वराहपुराणम्/अध्यायः ७६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ७५ वराहपुराणम्
अध्यायः ७६
[[लेखकः :|]]
अध्यायः ७७ →

रुद्र उवाच ।
तस्यैव मेरोः पूर्वे तु देशे परमवर्चसे ।
चक्रवाटपरिक्षिप्ते नानाधातुविराजिते ।। ७६.१ ।।

तत्र सर्वामरपुरं चक्रवाटसमुद्धतम् ।
दुर्धर्षं बलदृप्तानां देवदानवरक्षसाम् ।
तत्र जाम्बूनदमयः सुप्राकारः सुतोरणः ।। ७६.२ ।।

तस्याप्युत्तरपूर्वे तु देशे परमवर्चसे ।
अलोकजनसंपूर्णा विमानशतसंकुला ।। ७६.३ ।।

महावापिसमायुक्ता नित्यं प्रमुदिता शुभा ।
शोभिता पुष्पशबलैः पताकाध्वजमालिनी ।। ७६.४ ।।

देवैर्यक्षोप्सरोभिश्च ऋषिभिश्च सुशोभिता ।
पुरन्दरपुरी रम्या समृद्धा त्वमरावती ।। ७६.५ ।।

तस्या मध्येऽमरावत्या वज्रवैदूर्यवेदिका ।
त्रैलोक्यगुणविख्याता सुधर्मा नाम वै सभा ।। ७६.६ ।।

तत्रास्ते श्रीपतेः श्रीमान् सहस्त्राक्षः शचीपतिः ।
सिद्धादिभिः परिवृतः सर्वाभिर्देवयोनिभिः ।। ७६.७ ।।

तत्र चैव सुवंशः स्याद् भास्करस्य महात्मनः ।
साक्षात् तत्र सुराध्यक्षः सर्वदेवनमस्कृतः ।। ७६.८ ।।

तस्याश्च दिक्षु विस्तीर्णा तत्तद्गुणसमन्विता ।
तेजोवती नाम पुरी हुताशस्य महात्मनः ।। ७६.९ ।।

तत्तद्गुणवती रम्या पुरी वैवस्वतस्य च ।
नाम्ना संयमनी नाम पुरी त्रैलोक्यविश्रुता ।। ७६.१० ।।

तथा चतुर्थे दिग्भागे नैर्ऋताधिपतेः शुभा ।
नाम्ना कृष्णावती नाम विरूपाक्षस्य धीमतः ।। ७६.११ ।।

पञ्चमे ह्युत्तरपुटे नाम्ना शुद्धवती पुरी ।
उदकाधिपतेः ख्याता वरुणस्य महात्मनः ।। ७६.१२ ।।

तथा पञ्चोत्तरे देवस्वस्योत्तरपुटे पुरी ।
वायोर्गन्धवती नाम ख्याता सर्वगुणोत्तरा ।। ७६.१३ ।।

तस्योत्तरपुटे रम्या गुह्यकाधिपतेः पुरी ।
नाम्ना महोदया नाम शुभा वैदूर्यवेदिका ।। ७६.१४ ।।

तथाष्टमेऽन्तरपुटे ईशानस्य महात्मनः ।
पुरी मनोहरा नाम भूतैर्नानाविधैर्युता ।
पुष्पैर्धन्यैश्च विविधैर्वनैराश्रमसंस्थितैः ।। ७६.१५ ।।

प्रार्थ्यते देवलोकोऽयं स स्वर्ग इति कीर्तितः ।। ७६.१६ ।।

।। इति श्रीवराहपुराणे भगवच्छास्त्रे षट्सप्ततितमोऽध्यायः ।। ७६ ।।