लक्ष्मीनृसिंहपञ्चरत्न

विकिस्रोतः तः
लक्ष्मीनृसिंहपञ्चरत्न
विष्णुस्तोत्राणि
[[लेखकः :|]]

त्वत्प्रभुजीवप्रियमिच्छसि चेन्नरहरिपूजां कुरु सततं
  प्रतिबिम्बालंकृतिधृतिकुशलो बिम्बालंकृतिमातनुते ।
चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां
  भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ १॥

शुक्त्तौ रजतप्रतिभा जाता कतकाद्यर्थसमर्था चे
  द्दुःखमयी ते संसृतिरेषा निर्वृतिदाने निपुणा स्यात् ।
चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां
  भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ २॥

आकृतिसाम्याच्छाल्मलिकुसुमे स्थलनलिनत्वभ्रममकरोः
  गन्धरसाविह किमु विद्येते विफलं भ्राम्यसि भृशविरसेस्मिन् ।
चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां
  भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ ३॥

स्रक्चन्दनवनितादीन्विषयान्सुखदान्मत्वा तत्र विहरसे
  गन्धफलीसदृशा ननु तेमी भोगानन्तरदुःखकृतः स्युः ।
चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां
  भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ ४॥

तव हितमेकं वचनं वक्ष्ये शृणु सुखकामो यदि सततं
  स्वप्ने दृष्टं सकलं हि मृषा जाग्रति च स्मर तद्वदिति।
चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां
  भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ ५॥

      इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
      श्री गोविन्द भगवत्पूज्यपाद शिष्यस्य
      श्रीमच्छंकर भगवतः कृतौ
      लक्ष्मीनृसिंह पJण्चरत्नम् सम्पूर्णम् ॥