रामायणम्/बालकाण्डम्/सर्गः १२

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सर्गः ११ रामायणम्/बालकाण्डम्
बालकाण्डम्
वाल्मीकिः
सर्गः १३ →
द्वादशः सर्गः श्रूयताम्
रामायणम्/बालकाण्डम्


श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्वादशः सर्गः ॥१-१२॥

ततः काले बहुतिथे कस्मिंश्चित् सुमनोहरे ।
वसन्ते समनुप्राप्ते राज्ञो यष्टुं मनोऽभवत् ॥१-१२-१॥

ततः प्रणम्य शिरसा तं विप्रं देववर्णिनम् ।
यज्ञाय वरयामास संतानार्थं कुलस्य च ॥१-१२-२॥

तथेति च स राजानमुवाच वसुधाधिपम् ।
सम्भाराः सम्भ्रियन्तां ते तुरगश्च विमुच्यताम् ॥१-१२-३॥

सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ।
ततोऽब्रवीनृपो वाक्यं ब्राह्मणान् वेदपारगान् ॥१-१२-४॥

सुमन्त्रावाहय क्षिप्रमृत्विजो ब्रह्मवादिनः ।
सुयज्ञं वामदेवं च जाबालिमथ काश्यपम् ॥१-१२-५॥

पुरोहितं वसिष्ठं च ये चान्ये द्विजसत्तमाः ।
ततः सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः ॥१-१२-६॥

समानयत् स तान् सर्वान् समस्तान् वेदपारगान् ।
तान् पूजयित्वा धर्मात्मा राजा दशरथस्तदा ॥१-१२-७॥

धर्मार्थसहितं युक्तं श्लक्ष्णं वचनमब्रवीत् ।
मम तातप्यमानस्य पुत्रार्थं नास्ति वै सुखम् ॥१-१२-८॥

पुत्रार्थं हयमेधेन यक्ष्यामीति मतिर्मम ।
तदहं यष्टुमिच्छामि हयमेधेन कर्मणा ॥१-१२-९॥

ऋषिपुत्रप्रभावेण कामान् प्राप्स्यामि चाप्यहम् ।
ततः साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन् ॥१-१२-१०॥

वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखाच्च्युतम् ।
ऋष्यशृङ्गपुरोगाश्च प्रत्यूचुर्नृपतिं तदा ॥१-१२-११॥

सम्भाराः सम्भ्रियन्तां ते तुरगश्च विमुच्यताम् ।
सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ॥१-१२-१२॥

सर्वथा प्राप्यसे पुत्रांश्चतुरोऽमितविक्रमान् ।
यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता ॥१-१२-१३॥

ततः प्रीतोऽभवद् राजा श्रुत्वा तु द्विजभाषितम् ।
अमात्यानब्रवीद् राजा हर्षेणेदं शुभाक्षरम् ॥१-१२-१४॥

गुरूणां वचनाच्छीघ्रं सम्भाराः सम्भ्रियन्तु मे ।
समर्थाधिष्ठितश्चाश्वः सोपाध्यायो विमुच्यताम् ॥१-१२-१५॥

सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ।
शान्तयश्चाभिवर्धन्तां यथाकल्पं यथाविधि ॥१-१२-१६॥

शक्यः कर्तुमयं यज्ञः सर्वेणापि महीक्षिता ।
नापराधो भवेत् कष्टो यद्यस्मिन् क्रतुसत्तमे ॥१-१२-१७॥

छिद्रं हि मृगयन्त्येते विद्वांसो ब्रह्मराक्षसाः ।
विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यति ॥१-१२-१८॥

तद् यथा विधिपूर्वं मे क्रतुरेष समाप्यते ।
तथा विधानं क्रियतां समर्थाः करणेष्विह ॥१-१२-१९॥

तथेति च ततः सर्वे मन्त्रिणः प्रत्यपूजयन् ।
पार्थिवेन्द्रस्य तद् वाक्यं यथाज्ञप्तमकुर्वत ॥१-१२-२०॥

ततो द्विजास्ते धर्मज्ञमस्तुवन् पार्थिवर्षभम् ।
अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम् ॥१-१२-२१॥

गतेषु तेषु विप्रेषु मन्त्रिणस्तान् नराधिपः ।
विसर्जयित्वा स्वं वेश्म प्रविवेश महामतिः ॥१-१२-२२॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्वादशः सर्गः ॥१-१२॥

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।