सुभाषितरत्नकोशः/१५ वयःसन्धिव्रज्या

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← १४ मदनव्रज्या सुभाषितरत्नकोशः
१५ वयःसन्धिव्रज्या
विद्याकरः
१६ युवतिवर्णनव्रज्या →

ततो वयःसन्धिव्रज्या|| १५

भ्रुवोः काचिल् लीला परिणतिर् अपूर्वा नयनयोः स्तनाभोगो ऽव्यक्तस् तरुणिमसमारम्भसमये /
इदानीं बालायाः किम् अमृतमयः किं मधुमयः किम् आनन्दः साक्षाद् ध्वनति मधुरः पञ्चमकलः १५.१ (३३४)
वीर्यमित्रस्य

कलः
लयः

उन्नालालकभञ्जनानि कबरीपाशेषु शिक्षारसो दन्तानां परिकर्म नीविनहनं भ्रूलास्ययोग्याग्रहः /
तिर्यग्लोचनचेष्टितानि वचसि च्छेकोक्तिसंक्रान्तयः स्त्रीणां ग्लायति शैशवे प्रतिकलं को ऽप्य् एष केलिक्रमः १५.२ (३३५)

विधत्ते सोल्लेखं कतरद् इह नाङ्गं तरुणिमा तथापि प्रागल्भ्यं किम् अपि चतुरं लोचनयुगे /
यद् आदत्ते दृश्याद् अखिलम् अपि भावव्यतिकरं मनोवृत्तिं द्रष्टुः प्रथयति च दृश्यं प्रति जनम् १५.३ (३३६)
एतौ राजशेखरस्य

एतद् दधाति नवयौवननर्तकस्य कश्मीरजच्छुरिततालकयुग्मलक्ष्मीम् /
मध्ये समुच्छ्वसितवृत्ति मनाग् उपान्ते लब्धात्मसीम कुचकुड्मलयुग्मम् अस्याः १५.४ (३३७)

यौवननगरारम्भे रामाहृदयस्थलीषु कुसुमेषोः /
मकरपताकेवेयं राजति रोमावली रम्या १५.५ (३३८)
एतौ लडहचन्द्रस्य

चलितशिशुदशानां यौवनारम्भरेखा- परिचयपरिचुम्बत्प्रेमकौतूहलानाम् /
उचितसहजलज्जादुर्बला बालिकानां गुरुजनभयभाजां के ऽपि ते भ्रूविलासाः १५.६ (३३९)
गुणेश्वरस्य

नैतत् समुन्नमितचूचुकमुद्रम् अन्तः- संक्रान्तसीमकुचकोरकचक्रम् अस्याः /
संकेतिताङ्गनवयौवननाटकस्य कश्मीरजच्छुरितनूतनकांस्यतालम् १५.७ (३४०)

नितम्बः संवादं मसृणमणिवेद्या मृगयते मनाग् गण्डः पाण्डुर् मधुमुकुललक्ष्मीं तुलयति /
विशन्त्यास् तारुण्यं घुसृणघनलावण्यपयसि प्रकामं प्रोन्मज्जद् वपुर् अपि च तस्या विजयते १५.८ (३४१)

उद्भिन्नस्तनकुड्मलद्वयम् उरः किंचित् कपोलस्थलीं लिम्पत्य् एव मधूककान्तिर् अधरः संमुग्धलक्ष्मीमयः /
प्रत्यासीदति यौवने मृगदृशः किं चान्यद् आविर्भवल् लावण्यामृतपङ्कलेपलडहच्छायं वपुर् वर्तते १५.९ (३४२)

गेहाद् बहिर् विरम चापलम् अस्तु दूरम् अद्यापि शैशवदशालडितानि तानि /
आप्यायमानजघनस्थलपीड्यमानम् अर्धोरुकं त्रुटति पुत्रि तव क्षणेन १५.१० (३४३)

प्रेमासङ्गि च भङ्गि च प्रतिवचो ऽप्य् उक्तं च गुप्तं तथा यत्नाद् याचितम् आननं प्रति समाधाने च हाने च धीः /
इत्य् अन्यो मधुरः स को ऽपि शिशुतातारुण्ययोर् अन्तरे वर्तिष्णोर् मृगचक्षुषो विजयते द्वैविध्यमुग्धो रसः १५.११ (३४४)
लक्ष्मीधरस्य

नितम्बः स्वां लक्ष्मीम् अभिलषति नाद्यापि लभते समन्तात् साभोगं न च कुचविभागाञ्चितम् उरः /
दृशोर् लीलामुद्रा स्फुरति च न चापि स्थितिमती तद् अस्यास् तारुण्यं प्रथमम् अवतीर्णं विजयते १५.१२ (३४५)

शारिद्यूतकथाकुतूहलि मनश् छेकोक्तिशिक्षारतिर् नित्यं दर्पणपाणिता सहचरीवर्गेण चाचार्यकम् /
प्रौढस्त्रीचरितानुवृत्तिषु रसो बाल्येन लज्जा मनाक् स्तोकारोहिणि यौवने मृगदृशः को ऽप्य् एष केलिक्रमः १५.१३ (३४६)

दृष्टिः शैशवमण्डना प्रतिकलं प्रागल्भ्यम् अभ्यस्यते पूर्वाकारम् उरस् तथापि कुचयोः शोभां नवाम् ईहते /
नो धत्ते गुरुतां तद् अप्य् उपचिताभोगा नितम्बस्थली तन्व्याः स्वीकृतमन्मथं विजयते नेत्रैकपेयं वपुः १५.१४ (३४७)

आकण्ठार्पितकञ्चुकाञ्चलम् उरो हस्ताङ्गुलीमुद्रणा- मात्रासूत्रितहास्यम् आस्यम् अलसाः पञ्चालिकाकेलयः /
तिर्यग्लोचनचेष्टितानि वचसां छेकोक्तिसंक्रान्तयस् तस्याः सीदति शैशवे प्रतिकलं को ऽप्य् एष केलिक्रमः १५.१५ (३४८)

दोर्मूलावधिसूत्रितस्तनम् उरः स्निह्यत्कटाक्षे दृशाव् ईषत्ताण्डवपण्डिते स्मितसुधाच्छेकोक्तिषु भ्रूलते /
चेतः कन्दलितस्मरव्यतिकरं लावण्यम् अङ्गैर् वृतं तन्वङ्ग्यास् तरुणिम्नि सर्पति शनैर् अन्यैव काचिद् गतिः १५.१६ (३४९)

वारं वारम् अनेकधा सखि मया चूतद्रुमाणां वने पीतः कर्णदरीप्रणालवलितः पुंस्कोकिलानां ध्वनिः /
तस्मिन्न् अद्य पुनः श्रुतिप्रणयिनि प्रत्यङ्गम् उत्कम्पितं तापश् चेतसि नेत्रयोस् तरलिमा कस्माद् अकस्मान् मम १५.१७ (३५०)
भोज्यदेवस्य

दरोत्तानं चक्षुः कलितविरलापाङ्गवलनं भविष्यद्विस्तारिस्तनमुकुलगर्भालसम् उरः /
नितम्बे संक्रान्ताः कतिपयकला गौरवजुषो वपुर् मुञ्चद् बाल्यं किम् अपि कमनीयं मृगदृशः १५.१८ (३५१)

गणितगरिमा श्रोणिर् मध्यं निबद्धवलित्रयं हृदयम् उदयल्लज्जं सज्जच्चिरन्तनचापलम् /
मुकुलितकुचं वक्षश् चक्षुर् मनाग्वृतवक्रिम क्रमपरिगलद्बाल्यं तन्व्या वपुस् तनुते श्रियम् १५.१९ (३५२)

बालो ऽद्यापि किलेति लक्षितम् अलंकर्तुं निजैर् भूषणैर् रामाभिश् चिरम् उद्यते हृदि लिहन्न् इच्छाम् अनिच्छां वहन् /
स्निह्यत्तारम् अथान्यदृष्टिविरहे यः संमुखं वीक्षितो नम्रः स्मेरमुखीभवन्न् इति वयःसन्धिश्रियालिङ्गितः १५.२० (३५३)
वल्लणस्य

माध्यस्थ्यं च समस्तवस्तुषु परिप्रश्ने शिरोघूर्णनं प्रेयस्यां परम् अर्पितान्तरबहिर्वृत्तिप्रपञ्चक्रमः /
किं चापि स्फुटदृष्टिविभ्रमकलानिर्माणशिक्षारसः प्रत्यङ्गं स्मरकेलिमुद्रितमहो बाला वयोविभ्रमे १५.२१ (३५४)

पद्भ्यां मुक्तास् तरलगतयः संश्रिता लोचनाभ्यां श्रोणीबिम्बं त्यजति तनुतां सेवते मध्यभागः /
धत्ते वक्षः कुचसचिवताम् अद्वितीयत्वम् आस्यं तद्गात्राणां गुणविनिमयः कल्पितो यौवनेन १५.२२ (३५५)

बाल्यं यद् अस्यास् त्रिवलीतटिन्यास् तटे विनष्टं सह चापलेन /
तदर्थम् उत्थापितचारुचैत्य- कल्पौ स्तनौ पाण्डुतरौ तरुण्याः १५.२३ (३५६)

तदात्वप्रोन्मीलन्म्रदिमरमणीयात् कठिनतां निचित्य प्रत्यङ्गाद् इव तरुणभावेन घटितौ /
स्तनौ सम्बिभ्राणाः क्षणविनयवैजात्यमसृण- स्मरोन्मेषाः केषाम् उपरि न रसानां युवतयः १५.२४ (३५७)
मुरारेः

भ्रूलीला चतुरा त्रिभागवलिता दृष्टिर् गतिर् मन्थरा विस्रब्धं हसितं कपोलफलके वैदग्ध्यवक्रं वचः /
नोद्दिष्टं गुरुणा न बन्धुकथितं दृष्टं न शास्त्रे क्वचिद् बालायाः स्वयम् एव मन्मथकलापाण्डित्यम् उन्मीलति १५.२५ (३५८)

लावण्यामृतसिन्धुसान्द्रलहरीसंसिक्तम् अस्या वपुर् जातस् तत्र नवीनयौवनकलालीलालतामण्डपः /
तत्रायं स्पृहणीयशीतलतरच्छायासु सुप्तोत्थितः संमुग्धो मधुबान्धवः स भगवान् अद्यापि निद्रालसः १५.२६ (३५९)
वीर्यमित्रस्य

भ्रुविर् लीलैवान्या दरहसितम् अभ्यस्यति मुखं दृशोर् वक्रः पन्थास् तरुणिमसमारम्भसचिवः /
इदानीम् एतस्याः कुवलयदृशः प्रत्यहम् अयं नितम्बस्याभोगो नयति मणिकाञ्चीम् अधिकताम् १५.२७ (३६०)
राज्यपालस्य

मध्यं बद्धवलित्रयं विजयते निःसन्धिबन्धोन्नम- द्विस्तारिस्तनभारमन्थरम् उरो मुग्धाः कपोलश्रियः /
किंचिन्मुग्धविलोकनीरजदृशस् तारुण्यपुण्यातिथेस् तस्याः कुङ्कुमपङ्कलेपनडहच्छायं वपुर् वर्तते १५.२८ (३६१)
वज्रमुष्टेः

समस्तं विज्ञाय स्मरनरपतेश् चारुचरितं चरश् चक्षुः कर्णे कथयितुम् अगात् सत्वरम् इव /
प्रयाणं बाल्यस्य प्रतिपदम् अभूद् विग्रहभरः परिस्पन्दो वाचाम् अपि च कुचयोः सन्धिर् अभवत् १५.२९ (३६२)

उत्खेलत्त्रिवलीतरङ्गतरला रोमावलीशैवल- स्रग्वलिर् युवती ध्रुवं जनमनोनिर्वाणवाराणसी /
एतस्या यद् उरस्तटीपरिसरे यद् बाल्यचापल्ययोः स्थाने यौवनशिल्पिकल्पितचिताचैत्यद्वयं दृश्यते १५.३० (३६३)
भवस्य

स्तनोद्भेदः किंचित् त्यजति तनुतायाः परिचयं तथा मध्यो भागस् त्रिवलिवलयेभ्यः स्पृहयति /
नितम्बे च स्वैरं विलसति विलासव्यसनिता मृगाक्ष्याः प्रत्यङ्गं कृतपदम् इवानङ्गलडितम् १५.३१ (३६४)

यत् प्रत्यङ्गं तटम् अनुसरन्त्य् ऊर्मयो विभ्रमाणां क्षोभं धत्ते यद् अपि बहलः स्निग्धलावण्यपङ्कः /
उन्मग्नं यत् स्फुरति च मनाक् कुम्भयोर् द्वन्द्वम् एतत् तन् मन्ये ऽस्याः स्मरगजयुवा गाहते हृत्तडागम् १५.३२ (३६५)

कृतनिभशतं निष्क्रामन्तीं सखीभिर् अनूद्धृतां कथम् अपि हठाद् आकृष्यान्ते पटस्य निवेशिताम् /
नवनिधुवनक्रीडारम्भप्रकम्पविवर्तिनीम् अनुभवमृदूभूतत्रासां मनः स्मरति प्रियाम् १५.३३ (३६६)

स्मितं किंचिन्मुग्धं तरलमधुरो दृष्टिविभवः परिस्पन्दो वाचाम् अभिनवविलासोक्तिसरसः /
गतीनाम् आरम्भः किसलयितलीलापरिमलः स्पृशन्त्यास् तारुण्यं किम् इव न मनोज्ञं मृगदृशः १५.३४ (३६७)

अस्ति भयम् अस्ति कौतुकम् अस्ति च मन्दाक्षम् अस्ति चोत्कण्ठा /
बालानां प्रणयिजने भावः को ऽप्य् एष नैकरसः १५.३५ (३६८)

प्रगल्भानाम् अन्ते निवसति शृणोति स्मरकथां स्वयं तत्तच्चेष्टाशतम् अभिनयेनार्पयति च /
स्पृहाम् अन्तः कान्ते वहति न समभ्येति निकटं यथैवेयं बाला हरति च तथैवेयम् अधिकम् १५.३६ (३६९)

अन्योन्यान्तरनिर्गताङ्गुलिदलश्रेणीभवन्निश्चल- ग्रन्थिप्रग्रथितं करद्वयम् उपर्य् उत्तानम् आविभ्रता /
सेयं विभ्रमतोरणप्रणयिना जृम्भाभरोत्तम्भिते- नोच्चैर्बाहुयुगेन शंसति मनोजन्मप्रवेशोत्सवम् १५.३७ (३७०)
शतानन्दस्य

स एष यौवनाचार्यः सिद्धये स्मरभूभुजः /
प्रियायां बलिम् उद्दिश्य तनोति स्तनमण्डलम् १५.३८ (३७१)

बिभ्रत्या वपुर् उन्नमत्कुचयुगं प्रादुर्भवद्विभ्रमं बालाया लसदङ्गसंधिविरमद्बाल्यं वलद्भ्रूलतम् /
अन्तर् विस्फुरति स्मरो बहिर् अपि व्रीडा समुन्मीलते स्वैरं लोचनवक्रिमा विलसति श्रीः काचिद् उज्जृम्भते १५.३९ (३७२)
रुद्रस्य

सुतनुर् अधुना सेयं निम्नां स्वनाभिम् अभीक्षते कलयति परावृत्तेनाक्ष्णा नितम्बसमुन्नतिम् /
रहसि कुरुते वासोगुप्तौ स्वमध्यकदर्थनाम् अपि च किम् अपि व्रीडां क्रीडासखीम् इव मन्यते १५.४० (३७३)

यद् अन्योन्यप्रेमप्रवणयुवतीमन्मथकथा- समारम्भे स्तम्भीभवति पुलकैर् अञ्चिततनुः /
तथा मन्ये धन्यं परमसुरतब्रह्मनिरतं कुरङ्गाक्षी दीक्षागुरुम् अकृत कंचित् सुकृतिनम् १५.४१ (३७४)
नरसिंहस्य

तरन्तीवाङ्गानि स्फुरदमललावण्यजलधौ प्रथिम्नः प्रागल्भ्यं स्तनजघनम् उन्मुद्रयति च /
दृशोर् लीलारम्भाः स्फुटम् अपवदन्ते सरलताम् अहो सारङ्गाक्ष्यास् तरुणिमनि गाढः परिचयः १५.४२ (३७५)
राजशेखरस्य

गतिर् मन्दा सान्द्रं जघनम् उदरं क्षामम् अतनुः स्तनाभोगः स्तोकं वचनम् अतिमुग्धं च हसितम् /
विलोकभ्रूवल्लीचलनलयलोलं च नयनं क्व जातं बालायाः क्व च विषयम् अक्ष्णोर् इयम् अगात् १५.४३ (३७६)
सुदोकस्य

हरतितरां जनहृदयं कलिकोपगता लता च दयिता च /
यदि पुनर् अतनुशिलीमुखसमाकुला किं न पर्याप्तम् १५.४४ (३७७)
गोभटस्य

धृतम् इव पुरः पश्चात् कैश्चित् प्रणुन्नम् इवोल्लसत्- पुलकम् इव यत्प्राप्तोच्छ्वासव्युदस्तमिथोन्तरम् /
अतिगतसखीहस्तोन्मानक्रमं दिवसक्रमैर् इदम् अनुभवद्वाञ्छापूर्तिक्षमर्द्धि कुचद्वयम् १५.४५ (३७८)

स्तनतटम् इदम् उत्तुङ्गं निम्नो मध्यः समुन्नतं जघनम् /
इति विषमे हरिणाक्ष्या वपुषि नवे क इह न स्खलति १५.४६ (३७९)

मात्रानर्तनपण्डितभ्रु वदनं किंचित्प्रगल्भे दृशौ स्तोकोद्भेदनिवेशितस्तनम् उरो मध्यं दरिद्राति च /
अस्या यज् जघनं घनं च कलया प्रत्यङ्गम् एणीदृशः सत्यंकार इव स्मरैकसुहृदा तद् यौवनेनार्पितम् १५.४७ (३८०)
राजशेखरस्य

अयि पुरारि परुन्मलयानिला ववुर् अमी जगुर् एव च कोकिलाः /
कलमलोत्कलितं तु न मे मनः सखि बभूव वृथैव यथैषमः १५.४८ (३८१)
उत्पलराजस्य

स्खलति वयसि बाले निर्जिते राजनीव स्फुरति रतिनिधाने यौवने जेतरीव /
मदमदनविवृद्धिस्पर्धयेवाबलानां किम् अपि वपुषि लीलाकुड्मलानि स्फुटन्ति १५.४९ (३८२)

दृष्ट्या वर्जितम् आर्जवं समतया दत्तं पयो वक्षसे क्षीणायुर् गतिषु त्वरा स्मितम् अपि भ्रूलास्यलीलासखम् /
सत्या न प्रकृतौ गुरः शिशुतया प्रस्थानदत्तार्घया काप्य् अन्या हरिणीदृशः परिणतिः कन्दर्पमुद्राङ्किता १५.५० (३८३)
राजशेखरस्य

इति वयःसन्धिव्रज्या