रामायणम्/अरण्यकाण्डम्/सर्गः ४२
दिखावट
< रामायणम् | अरण्यकाण्डम्
← सर्गः ४१ | रामायणम्/अरण्यकाण्डम् अरण्यकाण्डम् वाल्मीकिः |
सर्गः ४३ → |
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे द्विचत्वारिंशः सर्गः ॥३-४२॥
एवमुक्त्वा तु परुषं मारीचो रावणं ततः। गच्छावेत्यब्रवीद् दीनो भयाद् रात्रिंचरप्रभोः॥ १॥ दृष्टश्चाहं पुनस्तेन शरचापासिधारिणा। मद्वधोद्यतशस्त्रेण निहतं जीवितं च मे॥ २॥ नहि रामं पराक्रम्य जीवन् प्रतिनिवर्तते। वर्तते प्रतिरूपोऽसौ यमदण्डहतस्य ते॥ ३॥ किं नु कर्तुं मया शक्यमेवं त्वयि दुरात्मनि। एष गच्छाम्यहं तात स्वस्ति तेऽस्तु निशाचर॥ ४॥ प्रहृष्टस्त्वभवत् तेन वचनेन स राक्षसः। परिष्वज्य सुसंश्लिष्टमिदं वचनमब्रवीत्॥ ५॥ एतच्छौटीर्ययुक्तं ते मच्छन्दवशवर्तिनः। इदानीमसि मारीचः पूर्वमन्यो हि राक्षसः॥ ६॥ आरुह्यतामयं शीघ्रं खगो रत्नविभूषितः। मया सह रथो युक्तः पिशाचवदनैः खरैः॥ ७॥ प्रलोभयित्वा वैदेहीं यथेष्टं गन्तुमर्हसि। तां शून्ये प्रसभं सीतामानयिष्यामि मैथिलीम्॥ ८॥ ततस्तथेत्युवाचैनं रावणं ताटकासुतः। ततो रावणमारीचौ विमानमिव तं रथम्॥ ९॥ आरुह्याययतुः शीघ्रं तस्मादाश्रममण्डलात्। तथैव तत्र पश्यन्तौ पत्तनानि वनानि च॥ १०॥ गिरींश्च सरितः सर्वा राष्ट्राणि नगराणि च। समेत्य दण्डकारण्यं राघवस्याश्रमं ततः॥ ११॥ ददर्श सहमारीचो रावणो राक्षसाधिपः। अवतीर्य रथात् तस्मात् ततः काञ्चनभूषणात्॥ १२॥ हस्ते गृहीत्वा मारीचं रावणो वाक्यमब्रवीत्। एतद् रामाश्रमपदं दृश्यते कदलीवृतम्॥ १३॥ क्रियतां तत् सखे शीघ्रं यदर्थं वयमागताः। स रावणवचः श्रुत्वा मारीचो राक्षसस्तदा॥ १४॥ मृगो भूत्वाऽऽश्रमद्वारि रामस्य विचचार ह। स तु रूपं समास्थाय महदद्भुतदर्शनम्॥ १५॥ मणिप्रवरशृङ्गाग्रः सितासितमुखाकृतिः। रक्तपद्मोत्पलमुख इन्द्रनीलोत्पलश्रवाः॥ १६॥ किंचिदभ्युन्नतग्रीव इन्द्रनीलनिभोदरः। मधूकनिभपार्श्वश्च कञ्जकिञ्जल्कसंनिभः॥ १७॥ वैदूर्यसंकाशखुरस्तनुजङ्घः सुसंहतः। इन्द्रायुधसवर्णेन पुच्छेनोर्ध्वं विराजितः॥ १८॥ मनोहरस्निग्धवर्णो रत्नैर्नानाविधैर्वृतः। क्षणेन राक्षसो जातो मृगः परमशोभनः॥ १९॥ वनं प्रज्वलयन् रम्यं रामाश्रमपदं च तत्। मनोहरं दर्शनीयं रूपं कृत्वा स राक्षसः॥ २०॥ प्रलोभनार्थं वैदेह्या नानाधातुविचित्रितम्। विचरन् गच्छते सम्यक् शाद्वलानि समन्ततः॥ २१॥ रौप्यैर्बिन्दुशतैश्चित्रं भूत्वा च प्रियदर्शनः। विटपीनां किसलयान् भक्षयन् विचचार ह॥ २२॥ कदलीगृहकं गत्वा कर्णिकारानितस्ततः। समाश्रयन् मन्दगतिं सीतासंदर्शनं ततः॥ २३॥ राजीवचित्रपृष्ठः स विरराज महामृगः। रामाश्रमपदाभ्याशे विचचार यथासुखम्॥ २४॥ पुनर्गत्वा निवृत्तश्च विचचार मृगोत्तमः। गत्वा मुहूर्तं त्वरया पुनः प्रतिनिवर्तते॥ २५॥ विक्रीडंश्च क्वचिद् भूमौ पुनरेव निषीदति। आश्रमद्वारमागम्य मृगयूथानि गच्छति॥ २६॥ मृगयूथैरनुगतः पुनरेव निवर्तते। सीतादर्शनमाकांक्षन् राक्षसो मृगतां गतः॥ २७॥ परिभ्रमति चित्राणि मण्डलानि विनिष्पतन्। समुद्वीक्ष्य च सर्वे तं मृगा येऽन्ये वनेचराः॥ २८॥ उपगम्य समाघ्राय विद्रवन्ति दिशो दश। राक्षसः सोऽपि तान् वन्यान् मृगान् मृगवधे रतः॥ २९॥ प्रच्छादनार्थं भावस्य न भक्षयति संस्पृशन्। तस्मिन् नेव ततः काले वैदेही शुभलोचना॥ ३०॥ कुसुमापचये व्यग्रा पादपानत्यवर्तत। कर्णिकारानशोकांश्च चूतांश्च मदिरेक्षणा॥ ३१॥ कुसुमान्यपचिन्वन्ती चचार रुचिरानना। अनर्हा वनवासस्य सा तं रत्नमयं मृगम्॥ ३२॥ मुक्तामणिविचित्राङ्गं ददर्श परमाङ्गना। तं वै रुचिरदन्तोष्ठं रूप्यधातुतनूरुहम्॥ ३३॥ विस्मयोत्फुल्लनयना सस्नेहं समुदैक्षत। स च तां रामदयितां पश्यन् मायामयो मृगः॥ ३४॥ विचचार ततस्तत्र दीपयन्निव तद् वनम्। अदृष्टपूर्वं दृष्ट्वा तं नानारत्नमयं मृगम्। विस्मयं परमं सीता जगाम जनकात्मजा॥ ३५॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्येअरण्यकाण्डे द्विचत्वारिंशः सर्गः ॥३-४२॥
स्रोतः
[सम्पाद्यताम्]पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र