वराहपुराणम्/अध्यायः ८४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ८३ वराहपुराणम्
अध्यायः ८४
[[लेखकः :|]]
अध्यायः ८५ →

रुद्र उवाच ।
उत्तराणां च वर्षाणां दक्षिणानां च सर्वशः ।
आचक्षते यथान्यायं ये च पर्वतवासिनः ।
तच्छृणुध्वं मया विप्राः कीर्त्त्यमानं समाहिताः ।। ८४.१ ।।

दक्षिणेन तु श्वेतस्य नीलस्य चोत्तरेण च ।
वायव्यां रम्यकं नाम जायन्ते तत्र मानवाः ।
मतिप्रधाना विमला जरादौर्गन्ध्यवर्जिताः ।। ८४.२ ।।

तत्रापि सुमहान् वृक्षो न्यग्रोधो रोहितः स्मृतः ।
तत्फलाद् रसपानाद्धि दशवर्षसहस्त्रिणः ।
आयुषा सर्वमनुजा जायन्ते देवरूपिणः ।। ८४.३ ।।

उत्तरेण च श्वेतस्य त्रिश्रृङ्गस्य च दक्षिणे ।
वर्षं हिरण्मयं नाम तत्र हैरण्वती नदी ।
यक्षा वसन्ति तत्रैव बलिनः कामरूपिणः ।। ८४.४ ।।

एकादशहस्त्राणि समानां तेन जीवते ।
शतान्यन्यानि जीवन्ते वर्षाणां दश पञ्च च ।। ८४.५ ।।

लकुचाः क्षुद्रसा वृक्षास्तस्मिन् देशे व्यवस्थिताः ।
तत्फलप्राशमाना हि तेन जीवन्ति मानवाः ।। ८४.६ ।।

तथा त्रिश्रृङ्गे च मणिकाञ्चनसर्वरत्नशिखरानुक्रमेण तस्य चोत्तरश्रृङ्गाद्दक्षिणसमुद्रान्ते चोत्तरकुरवः । वस्त्राण्याभरणानि च वृक्षेष्वेव जायन्ते क्षीरवृक्षाः क्षीरासवाः सन्ति। मणिभूमिः सुवर्णबालुका। तस्मिन् स्वर्गच्युताश्च पुरुषा वसन्ति त्रयोदशवर्षसहस्त्रायुषः । तस्यैव द्वीपस्य पश्चिमेन चतुर्योजनसहस्त्रमतिक्रम्य देवलोकाच्चन्द्रद्वीपो भवति योजनसहस्त्रपरिमण्डलः । तस्य मध्ये चन्द्रकान्तसूर्यकान्तनामानौ गिरिवरौ। तयोश्च मध्ये चन्द्रावती नाम महानदी अनेकवृक्षफलानेकनदीसमाकुला। एतत्कुरुवर्षं च । तस्योत्तरपार्श्वे समुद्रोर्मिमालाढ्यं पञ्चयोजनसहस्त्रमतिक्रम्य देवलोकात् सूर्यद्वीपो भवति योजनसहस्त्रपरिमण्डलः। तस्य मध्ये गिरिवरः शतयोजनविस्तीर्णस्तावदुच्छ्रितः। तस्मात्सूर्यावर्त्तनामा नदी निर्गता। तत्र च सूर्यस्याधिष्ठितम् तत्र सूर्यदैवत्यास्तद्वर्णाश्च प्रजा दशवर्षसहस्त्रायुषः। तस्य च द्वीपस्य पश्चिमेन चतुर्योजनसहस्त्रमतिक्रम्य समुद्रं दशयोजनसहस्त्रं परिमण्डलत्वेन द्वीपो रुद्राकरो नाम । तत्र च भद्रासनं वायोरनेकरत्नशोभितम्। तत्र विग्रहवान् वायुस्तिष्ठति। तपनीयवर्णाश्च प्रजाः पञ्चवर्षसहस्त्रायुषः ।। ८४.७ ।।

।। इति श्रीवराहपुराणे भगवच्छास्त्रे चतुरशीतितमोऽध्यायः ।। ८४ ।।