रसरत्नसमुच्चय : अध्याय 14

विकिस्रोतः तः

अग्निमान्द्यं ज्वरः शैत्यं वान्तिः शोणितपूययोः ।
सत्त्वहानिश्च दौर्बल्यं राजरोगस्य लक्षणम् ।। रस-१४.१ ।।

रसस्य तुल्यभागेन हेमभस्म प्रकल्पयेत् ।
तालकं गन्धकं तुत्थं माक्षिकं रसकं शिलाम् ।। रस-१४.२ ।।

रससाम्येन युञ्जीत तुत्थं भस्मीकृतं न्यसेत् ।
वह्नौ भस्मीकृतं चेत्थं मयूरकसुतुत्थकम् ।। रस-१४.३ ।।

किंचिट् टङ्कणकं दत्त्वा मार्जारस्य विशा युतम् ।
प्रथमं पुटयेद् दध्ना द्वितीयं मधुना सह ।। रस-१४.४ ।।

तालकं शोधयेदग्रे कूष्माण्डक्षारपाचनात् ।
तैले पचेत्ततः सम्यक् चूर्णे वा परिशोधयेत् ।। रस-१४.५ ।।

गन्धकं शोधयेद्दुग्धे रसकं नरवारिणा ।
माक्षिकं सिन्धुसंयुक्तं बीजपूररसे पचेत् ।। रस-१४.६ ।।

जयन्तीद्रवसम्पिष्टां शिलां तत्रैव पाचयेत् ।
एकीकृत्य ततः सर्वम् अर्कक्षीरेण मर्दयेत् ।। रस-१४.७ ।।

जयन्तीभृङ्गराजाभ्यां वासापाठाकृशानुभिः ।
अगस्तिलाङ्गलीभ्यां च प्रत्येकं दिवसं शनैः ।। रस-१४.८ ।।

ततस्तु गोलकं बद्ध्वा पचेत्पूर्ववदाहृतः ।
चूर्णयित्वा ततः सम्यग् भावयेदार्द्रकाम्बुना ।। रस-१४.९ ।।

सप्तधा व्योषनिर्यासै रसः कनकसुन्दरः ।
गुञ्जाद्वयं त्रयं वास्य राजयक्ष्मापनुत्तये ।। रस-१४.१० ।।

मधुना पिप्पलीभिश्च मरिचैर्वा घृतान्वितैः ।
लेहयेद्रोगिणं वैद्यो बलावस्थाविशेषवित् ।। रस-१४.११ ।।

जयपालरजोभिर्वा शुण्ठ्या गव्यघृताक्तया ।
ददीत शूलिने प्राज्ञो गुल्मिने च विशेषतः ।। रस-१४.१२ ।।

कादिवर्ज्यं चरेत्पथ्यं हृद्यं बल्यं च पूर्ववत् ।
सन्निपाते ददीतैनमार्द्रकद्रवसंयुतम् ।
गुडूचीत्रिफलाक्वाथैः संस्कृतो गुग्गुलुर्वरः ।। रस-१४.१३ ।।

राजमृगाङ्करसः

रसभस्म त्रयो भागा भागैकं हेमभस्मकम् ।
मृतताम्रस्य भागैकं शिलागन्धकतालकम् ।। रस-१४.१४ ।।

प्रतिभागद्वयं शुद्धमेकीकृत्य विचूर्णयेत् ।
वराटान्पूरयेत्तेन अजाक्षीरेण टङ्कणम् ।। रस-१४.१५ ।।

पिष्ट्वा तेन मुखं रुद्ध्वा मृद्भाण्डे तन्निरोधयेत् ।
शुद्धं गजपुटे पच्याच्चूर्णयेत्स्वाङ्गशीतलम् ।। रस-१४.१६ ।।

रसो राजमृगाङ्कोऽयं चतुर्गुञ्जः क्षयापहः ।
दशपिप्पलिकाक्षौद्रैर्मरिचैकोनविंशतिः ।
सघृतैर्दापयेद्वैद्यो रोगराजप्रशान्तये ।। रस-१४.१७ ।।

शङ्खेश्वररसः

शङ्खस्य वलयान्निष्कं चतुर्निष्कं वराटकम् ।
निष्कार्धं नीलतुत्थस्य सर्वतुल्यं तु गन्धकम् ।। रस-१४.१८ ।।

गन्धतुल्यं मृतं नागं नागतुल्यं मृतं रसम् ।
टङ्कणं रसतुल्यं स्यान्मर्द्यं पाच्यं मृगाङ्कवत् ।
राजयक्ष्महरः सोऽयं नाम्ना शङ्खेश्वरो मतः ।। रस-१४.१९ ।।

मृगाङ्कपोटलीरसः

शङ्खनाभिं गवां क्षीरैः पेषयेन्निष्कषोडश ।
तेन मूषा प्रकर्तव्या तन्मध्ये भस्मसूतकम् ।। रस-१४.२० ।।

निष्कार्धं गन्धकात्त्रीणि चूर्णीकृत्य विनिक्षिपेत् ।
रुद्ध्वा तद्वेष्टयेद्वस्त्रे मृत्तिकां लेपयेद्बहिः ।। रस-१४.२१ ।।

शोष्यं गजपुटे पच्यान्मूषया सह चूर्णयेत् ।
गुञ्जैकमनुपानेन क्षयं हन्ति मृगाङ्कवत् ।। रस-१४.२२ ।।

हेमगर्भपटोलीरसः

द्विनिष्कं भस्म सूतस्य निष्कैकं स्वर्णभस्मकम् ।
शुद्धगन्धकनिष्कौ द्वौ चूर्णयित्वा चित्रकद्रवैः ।। रस-१४.२३ ।।

द्वियामान्ते विशोष्याथ तेन पूर्या वराटिकाः ।
वराटान्मृण्मये भाण्डे रुद्ध्वा गजपुटे पचेत् ।। रस-१४.२४ ।।

स्वाङ्गशीतं विचूर्ण्याथ पोटलीं हेमगर्भिताम् ।
मृगाङ्कवच्चतुर्गुञ्जं भक्षितं राजयक्ष्मनुत् ।। रस-१४.२५ ।।

स्वयमग्निरसं खादेत्त्रिनिष्कं राजयक्ष्मनुत् ।। रस-१४.२६ ।।

पञ्चामृतरसः

भस्मसूताभ्रलोहानां शिलाजतुविषं समम् ।
गुडूचीत्रिफलाक्वाथैः संस्कृतं गुग्गुलुं तथा ।। रस-१४.२७ ।।

मृतं नेपालताम्रं च सूतस्थाने नियोजयेत् ।
एकीकृत्य द्विगुञ्जं तद्भक्षयेद्राजयक्ष्मनुत् ।। रस-१४.२८ ।।

पञ्चामृतरसो नाम ह्यनुपानं च पूर्ववत् ।। रस-१४.२९ ।।

हरेत्क्षीराजगन्धाभ्यां जयन्ती वा क्षयापहा ।। रस-१४.३० ।।

क्षयशामकरसः

तुल्यं पारदगन्धकं त्रिकटुकं ताभ्यां रजः कम्बुजं तैस्तुल्यं च भवेत्कपर्दभसितं स्यात्पारदाट्टङ्कणम् ।
पादांशं सकलैः समानमरिचं लिह्यात्क्रमात्साज्यकं यावन्निष्कमितं भवेत्प्रतिदिनं मासात्क्षयः शाम्यति ।। रस-१४.३१ ।।

लोकनाथरसः

रसस्य भस्मना हेम पादांशेन प्रकल्पयेत् ।
गन्धकं द्विगुणं दत्त्वा मर्दयेच्चित्रकाम्बुना ।। रस-१४.३२ ।।

चराचरास्ये सम्पूर्य टङ्कणेन निरुध्य च ।
भाण्डे चूर्णप्रलिप्तेऽथ क्षिप्त्वा रुन्धीत मृत्स्नया ।। रस-१४.३३ ।।

शोषयित्वा पुटेद्गर्तेऽरत्निमात्रेऽपराह्णके ।
स्वाङ्गशीतलम् उद्धृत्य चूर्णयित्वाथ विन्यसेत् ।। रस-१४.३४ ।।

एष लोकेश्वरो नाम पुष्टिवीर्यविवर्धनः ।
गुञ्जाचतुष्टयं साज्यं मरिचैश्च समन्वितम् ।। रस-१४.३५ ।।

खादेत्परमया भक्त्या लोकेशे सर्वदर्शिनी ।
अङ्गकार्श्येऽग्निमान्द्ये च रसोऽयं कासहिक्कयोः ।। रस-१४.३६ ।।

मरीचैर्घृतसंयुक्तैः प्रदातव्यो दिनत्रयम् ।
लवणं वर्जयेत्तत्र साज्यं सदधि भोजनम् ।। रस-१४.३७ ।।

एकविंशद्दिनं यावन्मरिचं सघृतं पिबेत् ।
पथ्यं मृगाङ्कवद्देयं शयीतोत्तानपादतः ।। रस-१४.३८ ।।

वमने सम्प्रवृत्ते तु गुडूचीद्रवमाहरेत् ।
मधुना पाययेत्सार्धं दग्धवृन्ताकमाशयेत् ।। रस-१४.३९ ।।

स्नानं शीतलतोयेन मूर्ध्नि धारां विनिक्षिपेत् ।
जाते श्लेष्मविकारे तु कदलीफलमाहरेत् ।। रस-१४.४० ।।

भृष्ट्वा तन्मरिचैः सार्धं भोजयेच्छ्लेष्मनुत्तये ।
आर्द्रकं मधुमिश्रं वा गुडार्द्रकमथोऽपि वा ।। रस-१४.४१ ।।

भृष्ट्वा कुस्तुम्बरीमाषान्निस्तुषांश्चूर्णयेत्ततः ।
शर्कराघृतसम्मिश्रान्ददीतारुचिशान्तये ।। रस-१४.४२ ।।

भृष्ट्वा कुस्तुम्बरीं सम्यग् घृते शर्करया पिबेत् ।
एलां मरिचसंयुक्तां यावद् वान्तिः प्रशाम्यति ।। रस-१४.४३ ।।

अजमोदं विडङ्गं च पिष्ट्वा तक्रेण पाययेत् ।
कृमिकोपप्रशान्त्यर्थं क्वाथं वातघ्नमुस्तयोः ।। रस-१४.४४ ।।

संस्कृत्य दुग्धिकां वह्नौ विरेके च प्रयोजयेत् ।
ईषद्भृष्ट्वा जयाचूर्णं मधुना खादयेन्निशि ।। रस-१४.४५ ।।

अङ्गतोदे घृतेनाङ्गं मर्दयित्वोष्णवारिणा ।
स्नापयेद्रोगिणं वैद्यो लोकनाथं रसं स्मरन् ।। रस-१४.४६ ।।

वैद्यनाथरसः

शंखस्य वलयं निष्कं चतुर्निष्कं वराटिकाः ।
कर्षांशं नीलतुत्थं च तालं गन्धाश्मटङ्कणम् ।। रस-१४.४७ ।।

तुत्थं नागरसं चार्धं निष्कांशं पूर्ववत्पुटेत् ।
वराटचूर्णं मण्डूरकल्पितालेपने पचेत् ।। रस-१४.४८ ।।

अस्यार्धमाषं मरिचार्धमाषं ताम्बूलवल्लीरसभावितं च ।
तत्पत्रलिप्तं मधुनावलिह्याद्धैयङ्गवीनेन घृतेन वापि ।। रस-१४.४९ ।।

नाडीमार्गे निर्गते चाल्पमल्पं पथ्यं भोज्यं लोकनाथोपदिष्टम् ।
यामे यामे चैवम् आ मण्डलान्तात् सिद्धं सद्यः शोषजिद्वैद्यनाथः ।। रस-१४.५० ।।

लोकनाथरसः

अध्यर्धनिष्कौ रसतुत्थभागौ पृथक्पृथग्गन्धकटङ्ककर्षम् ।
शंखस्य कर्षं मृतताम्रतो द्वौ वराटिकानां नव सम्पुटस्थान् ।। रस-१४.५१ ।।

पक्त्वा पचेदर्कदलद्रवार्द्रान् भूयोऽर्धभागेन करीषकाणाम् ।
अस्यार्धपादं मरिचार्धभागं गन्धाश्मनिष्कं च घृतेन लिह्यात् ।। रस-१४.५२ ।।

अश्नीयात्पूर्ववत्पथ्यं वासराण्येकविंशतिः ।
लोकनाथरसो नाम्ना रोगराजनिकृन्तनः ।। रस-१४.५३ ।।

प्राणनाथरसः

अयोरजो विंशतिनिष्कमानं विभावितं भृङ्गरसाढकेन ।
धत्तूरभार्ङ्गित्रिफलारसार्द्रं तुल्यांशताप्यं विपचेत्पुटेषु ।। रस-१४.५४ ।।

सूतं च निष्कं समभागतुत्थं गन्धोपलौ द्वौ चतुरो वराटान् ।
पक्त्वा पुटाग्नौ समलोहचूर्णान्पचेत्तथा पूर्वरसैर्विमिश्रान् ।। रस-१४.५५ ।।

चूर्णेऽस्मिन्मरिचाः सप्त तुत्थटङ्कणयोर्दश ।
संसृजेत् तत् पृथङ्निष्कान् प्राणनाथाह्वयोदितः ।। रस-१४.५६ ।।

अर्धपादो रसाद्भक्ष्यः केवलाद्राजयक्ष्मिभिः ।
शोषोदरार्शोग्रहणीज्वरगुल्माद्युपद्रुतैः ।। रस-१४.५७ ।।

वज्ररसः

कर्षं खर्परसत्त्वस्य षण्मासे हेम्नि विद्रुते ।
षण्निष्कसूतं गन्धाश्मन्यष्टनिष्के प्रवेशितम् ।। रस-१४.५८ ।।

प्रवालमुक्ताफलयोश्चूर्णं हेमसमांशयोः ।
क्रमाद्द्वित्रिचतुर्निष्कं मृतायः सीसभास्करम् ।। रस-१४.५९ ।।

चाङ्गेर्यम्लेन यामांस्त्रीन्मर्दितं चूर्णितं पृथक् ।
द्वौ निष्कौ नीलवटकव्योमायस्कान्ततालकात् ।। रस-१४.६० ।।

अङ्कोल्लकङ्गुणीबीजतुत्थेभ्यश् चतुरः पृथक् ।
अष्टौ च टंकणक्षाराद्वराटानां च विंशतिः ।। रस-१४.६१ ।।

महाजम्बीरनीरस्य प्रस्थद्वन्द्वेन पेषयेत् ।
एतदष्टशरावस्थं शुद्धं खार्यास्तुषस्य च ।। रस-१४.६२ ।।

करीषभारे च पचेदथ माषद्वयं ततः ।
एतावद्गन्धकात्पादं मरिचाद्भावितादपि ।। रस-१४.६३ ।।

मधुनालोडितं लिह्यात्ताम्बूलीपत्रलेपितम् ।
गतेऽस्य घटिकामात्रे प्रतियामं च पथ्यभुक् ।। रस-१४.६४ ।।

नो चेदुद्दीपितो वह्निः क्षणाद्धातून्पचत्यतः ।
दिनमेकं निषेव्यैनं त्याज्यान्यामण्डलं त्यजेत् ।। रस-१४.६५ ।।

ततः परं यथेष्टाशी द्वादशाब्दं सुखी भवेत् ।
एकमेकं दिनं भुक्त्वा वर्षे वर्षे महारसम् ।। रस-१४.६६ ।।

वर्षादौ च त्यजेत्त्याज्यं द्वादशाब्दं जरां जयेत् ।
एष वज्ररसो नाम क्षयपर्वतभेदनः ।। रस-१४.६७ ।।

महावीररसः

निष्कौ द्वौ तुत्थभागस्य रसाद् एकं सुसंस्कृतात् ।
निष्कं विषस्य द्वौ तीक्ष्णात्कर्षांशं गन्धमौक्तिकात् ।। रस-१४.६८ ।।

अग्निपर्णीहरिलताभृङ्गार्द्रसुरसारसैः ।
मर्दितं लाङ्गलीकन्दप्रलिप्ते सम्पुटे पचेत् ।। रस-१४.६९ ।।

अर्धपादं च पोटल्याः काकिन्यौ द्वे विषस्य च ।
लिहेन्मरिचचूर्णं च मधुना पोटलीसमम् ।। रस-१४.७० ।।

क्षयग्रहण्यतीसारवह्निदौर्बल्यकासिनाम् ।
पाण्डुगुल्मवतां श्रेष्ठो महावीरो हितो रसः ।। रस-१४.७१ ।।

अतिस्थूलस्य पूयासृक्कफानुद्वमताक्षये ।
न योजयेत्क्षीररसान्विरुद्धक्रमतत्त्वतः ।। रस-१४.७२ ।।

सांआन्योपायः

मातुलुङ्गस्य मूलानि लाजचूर्णं ससैन्धवम् ।
पिप्पलीमधुना युक्तं खादेद्वान्तिप्रशान्तये ।। रस-१४.७३ ।।

रजनीशङ्खपूगं च निष्कैकं वान्तिनाशनम् ।
निष्कार्धं टङ्कणं वाथ काकमाचीद्रवैः पिबेत् ।। रस-१४.७४ ।।

सुगन्धां वा पिबेत्खादेत् सर्ववान्तिप्रशान्तये ।
अलक्तकरसं क्षौद्रै रक्तवान्तिहरं परम् ।। रस-१४.७५ ।।

तृष्णाहररसः

युक्तं गन्धकपिष्ट्यायस्तालकं स्वर्णमाक्षिकम् ।
युक्त्या तद्भस्मतां नीतं तृष्णाछर्दिनिवारणम् ।। रस-१४.७६ ।।

राजावर्तरसः

राजावर्तो रसः शुल्बं माक्षिकं घृतपाचितम् ।
मध्वाज्यशर्करायुक्तं हन्ति सर्वान्मदात्ययान् ।। रस-१४.७७ ।।

राजावर्तरसः शुल्बं सूतगर्भे नियोजितम् ।
यष्टीमधुरसैर्घृष्टं घृतमध्ये विपाचितम् ।। रस-१४.७८ ।।

मध्वाज्यशर्करायुक्तं हन्ति सर्वान्मदात्ययान् ।। रस-१४.७९ ।।

भैरवनाथी पञ्चामृतपर्पटी

सुवर्णं रजतं ताम्रं सत्त्वाभ्रं कान्तलोहकम् ।
क्रमवृद्धमिदं सर्वं शाणेयौ नागवङ्गकौ ।। रस-१४.८० ।।

द्रावयित्वैकतः सर्वं रेतयित्वा ततश्चरेत् ।
पृथक्पलमितं गन्धं शिलालं विनिधाय च ।। रस-१४.८१ ।।

सर्वं खल्ले विनिक्षिप्य मर्दयेद् अम्लवर्गतः ।
ताप्यं नीलाञ्जनं तालं शिलागन्धं च चूर्णितम् ।। रस-१४.८२ ।।

दत्त्वा दत्त्वा पुटेत्तावद्यावद्विंशतिवारकम् ।
लोहाद् द्विगुणसूतेन ततो द्विगुणगन्धतः ।। रस-१४.८३ ।।

विधाय कज्जलीं श्लक्ष्णां क्षिप्त्वा तां लोहपात्रके ।
द्रावयेद् बदराङ्गारैर् मृदुभिश्चाथ निक्षिपेत् ।। रस-१४.८४ ।।

हेमादिपञ्चलोहानां भस्म चाथ विलोडयेत् ।
अथ तत्कदलीपत्रे गोमयस्थे विनिक्षिपेत् ।। रस-१४.८५ ।।

पत्रेणान्येन संछाद्य कुर्याद्यत्नेन चिप्पिटीम् ।
तस्योपरि क्षिपेत्सद्यो गोमयं स्तोकमेव च ।। रस-१४.८६ ।।

स्वतः शीतं समाहृत्य पटचूर्णं विधाय च ।
निक्षिपेदूर्ध्वदण्डायां पालिकायां ततः परम् ।। रस-१४.८७ ।।

पूर्ववद्बदराङ्गारैर् मृदुभिर् द्रावयेच्छनैः ।
तुल्यालकशिलागन्धं पलार्धं विषभावितम् ।। रस-१४.८८ ।।

पूर्वपर्पटिकातुल्यं तस्मादल्पं मुहुर्मुहुः ।
जारयेत्पलिकामध्ये यथा दह्येन्न पर्पटी ।। रस-१४.८९ ।।

पलिकेति विनिर्दिष्टा स्नेहक्षेपणयन्त्रिका ।
जीर्णे तालादिके चूर्णे पटचूर्णं विधीयताम् ।। रस-१४.९० ।।

पूतीकरञ्जषट्कोलव्याघ्रीसौभाञ्जनाङ्घ्रिभिः ।
एतैः पञ्चपलैः क्वाथं षोडशांशावशेषितम् ।। रस-१४.९१ ।।

तेन क्वाथेन संस्वेद्य शोषयेत्सप्तधा हि ताम् ।
विषतिन्दुफलोद्भूतै रसैर्निर्गुण्डिकारसैः ।। रस-१४.९२ ।।

विभाव्य पलिकामध्ये क्षिप्त्वा बदरवह्निना ।
ईषत्प्रस्वेदनं कृत्वा स्थापयेदतियत्नतः ।। रस-१४.९३ ।।

उक्ता भैरवनाथेन स्यात् पञ्चामृतपर्पटी ।
व्योषाज्यसहिता लीढा गुञ्जाबीजेन संमिता ।। रस-१४.९४ ।।

सर्वलक्षणसम्पूर्णं विनिहन्ति क्षयामयम् ।
श्वासं कासं विषूचीं च प्रमेहमुदरामयम् ।। रस-१४.९५ ।।

अरोचकं च दुःसाध्यं प्रसेकं छर्दिहृद्भवम् ।
सर्वजं गुदरोगं च शूलकुष्ठान्यशेषतः ।। रस-१४.९६ ।।

वातज्वरं च विड्बन्धं ग्रहणीं कफजान्गदान् ।
एकद्वन्द्वत्रिदोषोत्थान् रोगान् अन्यान् महागदान् ।। रस-१४.९७ ।।

अग्निमान्द्यं विशेषेण हन्तीयं पर्पटी ध्रुवम् ।
एवं समूह्य दातव्या रोगेषु भिषगुत्तमैः ।। रस-१४.९८ ।।

तत्तद्रोगहरैर् योगैस् तत्तद्रोगानुपानतः ।
क्षयादिसर्वरोगघ्नी स्यात् पञ्चामृतपर्पटी ।। रस-१४.९९ ।।

तिलसर्षपबिल्वाम्लकारवेल्लकुसुम्भकम् ।
त्यजेत्पारावतं मांसं वृन्ताकं कुक्कुटं तथा ।। रस-१४.१०० ।।