वराहपुराणम्/अध्यायः ५४

विकिस्रोतः तः
← अध्यायः ५३ वराहपुराणम्
अध्यायः ५४
[[लेखकः :|]]
अध्यायः ५५ →

भद्राश्व उवाच ।
विज्ञानोत्पत्तिकामस्य क आराध्यो भवेद् द्विज ।
कथं चाराध्यतेऽसौ हि एतदाख्याहि मे द्विज ।। ५४.१ ।।

अगस्त्य उवाच ।
विष्णुरेव सदाराध्यः सर्वदेवैरपि प्रभुः ।
तस्योपायं प्रवक्ष्यामि येनासौ वरदो भवेत् ।। ५४.२ ।।

रहस्यं सर्वदेवानां मुनीनां मनुजांस्तथा ।
नारायणः परो देवस्तं प्रणम्य न सीदति ।। ५४.३ ।।

श्रूयते च पुरा राजन् नारदेन महात्मना ।
कथितं तुष्टिदं विष्णोर्व्र्तमप्सरसां तथा ।। ५४.४ ।।

नारदस्तु पुरा कल्पे गतवान् मानसं सरः ।
स्नानार्थं तत्र चजापश्यत् सर्वमप्सरसां गणम् ।। ५४.५ ।।

तास्तं दृष्ट्वा विलासिन्यो जटामुकुटधारिणम् ।
अस्थिचर्मावशेषं तु छत्रदण्डकपालिनम् ।। ५४.६ ।।

देवासुरमनुष्याणां दिदृक्षुं कलहप्रियम् ।
ब्रह्मपुत्रं तपोयुक्तं पप्रच्छुस्ता वराङ्गनाः ।। ५४.७ ।।

अप्सरस ऊचुः ।
भगवन् ब्रह्मतनय भर्तृकामा वयं द्विज ।
नारायणश्च भर्त्ता नो यथा स्यात् तत् प्रचक्ष्व नः ।। ५४.८ ।।

नारद उवाच ।
प्रणामपूर्वकः प्रश्नः सर्वत्र विहितः शुभः ।
स च मे न कृतो गर्वाद् युष्माभिर्यौवनस्मयात् ।। ५४.९ ।।

तथापि देवदेवस्य विष्णोर्यन्नामकीर्तितम् ।
भवतीभिस्तथा भर्त्ता भवत्विति हरिः कृतः ।
तन्नामोच्चारणादेव कृतं सर्वं न संशयः ।। ५४.१० ।।

इदानीं कथयाम्याशु व्रतं येन हरिः स्वयम् ।
वरदत्वमवाप्नोति भर्तृत्वं च नियच्छति ।। ५४.११ ।।

नारद उवाच ।
वसन्ते शुक्लपक्षस्य द्वादशी या भवेच्छुभा ।
तस्यामुपोष्य विधिवन् निशायां हरिमर्च्चयेत् ।। ५४.१२ ।।

पर्यङ्कास्तरणं कृत्वा नानाचित्रसमन्वितम् ।
तत्र लक्ष्म्या युतं रौप्यं हरिं कृत्वा निवेशयेत् ।। ५४.१३ ।।

तस्योपरि ततः पुष्पैर्मण्डपं कारयेद् बुधः ।
नृत्यवादित्रगेयैश्च जागरं तत्र कारयेत् ।। ५४.१४ ।।

मनोभवायेति शिर अनङ्गायेति वै कटिम् ।
कामाय बाहुमूले तु सुशास्त्रायेति चोदरम् ।। ५४.१५ ।।

मन्मथायेति पादौ तु हरयेति च सर्वतः ।
पुष्पैः संपूज्य देवेशं मल्लिकाजातिभिस्तथा ।। ५४.१६ ।।

पश्चाच्चतुर आदाय इक्षुदण्डान् सुशोभनान् ।
चतुर्दिक्षु न्यसेत् तस्य देवस्य प्रणतो नृप ।। ५४.१७ ।।

एवं कृत्वा प्रभाते तु प्रदद्याद् ब्राह्मणाय वै ।
वेदवेदाङ्गयुक्ताय संपूर्णाङ्गाय धीमते ।। ५४.१८ ।।

ब्राह्मणांश्च तथा पूज्य व्रतमेतत् समापयेत् ।
एवं कृते तथा विष्णुर्भर्त्ता वो भविता ध्रुवम् ।। ५४.१९ ।।

अकृत्वा मत्प्रणामं तु पृष्टो गर्वेण शोभनाः ।
अवमानस्य तस्यायं विपाको वो भविष्यति ।। ५४.२० ।।

एतस्मिन्नेव सरसि अष्टावक्रो महामुनिः ।
तस्योपहासं कृत्वा तु शापं लप्स्यथ शोभनाः ।। ५४.२१ ।।

व्रतेनानेन देवेशं पतिं लब्ध्वाऽभिमानतः ।
अवमानेऽपहरणं गोपालैर्वो भविष्यति ।
पुरा हर्त्ता च कन्यानां देवो भर्त्ता भविष्यति ।। ५४.२२ ।।

अगस्त्य उवाच ।
एवमुक्त्वा स देवर्षिः प्रययौ नारदः क्षणात् ।
ता अप्येतद् व्रतं चक्रुस्तुष्टश्चासां स्वयं हरिः ।। ५४.२३ ।।

।। इति श्रीवराहपुराणे भगवच्छास्त्रे चतुःपञ्चाशोऽध्यायः ।। ५४ ।।