रामायणम्/बालकाण्डम्/सर्गः ३०

विकिस्रोतः तः
← सर्गः २९ रामायणम्/बालकाण्डम्
बालकाण्डम्
वाल्मीकिः
सर्गः ३१ →
त्रिंशः सर्गः श्रूयताम्
रामायणम्/बालकाण्डम्


श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रिंशः सर्गः ॥१-३०॥

अथ तौ देशकालज्ञौ राजपुत्रावरिंदमौ ।
देशे काले च वाक्यज्ञावब्रूतां कौशिकं वचः ॥१-३०-१॥

भगवञ्छ्रोतुमिच्छावो यस्मिन् काले निशाचरौ ।
संरक्षणीयौ तौ ब्रूहि नातिवर्तेत तत्क्षणम् ॥१-३०-२॥

एवं ब्रुवाणौ काकुत्स्थौ त्वरमाणौ युयुत्सया ।
सर्वे ते मुनयः प्रीताः प्रशशंसुर्नृपात्मजौ ॥१-३०-३॥

अद्यप्रभृति षड्रात्रं रक्षतां राघवौ युवाम् ।
दीक्षां गतो ह्येष मुनिर्मौनित्वं च गमिष्यति ॥१-३०-४॥

तौ तु तद्वचनं श्रुत्वा राजपुत्रौ यशस्विनौ ।
अनिद्रं षडहोरात्रं तपोवनमरक्षताम् ॥१-३०-५॥

उपासांचक्रतुर्वीरौ यत्तौ परमधन्विनौ ।
ररक्षतुर्मुनिवरं विश्वामित्रमरिंदमौ ॥१-३०-६॥

अथ काले गते तस्मिन् षष्ठेऽहनि तदागते ।
सौमित्रिमब्रवीद् रामो यत्तो भव समाहितः ॥१-३०-७॥

रामस्यैवं ब्रुवाणस्य त्वरितस्य युयुत्सया ।
प्रजज्वाल ततो वेदिः सोपाध्यायपुरोहिता ॥१-३०-८॥

सदर्भचमसस्रुक्का स समित्कुसुमोच्चया ।
विश्वामित्रेण सहिता वेदिर्जज्वाल सर्त्विजा ॥१-३०-९॥

मन्त्रवच्च यथान्यायं यज्ञोऽसौ सम्प्रवर्तते ।
आकाशे च महाञ्छ्ब्दः प्रादुरासीद् भयानकः ॥१-३०-१०॥

आवार्य गगनं मेघो यथा प्रावृषि दृश्यते ।
तथा मायां विकुर्वाणौ राक्षसावभ्यधावताम् ॥१-३०-११॥

मारीचश्च सुबाहुश्च तयोरनुचरास्तथा ।
आगम्य भीमसंकाशा रुधिरौघानवासृजन् ॥१-३०-१२॥

ताम् तेन रुधिरौघेण वेदीं वीक्ष्य समुक्षिताम् ।
सहसाभिद्रुतो रामस्तानपश्यत् ततो दिवि ॥१-३०-१३॥

तावापतन्तौ सहसा दृष्ट्वा राजीवलोचनः ।
लक्ष्मणं त्वभिसम्प्रेक्ष्य रामो वचनमब्रवीत् ॥१-३०-१४॥

पश्य लक्ष्मण दुर्वृत्तान् राक्षसान् पिशिताशनान् ।
मानवास्त्रसमाधूताननिलेन यथा घनान् ॥१-३०-१५॥

करिष्यामि न संदेहो नोत्सहे हन्तुमीदृशान् ।
इत्युक्त्वा वचनं रामश्चापे संधाय वेगवान् ॥१-३०-१६॥

मानवं परमोदारमस्त्रं परमभास्वरम् ।
चिक्षेप परमक्रुद्धो मारीचोरसि राघवः ॥१-३०-१७॥

स तेन परमास्त्रेण मानवेन समाहतः ।
सम्पूर्णं योजनशतं क्षिप्तः सागरसम्प्लवे ॥१-३०-१८॥

विचेतनं विघूर्णन्तं शीतेषुबलपीडितम् ।
निरस्तं दृश्य मारीचं रामो लक्ष्मणमब्रवीत् ॥१-३०-१९॥

पश्य लक्ष्मण शीतेषुं मानवं मनुसंहितम् ।
मोहयित्वा नयत्येनं न च प्राणैर्वियुज्यते ॥१-३०-२०॥

इमानपि वधिष्यामि निर्घृणान् दुष्टचारिणः ।
राक्षसान् पापकर्मस्थान् यज्ञघ्नान् रुधिराशनान् ॥१-३०-२१॥

इत्युक्त्वा लक्ष्मणं चाशु लाघवं दर्शयन्निव ।
विगृह्य सुमहच्चास्त्रमाग्नेयं रघुनन्दनः ॥१-३०-२२॥

सुबाहूरसि चिक्षेप स विद्धः प्रापतद् भुवि ।
शेषान् वायव्यमादाय निजघान महायशाः ।
राघवः परमोदारो मुनीनां मुदमावहन् ॥१-३०-२३॥

स हत्वा राक्षसान् सर्वान् यज्ञघ्नान् रघुनन्दनः ।
ऋषिभिः पूजितस्तत्र यथेन्द्रो विजये पुरा ॥१-३०-२४॥

अथ यज्ञे समाप्ते तु विश्वामित्रो महामुनिः ।
निरीतिका दिशो दृष्ट्वा काकुत्स्थमिदमब्रवीत् ॥१-३०-२५॥

कृतार्थोऽस्मि महाबाहो कृतं गुरुवचस्त्वया ।
सिद्धाश्रममिदं सत्यं कृतं वीर महायशः ।
स हि रामं प्रशस्यैवं ताभ्यां संध्यामुपागमत् ॥१-३०-२६॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिंशः सर्गः ॥१-३०॥

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।