वराहपुराणम्/अध्यायः ४८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ४७ वराहपुराणम्
अध्यायः ४८
[[लेखकः :|]]
अध्यायः ४९ →

दुर्वासा उवाच ।
तद्वद् भाद्रपदे मासि शुक्लपक्षे तु द्वादशीम् ।
संकल्प्य विधिना देवमर्च्चयेत् परमेश्वरम् ।। ४८.१ ।।
नमोऽस्तु कल्किने पादौ हृषीकेशाय वै कटिम् ।
म्लेच्छविध्वंसनायेति जगन्मूर्त्ते तथोदरम् ।। ४८.२ ।।
शितिकण्ठाय कण्ठं तु खड्गपाणेति वै भुजौ ।
चतुर्भुजायेति हस्तौ विश्वमूर्त्ते तथा शिरः ।। ४८.३ ।।
एवमभ्यर्च्य मेधावी प्राग्वत् तस्याग्रतो घटम् ।
विन्यसेत् कल्किनं देवं सौवर्णं तत्र कारयेत् ।। ४८.४ ।।
सितवस्त्रयुगच्छन्नं गन्धपुष्पोपशोभितम् ।
कृत्वा प्रभाते विप्राय प्रदेयं शास्त्रवित्तमे ।
एवं कृते भवेद् यस्तु तन्निबोध महामुने ।। ४८.५ ।।
पूर्वं राजा विशालोऽभूत् काश्यां पुर्यां महाबलः ।
गोत्रजैर्हृतराज्योऽसौ गन्धमादनमाविशत् ।। ४८.६ ।।
तस्य द्रोण्यां महाराज बदरीं प्राप्य शोभनाम् ।
हृतराज्यो विशेषेण गतश्रीको नरोत्तमः ।। ४८.७ ।।
कदाचिदागतौ तत्र पुराणावृषिसत्तमौ ।
नरनारायणौ देवौ सर्वदेवनमस्कृतौ ।। ४८.८ ।।
तौ दृष्ट्वा तत्र राजानं पूर्वागतमरिंदमौ ।
ध्यायन्तं परमं ब्रह्म विष्ण्वाख्यं परमं पदम् ।। ४८.९ ।।
तौ प्रीतावूचतुस्तं तु राजानं क्षीणकल्मषम् ।
वरं वृणीष्व राजेन्द्र वरदौ स्वस्तवागतौ ।। ४८.१० ।।
राजोवाच ।
भवन्तौ कौ न जानामि कस्य गृह्णाम्यहं वरम् ।
आराधयामि यत् तस्माद् वरमिच्छामि शोभनम् ।। ४८.११ ।।
एवमुक्तौ तु तौ राज्ञा कमाराधयसे प्रभो ।
कं वा वरं वृणुष्व त्वं कथयस्व कुतूहलात् ।। ४८.१२ ।।
एवमुक्तस्ततो राजा विष्णुमाराधयाम्यहम् ।
कथयित्वा स्थितस्तूष्णीं ततस्तावूचतुः पुनः ।। ४८.१३ ।।
राजन् तस्यैव देवस्य प्रसादादावयोर्वरः ।
दातव्यस्ते वरं ब्रूहि कस्ते मनसि वर्त्तते ।। ४८.१४ ।।
राजोवाच ।
यथा यज्ञेश्वरं देवं यज्ञैर्विविधदक्षिणैः ।
यष्टुं समर्थता मे स्यात् तथा मे ददतं वरम् ।। ४८.१५ ।।
नर उवाच ।
स्वयं नारायणो देवो लोकमार्गप्रदर्शकः ।
मया सह तपः कुर्याद् बदर्यां लोकभावनः ।। ४८.१६ ।।
अयं मत्स्योऽभवत् पूर्वं पुनः कूर्म्मस्वरूपवान् ।
वराहश्चाभवद् देवो नरसिंहस्ततोऽभवत् ।। ४८.१७ ।।
वामनस्तु ततो जातो जामदग्न्यो महाबलः ।
पुनर्दाशरथिर्भूत्वा वासुदेवः पुनर्बभौ ।। ४८.१८ ।।
बुद्धो भूत्वा जनं ह्येष मोहयामास पार्थिव ।
सपत्नान् दस्यवो म्लेच्छान् पुनर्हत्वा महीमिमाम् ।
प्रकृतिस्थां चकारायं स एष भगवान् हरिः ।। ४८.१९ ।।
पूज्यते मत्स्यरूपेण सर्वज्ञत्वमभीप्सुभिः ।
स्ववंशोद्धरणार्थाय कूर्मरूपी तु पूज्यते ।। ४८.२० ।।
भवोदधिनिमग्नेन वाराहः पूज्यते हरिः ।
नारसिंहेण रूपेण तद्वत् पापभयान्नरैः ।। ४८.२१ ।।
वामनं मोहनाशाय वित्तार्थे जगदग्निजम् ।
क्रूरशत्रुविनाशाय यजेद् दाशरथिं बुधः ।। ४८.२२ ।।
बलकृष्णौ यजेद् धीमान् पुत्रकामो न संशयः ।
रूपकामो यजेद् बुद्धं कल्किनं शत्रुघातने ।। ४८.२३ ।।
एवमुक्त्वा नरस्तस्य इमामेवाब्रवीन्मुनिः ।
द्वादशीं कृतवान् सोऽपि चक्रवर्ती बभूव ह ।
तस्यैव नाम्ना बदरी विशालाख्याऽभवन्मुने ।। ४८.२४ ।।
इह जन्मनि राजाऽसौ राज्यं कृत्वा इयाद् वनम् ।
यज्ञैश्च विविधैरिष्ट्वा परं निर्वाणमाप्तवान् ।। ४८.२५ ।।
।। इति श्रीवराहपुराणे भगवच्छास्त्रे अष्टचत्वारिंशोऽध्यायः ।। ४८ ।।