहस्रहृतान्धकारं
०५६९-२ भीत्यापयान्त्यनुदिनं शतशः पिशाचाः ।
०५६९-३ क्षीणे विधौ हरिविलूनकरोति चित्रं
०५६९-४ गृह्णाति तं द्युमणिमभ्रपिशाच एकः । ।
०५७०-१ तमोग्रस्तं जगत्सर्वं त्रातुं भानुः सदोद्यतः ।
०५७०-२ तं तु त्रातुं तमोग्रस्तं जगत्येकोपि न क्षमः । ।
०५७१-१ रात्रौ गुणनिधेः पद्मात्कुमुदं यदनक्षरं ।
०५७१-२ प्राप्ता लक्ष्मीः स महिमा राज्ञो जडनिधेर्ध्रुवं । ।
०५७२-१ आभाति चन्द्ररहिता न कदापि रात्रिश्-
०५७२-२ चन्द्रोपि रात्रिरहितो गतकान्तिरेव ।
०५७२-३ किं कारणं यदनयोः प्रतिमासमेको
०५७२-४ जातो निस्तरतया परिरम्भयोगः । ।
०५७३-१ गगनशयनलीनां रात्रिमुत्सृज्य चन्द्रो
०५७३-२ व्रजति धवलपक्षे कृष्णपक्षे तु रात्रिः ।
०५७३-३ अपसरति यदीन्दोर्व्य्ॐअतल्पे प्रसुप्तात्-
०५७३-४ त्रुटति तदनयोः किं तावता दम्पतित्वं । ।
०५७४-१ आशाः प्रकाशयति यस्तिमिराणि भङ्क्त्वा
०५७४-२ बोधं दृशां दिशति भूरिगुणेष्वभीष्टः ।
०५७४-३ खेदाय यस्य न परोपकृतिष्वटाट्या
०५७४-४ धीमान्नमस्यति न कस्तमिनं प्रशस्यं । ।
०५७५-१ विचारस्तथ्यो वा भवतु वितथो वा किमपरं
०५७५-२ तथाप्युच्चैर्धाम्नो भवति बहुजल्पो जनरवः ।
०५७५-३ तुलोत्तीर्णस्यापि प्रथितमहिमध्वस्ततमसो
०५७५-४ रवेस्तादृक्तेजो न भवति हि कन्यां गत इति । ।
०५७६-१ उडुगणपरिवारो नायकोप्योषधीनाम्-
०५७६-२ अमृतमयशरीरः कान्तियुक्तोपि चन्द्रः ।
०५७६-३ भवति विगतरश्मिर्मण्डलं प्राप्य भानोः
०५७६-४ परसदननिविष्टः को लघुत्वं न याति । ।
०५७७-१ उच्चः सत्फलदो यथायमहमप्येतादृगेतावता
०५७७-२ स्पर्धां मन्द मदोद्धतः स्वजनकेनार्केण मा मा कृथाः ।
०५७७-३ दूरादेव भवादृशोस्य महसा ध्वस्ताः समस्ताः स्वयं
०५७७-४ नैवेच्छत्ययमत्ययं गुणिसखः कस्यापि तेजोनिधिः । ।
०५७८-१ तुल्या सुखस्थितिरमुष्य ममेति राज्ञि
०५७८-२ स्पर्धां निजेपि जनके जनकेलिहेतौ ।
०५७८-३ मा राजनन्दन कृथाः स हि सर्वलोक-
०५७८-४ ध्वान्तान्तकृद्गिरिशहस्तपवित्रितात्मा । ।
०५७९-१ मात्सर्येण जहद्ग्रहान्विसदृशे धूमध्वजे योग्यतां
०५७९-२ ज्ञात्वा स्वां विदधत्त्विषं दिनपतिर्हास्यप्रशान्त्युन्मुखः ।
०५७९-३ दैवं वेत्ति न यः शिखी स परतो नामास्तु तत्संभवाः
०५७९-४ स्युर्दीपा अपि यद्वशेन जगतां तिग्मांशुविस्मारकाः । ।
०५८०-१ पाद्मा ये मदनुव्रता दधति ते क्लान्तिं तुषाराहता
०५८०-२ येप्येते दिवसा मदेकशरणाः कार्श्यं परं यान्ति ते ।
०५८०-३ गच्छन्नित्थमसौ समाश्रितजनप्रीत्येव दूरां दिशं
०५८०-४ हेमन्ते भगवानहर्पतिरहो लोके गतः सेव्यतां । ।
०५८१-१ नाभिषेको न संस्कारः सिंहस्य क्रियते वने ।
०५८१-२ विक्रमार्जितसत्त्वस्य स्वयमेव मृगेन्द्रता । ।
०५८२-१ एकोहमसहायोहं कृशोहमपरिच्छदः ।
०५८२-२ स्वप्नेप्येवंविधा चिन्ता मृगेन्द्रस्य न जायते । ।
०५८३-१ मत्तेभकुम्भनिर्भेदकठोरनखराशनिः ।
०५८३-२ मृगारिरिति नाम्नैव लघुत्वं याति केसरी । ।
०५८४-१ पतन्ति नैव मातङ्गकुम्भपाटनलम्पटाः ।
०५८४-२ वल्गत्स्वपि कुरङ्गेषु मृगारेर्नखराः खराः । ।
०५८५-१ किं किर्मः क उपालभ्यो यत्रेदमसमञ्जसं ।
०५८५-२ काकिण्यपि न सिंहस्य मूल्यं कोटिस्तु दन्तिनः । ।
०५८६-१ लीलादलितधृष्टेभकुम्भपीठस्य निर्भयैः ।
०५८६-२ कथं केसरिणः क्रान्तं सुप्तस्यापि मृगैः पदं । ।
०५८७-१ मत्तेभकुम्भनिर्भेदरुधिरारुणपाणिना ।
०५८७-२ हरिणा हरिणः स्पर्धां वराकः कुरुते कथं । ।
०५८८-१ तावद्गर्जति मातङ्गो वने मदभरालसः ।
०५८८-२ शिरोविलग्नलाङ्गूलो यावन्नायाति केसरी । ।
०५८९-१ शौर्यदर्पबलाध्मातश्वसद्गण्डान्तशोभिनः ।
०५८९-२ सटामुत्पाट्य सिंहस्य किं नराः सुखमासते । ।
०५९०-१ कोपोदेकतलाघातनिपतन्मत्तदन्तिनः ।
०५९०-२ हरेर्हरिणयुद्धेस्य कियान्व्याक्षेपविस्तरः । ।
०५९१-१ यावदस्थिषु संलग्नाः कराः केसरिणः क्षणं ।
०५९१-२ यूथस्य प्राणितं तावत्तदरण्यनिवासिनः । ।
०५९२-१ सग्र्वगर्जद्गजगण्डमण्डली-
०५९२-२ विखण्डनोड्डामरविक्रमक्रमः ।
०५९२-३ अनन्तविश्रान्तकुरङ्गसंगर-
०५९२-४ प्रसङ्गमङ्गीकुरुते कथं हरिः । ।
०५९३-१ सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु ।
०५९३-२ प्रकृतिरियं सत्त्ववतां न खलु वयस्तेजसो हेतुः । ।
०५९४-१ एकाकिनि वनवासिन्यराजलक्ष्मण्यनीतिशास्त्रेज्ञे ।
०५९४-२ सत्त्वोच्छ्रिते मृगपतौ राजेति गिरः परिणमन्ति । ।
०५९५-१ सिंहः करोति विक्रममलिझाङ्काराङ्किते करे करिणः ।
०५९५-२ न पुनर्नखमुखविलिखितभूधरकुहरस्थिते नकुले । ।
०५९६-१ समदकरिकुम्भदारणमदपङ्कच्छुरितकेसरसटस्य ।
०५९६-२ सिंहस्य क इव वक्त्रे करतलमाधातुमुत्सहते । ।
०५९७-१ निष्प्रग्रहेषु करिपोतशतेषु मोहाद्-
०५९७-२ वल्गत्सु बालिशतया पुरतोप्यटत्सु ।
०५९७-३ मत्तेभकुम्भदलनोचितचित्तवृत्तेः
०५९७-४ सिंहस्य लोचननिमीलनमेव युक्तं । ।
०५९८-१ दृष्ट्वैव रोषवशघूर्णितकेसरांस-
०५९८-२ मायान्तमन्तकसमं पुरतो मृगारिं ।
०५९८-३ मांसं चिखादिषुभिरेत्य पतत्रिपूगैर्-
०५९८-४ भ्रान्तं मदान्धगजयूथपमस्तकेषु । ।
०५९९-१ यः केसरी खरनखक्रकचोग्रपाणि-
०५९९-२ निर्दारितेभवरकुम्भसमुद्भवेन ।
०५९९-३ नव्येन शोणितचयेन निरस्ततृष्णो
०५९९-४ नित्यं बभूव धिगहोद्य तृणेन सोर्थी । ।
०६००-१ विस्रं वपुः परवधप्रवणा च बुद्धिस्-
०६००-२ तिर्यक्तयैव कथितः सदसद्विवेकः ।
०६००-३ इत्थं न किंचिदपि साधु मृगाधिपस्य
०६००-४ तेजस्तु तत्स्फुरति येन जगद्वराकं । ।
०६०१-१ सिंहोस्तु शत्रुरथवाधिपतिर्मृगाणां
०६०१-२ शंसास्पदं तदपि न द्वयमेव मन्ये ।
०६०१-३ तस्य स्फुरत्करजवज्रशिरोभिघात-
०६०१-४ हेलानिपातितमतङ्गजजङ्गमाद्रेः । ।
०६०२-१ प्रेङ्खन्मयूखनखपातशिखानिखात-
०६०२-२ विख्यातवारणगणस्य हरेर्गुहायां ।
०६०२-३ क्रोष्टा निकृष्टसरमासुतदृष्टिनष्ट-
०६०२-४ धार्ष्ट्यो निविष्ट इति कष्टमिहाद्य दृष्टं । ।
०६०३-१ मत्तेभकुम्भदलनाकुललोलवल्ग-
०६०३-२ दन्तः क्वणत्करजवज्रशिखाभिघातः ।
०६०३-३ किं केसरी जगति माननिधिस्तृणेन
०६०३-४ प्राणात्ययेपि कुरुते स्वशरीरयात्रां । ।
०६०४-१ विश्वस्य स्थितये धनुर्धरतया गर्जन्तमुच्चैः पदे
०६०४-२ मेघं दन्तिमदान्तदुर्ललितधीर्मा सिंह लालङ्घिषीः ।
०६०४-३ अस्माद्वज्रविदारितक्षितिभृतो मा पाति वर्षोपलैर्-
०६०४-४ झम्पालम्पटभावभाविपतनाच्चिन्त्योङ्गभङ्गः स्वयं । ।
०६०५-१ खरनखरनिखातोत्तुङ्गमातङ्गकुम्भ-
०६०५-२ स्थलविगलितमुक्तालंकृतक्ष्मातलस्य ।
०६०५-३ हरति हरिणवृन्दं किं हरेर्वैरमाजौ
०६०५-४ मिलितमपि समन्तादेककार्येण कृत्स्नं । ।
०६०६-१ अनुकृतगण्डशैलमदमण्डितगण्डतट-
०६०६-२ भ्रमदलिमण्डलीनिविडगुंगुमघोषजुषः ।
०६०६-३ दलयति हेलयैव हरिरुग्रकरान्करिणस्-
०६०६-४ त्रिजगति तेज एव गुरु नो विकृताकृतिता । ।
०६०७-१ शैलश्रेणिगुहागृहेषु निवसञ्जीवन्निजाडम्बरैर्-
०६०७-२ अव्याजोर्जितविक्रमो मृगपतिर्वीरेन्द्र मा कुप्यतां ।
०६०७-३ अस्मात्कुञ्जरकुम्भसंभववसापानैकहेवाकिनो
०६०७-४ यल्लब्धं व्यसनाकुलेन मनसा स्वेनैव तच्चिन्त्यतां । ।
०६०८-१ कश्मीरान्गतुकामस्य मीरशाहाख्यभूपतेः ।
०६०८-२ शाहाबुद्दीनभूमीन्द्रः प्राहिणोदिति लेखकं । ।
०६०९-१ किमेवमविशाङ्कितः शिशुकुरङ्ग लोलक्रमं
०६०९-२ परिक्रमितुमीहसे विरम नैव शून्यं वनं ।
०६०९-३ स्थितोत्र गजय्ङ्थनाथमथनोच्छलच्छोणित-
०६०९-४ च्छटापटलभासुरोत्कटसटाभरः केसरी । ।
०६१०-१ कठोरनखराहतद्विरदकुम्भपीठस्थली-
०६१०-२ लुठद्रुधिररञ्जितोल्ललितकेसरः केसरी ।
०६१०-३ गभीररवकातरातुरतरातुरव्याहृतैः
०६१०-४ पतन्हरिणकैः समं समरभूमिकां लज्जते । ।
०६११-१ चरत वृषभा जालीमांसं यथेच्छमभीरवः
०६११-२ पिबत नलिनीकच्छेष्वच्छं पुनर्महिषाः पयः ।
०६११-३ वहत करिणो भूयः शोभां मदेन कपोलयोर्-
०६११-४ असहनतया दूरीभूतो विधेर्त केसरी । ।
०६१२-१ लब्धा डम्भरमम्बरे जलधरं गर्जन्तमालोक्य यद्-
०६१२-२ दूरादुच्छलितोसि सिंह महतां तेनैव खिन्नं मनः ।
०६१२-३ यत्त्वासारभयेन संप्रति दरीसांमुख्यमालम्बसे
०६१२-४ तद्दृष्ट्वैव वयं ह्रिया किमपरं पातालमूलं गताः । ।
०६१३-१ यस्यानेकमदान्धवारणघटाकुम्भस्थलीभेदन-
०६१३-२ व्यापारैकविनोददुर्ललितया कालोगमल्लीलया ।
०६१३-३ उद्गर्जज्जलभारवामनघनस्पर्धी स एवाधुना
०६१३-४ सिंहः पञ्जरपातपुञ्जिततनुर्धत्ते दशामीदृशीं । ।
०६१४-१ क्षुत्क्षामेपि जराकृशोपि शिथिलप्राणोपि कष्टां दशा-
०६१४-२ मापन्नोपि विपन्नधीधृतिरपि प्राणेषु नश्यत्स्वपि ।
०६१४-३ दर्पाध्मातकरीन्द्रकुम्भदलनप्रेङ्खन्नखाग्राशनिः
०६१४-४ किं जीर्णं तृणमत्ति मानमहतामग्रेसरः केसरी । ।
०६१५-१ नास्योच्छ्रायवती तनुर्न दशनौ नो दीर्घदीर्घः करः
०६१५-२ सत्यं वारण नैष केसरिशिशुस्त्वाडम्बरैः स्पर्धते ।
०६१५-३ तेजोबीजमसह्यमस्य हृदये न्यस्तं पुरा वेधसा
०६१५-४ तादृक्त्वादृशमेव येन सुतरां भोज्यं पशुं मन्यते । ।
०६१६-१ माद्यन्मातङ्गकुम्भस्थलबहलवसावासनाविस्रगन्ध-
०६१६-२ व्यासङ्गव्यक्तमुक्ताफलशकललसत्केसरालीकरालः ।
०६१६-३ व्याधीवैधव्यवेधाः स्वभुजबलमदग्रस्ततेजस्विधामा
०६१६-४ विभ्यत्सारङ्गसार्थः सततमसहनः केसरी केन दृष्टः । ।
०६१७-१ कः कः कुत्र न घुर्घुरायितघुरीघोरो घुरेत्सूकरः
०६१७-२ कः कः कं कमलाकरं विकमलं कर्तुं करी नोद्यतः ।
०६१७-३ के के कानि वनान्यरण्यमहिषा नोन्मूलयेयुर्यतः
०६१७-४ सिंहीस्नेहविलासबद्धवसतिः पञ्चाननो वर्तते । ।
०६१८-१ आ बाल्यादपि यो विदारितमदोन्मत्तेभकुम्भस्थली-
०६१८-२ स्थालीमध्यकवोष्णरक्तरसवन्मुक्तापुलाकप्रियः ।
०६१८-३ हस्तस्तस्य कथं प्रसर्पतु पुरः कृच्छ्रेप्यवस्थान्तरे
०६१८-४ गर्तावर्तविवर्तमानशशकप्राणापहारे हरेः । ।
०६१९-१ रक्ताक्तयन्नखरकोटिनिभादिभानां
०६१९-२ यूथाः पलाशवनतोपि पलाय्य जग्मुः ।
०६१९-३ सिंहस्य तस्य जरतो विषमा दशा यद्-
०६१९-४ ग्ॐआयवैरवयवैरपि नास्ति वृत्तिः । ।
०६२०-१ पर्जन्यं प्रति गर्जतः प्रतिनिधीन्विन्ध्यस्य वातोद्धता-
०६२०-२ नम्भोधीनिव धावतः सरभसं हत्वा रणे वारणान् ।
०६२०-३ वृक्षाद्वृक्षमुपेयुषोल्पवपुषः शाखामृगस्योपरि
०६२०-४ क्रुद्धः सोपि भवानहो बत गतः पञ्चास्य हास्यां दशां । ।
०६२१-१ हुंकारैः स्तनितानुकारचतुरैर्न्यक्कारमाकारित-
०६२१-२ क्षौणीभृच्छिखरश्रियो गजघटा नीत्वा मदाटोपिनीः ।
०६२१-३ सिंहः संहतभावतो दशदिशः क्लिश्यत्सु दुर्वाशितैर्-
०६२१-४ ग्ॐआयुष्वपि विश्वविश्वविदितप्रौढिः किमुद्यच्छते । ।
०६२२-१ करिकलभ विमुञ्च लोलतां
०६२२-२ चर विनयव्रतमानताननः ।
०६२२-३ मृगपतिनखकोटिभङ्गुरो
०६२२-४ गुरुरुपरि क्षमते न तेङ्कुशः । ।
०६२३-१ केलिं कुरुष्व परिभुङ्क्ष्व सरोरुहाणि
०६२३-२ गाहस्य शैलतटनिर्झरिणीपयांसि ।
०६२३-३ भावानुरक्तकरिणीकरलालिताङ्ग
०६२३-४ मातङ्ग मुञ्च मृगराजरणाभिलाषं । ।
०६२४-१ उच्छृङ्खलेन निरपेक्षतयोन्मदेन
०६२४-२ येनाकुलीकृतमिदं करिणा बभूव ।
०६२४-३ दत्त्वा पदं शिरसि हस्तिपकार्भकेण
०६२४-४ मन्दः कथं गमित एष वशं प्रसह्य । ।
०६२५-१ विन्ध्याद्रिसानुतरुपुष्पपतत्पराग-
०६२५-२ संपुञ्जपूजितकरः करियूथसेव्यः ।
०६२५-३ योभूत्स एव नृनिदेशकरः करीन्द्रो
०६२५-४ जातः कथं किमथवा प्रभुरत्र कालः । ।
०६२६-१ अन्तःसमुत्थविरहानलतीव्रताप-
०६२६-२ संतापिताङ्ग करिपुङ्गव मुञ्च शोकं ।
०६२६-३ धात्रा स्वहस्तलिखितानि ललाटपट्टे
०६२६-४ को वाक्षराणि परिमार्जयितुं समर्थः । ।
०६२७-१ भो भोः करीन्द्र दिवसानि कियन्ति तावद्-
०६२७-२ अस्मिन्मरौ समतिवाहयकुत्रचित्त्वं ।
०६२७-३ रेवाजलैर्निजकरेणुकरप्रयुक्तैर्-
०६२७-४ भूयः शमं गमयितासि निदाघकाले । ।
०६२८-१ अस्मिञ्जडे जगति को नु बृहत्प्रमाण-
०६२८-२ कर्णः करी ननु भवेद्दुरितस्य पात्रं ।
०६२८-३ इत्यागतं तमपि योलिनमुन्ममाथ
०६२८-४ मातङ्ग एव किमतः परमुच्यतेसौ । ।
०६२९-१ न गृह्णाति ग्रासं नवकमलकिंजल्किनि जले
०६२९-२ न पङ्कैराह्लादं व्रजति बिसभङ्गार्धशकलैः ।
०६२९-३ ललन्तीं प्रेमार्द्रामपि विषहते नान्यकरिणीं
०६२९-४ स्मरन्दावभ्रष्टां हृदयदयितां वारणपतिः । ।
०६३०-१ लतान्तान्नादत्ते शशिशकलशीतं न च जलं
०६३०-२ भ्रमद्भृङ्गासङ्गाः परिहरति कान्ताः कमलिनीः ।
०६३०-३ दधद्भाराकारं करमपि करी जातविरहो
०६३०-४ वितन्वन्नुच्छ्वासान्क्षणमपि वतान्ते न रमते । ।
०६३१-१ नदीवप्रान्भित्त्वा किसलयवदुत्पाट्य च तरून्-
०६३१-२ मदोन्मत्ताञ्जित्वा करचरणदन्तैः प्रतिगजान् ।
०६३१-३ जरां प्राप्यानार्यां तरुणजनविद्वेषजननीं
०६३१-४ स एवायं नागः सहति कलभेभ्यः परिभवं । ।
०६३२-१ वरमियमङ्कुशक्षतिरलक्षितमापतिता
०६३२-२ विनयविधित्सया शिरसि ते गजयूथपते ।
०६३२-३ न पुनरपश्चिमा करजवज्रशिखाभिहतिः
०६३२-४ प्रसभसमुत्थितस्य निशिता वनकेसरिणः । ।
०६३३-१ स्वाधीनां प्रविहाय शैलकटकप्रान्ते करेण वने
०६३३-२ यत्ते नागरिकाजने निपतितं सद्भावशून्ये मनः ।
०६३३-३ तस्यैतद्दृढरज्जुबन्धनवधव्यापारखेदात्मकं
०६३३-४ हे मत्तद्विपु कर्मणः परिणतं रागानुरूपं फलं । ।
०६३४-१ क्वाकारो गिरिसन्निभः क्व च गतिर्वेगेन लीला च सा
०६३४-२ हेलाकुड्मलितेक्षणाः क्व नु दृशस्तद्वा क्व ते बृंहितं ।
०६३४-३ वप्राघातरसः क्व ते क्व च करः कष्टं यदेवंविधं
०६३४-४ त्वामारुह्य शिशुः पदा परवशं संचारयत्याज्ञया । ।
०६३५-१ पादाघातविघूर्णिता वसुमती त्रासालसाः पक्षिणः
०६३५-२ पङ्काङ्कानि सरांसि गण्डकषणक्षोदक्षताः शाखिनः ।
०६३५-३ प्राप्येदं करिपोतकैर्विधिवशाच्छार्दूलशून्यं वनं
०६३५-४ तत्तन्नाम कृतं विशृङ्खलतया वक्तुं न यत्पार्यते । ।
०६३६-१ पुण्ड्रेक्षूनपि भक्षयन्घृतभृतो मांसौदनादीनपि
०६३६-२ प्रावृण्वन्विविधाः कुथा अपि वहन्नक्षत्रमाला अपि ।
०६३६-३ कर्णे चामरमालिकामपि दधद्दन्ती तथापि स्मर-
०६३६-४ न्वैन्ध्यीनां घनसल्लकीवनभुवामास्ते सदा दुःखितः । ।
०६३७-१ नीवारप्रसवाग्रमुष्टिकवलैर्यो वर्धितः शैशवो
०६३७-२ पीतं येन सरोजपत्त्रपुटके ह्ॐआवशेषं पयं ।
०६३७-३ तं दृष्ट्वा मदमन्थरालिवलयव्यालुप्रगण्डं गजं
०६३७-४ सोत्कण्ठं सभयं च पश्यति मुहुर्दूरे स्थितस्तापसः । ।
०६३८-१ दन्ते न्यस्य करं प्रलम्बितशिराः संमील्य नेत्रद्वयं
०६३८-२ किं त्वं वारण तप्यसे गणिकया को नाम नो वञ्चितः ।
०६३८-३ ग्रासं शान्तमना गृहाण सततं शोकोधुना त्यज्यतां
०६३८-४ ये मत्ता अविवेकिनश्चलधियस्ते प्राप्नुवन्त्यापदं । ।
०६३९-१ पत्युर्यत्कवलावशेषपतितग्रासेन वृत्तिः कृता
०६३९-२ पीतं यच्च करावगाहकलुषं तत्पीतशेषं पयः ।
०६३९-३ प्राणान्पूर्वतरं विहाय तदिदं प्राप्तं करिण्या फलं
०६३९-४ यद्बन्धार्पणकातरस्य करिणः क्लिष्टं न दृष्टं मुखं । ।
०६४०-१ घासग्रासं गृहाण त्यज गजकलभ प्रेमबन्धं करिण्याः
०६४०-२ पाशग्रन्थिव्रणानामभिमतमधुना देहि पङ्कानुलेपं ।
०६४०-३ दूरीभूतास्तवैते शबरवरवधूविभ्रमोद्भ्रान्तरम्या
०६४०-४ रेवाकुलोपकण्टद्रुमकुसुमरजो धूसरा विन्ध्यपादाः । ।
०६४१-१ लाङ्गूलचालनमधश्चरणावपातं
०६४१-२ भूमौ निपत्य वदनोदरदर्शनं च ।
०६४१-३ श्वा पिण्डदस्य कुरुते गजपुङ्गवस्तु
०६४१-४ धीरं विलोकयति चाटुशतैश्च भुङ्क्ते । ।
०६४२-१ यद्विन्ध्यः शिखरी तदन्तरपि यत्पीलुप्रियः पिप्पलः
०६४२-२ सोत्कण्ठा रभसागमादभिपतद्रेणुः करेणुश्च यत् ।
०६४२-३ तत्किं भद्रतया स्मरत्यपि करी दैवं हि सर्वंकषं
०६४२-४ तन्मृत्योरपि दुःसहं तु यदयं मन्दो धुरि स्थापितः । ।
०६४३-१ मध्येविन्ध्यमुदूर्मिनार्मदनदीवातूलवातावली-
०६४३-२ हेलोद्धूलितमल्लिकाकिसलयैर्यो वृद्धिमभ्यागतः ।
०६४३-३ सोयं दैववशाद्वशाविरहितः शूत्कारकारी करी
०६४३-४ निर्मज्जद्वजरज्जुपाशविवशः कष्टं किमाचेष्टां । ।
०६४४-१ हे गन्धकुञ्जर महागिरिकुञ्जराजि-
०६४४-२ मद्यापि मा स्मर सलीलनिमीलिताक्षः ।
०६४४-३ मुञ्चाभिमानमधुना भज वर्तमानं
०६४४-४ वक्रं विधेरुपरि शासनमङ्कुशं च । ।
०६४५-१ स्वच्छस्वादुजला विहाय सरितो हर्तुं तृषं दुःसहां
०६४५-२ मा मत्त द्विरदाक्षि निक्षिप शरत्कृष्टे तडागाम्बुनि ।
०६४५-३ पीतेस्मिन्सकलेपि गच्छति न ते शान्तिं पिपासा जले
०६४५-४ ग्रामस्यैकगतेरमुष्य नियतं स्याज्जीविते संशयः । ।
०६४६-१ दूर्वाकुरतृणाहारा धन्यास्तात वने मृगाः ।
०६४६-२ विभवोन्मत्तचित्तानां न पश्यन्ति मुखानि यत् । ।
०६४७-१ अमृता विगतप्राणा सान्तःशल्याकृतव्रणा ।
०६४७-२ अबद्धा निश्चलेवास्ते कूटसंस्थे मृगे मृगी । ।
०६४८-१ रज्ज्वा दिशः प्रवितताः सलिलं विषेण
०६४८-२ पाशैर्मही हुतभुजा ज्वलिता वनान्ताः ।
०६४८-३ व्याधाः पदान्यनुसरन्ति गृहीतबाणाः
०६४८-४ कं देशमाश्रयति यूथपतिर्मृगाणां । ।
०६४९-१ द्रुततरमितो गच्छ प्राणैः कुरङ्ग वियुज्यसे
०६४९-२ किमिति वलितग्रीवं स्थित्वा मुहुर्मुहुरीक्षसे ।
०६४९-३ विदधति हतव्याधानां ते मनागपि नार्द्रतां
०६४९-४ कठिनमनसामेषामेते विलोचनविभ्रमाः । ।
०६५०-१ स्थलीनां दग्धानामुपरि मृगतृष्णामनुसरंस्-
०६५०-२ तृषार्तः सारङ्गो विरमति न खिन्नेपि मनसि ।
०६५०-३ अजानानस्तत्त्वं न स मृगयतेन्यत्र सरसी-
०६५०-४ मभूमौ प्रत्याशा न च फलति विघ्नं च कुरुते । ।
०६५१-१ हे सारङ्ग तृणान्यशान सलिलैः प्राणान्पुषाणाथवा
०६५१-२ यद्वा स्याः पवनाशनस्तदपि ते साविष्कृति प्राणितं ।
०६५१-३ येनेयं भवतोच्छ्वसत्कुवलयप्रस्तारचारुद्युतिर्-
०६५१-४ दृष्टिर्वित्तमदोद्धताक्षिणि मुखे मूर्खस्य नायासिता । ।
०६५२-१ अल्पीयःस्खलनेन यत्र पतनं कृच्छ्रेण यत्रोन्नतिर्-
०६५२-२ द्वारे वेत्रलतावितानगहने कष्टः प्रवेशक्रमः ।
०६५२-३ हे सारङ्ग मनोरमा वनभुवस्त्यक्त्वा विशेषार्थिना
०६५२-४ किं भूभृत्कटकस्थितिव्यसनिना व्यर्थं खुराः शातिताः । ।
०६५३-१ नैतास्ता मलय काननभुवः स्वच्छस्रवन्निर्झरास्-
०६५३-२ तृष्णा यासु निवर्तते तनुभृतामालोकमात्रादपि ।
०६५३-३ रूक्षध्वाङ्क्षपरिग्रहो भरुरयं स्फारीभवद्भ्रान्तयस्-
०६५३-४ ता एता मृगतृष्णिका हरिण हे नेदं पयो गम्यतां । ।
०६५४-१ त्यक्तं जन्मवनं तृणाङ्कुरवती मातेव मुक्ता स्थली
०६५४-२ विस्रम्भस्थितिहेतवो न गणिता बन्धूपमाः पादपाः ।
०६५४-३ बालापत्यवियोगदुःखविधुरा नापेक्षिता सा मृगी
०६५४-४ मार्गन्तः पदवीं तथाप्यकरुणा व्याधा न मुञ्चन्त्यमी । ।
०६५५-१ छित्त्वा पाशमपास्य कूटरचनां भङ्क्त्वा बलाद्वागुरां
०६५५-२ पर्यस्ताग्निशिखाकलापजटिलान्निर्गत्य दूरं वनात् ।
०६५५-३ व्याधानां शरगोचरादपि जवेनोत्प्लुत्य धावन्मृगः
०६५५-४ कूपान्तः पतितः करोति विधुरे किं वा विधौ पौरुषं । ।
०६५६-१ स्वैरी भ्राम्यसि नाथ काम्यसि परद्वाराणि नोत्ताम्यसि
०६५६-२ नाद्यानामनिमित्तकोपकुटिलालापं मुखं पश्यसि ।
०६५६-३ मुञ्चस्येकमपि क्षणं प्रकटितप्रेमां च न प्रेयसीं
०६५६-४ हे सारङ्ग तवातिसुन्दरमिदं केनोपदिष्टं व्रतं । ।
०६५७-१ स्वच्छन्दं हरिणेन या विहरता दैवात्समासादिता
०६५७-२ भङ्गप्रस्रुतदुग्धबिन्दुबिसरा शालेर्नवा मञ्जरी ।
०६५७-३ निःश्वासानलदग्धक्ॐअलतृणप्रख्यापितान्तर्व्यथस्-
०६५७-४ तामेव प्रतिवासरं मुनिरिव ध्यायन्वने शुष्यति । ।
०६५८-१ सारङ्गो न लतागृहेषु रमते नो पंसुले भूतले
०६५८-२ नो रम्यासु वनोपकण्ठहरितच्छायासु शीतास्वपि ।
०६५८-३ तामेवायतलोचनामनुदिनं ध्यायन्मुहुः प्रेयसीं
०६५८-४ शैलेन्द्रोदरकंदरेषु गतधीः शृङ्गारिवेषः स्थितः । ।
०६५९-१ शृङ्गेणाङ्गं मृगाणां कषति परिचयप्राप्तये निःस्पृहाणां
०६५९-२ मन्दस्वच्छन्दचारी परिहरति भयादालयं यूथपस्य ।
०६५९-३ दृष्टस्तिष्ठत्यलक्ष्यो झगिति निपतितैस्तत्कुरङ्गीकटाक्षैः
०६५९-४ सारङ्गो दुःखमास्ते विधुरविधिवशादन्ययूथप्रविष्टः । ।
०६६०-१ आदाय मांसमखिलं स्तनवर्जमङ्गान्-
०६६०-२ मां मुञ्च वागुरिक याहि कुरु प्रसादं ।
०६६०-३ अद्यापि घासकवलग्रसनानभिज्ञो
०६६०-४ मन्मार्गवीक्षणपरस्तनयो मदीयः । ।
०६६१-१ पुरो रेवा पारे गिरिरतिदुरारोहशिखरः
०६६१-२ सरः सव्ये वामे दवदहनदाहव्यतिकरः ।
०६६१-३ धनुष्पाणिः पश्चाच्छबरहतको धावतितरां
०६६१-४ न यातुं न स्थातुं हरिणाशिशुरेष प्रभवति । ।
०६६२-१ क्व क्रीडति क्व चरति क्व करोति वृत्तिं
०६६२-२ वारि क्व नाम पिबति स्वपिति क्व नाम ।
०६६२-३ इत्थं मृगं निरपराधमबाधमानं
०६६२-४ व्याधोनुधावति वधाय धनुर्दधानः । ।
०६६३-१ चन्द्रः सुधांशुरयमत्रिसुतो द्विजेशः
०६६३-२ पुण्यैरवापि शरणाय मयेति तोषं ।
०६६३-३ मुग्धैणशाव भज मा त्यज पापमेनं
०६६३-४ मीनं प्रभुज्य सहसा कृतमेषभोगं । ।
०६६४-१ करभ यदि कदाचित्प्रभ्रमन्दैवयोगान्-
०६६४-२ मधुकरकुलतस्त्वं प्रापयेथा मधूनि ।
०६६४-३ विरम विरम तेभ्यः सन्ति शष्पाण्यरण्ये
०६६४-४ प्रथममुखरसास्ते शोषयन्त्येव पश्चात् । ।
०६६५-१ विकचकुमुदैः फुल्लाम्भोजैः सरोभिरलंकृतां
०६६५-२ मरकतमणिश्यामां शष्पैर्विहाय वनस्थलीं ।
०६६५-३ स्मरति करभो यद्वृक्षाणां चरन्मरुधन्वनां
०६६५-४ परिचयरतिः सा दुर्वारा न सा गुणवैरिता । ।
०६६६-१ करभदयिते यत्तत्पीतं सुदुर्लभमेकदा
०६६६-२ मधु वनगतं तस्यालाभे विरौषि किमुत्सुका ।
०६६६-३ कुरु परिचितैः पीलोः पत्त्रैर्धृतिं मरुगोचरे
०६६६-४ जगति सकले कस्यावाप्तिः सुखस्य निरन्तरा । ।
०६६७-१ करभदयिते योसौ पीलुस्त्वया मधुलुब्धया
०६६७-२ व्यपगतधनच्छायस्त्यक्तो न सादरमीक्षितः ।
०६६७-३ चलकिसलयः सोपीदानीं प्ररूढनवाङ्कुरः
०६६७-४ करभदयितावृन्दैरन्यैः सुखं परिभुज्यते । ।
०६६८-१ करभ किमिदं दीर्घोच्छ्वासैः क्षिणोषि शरीरकं
०६६८-२ विरम शठे हे कस्यात्यन्तं सखे सुखमागतं ।
०६६८-३ चर किसलयं स्वस्थः पीलोर्विमुञ्च मधुस्पृहां
०६६८-४ पुनरपि भवान्कल्याणानां भविष्यति भाजनं । ।
०६६९-१ करभ रभसात्क्रोष्टुं वाञ्छस्यहो श्रवणज्वरः
०६६९-२ शरणमथवानृज्वी दीर्घा तवैव शिरोधरा ।
०६६९-३ पृथुगलबिलावृत्तिश्रान्तोच्चरिष्यति वाङ्मुखा-
०६६९-४ दियति समये को जानीते भविष्यति कस्य किं । ।
०६७०-१ तथा संतुष्टः सञ्जलवृणशमीपीलुबदरैश्-
०६७०-२ चरन्स्वस्थोरण्ये करभशिशुकः शोकरहितः ।
०६७०-३ कृतो मध्वास्वादप्रवणहदयो मुग्धविधिना
०६७०-४ यथा नान्यद्भुङ्क्ते न पिबति न शेते न रमते । ।
०६७१-१ यस्यासीन्नवपीलुपत्त्रबदरग्रासोपि संतुष्टये
०६७१-२ दीर्घाध्वन्यनुगम्यते न पदवी यस्य स्वयूथ्यैरपि ।
०६७१-३ सोयं संप्रति याति बालकरभः क्षीणोद्यमः क्षामतां
०६७१-४ मन्ये नूनमनेन दैवहतकेनास्वादितं भ्रामरं । ।
०६७२-१ पीलूनां हि फलं कषायरहितं र्ॐअन्थयित्वा मरौ
०६७२-२ शाखाग्रं यदखादि चारु करभीवक्त्रार्पितं प्रेमतः ।
०६७२-३ तत्स्मृत्वा करभेन खेदविधुरं दीर्घं तथा कूजितं
०६७२-४ प्राणानामभवत्तदेव सहसा प्रस्थानतूर्यं यथा । ।
०६७३-१ क्रमेलकं निन्दति क्ॐअलेच्छुः
०६७३-२ क्रमेलकः कण्टकलम्पटस्तं ।
०६७३-३ प्रीतौ तयोरिष्टभुजोः समायां
०६७३-४ मध्यस्थता नैकतरोपहासः । ।
०६७४-१ एक एव खगो मानी वने वसति चातकः ।
०६७४-२ पिपासितो वा म्रियते याचते वा पुरंदरं । ।
०६७५-१ अयि चकितमुग्धचातक मरुभुवि धावसि मुधा किमुद्ग्रीवं ।
०६७५-२ ग्रीष्मे दवाग्निवलितस्तापिच्छोयं न विद्युत्वान् । ।
०६७६-१ पिपासुरप्येव जलं शिखण्डी
०६७६-२ प्रतीक्षते प्राणसमां पिबन्तीं ।
०६७६-३ नूनं प्रियास्नेहनिबद्धदृष्टिः
०६७६-४ स्वल्पं पयः पश्यति निम्नगासु । ।
०६७७-१ अत्युन्नतिव्यसनिनः शिरसोधुनैष
०६७७-२ स्वस्यैव चातकशिशुः प्रणयं विधत्तां ।
०६७७-३ अस्यैतदिच्छति नहि प्रततासु दिक्षु
०६७७-४ ताः स्वच्छशीतमधुराः क्व नु नाम नापः । ।
०६७८-१ केकाः कला वनभुवस्तिलकायमानो
०६७८-२ रम्यः कलापमहिमैष शिखण्डिनोस्य ।
०६७८-३ दुर्लक्षणं ननु विहायसि वायसादि-
०६७८-४ क्षुण्णेप्ययं चटकतुल्यगतिर्न जातः । ।
०६७९-१ नीलाब्जपुञ्जरजसारुणितान्विमुच्य
०६७९-२ स्वच्छान्सुधाधिकरसानपि वारिराशीन् ।
०६७९-३ यच्चातकः पिबति वारिधरोदबिन्दून्-
०६७९-४ मन्ये तदानतिभयाच्छिरसोभिमानी । ।
०६७९-५ दिव्याम्बुपाननियमस्तव मोहयेत्कं
०६७९-६ दोषोपि संवृतिमतां भजते गुणत्वं भूमिस्थमम्बु यदि चातक पातुमिच्छेः
०६७९-७ कण्ठव्रणं प्रकटयेस्तदयोग्यतां च । ।
०६७९-८ दिव्याम्बुपाननियमस्तव मोहयेत्कं
०६७९-९ दोषोपि संवृतिमतां भजते गुणत्वं । ।
०६८१-१ किं नैव सन्ति नवतामरसावतंसा
०६८१-२ हंसावलीवलयिनो जलसन्निवेशाः ।
०६८१-३ कोपि ग्रहो गुरुरयं बत चातकस्य
०६८१-४ पौरंदरीं यदभिवाञ्छति वारिधारां । ।
०६८२-१ किं दूरेण पयोधरा उपरि किं नान्ये रटन्तः श्रुता
०६८२-२ निन्द्याः पापतया स्वकुक्षिषु गताः किं नाम पक्षाः क्षयं ।
०६८२-३ रम्यं वा गगने न किं विहरणं किं तूग्रकाकावली-
०६८२-४ पर्यायप्रतिपत्तिलाघवभयाद्भूमौ स्थिता बर्हिणः । ।
०६८३-१ नो ताण्डवेन नयनामृतनिर्झरेण
०६८३-२ केकारवेण न च कर्णरसायनेन ।
०६८३-३ बर्हेण चापि सुरचापरुचा तवाय-
०६८३-४ मोतुर्न तुष्यति शिखिन्वधमन्तरेण । ।
०६८४-१ चातक तात कियद्भवता पातकमतुलमकारि ।
०६८४-२ नवजलदादपि चञ्चुपुटे यत्तव न पतति वारि । ।
०६८५-१ जलकणवितरणरहितः प्रकटितधवलितवेषः ।
०६८५-२ चातक रटसि वृथा किं जलदः शारद एषः । ।
०६८६-१ सन्ति कूपाः स्फुरद्रूपाः परितः सरितः शुभाः ।
०६८६-२ तथापि चातकस्यैकः फलदो जलदोदयः । ।
०६८७-१ केकानिभाद्धटयसे पटुचाटुकानि
०६८७-२ चञ्चत्कलापमपि नृत्यसि रञ्जनाय ।
०६८७-३ हे चातक प्रयतसे जलदं प्रतीत्थं
०६८७-४ बिन्दुं जलस्य लभसे न च लज्जसे च । ।
०६८८-१ वाहत्वमीश्वरसुतस्य विधाय बर्हिन्-
०६८८-२ प्रम्लायितः स निजपक्षकलाप एव ।
०६८८-३ नाराधितः स भवता पुरुषोत्तमः किं
०६८८-४ यस्ते तृषं प्रशमयेत्कचमेघवर्षैः । ।
०६८९-१ वसतोतिशयप्रीत्या मानसोचितसंस्थितेः ।
०६८९-२ पल्वलाम्भसि हंसस्य हंसतैव विकल्प्यते । ।
०६९०-१ पिबन्ति मधु पद्मेभ्यो भृङ्गाः केसरधूसराः ।
०६९०-२ हंसाः शैवालमश्नन्ति धिग्दैवमसमञ्जसं । ।
०६९१-१ यदि नाम दैवयोगाज्जगदसरोजं कदाचिदपि जातं ।
०६९१-२ अवकरनिकरं विकिरति तत्किं कृकवाकुरिव हंसः । ।
०६९२-१ कटु रटति निकटर्वती वाचाटष्टिट्टिभः पटुर्यत्र ।
०६९२-२ अपसरणमेव शरणं मौनं वा तत्र हंसस्य । ।
०६९३-१ अस्तु यद्यपि सर्वत्र नीरं नीरजमण्डितं ।
०६९३-२ रमते न मरालस्य मानसं मानसं विना । ।
०६९४-१ क्षुधितोपि पद्मखण्डे जहाति रजसावृतं हि किंजल्कं ।
०६९४-२ गुणिनि कृतपक्षपातो बिसं तु बहु मन्यते हंसः । ।
०६९५-१ तरलयसि दृशं किमुत्सुका-
०६९५-२ मकुलषमानसवासलालिते ।
०६९५-३ अवतर कलहंसि वापिकां
०६९५-४ पुनरपि यास्यसि पङ्कजालयं । ।
०६९६-१ भृङ्गाङ्गनाजनमनोहरहारिगीत-
०६९६-२ राजीवरेणुक्रणकीर्णपशङ्गतोयां ।
०६९६-३ रम्यां हिमाचलनदीं प्रविहाय हंस
०६९६-४ हे हे हताश वद कां दिशमुत्सुकोसि । ।
०६९७-१ हे हंस मेलितपयःसलिलं विवेक्तुं
०६९७-२ शक्तस्य संप्रति मतिः क्व नु तेद्य याता ।
०६९७-३ कासारवारिणि कलां पतितां यदिन्दो-
०६९७-४ रादातुमिच्छसि बिसाङ्कुरवाञ्छया त्वं । ।
०६९८-१ शीतांशुशेखरशिरोरुहसंश्रितानि
०६९८-२ पुण्यानि पावितजगन्ति मनोरमाणि ।
०६९८-३ भ्रान्त्वा चिरं सुरसरित्सलिलानि दैवाल्-
०६९८-४ लब्धानि हातुमिह वाञ्छसि नासि हंसः । ।
०६९९-१ स्थित्वा चिरं नभसि निश्चलतारकेण
०६९९-२ मातङ्गसङ्गकलुषां नलिनीं निरीक्ष्य ।
०६९९-३ उत्पन्नमन्युपरिघर्घरनिःस्वनेन
०६९९-४ हंसेन साश्रु परिवृत्य गतं न लीनं । ।
०७००-१ येनोज्झितं सहचरीवदनोपनीतं
०७००-२ रम्यं मृणालशकलं हिमशङ्खशुभ्रं ।
०७००-३ सोयं खगो हतविधे तव चेष्टितेन
०७००-४ शेवालनाललवलम्पटतां विधत्ते । ।
०७०१-१ रटसि कटु किमुच्चैर्वायस स्पर्धया मे
०७०१-२ विहगहतक विष्ठारक्तवक्त्रान्तरालः ।
०७०१-३ विततधवलपक्षाक्षेपविक्षोभिताम्भाः
०७०१-४ कमलवनविहारी सारसोहं न काकः । ।
०७०२-१ हंसोध्वगः श्रममपोहयितुं दिनान्ते
०७०२-२ कारण्डकाकबकभासवनं प्रविष्टः ।
०७०२-३ मूकोयमित्युपहसन्ति लुनन्ति पक्षान्-
०७०२-४ नीचाश्रयो हि महतामवमानभूमिः । ।
०७०३-१ क्व कठिनमहो पीलोः पत्त्रं मृदुः क्व बिसाङ्कुरः
०७०३-२ क्व कटु लवणं कौपं चाम्भः क्व तामरसासवः ।
०७०३-३ क्व कुसुमरजो हृद्यं रूक्षाः क्व चोषरपांसवः
०७०३-४ क्व मरुविषयो ध्वाङ्क्षक्षेत्रं क्व हंस भवादृशाः । ।
०७०४-१ भो राजहंस किमिति त्वमिहागतोसि
०७०४-२ योसौ बकः स इह हंस इति प्रतीतः ।
०७०४-३ तद्गम्यतां त्वरितमेव ततः प्रभाते
०७०४-४ यावद्वदन्ति बक एष न मूढलोकाः । ।
०७०५-१ अये वापीहंसा निजवसतिसंकोचपिशुनं
०७०५-२ करुध्वं मा चेतो वियति बहतो वीक्ष्य विहगान् ।
०७०५-३ अमी ते सारङ्गा भुवनमहनीयव्रतभृतो
०७०५-४ निरीहाणामेषां तृणमिव भवन्त्यम्बुनिधयः । ।
०७०६-१ तरौ तीरोद्भूते क्वचिदपि दलाच्छादिततनुः
०७०६-२ पतद्धारासारां गमय विषमां प्रावृषमिमां ।
०७०६-३ निवृत्तायां त्वस्यां सरसि सरसोत्फुल्लनलिने
०७०६-४ स एव त्वं हंसः पुनरपि विलासास्त इह ते । ।
०७०७-१ गतं तद्गाम्भीर्यं जलमपि वृतं जालकशतैः
०७०७-२ सखे हंसोत्तिष्ठ प्रथमममुतो दग्धसरसः ।
०७०७-३ स यावत्पङ्काम्भःकलुषितवपुर्भूरिविलपन्-
०७०७-४ न काको वाचाटश्चरणयुगलं मूर्ध्नि कुरुते । ।
०७०८-१ स्पृशति न बिसं चञ्च्वा भूयस्तया सह खण्डितं
०७०८-२ पिबति न जलं याति स्वप्तुं न शेवलजालकं ।
०७०८-३ कमलकलिकाभङ्गक्रीडां करोति न सारसः
०७०८-४ क्वणति करुणं शोकग्रस्तः प्रियाविरहाकुलः । ।
०७०९-१ सरसि बहुशस्ताराछायां दशन्परिवञ्चतः
०७०९-२ कुमुद विटपान्वेषी हंसो निशास्वविचक्षणः ।
०७०९-३ दशति न पुनस्ताराशङ्की दिवापि सितोत्पलं
०७०९-४ कुहकचकितो लोकः सत्येप्यपायमपेक्षते । ।
०७१०-१ मुक्ताभानि पयांसि भङ्गविलसद्दुग्धा बिसग्रन्थयः
०७१०-२ स्फीतास्तामरसासवा विहरणक्रीडासहं सैकतं ।
०७१०-३ सन्त्येव प्रतिदेशमत्रविषमे हे हंस पङ्काङ्किते
०७१०-४ धृष्टोक्त्रुष्टबके जरत्सरसि ते कोयं निवासग्रहः । ।
०७११-१ आपूर्येत पुनः स्फुरच्छफरिकासारोर्मिभिर्वारिभिर्-
०७११-२ भूयोपि प्रविभज्यमाननलिनं पश्येम तोयाशयं ।
०७११-३ इत्याशाशततन्तुबद्धहृदयो नक्तंदिनं दीनधीः
०७११-४ शुष्यत्यातपशोषितस्य सरसस्तीरे जरत्सारसः । ।
०७१२-१ तावद्दोलितपङ्कजच्युतरजःपिङ्काङ्गरागोज्ज्वल्प्
०७१२-२ यः शृण्वन्कलकूजितं मधुलिहां संजातहर्षोत्सवः ।
०७१२-३ कान्ताचञ्चुपुटापवर्जितबिसग्रासग्रहेप्यक्षमः
०७१२-४ सोयं संप्रति हंसको मरुगतः कष्टं तृणं वाञ्छति । ।
०७१३-१ यां स्मृत्वा सहसैव मानससरस्त्यक्त्वा विशेषार्थिनस्-
०७१३-२ तामेवोत्सुकचेतसः कमलिनीं दृष्ट्वा बकाध्यासितां ।
०७१३-३ लीयन्ते विगताभिमानलघवस्तत्रैव भूयोपि ये
०७१३-४ हंसास्ते न भवन्ति हंसधवलाः प्रायो बका एव ते । ।
०७१४-१ यामालिङ्ग्य बका रटन्ति कटुकं दीर्घोच्छ्वसत्कंधरा
०७१४-२ यस्यामंसतटावघट्टितजलं वल्गन्त्यमी मद्गवः ।
०७१४-३ या शश्वन्मलिनात्मकैरपि बकैर्नक्तंदिनं सेव्यते
०७१४-४ सा हंसेन मनस्विना कमलिनी युक्तं यदि त्यज्यते । ।
०७१५-१ रूपं हारि मनोहरा सहचरी पानाय पाद्मं मधु
०७१५-२ क्रीडा चाप्सु सरोरुहेषु वसतिस्तेषां रजो मण्डनं ।
०७१५-३ वृत्तिः साधुमता बिसेन सहृदश्चारुस्वनाः षट्पदाः
०७१५-४ सेवादैन्यविमाननाविरहितो हंसः सुखं जीवति । ।
०७१६-१ मत्स्या अपि हि जानन्ति क्षीरनीरविवेचनं ।
०७१६-२ प्रसिद्धं राजहंसानां यशः पुण्यैरवाप्यते । ।
०७१७-१ क्रुद्धोलूकनखप्रपातविगलत्पक्षा अपि स्वाश्रयं
०७१७-२ ये नोज्झन्ति पुरीषपुष्टवपुषस्तेकेचिदन्ये द्विजाः । ।
०७१८-१ ये तु स्वर्गतरङ्गिणीबिसलतालेशेन संवर्धिता
०७१८-२ गङ्गानीरमपि त्यजन्ति कलुषं ते राजहंसाः कुतः । ।
०७१८-१ समुद्गिरसि वाचः किं पुंस्कोकिल सुक्ॐअलाः ।
०७१८-२ श्वभ्रेस्मिञ्जडपाषाणगुरुनिर्घोषभैरवे । ।
०७२०-१ काकैः सह विवृद्धस्य कोकिलस्य कला गिरः ।
०७२०-२ खलसङ्गेपि नैष्ठुर्यं कल्याणप्रकृतेः कुतः । ।
०७२०-१ श्रोत्रोत्सवं तव कलं कलकण्ठ कोत्र
०७२०-२ नादं शृणोति रतिविग्रहसंधिदूतं ।
०७२०-३ दावाग्निदग्धघनपादपकोटरान्त-
०७२०-४ राविर्भवत्कटुरवासु वनस्थलीषु । ।
०७२१-१ मूकीमूय तमेव कोकिल मधुं बन्धुं प्रतीक्षस्व हे
०७२१-२ हेलोल्लासितमालतीपरिमलामोदानुकूलानिलं ।
०७२१-३ यत्रैतास्तव सूक्तयः सफलतामायान्त्यमी तूल्लसत्-
०७२१-४ पांसूत्तम्भभृतो निदाघदिवसाः संतापसंधायिनः । ।
०७२२-१ भ्रातः कोकिलकूजितैरलमलं नार्घन्ति यस्माद्गुणास्-
०७२२-२ तूष्णीमाःस्व विशीर्णपर्णनिचयच्छन्नः क्वचित्कोटरे ।
०७२२-३ उद्यानद्रुमवाटिकाकटुरटत्काकावलींसकुलः
०७२२-४ कालोयं शिशिरस्य संप्रति सखे नायं वसन्तोत्सवः । ।
०७२३-१ क्वचिज्झिल्लीनादः क्वचिदतुलकाकोलकलहः
०७२३-२ क्वचित्कङ्कारावः क्वचिदपि कपीनां कलकलः ।
०७२३-३ क्वचिद्धोरः फेरुध्वनिरयमहो दैवघटना
०७२३-४ कथंकारं तारं क्वणतु चकितः कोकिलयुवा । ।
०७२४-१ ... ... ... ... ... ... । ।
०७२४-२ केतकीकुसुमं भृङ्गः पीड्यमानोपि सेवते ।
०७२४-३ दोषाः किं नाम कुर्वन्ति गुणापहृतचेतसः । ।
०७२५-१ कृत्वापि कोषपानं भ्रमरयुवा पुरत एव कमलिन्याः ।
०७२५-२ अभिलषति बकुलकलिकां मधुलिहि मलिने कुतः सत्यं । ।
०७२६-१ मदनमवलोक्य निष्फलमनित्यतामपि च बन्धुजीवानां ।
०७२६-२ गुरुमुपगम्य भ्रमरः संप्रति जातो जपासक्तः । ।
०७२७-१ भ्रमर भ्रमता दिगन्तराणि
०७२७-२ क्वचिदासादितमीक्षितं श्रुतं वा ।
०७२७-३ वद सत्यमपास्य पक्षपातं
०७२७-४ यदि जातीकुसुमानुकारि पुष्पं । ।
०७२८-१ कमलं भवनं रजोङ्गरागो
०७२८-२ मधु पानं मधुराः प्रियाप्रलापाः ।
०७२८-३ शयनं मृदु केसरोपधानं
०७२८-४ भ्रमरस्याम्भसि का न राजलीला । ।
०७२९-१ पतितमुत्पतितं स्थितमक्रियं
०७२९-२ सकरुणं क्वणितं गतमागतं ।
०७२९-३ कमलिनीमलिना तुहिनाहतां
०७२९-४ नहि तदस्ति विलोक्य न यत्कृतं । ।
०७३०-१ कमलिनीमलिनी दयितं विना
०७३०-२ न सहते सह तेन निषेवितां ।
०७३०-३ तमधुना मधुना निहितं हृदि
०७३०-४ स्मरति सा रतिसारमहर्निशं । ।
०७३१-१ मदं न लिप्सेत शिलीमुखो यदि
०७३१-२ द्विपान्न कर्णाग्रनिपातमाप्नुयात् ।
०७३१-३ परोपसर्पी सुखलेशलिप्सया
०७३१-४ नरो भवत्येव पराभवास्पदं । ।
०७३२-१ मधुकर बहुशस्त्वया निरस्ताः
०७३२-२ कुसुमलतास्तृणावत्सुपुष्पिताग्राः ।
०७३२-३ फलमनुभव कण्टकावृताभ्यस्-
०७३२-४ तदिदमपत्रप केतकीलताभ्यः । ।
०७३३-१ पुल्लेषु यः कमलिनीकमलोदरेषु
०७३३-२ चूतेषु यो विलसितः कलिकान्तरस्थः ।
०७३३-३ पश्याद्य तस्य मधुपस्य शरद्व्यपाये
०७३३-४ कृच्छ्रेण वेणुविवरे दिवसाः प्रयान्ति । ।
०७३४-१ पुष्पासवं सुरभि गन्धिरजोङ्गरागः
०७३४-२ पीत्वा लतासु मधुपः कमले निषण्णः ।
०७३४-३ बद्धोधुना शशिकरैः करुणं विरौति
०७३४-४ संतोषहीनमिह कं न भजन्त्यनर्थाः । ।
०७३५-१ अन्यासु तावदुपमर्दसहासु भृङ्ग
०७३५-२ लोलं विनोदय मनः सुमनोलतासु ।
०७३५-३ नुग्धाननामरजसं कलिकामकाले
०७३५-४ बालां कदर्थयसि किं नवमालिकायाः । ।
०७३६-१ एरावणाननमदाम्बुकणावपात-
०७३६-२ संसक्ततामरसरेणुपिशङ्गिताङ्गः ।
०७३६-३ चण्डानिलाहततुषारविशीर्णपक्षः
०७३६-४ क्षीणः क्षितौ मधुकरो विवशोत्र शेते । ।
०७३७-१ सोत्कः परिभ्रमसि किं व्यवपातिधैर्यः
०७३७-२ कूजन्द्विरेफ करुणं कुसुमासवार्थी ।
०७३७-३ अन्यासु पादपलतासु धृतिं बधान
०७३७-४ भग्ना हि सा कुसुमिता सहकारवल्ली । ।
०७३८-१ स्वामोदवासितसमग्रदिगन्तराला
०७३८-२ रक्ता मनोहरमुखा सुकुमारमूर्तिः ।
०७३८-३ सेव्या सरोजकलिका तु यदैव जाता
०७३८-४ नीतस्तदैव विधिना मधुपोन्यदेशं । ।
०७३९-१ जात्युज्ज्वले मधुरक्ॐअलवाग्निलासौ
०७३९-२ द्वौ पुष्करे मधुकरौ युगपत्प्रविष्टौ ।
०७३९-३ एकस्तयोर्मधुभराकुलपूर्णदेहः
०७३९-४ कष्टे विधौ न रजसापि युतो द्वितीयः । ।
०७४०-१ मधुकरगणश्चूतं त्यक्त्वा गतो नवमालिकां
०७४०-२ पुनरपि गतो रक्ताशोकं कदम्बतरुं ततः ।
०७४०-३ तदपि सुचिरं स्थित्वा तेभ्यः प्रयाति सरोरुहं
०७४०-४ परिचितगुणद्वेषी लोको नवं नवमीहते । ।
०७४१-१ लिखितकमले सौन्दर्येण प्रकामहृतात्मना
०७४१-२ किमिव न कृतं तत्र भ्रान्त्वा मधुस्पृहयालिना ।
०७४१-३ अधिगतरसः सोभूत्तस्मान्मनागपि नाल्पधीर्-
०७४१-४ धुरि तु लिखितस्तृष्णान्धानां जनेन विवेकिना । ।
०७४२-१ भ्रमति बकुले मन्दं कुन्दे न विन्दति निर्वृतिं
०७४२-२ प्रकृतिसुरभौ रक्ताशोके न याति विशोकतां ।
०७४२-३ सुरभिकुसुमामोदोत्कण्ठापनीतमना वने
०७४२-४ वहति तनुतामङ्गे भृङ्गः स्मरन्नवमालिकां । ।
०७४३-१ स्पृशति शनकैश्चुम्बन्नङ्गैः करोति निपीडनं
०७४३-२ चरणपतनं मुद्राभेदं विधातुमपीहते ।
०७४३-३ समयमुचितं चित्तोत्सुक्यात्प्रतीक्षितुमक्षमो
०७४३-४ मधुकरयुवा पुण्यैर्लब्ध्वा नवां नवमालिकां । ।
०७४४-१ हिमोत्सन्नां दृष्ट्वा हतकमलनालां कमलिनीं
०७४४-२ द्विरेफाः संवृत्ताः सपदि गजगण्डप्रणयिनः ।
०७४४-३ अहो धिग्भूतानां प्रकृतिरियमप्रत्ययकरी
०७४४-४ न कश्चित्क्षीणार्थे प्रथमगुणगन्धं गणयति । ।
०७४५-१ किमामोदभ्रान्त्या भ्रमसि सुचिरं भृङ्ग ननु हे
०७४५-२ न जानीषे तत्त्वं प्रतपतितरां ग्रीष्मसमयः ।
०७४५-३ स्थितं शून्यं पुष्पैः प्रकटविटपं पश्य विपिनं
०७४५-४ गतः गौरभ्याढ्यः प्रकृतिसुभगश्चैत्रविभवः । ।
०७४६-१ केनाघ्रातमुदारमस्य कुसुमं कैश्चुम्बितं केसरं
०७४६-२ पीतः केन रसोस्य केन रजसा चोद्वेल्लितं केन वा ।
०७४६-३ हे हे मुग्धमधुव्रत व्रज जवादन्यांस्तरून्पुष्पिता-
०७४६-४ नुत्तालेत्र वृथैव पिप्पलतरौ किं किंचिदासाद्यते । ।
०७४७-१ प्रत्यग्रोत्र यथासुखं मधुरसः पातव्य इत्युत्सुकस्-
०७४७-२ तृष्णाविभ्रमविप्रलब्धह्र्दयस्तत्त्वावबोधं विना ।
०७४७-३ निर्विण्णोप्यफलश्रमो न विरमत्यालेख्यपद्माकरे
०७४७-४ दुर्बुद्धिर्व्यसनी तथापि मधुपस्तृष्णाशयोद्भ्राम्यति । ।
०७४८-१ यस्याः संगमवाञ्छया न गणिता वाप्यो विनिद्रोत्पला
०७४८-२ यामालिङ्ग्य समुत्सुकेन मनसा यातः परां निर्वृतिं ।
०७४८-३ भग्नां तामवलोक्य चन्दनलतां भृङ्गेण यज्जीव्यते
०७४८-४ धैर्यं नाम तदस्तु तस्य न पुनः स्नेहानुरूपं कृतं । ।
०७४९-१ येनामोदिनि केसरस्य मुकुले पीतं मधु स्वेच्छया
०७४९-२ नीता येन निशा शशाङ्कधवला पद्मोदरे शारदे ।
०७४९-३ भ्रान्तं येन मदप्रवाहमलिने गुण्डस्थले दन्तिनां
०७४९-४ सोयं भृङ्गयुवा करीरविटपे बध्नातु तुष्टिं कुतः । ।
०७५०-१ मा भून्नाम सहामुनैव निधनं दैवात्कथंचित्पुनस्-
०७५०-२ तृष्णा वा हतजीविते यदि तदा किं पुष्पशून्यं जगत् ।
०७५०-३ येनैवोन्मथितः स एव दयितः पद्माकरो निर्दयं
०७५०-४ दानाम्भःस्पृहयानुयात्यलिरहो लोलस्तमेव द्विपं । ।
०७५१-१ सोपूर्वो रसनाविपर्ययविधिस्तत्कर्णयोश्चापलं
०७५१-२ दृष्टिः सा मदविस्मृतस्वपरदिक्किं भूयसोक्तेन वा ।
०७५१-३ सर्वं निश्चितवानसि भ्रमर हे यद्वारणोद्याप्यसा-
०७५१-४ वन्तःशून्यकरो निषेव्यत इति भ्रातः क एष ग्रहः । ।
०७५२-१ रे रे भृङ्ग मदान्धवारणचलत्कर्णानिलान्दोलन-
०७५२-२ क्लेशक्लान्ततनो मुधैव भवता दुःखं किमित्यास्यते ।
०७५२-३ उत्कूजत्समदद्विरेफवलयप्यालुप्तकोशश्रियः
०७५२-४ सामोदाः प्रकटाशयाः प्रतिपदं सन्त्येव पद्माकराः । ।
०७५३-१ गन्धाढ्यां नवमालिकां मधुकरस्त्यक्त्वा गतो यूथिकां
०७५३-२ तां त्यक्त्वापि गतः स चन्दनतरुं तस्मात्सरोजं गतः ।
०७५३-३ बद्धस्तत्र निशाकरेण सुचिरं क्रन्दत्यसौ मन्दधीः
०७५३-४ संतोषेण विना पराभवशतं प्राप्नोति लुब्धो जनः । ।
०७५४-१ रात्रिर्गमिष्यति भविष्यति सुप्रभातं
०७५४-२ भास्वानुदेष्यति हसिष्यति पद्मिनी च ।
०७५४-३ एवं विचिन्तयति कोषगते द्विरेफे
०७५४-४ हा हन्त हन्त नलिनीं गज उन्ममाथ । ।
०७५५-१ भ्रमन्वनान्ते वनमञ्जरीषु
०७५५-२ न षट्पदो गन्धफलीमजिघ्रत् ।
०७५५-३ सा किं न रम्या स च किं न रन्ता
०७५५-४ बलीयसी केवलमीश्वरेच्छा । ।
०७५६-१ अङ्के वृद्धिमुपागतं शिशुतया सर्वाङ्गमालिङ्गितं
०७५६-२ मत्स्यः श्रीपरिरम्भनिर्भरतरव्याकोशकोषोन्मुखैः ।
०७५६-३ आशाप्तैः परिपीयमानमनिशं निःस्पन्दमिन्दिन्दिरैर्-
०७५६-४ दूरादेव निमेषशून्यनयनः पद्मं समुद्वीक्षते । ।
०७५७-१ जीवतो निगिरन्मत्स्यान्मुनिवद्दृश्यते बकः ।
०७५७-२ मृनानपि न गृध्रस्तु धिगाकारमुनीन्द्रतां । ।
०७५८-१ नालेनेव स्थित्वा पादेनैकेन कुञ्चितग्रीवं ।
०७५८-२ जनयति कुमुदभ्रान्तिं वृद्धबको बालमत्स्यानां । ।
०७५९-१ एष बकः सहसैव विपन्नः
०७५९-२ शाद्यमहो क्व नु तद्गतमस्य ।
०७५९-३ साधु कृतान्तक कश्चिदपि त्वां
०७५९-४ वञ्चयितुं न कुतोपि समर्थः । ।
०७६०-१ निजकुलोचितचेष्टितमात्मनो
०७६०-२ यदपहाय यियाससि हंसतां ।
०७६०-३ बक चर व्रतमेव तथापि ते
०७६०-४ फलति तत्तदिदं यततां नृणां । ।
०७६१-१ न कोलिलानामिव मञ्चु कूजितं
०७६१-२ न कब्धलास्यानि गतानि हंसवत् ।
०७६१-३ न बर्हिणानामिव चित्रपक्षता
०७६१-४ गुणस्तथाप्यस्ति बके बकव्रतं । ।
०७६२-१ तद्वेदग्ध्यं समुदितपयस्तोयतत्त्वं विवेक्तु-
०७६२-२ मालापास्ते स च मृदुपदन्यासहृद्यो विलासः ।
०७६२-३ आस्तां तावद्बक यदि तथा वेत्सि किंचिदिच्छ्लथाशं
०७६२-४ तूष्णीमेवासितुमयि सखे त्वं कथं मे न हंसः । ।
०७६३-१ कस्त्वं लोहितलोचनास्यचरणो हंसः कुतो मानसात्-
०७६३-२ किं तत्रास्ति सुवर्णपङ्कजवनान्यम्भः सुधासंनिभं ।
०७६३-३ मुक्ताशुक्तिरथास्ति शङ्खनिचयो वैदूर्यरोहाः क्वचिच्-
०७६३-४ छम्बूकाः किमु सन्ति नेति च बकैराकर्ण्य हीहीकृतं । ।
०७६४-१ तुल्यवर्णच्छदः कृष्णः कोकिलैः सह संगतः ।
०७६४-२ केन विज्ञायते काकः स्वयं यदि न भाषते । ।
०७६५-१ आत्मरुतादपि विरुतं कुर्वाणाः स्पर्धया सह मयूरैः ।
०७६५-२ किं जानन्ति वराकाः काकाः केकारवान्कर्तुं । ।
०७६६-१ कृष्णं वपुर्वहतु चुम्बतु सत्फलानि
०७६६-२ रम्येषु संचरतु चूतवनान्तरेषु ।
०७६६-३ पुंस्कोकिलस्य चरितानि करोतु नाम
०७६६-४ काकः किल ध्वनिविधौ ननु काक एव । ।
०७६७-१ संप्राप्य कोकिलकुलैः कमनीयकान्तिः
०७६७-२ कान्तस्वरैरपि बलात्खलु संनिकर्षं ।
०७६७-३ वैधुर्यभाजि हतवेधसि किं वराकः
०७६७-४ काकः करोत्वनुकृतिं न ययौ यदेषां । ।
०७६८-१ इयं पल्ली भिल्लैरनुचितसमारम्भरसिकैः
०७६८-२ समन्तादाक्रान्ता विषविषमबाणप्रणयिभिः ।
०७६८-३ तरोरस्य स्कन्धे गमय समयं कीर निभृतं
०७६८-४ न वाणी कल्याणी तदिहमुखमुद्रैव शरणं । ।
०७६९-१ काति मुखगृहीतं भुक्तशेषं पुरीषं
०७६९-२ विलिखति चरणाग्रैर्देवतानां शिरांसि ।
०७६९-३ व्रजति च हतमानः साधुमूर्धस्वशङ्कः
०७६९-४ किमिव न कुरुते खं प्राप्य काको वराकः । ।
०७७०-१ दौर्भाग्यं वचसां तनोर्मलिनता चेष्टास्वहो चापलं
०७७०-२ शङ्कायास्तदुपज्ञतैव विदिता वृत्तिस्त्ववाच्यैव सा ।
०७७०-३ इत्थं दृष्कृतशाखिनः फलमिव स्फीतं तथाप्यातुरः
०७७०-४ काकः कोकिललाञ्छनच्छविरुचा कष्टं मुहुर्मूर्छति । ।
०७७१-१ नृत्यन्तः शिखिनो मनोहरममी श्रव्यं पठन्तः शुका
०७७१-२ वीक्ष्यन्ते न त एव खल्विह रुषा वार्यन्त एवाथवा ।
०७७१-३ पान्थस्त्रीगृहमिष्टलाभकथनाल्लब्धान्वयेनामुना
०७७१-४ संप्रत्येतदनर्गलं बलिभुजा मायाविना भुज्यते । ।
०७७२-१ रे रे ध्वाङ्क्ष विरूक्षतास्तु वचसः काणाक्षिता क्षम्यते
०७७२-२ लौल्यं नाम तवेति कात्र गणना भाण्ड्यं विभूषैव ते ।
०७७२-३ सर्वं सोढमिदं स्वभावविहितं वह्नेरिवौष्ण्यं हि ते
०७७२-४ यत्त्वेवं विगुणस्य कापि भवतो ग्रीवा न तत्सह्यते । ।
०७७३-१ काकः कोकिलमुन्नमय्य कुरुते चूते फलास्वादनं
०७७३-२ भुङ्क्ते राजशुकं निवार्य कुररः क्रीडापरो दाडिमं ।
०७७३-३ धूको बर्हिणमस्य शाखिशिखरे शेते सजानिः सुखं
०७७३-४ हा जातं विपरीतमद्य विपिने श्येने परोक्षं गते । ।
०७७४-१ किं केकीव शिखण्डमण्डिततनुः किं कीरवत्पाठकः
०७७४-२ किं पुंस्कोकिलवत्स्वनेन मधुरः किं हंसवत्सद्गतिः ।
०७७४-३ किं सामान्यशकुन्तशावक इव क्रीडाविनोदाकरः
०७७४-४ काकः केन गुणेन काञ्चनमये व्यापारितः पञ्जरे । ।
०७७५-१ उत्पत्तिर्मरुतां प्रभोर्युगदिने प्रख्याप्यविश्वोत्सवे
०७७५-२ पुण्याहश्रुतिषु प्रसिद्धिरधिका पूर्णं वयः पौरुषं ।
०७७५-३ काकुत्स्थेन समं सपत्नकलहो दैवज्ञता तादृशी
०७७५-४ काकस्तेन गुणेन काञ्चनमये व्यापारितः पञ्जरे । ।
०७७६-१ आद्यः प्रवेशसमयः स कलेर्युगस्य
०७७६-२ प्राप्तस्तिरस्कृतबहूदकहंससार्थः ।
०७७६-३ आहूये सादरतया तपसोन्तिमोह्नि
०७७६-४ काणो द्विजः प्रतिगृहं बत यत्र पूज्यः । ।
०७७७-१ सूर्य्दन्यत्र यच्चन्द्रेप्यर्थसंस्पर्शि तत्कृतं ।
०७७७-२ खद्योत इति कीटस्य नाम तुष्टेन केनचित् । ।
०७७८-१ घनसंतमसमलीमसदशदिशि निशि यद्विराजसि तदन्यत् ।
०७७८-२ कीटमणे दिनमधुना तराणिकरान्तरितचारुसितकिरणं । ।
०७७९-१ जर्जरतृणाग्रमदहन्सर्षपकणमप्रकायन्नूनं ।
०७७९-२ कीटत्वमात्मतन्त्रः खद्योतः ख्यापयन्भाति । ।
०७८०-१ भ्राजिष्णवो नभसि भूरिहृतान्धकार-
०७८०-२ स्वल्पप्रभाः स्वतनुमात्रनिबद्धभासः ।
०७८०-३ खद्योतकाः प्रकटतीव्रगुरुप्रभावास्-
०७८०-४ तावन्न सप्ततुरगः समुदेति यावत् । ।
०७८१-१ युष्मादृशः कृपणकाः क्रिमयोपि यस्यां
०७८१-२ भान्ति स्म संतमसमय्यगमन्निशासौ ।
०७८१-३ सूर्यांशुदीप्रदशदिग्दिवसोधुनायं
०७८१-४ भात्यत्र नेन्दुरपि कीटमणे किमु त्वं । ।
०७८२-१ इन्दुः प्रयास्यति विनङ्क्ष्यति तारकश्रीः
०७८२-२ स्थास्यन्ति लीढतिमिरा न मणिप्रदीपाः ।
०७८२-३ अन्धं समग्रमपि कीटमणे भविष्य-
०७८२-४ दुन्मेषमेष्यति भवानिति दूरमेतत् । ।
०७८३-१ सत्त्वान्तः स्फुरिताय वा कृतगुणाद्यारोपतुच्छाय वा
०७८३-२ तस्मै कातरमोहनाय महसो लेशाय मा स्वस्ति भूत् ।
०७८३-३ यच्छायास्फुरणारुणेन खचता खद्योतनाम्नामुना
०७८३-४ कीटेनाहितयापि जङ्गममणिभ्रान्त्या विडम्ब्यामहे । ।
०७८४-१ प्रत्यग्रैः पर्णनिचयैस्तरुर्यैरेव शोभितः ।
०७८४-२ जहाति जीर्णांस्तानेव किं वा चित्रं कुजन्मनः । ।
०७८५-१ यथापल्लवपुष्पाढ्या यथापुष्पफलर्द्धयः ।
०७८५-२ यथाफलर्द्धिस्वारोहा हा मातः क्वागमन्द्रुमाः । ।
०७८६-१ साध्वेव तद्विधावस्य वेधाः क्लिष्टो न यन्मुधा ।
०७८६-२ स्वरूपाननुरूपेण चन्दनस्य फलेन किं । ।
०७८७-१ मया बदरलुब्धेन वृक्षाणामनभिज्ञया
०७८७-२ वने कण्टकसादृश्यात्खदिरः पर्युपासितः । ।
०७८८-१ महातरुर्वा भवति समूलो वा विनश्यति ।
०७८८-२ नाङ्कुरप्रक्रियामेति न्यग्रोधकणिकाङ्कुरः । ।
०७८९-१ पुष्पपत्त्रफलच्छायामूलवल्कलदारुभिः ।
०७८९-२ धन्या महीरुहा येषां विमुखा यान्ति नार्थिनः । ।
०७९०-१ पतत्यङ्गारवर्षे वा वाति वा प्रलयानिले ।
०७९०-२ तालः स्तब्धतयारब्धस्तयैव सह नश्यति । ।
०७९१-१ छायावन्तो गतव्यालाः स्वारोहाः फलदायिनः ।
०७९१-२ मार्गद्रुमा महान्तश्च परेषामेव भूतये । ।
०७९२-१ अगतीनां खलीकाराद्दुःखं नैवोपजायते ।
०७९२-२ भवन्त्यशोकाः प्रायेण साङ्कुराः पादताडिताः । ।
०७९३-१ यद्यपि चन्दनविटपी विधिना फलकुसुमवर्जितो विहितः ।
०७९३-२ निजवपुषैव परेषां तथापि संतापमपहरति । ।
०७९४-१ प्राप्ते वसन्तमासे वृद्धिं प्राप्नोति सकलवनराजिनः ।
०७९४-२ यन्न करीरे पत्त्रं तत्किं दोषो वसन्तस्य । ।
०७९५-१ फलितघनविटपविघटितपटुदिनकरमहसि लसति कल्पतरौ ।
०७९५-२ छायार्थी कः पशुरपि भवति जरद्वीरुधां प्रणयी । ।
०७९६-१ फलकुसुमकिसलयोज्ज्वलविटपशतान्तरिततरणिकिरणौघे ।
०७९६-२ मार्गतरौ निकटस्थे कः पथिकः क्लान्तिमनुभवति । ।
०७९७-१ दूरीकृतस्वार्थलवा जनस्य
०७९७-२ समुद्यता ये भुवि तापशान्त्यै ।
०७९७-३ द्रुमास्त एवागतिका न विद्मः
०७९७-४ प्रजापतेराशयलेशमत्र । ।
०७९८-१ चन्दने विषधरान्सहामहे
०७९८-२ वस्तु सुन्दरमगुप्तिमत्कुतः ।
०७९८-३ रक्षितुं वद किमात्मसौष्ठवं
०७९८-४ संचिताः खदिर कण्टकास्त्वया । ।
०७९९-१ ग्रथित एष मिथः कृतशृङ्खलो-
०७९९-२ विषधरैरधिरुह्य महाजडः ।
०७९९-३ मलयजः सुमनोभिरनाश्रितो
०७९९-४ यदत एव फलेन न युज्यते । ।
०८००-१ यत्किंचनानुचितमप्युचितानुबन्धि
०८००-२ किं चन्दनस्य न कृतं कुसुमं फलं वा ।
०८००-३ लज्जामहे भृशमपक्रम एव यातुस्-
०८००-४ तस्यान्तिकं परिगृहीतबृहत्कुठारः । ।
०८०१-१ हे बालचम्पकतरो तरुणीकपोल-
०८०१-२ लावण्यचुम्बनसुखोचितचारुपुष्प ।
०८०१-३ किं पुष्पितेन विजहीह विकासहास-
०८०१-४ मुद्दामपामरगणा मरुभूमिरेषा । ।
०८०२-१ अन्तःप्रतप्तमरुसैकतदह्यमान-
०८०२-२ मूलस्य चम्पकतरोः क्व विकासचिन्ता ।
०८०२-३ प्रायो भवत्यनुचितस्थितिदेशभाजां
०८०२-४ श्रेयः स्वजीवपरिपालनमात्रमेव । ।
०८०३-१ दौर्जन्यमात्मनि परं प्रथितं विधात्रा
०८०३-२ भूर्जद्रुमस्य विफलत्वसमर्पणेन ।
०८०३-३ किं चर्मभिर्निशितशस्त्रशतावकृत्तैर्-
०८०३-४ आशां न पूरयति सोर्थिपरम्पराणां । ।
०८०३-५ किं कण्टकैकरसिकेन फलद्विषा किं
०८०३-६ वैरस्यसीमनि किमु स्थिरकौतुकेन ।
०८०३-७ छायाविलासविमुखेन सतां किमङ्ग
०८०३-८ छात्रा खलेन खदिरद्रुम एष सृष्टः । ।
०८०५-१ लब्धं चिरादमृतवत्किममृत्यवे स्याद्-
०८०५-२ दीर्घं रसायनवदायुरुत प्रदद्यात् ।
०८०५-३ एतत्फलं यदयमध्वगशापदग्धः
०८०५-४ स्तब्धः फलं फलति वर्षशतेन तालः । ।
०८०६-१ हे वृक्ष शोभित महाफलभारलक्ष्म्या
०८०६-२ क्षुत्तापशान्तिजनकैकजगत्प्रसिद्ध ।
०८०६-३ त्वत्तो मया कथमपीदमधो निरस्तम्-
०८०६-४ एकं फलं शकुनिखण्डितमल्पमाप्तं । ।
०८०७-१ अत्यन्तशीतलतया सुभगस्वभाव
०८०७-२ सत्यं न कश्चिदपि ते तरुरस्ति तुल्यः ।
०८०७-३ छायार्थिनामपि पुनर्विकटद्विजिह्व-
०८०७-४ सङ्गेन चन्दन विषद्रुमनिर्विशेषः । ।
०८०८-१ कथमियति वनान्ते कश्चिदेको न तादृग्-
०८०८-२ वरवनतरुरुच्चैः पुष्पवल्लीफलाढ्यः ।
०८०८-३ जगदसुखविधातुर्दग्धधातुर्नियोगाद्-
०८०८-४ धवखदिरपलाशाः केवलं वृद्धिभाजः । ।
०८०९-१ शाखासंततिसंनिरुद्धगगनाभोगस्य लब्ध्वा तरोश्-
०८०९-२ छायां यस्य भविद्भिरेव शमिता घर्मापदोनेकशः ।
०८०९-३ भोः पान्था ननु दृश्यतां विधिगतिस्तस्यैव कालक्षय-
०८०९-४ प्रक्षीणस्य तलेद्य तप्तसिकताङ्गारैवः परं दह्यते । ।
०८१०-१ चित्रैर्यस्य पतित्त्रिभिर्दशदिशो भ्रान्त्वा समेतैः सुखं
०८१०-२ विश्रान्तं शयितं प्रभुक्तमुषितं स्कन्धे फलैः प्रश्रिते ।
०८१०-३ तस्यैवोन्मथितस्य दुष्टकरिणा मार्गद्रुमस्याधुना
०८१०-४ कारीषाय कषन्ति शोषपरुषां गोपालबालास्त्वचं । ।
०८११-१ संतोषः किमशक्तता किमथवा तस्मिन्नसंभावना
०८११-२ शोभैवाथ च काननिस्थितिरियं प्रद्वेष एवाथवा ।
०८११-३ आस्तां खल्वनुरूपया सफलया पुष्पश्रिया दुर्विधे
०८११-४ संबन्धोननुरूपयापि न कृतः किं चन्दनस्य त्वया । ।
०८१२-१ सन्मूलः प्रथिन्नतिर्घनलसच्छायः स्थितः सत्पथे
०८१२-२ सेव्यः सद्भिरितीदमाकलयता तालोध्वगेनाश्रितः ।
०८१२-३ पुंसः शक्तिरियत्यसौ स तु फलेदद्याथवा श्वोथवा
०८१२-४ काले क्वाप्यथवा कदाचिदथवा नेत्यत्र वेधाः प्रभुः । ।
०८१३-१ यज्जातोसि चतुष्पथे घनलसच्छायोसि किं छायया
०८१३-२ संयुक्तः फलितोसि किं यदि फलैः पूर्णोसि किं संनतः ।
०८१३-३ हे सद्वृक्ष सहस्व संप्रति सखे शाखाशिखाकर्षण-
०८१३-४ क्षोभामोटनभञ्जनानि जनतः स्वैरेव दुश्चोष्टितैः । ।
०८१४-१ सुस्कन्धस्य विसारिसौरभगुणाक्रान्ताखिलाशस्य ते
०८१४-२ तन्वीचारुपयोधरान्तरकृतस्पर्शस्य गोप्याकृतेः ।
०८१४-३ दोषः कोपि भुजंगसंगमकृतः प्रोद्गूत एषोधुना
०८१४-४ येन त्वां परिहृत्य चन्दनतरो यान्त्यध्वगा दूरतः । ।
०८१५-१ छिन्नस्तप्तसुहृत्स चन्दनतरुर्यूयं पलाय्यागता
०८१५-२ भोगाभ्याससुखासिकाः प्रतिदिनं ता विस्मृतास्तत्र वः ।
०८१५-३ दंष्ट्राकोटिविषोल्कया प्रतिकृतं तस्य प्रहर्तुर्न चेत्-
०८१५-४ किं तेनैव सह स्वयं न निधनं याताःस्थ भो भोगिनः । ।
०८१६-१ त्वन्मूले पुरुषायुषं गतमिदं कालेन संशष्यतां
०८१६-२ क्सोदीयांसमपि क्षणं परमतः शक्तिः कुतः प्राणितुं ।
०८१६-३ तत्स्वस्त्यस्तु विवृद्धिमेहि महतीमद्यापि का नस्त्वरा
०८१६-४ कल्याणैः फलितासि तालविटपिन्पुत्रेषु पौत्रेषु वा । ।
०८१७-१ छायास्यैव घनासुगन्धिरयमेवापन्नतापच्छिदा-
०८१७-२ मग्रेस्यैव गुणग्रहः सगुणता किं चन्दनस्योच्यतां ।
०८१७-३ आ मूलात्पुनरेषु बद्धवृतिभिर्व्यालैस्तथा दूषितो
०८१७-४ जाने येन वरं धवोथ खदिरोप्यन्योथवा न त्वयं । ।
०८१८-१ न श्लाष्यानि फलानि पल्लवकृता छाया न वाञ्छापि सा
०८१८-२ नो पुष्पं सुमनोहरं न विहगाः शब्दामृतस्यन्दिनः ।
०८१८-३ काकव्रातपुरीषनिर्भरजरन्मूर्तेरशुद्धात्मनो
०८१८-४ निःस्तब्धस्य तरोरधः कथमहो सृष्टोसि दुर्वेधसा । ।
०८१९-१ नास्य स्वादुफलं न चारु कुसुमं न स्निग्धपर्णा लता
०८१९-२ न च्छाया क्लमहारिणी न च कलक्वाणास्तथा पत्रिणः ।
०८१९-३ एषोसौ खदिरदुमः किमथवा पान्थेन दृष्टस्त्वया
०८१९-४ तत्किं पान्थ कठोरकण्टकमुखैर्गात्रक्षतार्थी भवान् । ।
०८२०-१ स्निग्धाः पल्लविनः प्रकामविटपव्याविद्धचण्डातपा
०८२०-२ नम्राः स्वादुफला समाश्रितजनक्षुत्तापविच्छेदिनः ।
०८२०-३ दग्धास्ते तरवः प्रयान्तु पथिकास्तेष्वेव मार्गेष्वमी
०८२०-४ रूक्षाः काण्टकिनः ससर्पविवरा भूयः प्ररूढा द्रुमाः । ।
०८२१-१ छाया नात्मन एव या कथमसावन्यस्य निष्प्रग्रहा
०८२१-२ ग्रीष्मोष्मापदि शीतलस्तलभूवि स्पन्दोनिलादेः कुतः ।
०८२१-३ वार्ता वर्षशते गते किल फलं भावीति वार्तैव सा
०८२१-४ द्राघिम्णा मुषिताः कियच्चिरमहो तालेन बाला वयं । ।
०८२२-१ कस्त्वं भोः कथयामि दैवहतकं मां विद्धि शाहोटकं
०८२२-२ वैराग्यादिव वक्षि साधु विदितं कस्मादिदं कथ्यते ।
०८२२-३ वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते
०८२२-४ न च्छायापि परोपकारकृतये मार्गस्थितस्यापि से । ।
०८२३-१ आमोदैर्मरुतो मृगाः किसलयैर्लम्बैस्त्वचा तापसाः
०८२३-२ पुष्पैः षट्चरणाः फलैः शकुनयो घर्मार्दिताश्छायया ।
०८२३-३ स्कन्धैर्गन्धगजाश्च विश्रमरुजाः शश्वद्विभक्तास्त्वया
०८२३-४ प्राप्तस्त्वं द्रुम बोधिसत्त्वपदवीं सत्यं कुजाताः परे । ।
०८२४-१ भ्राम्यद्भृङ्गभरावनम्रकुसुमच्योतन्मधूद्गन्धिषु
०८२४-२ च्छायावत्सु तलेषु पान्थनिवहा विश्रम्य गेहेष्विव ।
०८२४-३ नित्यं निर्झरवारिवारिततृषस्तृप्यन्ति येषां फलैस्-
०८२४-४ ते नन्दन्तु फलन्तु यान्तु च परामत्युन्नतिं पादपाः । ।
०८२५-१ हे हे मण्डितमार्ग मार्गविटपिञ्जीव्याः समाः शाश्वतीर्-
०८२५-२ अद्याप्यावृणु दिक्तटानि विटपैः सालैश्चुचुम्बाम्बरं ।
०८२५-३ मूले विश्रमणाशयैव लुठिता यन्न त्वया केवलं
०८२५-४ घर्मार्तेः परिमोचिताः फलशतैर्यावद्वयं तर्पिताः । ।
०८२६-१ वृद्धिर्यस्य तरोर्मनोरथशतैराशावता प्रार्थिता
०८२६-२ जातोसौ सरसः प्रवासिफलदः सर्वाश्रितापाश्रयः ।
०८२६-३ नानादेशसमागतैरविदितैराक्रान्तमन्यैः खगैस्-
०८२६-४ तं लब्धावसरोपि वृद्धशकुनिर्दूरे स्थितो वीक्षते । ।
०८२७-१ दावाग्निप्लोषदुःखं खरपवनजलक्लेशमर्काच्च तापं
०८२७-२ मातङ्गाकर्षणानि व्यसनमपि गुरु प्राप्तवन्तोपि वज्रात् ।
०८२७-३ दारुच्छायाफलानि त्वचमपि कुसुमं मञ्जरीः पल्लवान्वा
०८२७-४ नार्थिभ्यो वारयन्ति प्रतिदिवसमहो साधु वृत्तं तरूणां । ।
०८२८-१ हंसाः पद्मवनाशया बलिभुजो गृध्राश्च मांसाशया
०८२८-२ पान्थाः स्वादुफलाशया मधुलिहः सौरभ्यगन्धाशया ।
०८२८-३ दूरान्निष्फलरक्तपुष्पनिचयैर्निःसार रथ्योन्नते
०८२८-४ रे रे शल्मलिपादप प्रतिदिनं के न त्वया वञ्चिताः । ।
०८२९-१ भ्रातर्भीममरुभ्रम्श्रमशमव्यापारपारंगमं
०८२९-२ मत्वा चन्दनपादपं पथिक मा विश्रान्तये शिश्रियः ।
०८२९-३ एतस्यान्तिकवर्तिभिर्घनविषज्वालावलीबीषणैर्-
०८२९-४ आश्वास्य स्मृतिशेषतां विषधरैर्नींतः कियन्तोध्वगाः । ।
०८३०-१ उच्चैर्यो मधुपानलुब्धमनसां भृङ्गाङ्गनानां गणैर्-
०८३०-२ उद्गीतो रचितालयः खगकुलैर्देशान्तरादागतैः ।
०८३०-३ आसीद्यश्व निषेवितोध्वगशतैर्ग्रीष्मोष्मतान्तिच्छिदे
०८३०-४ सोयं संप्रति दुर्मदेन दलितश्छायातरुर्दन्तिना । ।
०८३१-१ भुक्तं स्वादुफलं कृतं च शयनं शाखाग्रजैः पल्लवैस्-
०८३१-२ त्वच्छायापरिशीतलं च सलिलं पीतं विनीतः क्लमः ।
०८३१-३ विश्रान्तं सुचिरं ततोपि मनसा प्राप्ता परा निर्वृतिस्-
०८३१-४ त्वं सन्मार्गतरुर्वयं च पथिका भूयास्पुनः संगमः । ।
०८३२-१ अस्त्येव भूभृतां मूर्ध्नि दिवि वा द्योततेम्बुदः ।
०८३२-२ मरुद्भिर्भुज्यमानोपि स किमेति रसातलं । ।
०८३३-१ अम्बुदः कृतपदो नभस्तले
०८३३-२ तोयपूरपरिपूरितोदधिः ।
०८३३-३ गोष्पदस्य भरणेप्यशक्तिमान्-
०८३३-४ इत्यसत्यमभिदीयते कथं । ।
०८३४-१ एतदत्र पथिकैकजीवितं
०८३४-२ पश्य शुष्यति कथं महत्सरः ।
०८३४-३ धिङ्मुधाम्बुधर रुद्धसद्गतिर्-
०८३४-४ वर्धिता किमिह हट्टवाहिनी । ।
०८३५-१ स्वार्थानपेक्षं जनतापशान्त्यै
०८३५-२ नित्योदिताः सन्ति पय्ॐउच्ॐई ।
०८३५-३ विवर्षिणस्तानवगृह्णते ये
०८३५-४ सन्त्येव ते केपि महानुभावाः । ।
०८३६-१ क्व दृष्टमन्धेन बलाहकेन
०८३६-२ घ्रातुं गवा यन्न तृणं निघृष्टं ।
०८३६-३ महातरुर्बन्धुरिवाध्वगाना-
०८३६-४ मायात्ववश्यायकणैर्दरिद्रः । ।
०८३७-१ उत्तुङ्गशैलशिखराश्रयणेन केचिद्-
०८३७-२ उद्दामवीचिवलिताः सरितो भवन्ति ।
०८३७-३ अन्ये पुनर्जलकणास्तृणलोष्टपाता-
०८३७-४ दम्भ्ॐउचां पयसि न क्षयमान्पुवन्ति । ।
०८३८-१ यत्रोषितोसि चिरकालमकिंचनः सन्-
०८३८-२ नर्णःप्रतिग्रहधनग्रहणाधमर्णः ।
०८३८-३ निर्लज्ज गर्जसि समुद्रतटेपि तत्र
०८३८-४ धृष्टोधमस्तव समो घन नैव दृष्टः । ।
०८३९-१ आस्यं निरस्य रसितैः सुचिरं विहस्य
०८३९-२ गात्रान्तरेषु घन वर्षसि चातकस्य ।
०८३९-३ तच्चञ्चुकोटिकुटिलायतकंधरस्य
०८३९-४ प्राणात्ययोस्य भवतः परिहासमात्रं । ।
०८४०-१ आक्रम्योच्चैः शिरसि वसतिर्भूभृतामुन्नतानां
०८४०-२ तोयादानां तदपि जलधेर्लोकसंतापशान्त्यै ।
०८४०-३ दीर्घा छाया प्रकृतिमहति व्य्ॐनि चाभोगबन्धो
०८४०-४ हे हे मेघ स्पृहयति न ते कः किलेत्थं व्रताय । ।
०८४१-१ आक्रम्योच्चैः शिरसि वसतिर्भूभृतामुन्नतानां
०८४१-२ तोयादानं तदपि जलधेर्लोकसंतापशान्त्यै ।
०८४१-३ दीर्घा छाया प्रकृतिमहति व्य्ॐनि चाभोगबन्धो
०८४१-४ हे हे मेघ स्पृहयति न ते कः किलेत्थं व्रताय । ।
०८४२-१ साधूत्पातघनौघ साधु सुधियां धेयं धरायामिदं
०८४२-२ कोन्यः कर्तुमलं तवैव घटते कर्मेदृशं दुष्करं ।
०८४२-३ सर्वस्यौपयिकानि यानि कतिचित्क्षेत्राणि तत्राशनिः
०८४२-४ सर्वानौपयिकेषु दग्धसिकतारण्येष्वपां वृष्टयः । ।
०८४३-१ भेकैः कोटरशायिभिर्मृतमिव क्ष्मान्तर्गतं कच्छपैः
०८४३-२ पाठीनैः पृथुपङ्ककूटलुठितैर्यस्मिन्मुहुर्मूर्छितं ।
०८४३-३ तस्मिञ्छुष्कसरस्यकालजलदेनागत्य तच्चेष्टितं
०८४३-४ येना कण्ठनिमग्नवन्यकरिणां यूथैः पयः पीयते । ।
०८४४-१ यद्भूभृतो लघुगुणैरपि बद्धमूलम्-
०८४४-२ आपादितानि सहसैव तृणैः शिरांसि ।
०८४४-३ अम्भ्ॐउचः प्रचुरवर्षविशृङ्खलस्य
०८४४-४ तच्चेष्टितं दुरवधारगतेर्जलस्य । ।
०८४५-१ कृछ्राद्दत्ते विरलविरलान्वारिबिन्दून्प्रवृद्धो
०८४५-२ गर्जत्येकः सरभसतरं पश्य तन्मात्रलाभात् ।
०८४५-३ नृत्यत्यन्योप्यतुलमहिमश्लाघ्यभूमिर्न जाने
०८४५-४ मध्यादाभ्यां विपुलहृदयश्चातकः किं नु मेघः । ।
०८४६-१ गतास्ते जीमूताः स्फुरदलिकुलश्यामवपुषः
०८४६-२ श्रिया येषां लोके स्थलजलविभागोप्यपहृतः ।
०८४६-३ वृथा तृष्णान्धः किं भ्रमसि विधुरश्चातकशिशो
०८४६-४ शरज्जीमूतोयं कुत इह पयोबिन्दुरपि ते । ।
०८४७-१ पश्यामः किमयं विचेष्टत इति स्वल्पाभ्रसिद्धिक्रियैर्-
०८४७-२ दर्पाद्दूरमुपेक्षितेन बलवत्कर्मेरितैर्मन्त्रिभिः ।
०८४७-३ लब्धात्मप्रसरेण रक्षितुमथाशक्येन मुक्त्वाशनिं
०८४७-४ स्फीतस्तावदहो घनेन रिपुणा दग्धो गिरिग्रामकः । ।
०८४८-१ गर्जित्वा बहु संनिरुध्य गगनं प्रच्छाद्य दिङ्मण्डलं
०८४८-२ संपाद्योद्दलितेन्द्रनीलशकलश्यामाभिरामं वपुः ।
०८४८-३ प्राप्ते वारिधरागमेपि सलिलं तत्त्यक्तमम्भ्ॐउचा
०८४८-४ चञ्चूश्रातकपोतकस्य सकला सिक्ता न येन स्वयं । ।
०८४९-१ अत्रोत्पातघनेन मन्त्रिविकले शून्याम्बरव्यापिना
०८४९-२ धृष्टस्वप्रकृतिक्रियासमुचिते ग्रामे तथा जृम्भितं ।
०८४९-३ रथ्याकर्दमवाहिनामतिशुचिस्वच्छात्मनामन्तरं
०८४९-४ नाप्यज्ञायि जनैर्यथौघपयसां स्त्रोतोजलानामपि । ।
०८५०-१ रे मेघाः स्वशरीरदानगुरु किं बौद्धं यशो न श्रुतं
०८५०-२ यष्माभिः किमु पारिजातचरितं नाकर्णितं वा क्वचित् ।
०८५०-३ येनैतत्सुखलभ्यमम्बु ददतां युष्माकमुद्गर्जतां
०८५०-४ नो लज्जाप्यभिजायतेतिरभसाद्व्य्ॐन्युद्धतं धावतां । ।
०८५१-१ स्थाने वर्षति नैव गर्जति वृथा क्लान्तिं हरत्यञ्जसा
०८५१-२ क्षेत्राणां परितापजर्जररुचां क्षेमंकरः क्ष्मातले ।
०८५१-३ यद्यद्भद्रकसान्द्रतां हृदि दधात्यन्यत्करोत्युल्लस-
०८५१-४ न्सन्मेघोयममोघदर्शनघनस्निग्धच्छविर्वर्धतां । ।
०८५२-१ नो गर्जत्यम्बुराशिस्त्रिजगदधिपतिप्रार्थितार्थप्रदान-
०८५२-२ व्यापार्स्फीतकीर्तिः स्फुरदन्लशिखानर्घरत्नैकपूर्णः ।
०८५२-३ तत्तोयस्तोकमात्रव्यपहृतविकृतिः प्राकृतोयं प्रकृत्या
०८५२-४ शून्ये क्षिप्त्वाम्बु गर्जत्यगणितनिधनो वारिवाहः सगर्वं । ।
०८५३-१ न पालयति मर्यादां वेलाख्यामम्बुधिस्तथा ।
०८५३-२ तृष्यतां नोपकर्तव्यमितीमामपरां यथा । ।
०८५४-१ गवादीनां पयोन्येद्युः सद्यो वा दधि जायते ।
०८५४-२ क्षीरोदधेस्तु नाद्यापि महतां विकृतिः कुतः । ।
०८५५-१ यद्यपि स्वच्छभावेन दर्शयत्युदधिर्मणीन् ।
०८५५-२ तथापि जानुदघ्नोयमिति चेतसि मा कृथाः । ।
०८५६-१ यस्याम्बुकणिकाप्यास्ये न पतत्यर्थीनां क्वचित् ।
०८५६-२ कष्टमम्भोनिधिः सोपि नदीन इति कथ्यते । ।
०८५७-१ यातु नाशं समुद्रस्य महिमा स भुवि श्रुतः ।
०८५७-२ वाडवः क्षुत्पिपासार्तो येनैकोपि न तर्पितः । ।
०८५८-१ अमृतरसविसरावितरणमरणोत्तारितसुरे सति पयोधौ ।
०८५८-२ कस्य स्फुरन्ति हृदये ग्रीष्मतडाका भुवि वराकाः । ।
०८५९-१ यदयं शशिशेखरो हरो
०८५९-२ हरिरप्येष यदीशिता श्रियः ।
०८५९-३ अमरा अपि यत्सुरा अमी
०८५९-४ तदिमास्तस्य विभूतिविप्रुषः । ।
०८६०-१ क्षारतैव हि गुणस्तथास्ति ते
०८६०-२ येन न व्रजति कश्चिदन्तिकं ।
०८६०-३ भीषणाकृति बिभर्षि यादसां
०८६०-४ चक्रमर्णव किमर्थमग्रतः । ।
०८६१-१ अपास्य लक्ष्मीहरणोत्थवैरिता-
०८६१-२ मचिन्तयित्वा च तदद्रिमन्थनं ।
०८६१-३ ददौ निवासं हरये महोदधिर्-
०८६१-४ विमत्सरा धीरधियां हि वृत्तयः । ।
०८६२-१ जितेन्दुभासो नयतां मणिनधस्-
०८६२-२ तृणानि मूर्ध्ना बिभृतां जलेश्वरः ।
०८६२-३ प्रभोर्न कश्चित्प्रभुरस्ति तत्त्वतो
०८६२-४ रत्नानि रत्नानि तृणं तृणं पुनः । ।
०८६३-१ ग्रीष्मं द्विषन्तु जलदागमर्थयन्तां
०८६३-२ ते संकटप्रकृतयः कृपणास्तडागाः ।
०८६३-३ अब्धेस्तु मुग्धशफरीचटुलाचलेन्द्र-
०८६३-४ निष्कम्पकुक्षिपयसो द्वयमप्यचिन्त्यं । ।
०८६४-१ ग्रावाणो मणयो हरिर्जलचरो लक्ष्मीः पय्ॐआनुषी
०८६४-२ मुक्तौघः सिकता प्रवाललतिकाः शेवालमम्भः सुधा ।
०८६४-३ तीरे कल्पमहीरुहाः किमपरं नामापि रत्नाकरो
०८६४-४ दूरात्कर्णरसायनं निकटतस्तृष्नापि नो शाम्यति । ।
०८६५-१ आस्तां क्लमापहरणं जलधेर्जलेन
०८६५-२ दूरे दवाग्निपरिदीपितमानसानां ।
०८६५-३ एतावदस्तु यदि तोयकणैर्न जिह्वा
०८६५-४ दन्दह्यते द्विगुणतां च न याति तृष्णा । ।
०८६६-१ रत्नान्यमूनि मकरालय मावमंस्थाः
०८६६-२ कल्लोलवेल्लितदृषत्परुषप्रहारैः ।
०८६६-३ किं कौस्तुभेन विहितो भवतो न नाम
०८६६-४ याञ्चाप्रसारितकरः पुरुषोत्तमोपि । ।
०८६७-१ लज्जामहे वयमहो भृशमप्यनेके
०८६७-२ सांयात्रिकाः सलिलराशिममी विशान्ति ।
०८६७-३ स्कन्धाधिरोपिततदीयतटोपकण्ठ-
०८६७-४ कौलेयकाम्बुदृतयो यदुदीर्णतृष्णाः । ।
०८६८-१ आ स्त्रीशिशुप्रथितयैष पिपासितेभ्यः
०८६८-२ संरक्ष्यतेम्बुधिरपेयतयैव दूरात् ।
०८६८-३ दृष्ट्वा करालमकरालिकरालिताभिः
०८६८-४ किं भाययस्यपरमूर्मिपरम्पराभिः । ।
०८६९-१ धिग्धिग्धिगम्बुधिममी निरपत्रपस्य
०८६९-२ यस्याध्वगा मरुभुवीव नितान्ततान्ताः ।
०८६९-३ तृड्दाहशुष्कगलनिर्गतदीर्घजिह्वा
०८६९-४ दीना विवर्तितदृशोनुतटं प्रयान्ति । ।
०८७०-१ निर्मथ्यते यदि सुरासुरसैन्यसंघैर्-
०८७०-२ आपूर्यते यदि जलैर्जलदापगाभिः ।
०८७०-३ पेपीयते च वडवामुखवह्निना चेन्-
०८७०-४ न क्षुभ्यति स्म जलधिर्न तनुत्वमेति । ।
०८७१-१ मैनाकादिभिरद्रिभिर्मघवतः संत्रस्य यत्रास्यते
०८७१-२ चण्डार्चिर्भगवानुदेति च यतो यत्रास्तमभ्येति च ।
०८७१-३ शेते क्वापि निलीय यस्य जगतां कुक्ष्येकदेशे पतिर्-
०८७१-४ गाम्भीर्यश्रियमस्य कस्तुलयितुं वारां निधेरर्हति । ।
०८७२-१ उपकृतवता श्रीरत्नाभ्यां हरेः शशिलेखया
०८७२-२ मनसिजरिपोः पीयूषेणाप्यशेषदिवौकसां ।
०८७२-३ कथमितरथाः तेन स्थेयं यशोभरमन्थरं
०८७२-४ यदि न मथनायासं धीरः सहेत पयोनिधिः । ।
०८७३-१ विषमभिमुखं मुक्तं रौद्रं दिशो दश संश्रिताः
०८७३-२ शशितरुमणिप्रायैः प्रायः प्रलोभनमाहितं ।
०८७३-३ किमिव न कृतं नन्थारम्भे शठेन पयोधिना
०८७३-४ तदपि निपुणैर्नास्य क्षान्तं सुरैरमृतं विना । ।
०८७४-१ यदिह भवतो गाम्भीर्येण प्रयाति महत्तया-
०८७४-२ प्यनुचितगुणारम्भः कालः किमेतदनन्तरं ।
०८७४-३ अयि जलनिधे किं कल्लोलैरलब्धसमाप्तिभिर्-
०८७४-४ विरम सरितामेतत्तोयं न तेस्ति मनागपि । ।
०८७५-१ समाश्रित्योत्सङ्गं विपृतवदनस्यास्य वसतः
०८७५-२ क्षणेनैकस्यान्तर्ज्वलितवपुषो यत्क्षणमपि ।
०८७५-३ न तृष्णामौर्वाग्नेरपनयति पुष्टेपि विभवे
०८७५-४ नृशंसस्याम्भोधेर्व्रजतु विलयं सोस्य महिमा । ।
०८७६-१ अहो बत सरित्पतेरिदमनार्यरूपं परं
०८७६-२ यदुज्ज्वलरुचीन्मणीन्सुचिरचर्चितास्थागुणान् ।
०८७६-३ जडैरनुपयोगिभिः परत एत्य लब्धास्पदैः
०८७६-४ क्षिपत्यनिशमूर्जितैर्झगिति तन्मयत्वं गतः । ।
०८७७-१ इहैकश्चूडालोभ्यजनि कलशाद्यस्य सकलैः
०८७७-२ पिपासोरम्भोभिश्चुलुकमपि नो भर्तुमशकः ।
०८७७-३ स्वमाहात्म्यश्लाघागुरुगहनगर्जाभिरभितः
०८७७-४ कुषित्वा क्लिश्नासि श्रुतिकुहरमब्धे किमिति नः । ।
०८७८-१ रूक्षं क्षारमपेयमत्र सलिलं लब्ध्वा परं तप्यते
०८७८-२ व्यालग्राहभियावगाहनमपि स्वस्थेन नासाद्यते ।
०८७८-३ तत्किं पान्थ पयोधिनामनि मरौ तृष्णाविमूढो भवान्-
०८७८-४ अन्तर्निह्नुतिनाशितामलमणिव्राते मुधा धावसि । ।
०८७९-१ सर्वासां त्रिजगत्यपामियमसावाधारता तावकी
०८७९-२ प्रोल्लासोयमसौ तवाम्बुनिलये सेयं महासत्त्वता ।
०८७९-३ सेवित्वा बहुभङ्गभीषणतनुं त्वामेव वेलाचल-
०८७९-४ ग्रावस्रोतसि पाप तापकलहो यत्क्वापि निर्वाप्यते । ।
०८८०-१ कल्लोलैर्विकिरत्वसौ गिरिवरान्वेलाविलासोत्थितैः
०८८०-२ शब्दैर्वा बधिरीकरोतु ककुभो धत्तां च विस्तीर्णतां ।
०८८०-३ पान्थानां रवितापतप्तवपुषां तृष्णातिरेकच्छिदः
०८८०-४ किं साम्यं प्रतनोः करोतु सरसोप्यब्धिः कृताडमबरः । ।
०८८१-१ दतं येन सुधानिधानमसमं सत्त्वाधिकेनार्थिने
०८८१-२ श्रीवासोपि महामणिर्विधुरसौ कल्पद्रुमो गौस्तथा ।
०८८१-३ शापात्क्षारजलस्तथापि जलधिः प्राप्तायशा इत्यहो
०८८१-४ लोकोयं तृणवद्गुणं विगणयन्दोषग्रहैकाग्रधीः । ।
०८८२-१ हा कष्टं तटवासिनोपि विफलप्राग्भारमालोक्य माम्-
०८८२-२ अन्यत्रैव विपासवः प्रतिदिनं गच्छन्त्यमी जन्तवः ।
०८८२-३ इत्थं व्यर्थजलातिभारवहनप्रोद्भूतखेदादिव
०८८२-४ स्वां मूर्तिं वडवानले जलनिधिर्मन्ये जुहोत्यन्वहं । ।
०८८३-१ मर्यादापरिपालनेन महतां क्षौणीभृतां रक्षणाद्-
०८८३-२ विश्रान्त्या मधुसूदनस्य सुचिरं यत्किंचिदासादितं ।
०८८३-३ गाम्भीर्योचितमात्मनो जलधिना मन्थव्यथासंभ्रमाद्-
०८८३-४ देवेष्वर्पयतामृतं द्रुतमहो सर्वं तदुत्पुंसितं । ।
०८८४-१ आश्चर्यं वडवानलः स भगवानाश्चर्यमम्भोनिधिर्-
०८८४-२ यत्कर्मातिशयं विचिन्त्य मनसः कम्पः समुत्पद्यते ।
०८८४-३ एकस्याश्रयघस्मरस्य पिबतस्तृप्तिर्न जाता जलैर्-
०८८४-४ अन्यस्यापि महात्मनो न वपुषः स्वल्पोपि जातः श्रमः । ।
०८८५-१ नोद्वेगं यदि यासि यद्यवहितः कर्णं ददासि क्षणं
०८८५-२ त्वां पृच्छामि यदम्बुधे किमपि तन्निश्चित्य देह्युत्तरं ।
०८८५-३ नैराश्यानुशयातिमात्रनिशितं निःश्वस्य यद्दृश्यसे
०८८५-४ तृष्यद्भिः पथिकैः कियत्तदधिकं स्यादौर्वदाहादतः । ।
०८८६-१ इतः स्वपिति केशवः कुलमितस्तदीयद्विषाम्-
०८८६-२ इतश्च शरणार्थिनां शिखरिणां गुणाः शेरते ।
०८८६-३ इतश्च वडवानलः सह समस्तसंवर्तकैर्-
०८८६-४ अहो विततमूर्जितं भरसहं च सिन्धोर्वपुः । ।
०८८७-१ वैकुण्ठायश्रियमभिनवं शीतभानुं भवाय
०८८७-२ प्रादादुच्चैःश्रवसमपि वा वज्रिणे तत्क्व गण्यं ।
०८८७-३ तृष्णार्ताय स्वमपि मुनये यद्ददाति स्म देहं
०८८७-४ कोन्यस्तस्माद्भवति भुवनेष्वम्बुधेर्बोधिसत्त्वः । ।
०८८८-१ रत्नोज्ज्वलाः प्रविकिरल्लंहरीः समीरैर्-
०८८८-२ अब्धिः क्रियेत यदि रुद्धतटाभिमुख्यः ।
०८८८-३ दोषोर्थिनः स खलु भाग्यविपर्ययाणां
०८८८-४ दातुर्मनागपि न तस्य तु दातृतायाः । ।
०८८९-१ अन्तर्ये सततं लुठन्त्यगणितास्तानेव पाथोधरै-
०८८९-२ रात्तानापततस्तरङ्गवलयैरालिङ्ग्य गृह्णन्नसौ ।
०८८९-३ व्यक्तं मौक्तिकरत्नतां जलकणान्संप्रापयत्यम्बुधिः
०८८९-४ प्रायोन्येन कृतादरो लघुरपि प्राप्तोर्च्यते स्वामिभिः । ।
०८९०-१ स्वस्त्यस्तु विद्रुमलतासुमन्ॐअणिभ्यः
०८९०-२ कल्याणिनी भवतु मौक्तिकशुक्तिपङ्क्तिः ।
०८९०-३ प्राप्तं मया सकलमेव फलं पयोधेर्-
०८९०-४ यद्दारुणैर्जलचरैर्न विदारितोस्मि । ।
०८९१-१ आदाय वारि परितः सरितां मुखेभ्यः
०८९१-२ किं तावदर्जितमनेन दुरर्णवेन ।
०८९१-३ क्षारीकृतं च वडवादहने हुतं च
०८९१-४ पातालकुक्षिकुहरे विनिवेशितं च । ।
०८९२-१ कालप्राप्तं महारत्नं यो न गृह्णात्यबुद्धिमान् ।
०८९२-२ अन्यहस्तगतं दृष्ट्वा पश्चात्स परितप्यते । ।
०८९३-१ भिद्यतेनुप्रविश्यान्तर्यो यथारुच्युपाधिना ।
०८९३-२ विशुद्धिः कीदृशी तस्य जडस्य स्फटिकाश्मनः । ।
०८९४-१ स्फटिकस्य गुणो योसौ स एवायाति दोषतां ।
०८९४-२ धत्ते स्वच्छतया छायां यस्तां मलवतामपि । ।
०८९५-१ येन पाषाणखण्डस्य मूल्यमल्पं वसुंधरा ।
०८९५-२ अनस्तमितसारस्य तेजसस्तद्विजृम्भितं । ।
०८९६-१ शुष्कतनुतृणलवाग्रं गृह्णाति धनाशयान्यदीयं यः ।
०८९६-२ मूढास्तृणमणिमपि तं नियुञ्जते पादरक्षायै । ।
०८९७-१ सद्वंशजः साधुगुणः सुवृत्तः
०८९७-२ संतापभित्तुल्यगुणोपगूढः ।
०८९७-३ कान्तो दृशः पश्य तथापि हारः
०८९७-४ क्षिप्तो बहिस्तुङ्गकुचद्वयेन । ।
०८९८-१ कनकभूषणसंग्रहणोचितो
०८९८-२ यदि मणिस्त्रपुणि प्रतिबध्यते ।
०८९८-३ न स विरौति न चापि हि शोभते
०८९८-४ भवति योजयितुर्वचनीयता । ।
०८९९-१ मरकतस्य वरं मलिनात्मता
०८९९-२ त्यजति जातु निजां प्रकृतिं न यः ।
०८९९-३ अमलतां स्फटिकस्य धिगञ्जसा
०८९९-४ भजति रूपमुपान्तगतस्य यः । ।
०९००-१ अस्मिन्सखे ननु मणित्वमहासुभिक्षे
०९००-२ चिन्तामणे त्वमुपलो भव मा मणिर्भूः ।
०९००-३ अद्येदृशा हि मणयः प्रभवन्ति लोके
०९००-४ येषां तृणग्रहणकौशलमेव भूषा । ।
०९०१-१ भूमौ पतन्नपि रजः परिधूसरोपि
०९०१-२ जात्यन्धदुर्जनजनैरवधीरितोपि ।
०९०१-३ त्रैलोक्यवन्दनमहामहिमानमन्तश्-
०९०१-४ चिन्तामणिर्नहि जहाति कदाचिदेव । ।
०९०२-१ चिन्तामणे भुवि न केनचिदीश्वरेण
०९०२-२ मूर्ध्ना धृतोसि यदि मा स्म ततो विषीदः ।
०९०२-३ नास्त्येव हि त्वदधिरोपणपुण्यबीजं
०९०२-४ सौभाग्ययोग्यमिह कस्यचिदुत्तमाङ्गं । ।
०९०३-१ चिन्तामणेस्तृणमणेश्च कृतं विधात्रा
०९०३-२ केनोभयोरपि मणित्वमदः समानं ।
०९०३-३ नैकोर्थितानि दददर्थिजनाय खिन्नो
०९०३-४ गृह्णञ्जरत्तृणलवं न तु लज्जितोन्यः । ।
०९०४-१ मनोरथशतैर्वृतो भुवननाथचूडोचितस्-
०९०४-२ तृणैरलमधः कृतः कृतपदः क्वचिद्ग्रावसु ।
०९०४-३ व्रजत्यपि सचेतसां विषयमीदृशां यो दृशो
०९०४-४ लुठत्यचलकंदरे विधुर एष चिन्तामणिः । ।
०९०५-१ परामृषति सस्पृहं मुहुरपेलवं वीक्षते
०९०५-२ महत्किमपि रत्नमित्यसमसंमदं गूहते ।
०९०५-३ कुतोपि परिलेपवच्छविमवाप्य काचोपले
०९०५-४ वहत्यतिकदर्थनां बत वराककः पामरः । ।
०९०६-१ किरणनिकरैराशाचक्रं चिरं परिपूरयन्-
०९०६-२ किमिह गहेन भ्रातर्व्यर्थं समुल्लसितो भवान् ।
०९०६-३ क इह भवतो वेत्त्यत्यन्तं निसर्गमहार्घतां
०९०६-४ मरकतमणे दग्धग्रामे हतादरपामरे । ।
०९०७-१ दूरे कस्यचिदेष कोप्यकृतधीर्नैवास्य वेत्त्यन्तरं
०९०७-२ मानी कोपि न याचते मृगयते कोप्यल्पमल्पाशयः ।
०९०७-३ इत्थं प्रार्थितदानदुर्व्यसनिनो नौदार्यरेखोज्ज्वला
०९०७-४ जाता नैपुणदुस्तरेषु निकषा स्थानेषु चिन्तामणेः । ।
०९०८-१ ये गृह्णन्ति हठात्तृणानि मणयो ये वाप्ययःपिण्डिकां
०९०८-२ ते दृष्टाः प्रतिधाम दग्धमणयो विच्छिन्नसंख्याश्चिरं ।
०९०८-३ नो जाने किमभावतः किमथवा दैवादिह श्रूयते
०९०८-४ नामाप्यत्र न तादृशस्य तु मणे रत्नानि गृह्णाति यः । ।
०९०९-१ यन्मुक्तामणय्ॐबुधेरुदरतः क्षिप्ता महावीचिभिः
०९०९-२ पर्यन्तेषु लुठन्ति निर्मलरुचा स्पष्टाट्टहासा इव ।
०९०९-३ तत्तस्यैव परिक्षयाज्जलनिधेर्द्वीपान्तरालम्बिनां
०९०९-४ रत्नानां तु परिग्रहव्यसनिनः सन्त्येव सांयात्रिकाः । ।
०९१०-१ माणिक्योयं महार्घः क्षितितलमहितो दीप्तिमानुच्चजन्मा
०९१०-२ दृष्ट्वैनं नूनमाराद्व्यपसरतितरां कापि दौर्गत्यनीतिः ।
०९१०-३ इत्थं भ्रान्तिप्रपञ्चैर्विपदपहृतये केनचित्स्थापितः स-
०९१०-४ न्नन्ते दृष्टः स एव व्रणशतपरुषः कोपि पाषाणखण्डः । ।
०९११-१ यामः स्वस्ति तवास्तु रोहणगिरे मत्तः स्थितिप्रच्युता
०९११-२ वर्तिष्यन्त इमे कथं कथमिति स्वप्नेपि मैवं कृथाः ।
०९११-३ श्रीमंस्ते मणयो वयं यदि भवल्लब्धप्रतिष्ठास्तदा
०९११-४ ते शृङ्गारपरायणाः क्षितिभुजो मौलौ करिष्यन्ति नः । ।
०९१२-१ उच्चैरुच्चरतु चिरं चीरी वर्त्मनि तरुं समारुह्य ।
०९१२-२ दिग्व्यापिनि शब्दगुणे शङ्खः संभावनाभूमिः । ।
०९१३-१ शङ्खोस्थिशेषः स्फुटितो मृतो यद्-
०९१३-२ उच्छ्वासितेनोच्छ्वसते नु सत्यं ।
०९१३-३ किं तूच्चरत्येव न सोस्य शब्दः
०९१३-४ श्रव्यो न यो यो न सदर्थशंसी । ।
०९१४-१ प्राणान्विहाय धवलत्वगुणोचितानि
०९१४-२ प्राप्तानि यज्जगतिवक्त्रविशेषयोगात् ।
०९१४-३ शङ्खैर्महाविभवशब्दविजृम्भितानि
०९१४-४ तज्जीवितं सहृदयाः प्रभवन्ति येषां । ।
०९१५-१ धीरः श्रोत्रसुखावहोपि सदृशः सत्यं परं मङ्गलं
०९१५-२ क्वापि ग्रामसुराङ्गणे स तु लसन्संध्यासु शङ्खध्वनिः ।
०९१५-३ माद्यन्मेदुरसारमेयसरलग्रीवाग्रदीर्घीभवन्-
०९१५-४ नादो नाम कृतानुकारमुदितग्राम्याट्टहासाहतः । ।
०९१६-१ रत्नाकराज्जनिभुवोप्यपचायमानः
०९१६-२ शुष्कास्थिशेषतनुतामपि लम्बमानः ।
०९१६-३ श्वासैः सफूत्कृतिभिरप्युपहन्यमानः
०९१६-४ शुद्धाशयो वदति मङ्गलमेव शङ्खः । ।
०९१७-१ शङ्खाः सन्ति सहस्रशो जलनिधेर्वीचिच्छटाघट्टिताः
०९१७-२ पर्यन्तेषु लुठन्ति ये दलशतैः कल्माषितक्ष्मातलाः ।
०९१७-३ एकः कोपि स पाञ्चजन्य उदभूदाश्चर्यभूतः सतां
०९१७-४ यः संवर्तभरक्षमैर्मधुरिपोः श्वासानिलैः पूर्यते । ।
०९१८-१ सर्वाशापरिपूरि हुंकृतमदो जन्मापि दुग्धोदधेर्-
०९१८-२ गोविन्दाननचुम्बि सुनदरतरं पूर्णेन्दुबिम्बाद्वपुः ।
०९१८-३ श्रीरेषा सहजा गुणाः किमपरं भण्यन्त एते हि यत्-
०९१८-४ कौटिल्यं हृदि पाञ्चजन्य भवतस्तेनातिलज्जामहे । ।
०९१९-१ वरमश्रीकतैवास्तु नेतरश्रीसमानता ।
०९१९-२ इति कैरवकोद्भेदे कमलं मुकुलायते । ।
०९२०-१ लक्ष्मीसंपर्करूपोयं दोषः पद्मस्य निश्चितं ।
०९२०-२ यदयं गुणसंदोहधामनीन्दौ पराङ्मुखः । ।
०९२१-१ अन्तश्छिद्राणि भूयांसि कण्टका बहवो बहिः ।
०९२१-२ कथं कमलनालस्य मा भूवन्भङ्गुरा गुणाः । ।
०९२२-१ किं दीर्घदीर्घेषु गुणेषु पद्म
०९२२-२ सितेष्ववच्छादनकारणं ते ।
०९२२-३ अस्त्येव तान्पश्यति चेदनार्या
०९२२-४ त्रस्तेव लक्ष्मीर्न पदं विधत्ते । ।
०९२३-१ स्थलकुशेशय संचिनु कण्टकान्-
०९२३-२ प्रथय पङ्ककुलोद्भवतां मुदा ।
०९२३-३ अपि बधान धृतिं जलसंगमे
०९२३-४ व्रजसि येन परास्पदतां श्रियः । ।
०९२४-१ अक्षेष्वियं व्यसनिता हृदये यदेते
०९२४-२ रागो घनो मधुमदोत्कटमाननं च ।
०९२४-३ पद्मस्तथापि परमास्पदमेव लक्ष्म्यास्-
०९२४-४ तद्दैन्यमेव किल दुर्भगता यदेभिः । ।
०९२५-१ पद्मादयो बहुगुणा अपि यन्निशासु
०९२५-२ नाशं न यान्ति विरहेण दिवाकरस्य ।
०९२५-३ तत्पङ्कसंकरजलाशयजन्मजाड्य-
०९२५-४ ज्यायोविजृम्भितमिदं त्रिजगत्प्रतीतं । ।
०९२६-१ लक्ष्मीं विशेषय कुशेशय कौशलाङ्कां
०९२६-२ जृम्भा जहीहि चलतां च विमुञ्च किंचित् ।
०९२६-३ आशागतान्यलिकुलानि मुदं नयेह
०९२६-४ मित्त्रे विधौ सति विधत्स यथेष्टमेतत् । ।
०९२७-१ नित्यं तथा शृणु कुशेशय मद्वचांसि
०९२७-२ स्नेहेन यानि भवतः कथयामि किंचित् ।
०९२७-३ कान्त्यानया विमलया भ्रमरैर्गुणैर्वा
०९२७-४ किं यासि रम्यतमतामुत कण्टकर्द्धेः । ।
०९२८-१ संकोचमेहि बिसपुष्प जहीहि शोभां
०९२८-२ दोषाकरोयमधुना समुदेति पश्य ।
०९२८-३ वक्रात्मनि प्रभवति क्रमशो विचिन्त्य
०९२८-४ प्रच्छन्नता गुणवतां स्वयमेव योग्या । ।
०९२९-१ त्रुट्यद्गुणोपि बहुकण्टकतां गतोपि
०९२९-२ रन्ध्रान्वितोपि हतकर्दमसंभवोपि ।
०९२९-३ भृङ्गोपभोग्यविभवोपि तथापि पद्मो
०९२९-४ मित्रोदये विकसनं लभते सदैव । ।
०९३०-१ कामं भवन्तु मधुलम्पटषट्पदौघ-
०९३०-२ संघट्टघुंघुमघनध्वनयोब्जखण्डाः ।
०९३०-३ गायन्नतिश्रुतिसुखं विधिरेव यत्र
०९३०-४ भृङ्गः स कोपि धरणिधरनाभिपद्मः । ।
०९३१-१ तापापहे सहृदये रुचिरे प्रबुद्धे
०९३१-२ मित्रानुरागनिरते धृतसद्गुणौघे ।
०९३१-३ स्वाङ्गप्रदानपरितोषितषट्पदेस्मिन्-
०९३१-४ युक्तं तवेह कमले कमले स्थितिर्यत् । ।
०९३२-१ न पङ्कादुद्भूतिर्न जडसहवासव्यसनिता
०९३२-२ वपुर्दिग्धं कान्त्या स्थलनलिन रत्नद्युतिमुषा ।
०९३२-३ व्यधास्यद्दुर्वेधा हृदयलघिमानं यदि न ते
०९३२-४ त्वमेवैकं लक्ष्म्याः परममभविष्यः पदमिह । ।
०९३३-१ उत्पन्ना बहवस्तलेषु सरसामम्भोरुहाणां चया
०९३३-२ ये यामिन्यधिपानुकारिरमणीवक्त्रोपमानं गताः ।
०९३३-३ नाभौ भ्ॐअरिपोरजायत महापद्मः स कोप्येकको
०९३३-४ यस्त्रैलोक्यसमुद्भवप्रभवितुर्जन्मावनित्वं गतः । ।
०९३४-१ पुष्येन्यत्रावकाशो निपुणमपहृतः सौरभालोभनाभिः
०९३४-२ स्वाभोगेन्तःप्रवेशोप्यशिथिलनिविडः कोशभावान्न दत्तः ।
०९३४-३ नीत्वा नैराश्यमित्थं गलितगतिरसौ मुग्धबुद्धिः प्रदोषे
०९३४-४ पद्मेन श्रीमतापि प्रसभमुभयतो भ्रंशितः पश्य भृङ्गः । ।
०९३५-१ भ्रातः पङ्कज संकोचः कंचित्कालं विषह्यतां ।
०९३५-२ सैव प्रभाते शोभा ते भाते दिनकरे भवेत् । ।
०९३६-१ अधोगतिं च संप्राप्य बिसाः पङ्ककलङ्किताः ।
०९३६-२ गुणिनो निर्गुणैर्दाशैः कृष्टाः स्वाङ्कुरदर्शिताः । ।
०९३७-१ तदङ्कुराणि पद्मानि गुणैर्युक्तानि मानिभिः ।
०९३७-२ शिरसा धार्यमाणानि मीलितानि जडात्मना । ।
०९३८-१ मरौ नास्त्येव सलिलं कृछ्राद्यद्यपि लभ्यते ।
०९३८-२ तत्कटु स्तोकमुष्णं च न करोति वितृष्णतां । ।
०९३९-१ चटुलचातकचञ्चुपुटात्पत-
०९३९-२ ञ्जलकणोपि मरोरतिगोचरः ।
०९३९-३ स पुनरद्य घनागमबन्धुना
०९३९-४ जलधरेण जलैरपरः कृतः । ।
०९४०-१ किं पान्थ निर्मथनसिद्ध्युपयोगिवस्तु-
०९४०-२ संभारशालिनि मरौ सुगृहीतनाम्नि ।
०९४०-३ संदृश्यतेतिविपरीतमिदं हि तत्र
०९४०-४ कूपोस्ति तत्र च जलं यदयत्नलभ्यं । ।
०९४१-१ अस्मिन्मरौ किमपरं वचसामवाच्यं
०९४१-२ मा मुञ्च पान्थ मुहुराश्रितवत्सलो भूः ।
०९४१-३ एतत्त्वया जललवामिषलालसेन
०९४१-४ दृष्टं ज्वलत्परिकरं सिकतावितानं । ।
०९४२-१ सत्पादपान्विपुलपल्लवपुष्पभार-
०९४२-२ संपत्परीतवपुषः फलभारनभ्रान् ।
०९४२-३ यो मुञ्जुशिञ्जितशकुन्तशताश्रितोरु-
०९४२-४ शाखान्मरौ मृगयते न ततोस्ति मुग्धः । ।
०९४३-१ जलतरुतृणशून्यः श्राम्यतामध्वगानां
०९४३-२ किमपि किल बताहं नोपकर्तुं समर्थः ।
०९४३-३ इति न परमभीक्ष्णं नानुशेते न यावच्-
०९४३-४ छठमरुरनृताम्भःप्राप्तये तान्प्रयुङ्क्ते । ।
०९४४-१ गतमतिजवाद्भ्रान्तं भ्रान्तं समुत्कषिता च भूश्-
०९४४-२ चिरतरमथो निःश्वस्याथो सदैन्यमवस्थितं ।
०९४४-३ किमिव न कृतं पान्थेनेत्थं तथापि शठो मरुः
०९४४-४ प्रकृतिविरसः कष्टं यातो मनागपि नार्द्रतां । ।
०९४५-१ इतः काकानीकं प्रतिभयमितः कौशिककृता-
०९४५-२ दित्ॐई गृध्राद्याः कुलमिदमितः कङ्कवयसां ।
०९४५-३ श्मशानस्थानेस्मिन्नखिलगुणवन्ध्ये हततराव्-
०९४५-४ अपि द्वित्राः केचिन्न खलु कलवाचः शकुनयः । ।
०९४६-१ किमसि विमतिः किं वोब्मादी क्षणादभिलक्ष्यसे
०९४६-२ पुनरपि पुनः प्रेक्षापूर्वा न काचन ते क्रिया ।
०९४६-३ स्वयमजलकां जानानोपि प्रविश्य मरुस्थलीं
०९४६-४ शिशिरमधुरं वारि प्राप्तुं यदध्वग वाञ्छसि । ।
०९४७-१ परार्थे यः पीडामनुभवति भङ्गेपि मधुरो
०९४७-२ यदीयः सर्वेषामिह खलु विकारोप्यभिमतः ।
०९४७-३ न संप्राप्तो वृद्धिं यदि स भृशमक्षेत्रपतितः
०९४७-४ किमिक्षोर्दोषोसौ न पुनरगुणाया मरुभवः । ।
०९४८-१ तापः स्वात्मनि संश्रितद्रुमलतादोषोध्वगैर्वर्जनं
०९४८-२ सत्यं तीव्रतया तृषस्तव मरो कोसावनर्थोदयः ।
०९४८-३ नन्वर्थः सुमहानयं जललवस्वाम्यस्मयोद्गर्जिनः
०९४८-४ संनह्यन्ति यतस्तवोपकृतये धाराधराः प्राकृताः । ।
०९४९-१ एवं चोद्विधिना कृतोस्युपकृतौ कस्यांचिदप्यक्षमः
०९४९-२ कामं मोपकृथास्ततस्तव मरो वाच्यं न धीरो भव ।
०९४९-३ किं त्वारान्मृगतृष्णयोपजनयन्नम्भ्ॐउचां वञ्चनां
०९४९-४ प्रेम्णा कर्षसि तर्षमूर्छितधियोप्यन्यानतः शोच्यसे । ।
०९५०-१ आम्राः किं फलभारनभ्रशिरसो रम्याः किमूष्मच्छिदः
०९५०-२ सच्छायाः कदलीद्रुमाः सुरभयः किं पुष्पिताश्चम्पकाः ।
०९५०-३ एतास्ता निरवग्रहोग्रकरभोल्लीढावरूढाः पुनः
०९५०-४ शम्यो भ्राम्यसि मूढ निर्मरुति किं मिथ्यैव मर्तुं मरौ । ।
०९५१-१ जलान्तराणि श्वभ्रेषु तिष्ठन्तु क्वापि यान्तु वा ।
०९५१-२ सुरसिन्धुप्रवाहस्य सृतौ रत्नाकरोवधिः । ।
०९५२-१ क्वान्तः शून्यो नडः क्वेक्षुस्तथापि सुदृशाकृती ।
०९५२-२ विवेकशून्यमनसां विप्रलम्भाय निर्मितौ । ।
०९५३-१ नास्य भारग्रहे शक्तिर्न च वाहगुणः कृषौ ।
०९५३-२ देवागारबलीवर्दस्तथाप्यश्नाति शोभनं । ।
०९५४-१ नक्रः स्वस्थानमासाद्य गजेन्द्रमपि कर्षति ।
०९५४-२ स एव प्रच्युतः स्थानाच्छुनापि परिभूयते । ।
०९५५-१ वरमुन्नतलाङ्गूलात्सटाधूननभीषणात् ।
०९५५-२ सिंहात्पादप्रहारोपि न सृगालाधिरोहणं । ।
०९५६-१ गन्धैकसारो विफलः सेव्यश्चन्दनपादपः ।
०९५६-२ भुजंगाः पवनाहाराः सेवकाः सदृशो विधिः । ।
०९५७-१ क्व गतो मृगो न जीवत्यनुदिनमश्नंस्तृणानि विविधानि ।
०९५७-२ स्वयमाहतगजभोक्तुः सिंहस्य तु दुर्लभा वृत्तिः । ।
०९५८-१ वक्रमशय्यासंस्थितमन्तःकोटरमनेकदुर्ग्रन्थि ।
०९५८-२ प्रगुणीकर्तुं शक्तो दुर्दारु न विश्वकर्मापि । ।
०९५९-१ न तदनुकृतं मनागपि न वा जलं सुचिरसेवितैः शीतं ।
०९५९-२ अन्धीकृते कुदीपैः प्रत्युत धूमेन मे नयने । ।
०९६०-१ उत्सन्नमापणममुं द्रक्ष्यामो निर्मलैः कदा नयनैः ।
०९६०-२ चिन्तामणिकाचकणौ विपरीतगुणागुणौ यत्र । ।
०९६१-१ उज्ज्वलचम्पकमुकुलाशङ्कितया यः प्रदीपकं स्पृशति ।
०९६१-२ कज्जलकलङ्कदाहं मुक्त्वान्यत्तस्य किं घटतां । ।
०९६२-१ शिखरी चितशिखरशिखः स्फुरदौर्वशिखाकदम्बक्ॐबुनिधिः ।
०९६२-२ कस्यापि लङ्घनीयौ न तु नगरावकरनिकरोयं । ।
०९६३-१ फणमणिभासुरगुरतरसमर्थबहुमस्तके शेषे ।
०९६३-२ कः क्षितिभरमुद्वोढुं प्रार्थयते कृपणकणिकीटान् । ।
०९६४-१ यत्नादपि कः पश्येच्छिखिनामाहारनिःसरणमार्गं ।
०९६४-२ यदि जलदनिनदमुदितास्त एव मूढा न नृत्येयुः । ।
०९६५-१ शरदि समग्रनिशाकरकरशतहततिमिरसंचया रजनी ।
०९६५-२ जलदान्तरितार्कामपि दिवसच्छायां न पूरयति । ।
०९६६-१ मृदुसुभगपरिकररुचोप्यनुचितमिदमेकमेव मदनस्य ।
०९६६-२ यदनेन कृतः केतौ मकरो दंष्ट्राकरालमुखः । ।
०९६७-१ हेमकार सुधियो नमोस्तु ते
०९६७-२ दुस्तरेषु बहुशः परीक्षितुं ।
०९६७-३ काञ्चनाभरणमश्मना समं
०९६७-४ यत्त्वयैतदधुरोप्यते तुलां । ।
०९६८-१ वृत्ते एव स घटोन्धकूप यस्-
०९६८-२ त्वत्प्रसादमपनेतुमक्षमः ।
०९६८-३ मुद्रितं त्वधमचेष्टितं त्वया
०९६८-४ तन्मुखाम्बुकणिकाः प्रतीच्छता । ।
०९६९-१ शतपदी सति पादशते क्षमा
०९६९-२ यदि न गोष्पदमप्यतिवर्तितुं ।
०९६९-३ किमियता द्विपदस्य हनूमतो
०९६९-४ जलधिविक्रमणे विवदामहे । ।
०९७०-१ न गुरुवंशपरिग्रहशौण्डता
०९७०-२ न च महागुणसंग्रहणादरः ।
०९७०-३ फलविधानकथापि न मार्गणे
०९७०-४ किमिह लुब्धकबाल गृहेधुना । ।
०९७१-१ तृणमणेर्मनुजस्य च तद्वतः
०९७१-२ किमुभयोर्विपुलाशयतोच्यते ।
०९७१-३ तनु तृणाग्रलवावयवैर्ययोर्-
०९७१-४ अवसिते ग्रहण प्रतिपादने । ।
०९७२-१ भ्रातः सुवर्णमयरूपकतारचित्रा-
०९७२-२ लंकारयत्नघटनासु सुवर्णकार ।
०९७२-३ दूरीकुरु श्रममिहाद्य सुवर्णपात्रे
०९७२-४ दुर्वर्णयोजयितुरस्ति महार्घलाभः । ।
०९७३-१ तनुतृणाग्रधृतेन हृतश्चिरं
०९७३-२ क इह येन न मौक्तिकशङ्कया ।
०९७३-३ स जलबिन्दुरतो विपरीतदृग्-
०९७३-४ जगदिदं वयमत्र सचेतनाः । ।
०९७४-१ रे दन्दशूक तदयुक्तमपीश्वरस्त्वां
०९७४-२ वाल्लभ्यतो नयति नूपुरधाम सत्यं ।
०९७४-३ आवर्जितालिकुलसत्कृतिमूर्छितानि
०९७४-४ किं शिञ्जितानि भवतः क्षम एष कर्तुं । ।
०९७५-१ सुवर्णकार श्रवणोचितानि
०९७५-२ वस्तूनि विक्रेतुमिहागतोसि ।
०९७५-३ अद्यापि नाश्रावि यदत्र पल्ल्यां
०९७५-४ पल्लीपतिर्नूनमविद्धकर्णः । ।
०९७६-१ तानुन्नतान्क्षितिभृतो ननु रूपयामः
०९७६-२ पक्षक्षयव्यतिकरे मथितं तदोजः ।
०९७६-३ युक्तं किमौर्वशिखिनः परिकोपितस्य
०९७६-४ तेजस्विनोप्युदधिनिर्मथनं विसोढुं । ।
०९७७-१ चित्रं कियद्यदयमम्बुधिरम्बुदौघ-
०९७७-२ सिन्धुप्रवाहपरिपूर्णतया महीयान् ।
०९७७-३ त्वं त्वर्थिनामुपकरोषि यदल्पकूप
०९७७-४ निष्पीड्य कुक्षिकुहरं हि महत्त्वमेतत् । ।
०९७८-१ धिग्वाडवं दहनमर्थितया विपक्ष-
०९७८-२ मभ्येति यः स्वजठरप्रतिपूरणाय ।
०९७८-३ धिग्वारिराशिमपि यस्तु तथाविधस्य
०९७८-४ शत्रोर्जलैरपि न पूरयभिलाषं । ।
०९७९-१ शावान्कुलायकगतान्परिपातुकामा
०९७९-२ नद्याः प्रगृह्य लघु पक्षपुटेन तोयं ।
०९७९-३ दावानलं किल सिषेच मुहुः कोपोती
०९७९-४ स्निग्धो जनो न खलु चिन्तयते स्वपीडां । ।
०९८०-१ काकः स्वभावचपलः परिशुद्धवृत्तिर्-
०९८०-२ लब्ध्वा बलिं स्वजनमाह्वयते परांश्च ।
०९८०-३ चर्मास्थिमांसवति हस्तिकलेवरेपि
०९८०-४ श्वा द्वेष्टि हन्ति च परान्कृपणस्वभावः । ।
०९८१-१ आदायि वारि यत एव जहाति भूयस्-
०९८१-२ तत्रैव यः स जलदः प्रथमो जडानां ।
०९८१-३ वान्तं प्रतीप्सति तदेव तदेव यस्तु
०९८१-४ स्त्रोतः पतिः स निरपत्रपसार्थवाहः । ।
०९८२-१ बुध्यामहे न बहुधापि विकल्पमानाः
०९८२-२ कैर्नामभिर्व्यपदिशाम महामतींस्तान् ।
०९८२-३ येषामशेषभुवनाभरणस्य हेम्नस्-
०९८२-४ तत्त्वं विवेक्तुमुपलाः परमं प्रमाणं । ।
०९८३-१ न म्लानितान्यखिलधामवतां मुखानि
०९८३-२ नास्तं तमो न च कृतो भुवनोपकारः ।
०९८३-३ सूर्यात्मजोहमिति केन गुणेन लोकान्-
०९८३-४ प्रत्यापयिष्यसि शने शपथं विना त्वं । ।
०९८४-१ संरक्षितुं कृषिमकारि कृषीवलेन
०९८४-२ पश्यात्मनः प्रतिकृतिस्तृणपूरुषोयं ।
०९८४-३ स्तब्धस्य निष्क्रियतयास्तभियोस्य नून-
०९८४-४ मत्स्यन्ति ग्ॐऋगगनाः पुनरेव सस्यं । ।
०९८५-१ कस्यानिमेषवितते नयने दिवौको-
०९८५-२ लोकादृते जगति ते अपि वै गृहीत्वा ।
०९८५-३ पिण्डे प्रसारितमुखेन तिमे किमेतद्-
०९८५-४ दृष्टं न बालिश विशद्बडिशं त्वयान्तः । ।
०९८६-१ आ जन्मनः कुशलमण्वपि ते कुजन्मन्-
०९८६-२ पांसो त्वया यदि कृतं वद तत्त्वमेतत् ।
०९८६-३ उत्थापितोस्यनलसारथिना यदर्थं
०९८६-४ दुष्टेन तत्कुरु कलङ्कय विश्वमेतत् । ।
०९८७-१ पुंस्त्वादपि प्रविचलेद्यपि यद्यधोपि
०९८७-२ यायाद्यपि प्रणयनेन महानपि स्यात् ।
०९८७-३ अभ्युद्धरेत्तदपि विश्वमितीदृशीयं
०९८७-४ केनापि दिक्प्रकटिता पुरुषोत्तमेन । ।
०९८८-१ स्वल्पाशयः स्वकुलशिल्पविकल्पमेव
०९८८-२ यः कल्पयन्स्खलति काचवणिक्पिशाचः ।
०९८८-३ ग्रस्तः स कौस्तुभमणीन्द्रसपत्नरत्न-
०९८८-४ निर्यत्नगुम्फपटुवैकटिकेर्ष्ययान्तः । ।
०९८९-१ देवी क्व दुर्गतिहरा भगिनी भवानी
०९८९-२ देवो हरः क्व भगिनीपतिरार्तबन्धुः ।
०९८९-३ अम्भोनिधौ क्व शरणागतवृत्तिदैन्यं
०९८९-४ मैनाक नाकथयितव्यमिदं त्वया नः । ।
०९९०-१ तुङ्गात्मतास्तशिखरस्य वृथैव भानोर्-
०९९०-२ नालम्बिनी भवति यास्तमये प्रपित्सोः ।
०९९०-३ श्लाघ्यः स तामरसनालगुणोपि दैत्य-
०९९०-४ भीत्या यमेत्य मरुतां पतिराललम्बे । ।
०९९१-१ गृहं श्मशानं गजचर्म चाम्बरं
०९९१-२ विलेपनं भस्म वृषश्च वाहनं ।
०९९१-३ कुबेर हे वित्तपते न लज्जसे
०९९१-४ प्रियस्य ते सख्युरियं दरिद्रता । ।
०९९२-१ नैकत्र शक्तिविरतिः क्वचिदस्ति सर्व
०९९२-२ भावाः स्वभावपरिनिष्ठिततारतम्याः ।
०९९२-३ आकल्पमौर्वदहनेन निपीयमान-
०९९२-४ मम्भोधिमेकचुलकेन पपावगस्त्यः । ।
०९९३-१ विष्णुर्बिभर्ति भगवानखिलां धरित्रीं
०९९३-२ तं पन्नगस्तमपि तत्सहितं पयोधिः ।
०९९३-३ कुम्भोद्भवस्तमपिबत्खलु हेलयैव
०९९३-४ सत्यं न कश्चिदवधिर्महतां महिम्नः । ।
०९९४-१ आरोपितः पृथुनितम्बतटे तरुण्या
०९९४-२ कण्ठे च बाहुलतया निविडं गृहीतः ।
०९९४-३ उतुङ्गपीनकुचनिर्भरपीडितोयं
०९९४-४ कुम्भः करीषदहनस्य फलानि भुङ्क्ते । ।
०९९५-१ आबद्धकृत्रिमसटावलितांसभित्ति-
०९९५-२ रारोप्यते मृगपतेः पदवीं यदि श्वा ।
०९९५-३ मत्तेभकुम्भतटपाटनलम्पटस्य
०९९५-४ नादं करिष्यति कथं हरिणाधिपस्य । ।
०९९६-१ मुखमपि परिशिष्टं यस्य तेजःप्रसूतिं
०९९६-२ खरकिरणमथेन्दुं ग्रासपात्रीकरोति ।
०९९६-३ यदि किल वपुरस्य प्राभविष्यत्समग्रं
०९९६-४ किमिव किमिव राहुर्नाकरिष्यत्तदानीं । ।
०९९७-१ यत्पुष्पपल्लवफलाहितसाम्यमोहैर्-
०९९७-२ न ज्ञायते शुक तव स्थितिरस्थितिर्वा ।
०९९७-३ तद्दाडिमं त्यजसि नैव फलाशया त्वम्-
०९९७-४ अर्थातुरो न गणयत्यपकर्षदोषं । ।
०९९८-१ वरमिह रवितापैः किं न शीर्णासि गुल्मे
०९९८-२ किमु दवदहनैर्वा सर्वदाहं न दग्धा ।
०९९८-३ यदहृदयजनौघैर्वृन्तपर्णानभिज्ञैर्-
०९९८-४ इतरकुसुममध्ये मालति प्र्ॐभितासि । ।
०९९९-१ किमिदमुचितं शुद्धेः स्पष्टं सपक्षसमुन्नतेः
०९९९-२ फलपरिणतेर्युक्तं प्राप्तुं गुणप्रणयस्य ते ।
०९९९-३ क्षणमुपगतः कर्णोपान्तं परस्य पुरः स्थितान्-
०९९९-४ विशिख निपतन्क्रूरं दूरान्नृशंस निहंसि यत् । ।
१०००-१ स हेमालंकारः क्षितिपतनलग्नेन रजसा
१०००-२ तथा दैन्यं नीतो नरपतिशिरःश्लाघ्यविभवः ।
१०००-३ यथा लोष्टभ्रान्तिव्यवहितविवेकव्यतिकरो
१०००-४ विलोक्यैनं लोकः परिहरति पादक्षतिभयात् । ।
१००१-१ आहूतेषु विहंगमेषु मशको नायान्पुरोवार्यते
१००१-२ मध्ये वा धुरि वा वसंस्तृणमणिर्धत्ते मणीनां रुचं ।
१००१-३ खद्योतोपि न कम्पते प्रचलितुं मध्येपि तेजस्विनां
१००१-४ धिक्सामान्यमचेतनं प्रभुमिवानामृष्टतत्त्वान्तरं । ।
१००२-१ एवं चेत्सरसस्वभावपरता जाड्यं किमेतादृशं
१००२-२ यद्यस्त्येव निसर्गतः सरलता किं ग्रन्थिमत्तेदृशी ।
१००२-३ मूलं चेच्छुवि पङ्कजश्रुतिरियं कस्माद्गुणा यद्यमी
१००२-४ किं छिद्राणि सखे मृणाल भवतस्तत्त्वं न मन्यामहे । ।
१००३-१ त्वं भोगी यदि कुण्डली यदि भवांस्त्वं चेद्भुजंगः सखे
१००३-२ धत्से चेन्मुकुटं सरत्नमुरग स्वस्त्यस्तु ते किं ततः ।
१००३-३ अस्थाने यदि कञ्चुकं त्यजसि तन्नास्माकमत्र स्पृहा
१००३-४ किं तु क्रूरविषोल्कया दहसि यद्भ्रातः क एष ग्रहः । ।
१००४-१ मौलौ सन्मणयो गृहं गिरिगुहा त्यागः किलात्मत्वचो
१००४-२ निर्यत्नोपनतैश्च वृत्तिरनिलैरेकत्र चर्येदृशी ।
१००४-३ अन्यत्रानृजु वर्त्म वाग्वितसना दृष्टौ विषं दृश्यते
१००४-४ यादृक्तामनु दीपको ज्वलति किं भोगिन्सखे किन्विदं । ।
१००५-१ भूयांस्यस्य मुखानि नाम विदितैवास्ते महासत्त्वता
१००५-२ कद्र्वाः प्राक्प्रसवोयमत्र कुपिते चिन्त्यं यथेदं जगत् ।
१००५-३ त्रैलोक्याद्भुतमीदृशं तु चरितं शोषस्य येनास्य सा
१००५-४ प्रोन्मृज्येव निवर्तिता विषधरज्ञानेपि दुर्वर्णिका । ।
१००६-१ किं तेन हेमगिरिणा रजताद्रिणा वा
१००६-२ यस्याश्रयेण तरवस्तरवस्त एव ।
१००६-३ मन्यामहे मलयमेव यदाश्रितानि
१००६-४ शाहोटनिम्बकुटजान्यपि चन्दनानि । ।
१००७-१ यान्दिग्ध्वैव कृता विषेण कुसृतिर्येषां कियद्गण्यते
१००७-२ लोकं हन्तुमनागसं द्विरसना रन्ध्रेषु ये जाग्रति ।
१००७-३ व्यालास्तेपि दधत्यमी सदसतोर्मूढा मणीन्मूर्धभिर्-
१००७-४ नौचित्याद्गुणशालिनां क्वचिदपि भ्रंशोस्त्यलं चिन्तया । ।
१००८-१ तत्प्रत्यस्त्रतया धृतो न तु कृतः सम्यक्स्वतन्त्रो भयात्-
१००८-२ स्वस्थस्तान्प्रतिघातयेदिति यथाकामं न संपोषितः ।
१००८-३ संशुष्यन्वृषदंश एष कुरुतां मूकः स्थितोप्यत्र किं
१००८-४ गेहे किं बहुनाधुना गृहपतेश्चौराश्चरन्त्याखवः । ।
१००९-१ स्वात्मीयान्न ददासि चेत्फणमणीन्मा दाः परार्थं परैर्-
१००९-२ यत्किंचिन्निहितं रुणत्सि किमिदं निध्यादि दुष्टाशया ।
१००९-३ एतत्तावदलं भवन्तमपरं पृच्छामि कस्मादहे
१००९-४ फूत्कारैर्विषवह्निवेगगुरुभिर्दन्दह्यसेमुं जनं । ।
१०१०-१ निःसाराः सुतरां लघुप्रकृतयो योग्या न कार्ये क्वचिच्-
१०१०-२ छुष्यन्तोद्य जरत्तृणाद्यवयवाः प्राप्ताः स्वतन्त्रेषु ये ।
१०१०-३ अन्तःसारपराङ्मुखेण धिगहो ते मारुतेनामुना
१०१०-४ पश्यात्यन्तचलेन वर्त्म महतामाकाशमारोपिताः । ।
१०११-१ ये जात्या लघवः सदैव गणनां याता न ये कुत्रचित्-
१०११-२ पद्भ्यामेव विमर्दिताः प्रतिदिनं भूमौ निलीनाश्चिरं ।
१०११-३ उत्क्षिप्ताश्चपलाशयेन मरुता पश्यान्तरिक्षे सखे
१०११-४ तुङ्गानामुपरि स्थितं क्षितिभृतां कुर्वन्त्यमी पांसवः । ।
१०१२-१ अनीर्ष्याः श्रोतारो मम वचसि चेद्वच्मि तदहं
१०१२-२ स्वपक्षाद्भेतव्यं बहु न तु विपक्षात्प्रभवतः ।
१०१२-३ तमस्याक्रान्ताशे कियदपि हि तेजोवयविनः
१०१२-४ स्वशक्त्या भासन्ते दिवसकृति सत्येव न पुनः । ।
१०१३-१ सांमुख्यं वस्तुजातं नयति ननु चिदीशस्य यद्दर्शनाढ्यं
१०१३-२ नेत्रद्वन्द्वं किलैतद्विमलमिति ततोन्याङ्गसङ्गं विहाय ।
१०१३-३ घ्राणं वंशाभिरामं परिमलनिरतं चक्षुषोर्मध्यभागे
१०१३-४ नित्यं लीनं न चास्मिन्मृगसि नयनयोः श्वासमामुञ्च खिन्ने । ।
१०१४-१ एतत्तस्य मुखात्कियत्कमलिनीपत्त्रे कणं पाथसो
१०१४-२ यन्मुक्ताफलमित्यमंस्त स जडः शृण्वन्यदस्मादपि ।
१०१४-३ अङ्गुल्यग्रलघुक्रियाप्रविलयिन्यादीयमाने शनैस्-
१०१४-४ तत्रोड्डीय गते हहेत्यनुदिनं निद्राति नान्तःशुचा । ।
१०१५-१ आस्तेत्रैव सरस्यहो बत कियान्संतोषपक्षग्रहो
१०१५-२ हंसस्यास्य मनाङ्न धावति मतिः श्रीधाम्नि पद्मे क्वचित् ।
१०१५-३ सुप्तोद्यापि विबुध्यते न तदितस्तावत्प्रतीक्षामहे
१०१५-४ वेलामित्युषसि प्रिया मधुलिहः सोढुं तु एव क्षमाः । ।
१०१६-१ वाताहारतया जगद्विषधरैराश्वास्य निःशेषितं
१०१६-२ ते ग्रस्ताः पुनरभ्रतोयकणिकातीव्रव्रतैर्बर्हिभिः ।
१०१६-३ तेपि क्रूरचमूरुचर्मवसनैर्नीताः क्षयं लुब्धकैर्-
१०१६-४ दम्भस्य स्फुरितं विदन्नपि जनो जाल्मो गुणानीहते । ।
१०१७-१ नामाप्यन्यतरोर्निमीलितमभूत्तत्तावदुन्मीलितं
१०१७-२ प्रस्थाने स्खलतः स्ववर्त्मनि विधेरन्यैर्गृहीतः करः ।
१०१७-३ लोकश्चायमदृष्टदर्शनदशादृग्वैशसादुद्धृतो
१०१७-४ युक्तं काष्ठिक लूनवान्यदसितामाम्रालिमाकालिकीं । ।
१०१८-१ ऊढा येन महाधुरः सुविषमे मार्गे सदैकाकिना
१०१८-२ सोढो येन कदाचिदेव न निजे गोष्ठेन्यशौण्डध्वनिः ।
१०१८-३ आसीद्यश्च गवां गणस्य तिलकस्तस्यैव संप्रत्यहो
१०१८-४ धिक्कष्टं धवलस्य जातजरसो गोः पण्यमुद्धोष्यते । ।
१०१९-१ भेकेन क्वणता सरोषपरुषं यत्कृष्णसर्पानने
१०१९-२ दातुं कर्णचपेटमुज्झितभिया हस्तः समुल्लासितः ।
१०१९-३ यच्चाध्ॐउखमक्षिणी पिदधता नागेन तत्र स्थितं
१०१९-४ तत्सर्वं विषमन्त्रिणो भगवतः कस्यापि लीलायितं । ।
१०२०-१ नित्यं तीर्थे निवासः प्रकृतिरतितरां स्निग्धमुग्धस्वभावा
१०२०-२ वृत्तिर्दैवाद्धि वक्त्रे गगननिपतितैर्निर्मलैर्वारिलेशैः ।
१०२०-३ इत्थं सर्वं विलोक्य प्रकटमिह तिमे मुग्धलोकेन लोके
१०२०-४ साधुत्वं दर्शितं ते बहिरबहिरमी कण्टकाः केन दृष्टाः । ।
१०२१-१ मृत्योरास्यमिवाततं धनुरमी चाशीविषाभाः शराः
१०२१-२ शिक्षा सापि जितार्जुना प्रतिभयं सर्वाङ्गनिम्ना गतिः ।
१०२१-३ अन्तः क्रौर्यमहो शठस्य मधुरं हा हारि गेयं मुखे
१०२१-४ व्याधस्यास्य यथा भविष्यति तथा मन्ये वनं निर्मृगं । ।
१०२२-१ धिग्व्य्ॐनो महिमानमेतु दलशः प्रोच्चैस्तदीयं पदं
१०२२-२ निन्द्यां दैवगतिं प्रयात्वभवनिस्तस्यास्तु शून्यस्य वा ।
१०२२-३ येनोत्क्षिप्तकरस्य नष्टमहसः श्रान्तस्य संतापिनो
१०२२-४ मित्रस्यापि निराश्रयस्य न कृतं धृत्यै करालम्बनं । ।
१०२३-१ दिग्दाहैकरते वनान्तकर ते ज्वाला न मे रोचते
१०२३-२ दुग्धं स्वाश्रयमुद्यतस्य भवतो नेच्छन्ति वृद्धिं जनाः ।
१०२३-३ मूलान्यस्य महीभृतो दलयितुं दुर्वेधसा निर्मितः
१०२३-४ को वा न त्वयि शङ्कते खल जगत्खेदावहे दाव हे । ।
१०२४-१ क्षुत्क्षामेण कथं कथंचिदनिशं गात्रं कृशं बिभ्रता
१०२४-२ भ्रान्तं येन गृहे गृहे गृहवतामुच्छिष्टपिण्डार्थिना ।
१०२४-३ अस्थ्नः खण्डमवाप्य दैवपतितं शून्यां त्रिलोकीमिमां
१०२४-४ मन्वानो धिगहो स एव सरमापुत्रोद्य सिंहायते । ।
१०२५-१ शुष्कस्नायुवसावसेकमलिनं निर्मांसमप्यस्थि गोः
१०२५-२ श्वा लब्धा परितोषमेति न तु तत्तस्य क्षुधः शान्तये ।
१०२५-३ सिंहो जम्बुकमङ्कमागतमपि त्यक्त्वा निहन्ति द्विपं
१०२५-४ सर्वः कृछ्रगतोपि वाञ्छति जनः सत्त्वानुरूपं फलं । ।
१०२६-१ कालुष्यं पयसां विलोक्य शनकैरुड्डीय हंसा गता
१०२६-२ धाराजर्जरकेसरास्फुटरुचः पद्मा निमिग्ना जले ।
१०२६-३ सा सर्वर्तुसुखावतारपदवी छन्ना तृणैर्नूतनैः
१०२६-४ कष्टं तादृगपि स्वभावविमलं वृद्छ्यैव नष्टं सरः । ।
१०२७-१ ये संतोषसुखप्रबुद्धमनसस्तेषामभिन्नो मृदो
१०२७-२ येप्येते धनलोभसंकुलधियस्तेषां तु दूरे नृणां ।
१०२७-३ इत्थं कस्य कृते कृतः स विधिना तादृक्पदं संपदां
१०२७-४ स्वात्मन्येव समाप्तहेममहिमा मेरुर्न मे रोचते । ।
१०२८-१ द्रव्याणामधरोत्तरव्यतिकरो भग्नाशयानामधो
१०२८-२ बीजानां नयनं स्वयं च निजवच्छिद्रक्रियान्वेषणं ।
१०२८-३ व्यूहाबन्धविधायिभिर्गतभयैर्मुग्धप्रसुप्तार्भकं
१०२८-४ शून्यं प्राप्य निवासमाखुभिरहो किं किं न यद्यत्कृतं । ।
१०२९-१ अन्योन्यस्य लयं भयादिव महाभूतेषु यातेष्वलं
१०२९-२ कल्पान्ते परमेक एव स तरुः स्कन्धोच्चयैर्जृम्भते ।
१०२९-३ विन्यस्य त्रिजगन्ति कुक्षिकुहरे देवेन यस्यास्यते
१०२९-४ शाखाग्रे शिशुनेव सेवितजलक्रीडाविलासालसं । ।त्रिविक्रमस्य
१०३०-१ त्रैलोक्योपकृतिप्रसक्तमनसो देवस्य शंभोः प्रिया
१०३०-२ जाता शैलकुले वरैरभिमतैरानन्दयन्ती सुरान् ।
१०३०-३ म्लेच्छानामपि वाञ्छितार्पणपरा स्वस्यास्पदस्याम्बिका
१०३०-४ विन्ध्यस्योन्नतिमातनोति न निजां दैवस्य कीदृग्बलं । ।भा. अमृतदत्तस्य
१०३१-१ किं त्वं हालिक मूढधीर्हतफलं मा मा कृथा लाङ्गलं
१०३१-२ क्षेत्रं नैव भवत्यधः कठिनता नैवात्र दृष्टा त्वया ।
१०३१-३ उल्लेखोपि न जायतेत्र विरम क्लेशः फलं केवलं
१०३१-४ निर्बीजा बहवो गताश्च सततं दृष्टाः श्रुता वा न किं । ।कस्यापि
१०३२-१ कोयं भ्रान्तिप्रकारस्तव पवन घनावस्करस्थानजातं
१०३२-२ तेजस्विव्रातसेव्ये नभसि नयसि यत्पांसुपूरं प्रतिष्ठां ।
१०३२-३ यस्मिन्नुत्थाप्यमाने जननयनपथोपद्रवस्तावदास्तां
१०३२-४ केनोपायेन सह्यो वपुषि मलिनतादोष एष त्वयैव । ।भा. अमृतदत्तस्य
१०३३-१ जातः कूर्मः स एकः पृथुभुवनभरायार्पितं येन पृष्ठं
१०३३-२ श्लाघ्यं जन्म ध्रुवस्य भ्रमति नियमितं यत्र तेजस्विचक्रं ।
१०३३-३ संजातव्यर्थपक्षाः परहितकरणे नोपरिष्टान्न चाधो
१०३३-४ ब्रह्माण्डोदुम्बरान्तर्मशकवदपरे जन्तवो जातनष्टाः । ।कस्यापि
१०३४-१ कटु रटसि किमेवं कर्णयोः कुञ्जरारे-
१०३४-२ रविदितनिजबुद्धे किं न विज्ञातमस्ति ।
१०३४-३ शिरतरकरदंष्ट्राटङ्कनिर्भिन्नकुम्भं
१०३४-४ मशक गलकरन्ध्रे हस्तियूथं ममज्ज । ।कस्यापि
१०३५-१ उद्रर्जन्कुटिलस्तटाश्रयतरुप्रोन्मूलनोड्डामरो
१०३५-२ मा गर्वीः सरितः प्रवाह जलधिं प्रक्षोभयामीति भोः ।
१०३५-३ स्वां सत्तां यदि वाञ्छसि भ्रम मरुष्वेवाःस्व तत्रैव वा
१०३५-४ दूरे वाडववह्निरत्र तु महासत्त्वैर्विशन्पीयसे । ।
१०३६-१ स्थैर्यं तुङ्गशिरा जगत्स्थितिकृते वेलामहीभृच्छ्रितो
१०३६-२ दूरात्प्रेरणया कलावत इमं क्रान्तुं जलानां पते ।
१०३६-३ मिथ्या वाञ्छसि किं ततस्तव परं स्याद्रत्नसत्त्वक्षयो
१०३६-४ नूनं घट्टनमाप्य पादतलगस्त्वस्यैव चान्ते लुठेः । ।
१०३७-१ आन्दोलयस्यविरतं गगनार्कमङ्के
१०३७-२ तारागणं च शशिनं च तथेतराणि ।
१०३७-३ तेजांसि भासुरतडित्प्रभृतीनि साधो
१०३७-४ चित्रं तथापि न जहासि यदान्ध्यमन्तः । ।
१०३८-१ अयं स भुवनत्रयप्रथितसंयमः शंकरो
१०३८-२ बिभर्ति वपुषाधुना विरहकातरः कामिनीं ।
१०३८-३ अनेन किल निर्जिता वयमिति प्रियायाः करं
१०३८-४ करेण परिपीडयञ्जयति जातहासः स्मरः । ।
१०३९-१ भ्रूशार्ङ्गाकृष्टमुक्ताः कुवलयमधुपव्य्ॐअलक्ष्मीमुषो ये
१०३९-२ क्षीवा ये कृष्णशारा नरहृदयभिदस्तारकक्रूरशल्याः ।
१०३९-३ ते दीर्घापाङ्गपुङ्खाः स्मितविषविषमाः पक्ष्मलाः स्त्रीकटाक्षाः
१०३९-४ पायासुर्वोतिवीर्यास्त्रिभुवनजयिनः पञ्चबाणस्य बाणाः । ।
१०४०-१ गच्छ गच्छसि चेत्कान्त पन्थानः सन्तु ते शिवाः ।
१०४०-२ ममापि जन्म तत्रैव भूयाद्यत्र गतो भवान् । ।