योगतत्त्व उपनिषद्
Wikisource इत्यस्मात्
[सम्पाद्यताम्] योगतत्त्वोपनिषत्
-
-
-
-
-
- ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥ तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
- ॐ शान्तिः शान्तिः शान्तिः ॥
-
-
-
-
-
- योगतत्त्वं प्रवक्ष्यामि योगिनां हितकाम्यया । यच्छृत्वा च पठित्वा च सर्वपापैः प्रमुच्यते ॥ १ ॥
-
- विष्णुर्नाम महायोगी महाभूतो महातपाः । तत्त्वमार्गे यथा दीपो दृश्यते पुरुषोत्तमः ॥ २ ॥
-
- तमाराध्य जगन्नाथं प्रणिपत्य पितामहः । पप्रच्छ योगतत्त्वं मे ब्रूहि चाष्टाङ्गसंयुतम् ॥ ३ ॥
-
- तमुवाच हृषीकेशो वक्ष्यामि शृणु तत्त्वतः । सर्वे जीवाः सुखैर्दु:खैर्मायाजालेन वेष्टिताः ॥ ४ ॥
-
- तेषां मुक्तिकरं मार्गं मायाजालनिकृन्तनम् । जन्ममृत्युजरा व्याधिनाशनं मृत्युतारकम् ॥ ५ ॥
-
- नानामार्गैस्तु दुष्प्रापं कैवल्यं परमं पदम् । पतिताः शास्त्रजालेषु प्रज्ञया तेन मोहिताः ॥ ६ ॥
-
- अनिर्वाच्यं पदं वक्तुं न शक्यं तैः सुरैरपि । स्वात्मप्रकाशरूपं तत्किं शास्त्रेण प्रकाश्यते ॥ ७ ॥
-
- निष्कलं निर्मलं शान्तं सर्वातीतं निरामयम् । तदेव जीवरूपेण पुण्यपापफलैर्वृतम् ॥ ८ ॥
-
- परमात्मपदं नित्यं तत्कथं जीवतां गतम् । सर्वभावपदातीतं ज्ञानरूपं निरञ्जनम् ॥ ९ ॥
-
- वारिवत्स्फुरितं तस्मिंस्तत्राहंकृतिरुत्थिता । पञ्चात्मकमभूत्पिण्डं धातुबद्धं गुणात्मकम् ॥ १० ॥
-
- सुखदुःखैः समायुक्तं जीवभावनया कुरु । तेन जीवाभिधा प्रोक्ता विशुद्धैः परमात्मनि ॥ ११ ॥
-
- कामक्रोधभयं चापि मोहलोभमदो रजः । जन्म मृत्युश्च कार्पण्यं शोकस्तन्द्रा क्षुधा तृषा ॥ १२ ॥
-
- तृष्णा लज्जा भयं दुःखं विषादो हर्ष एव च । एभिर्दोषैर्विनिर्मुक्तः स जीवः केवलो मतः ॥ १३ ॥
-
- तस्माद्दोषविनाशार्थमुपायं कथयामि ते । योगहीनं कथं ज्ञानं मोक्षदं भवति ध्रुवम् ॥ १४ ॥
-
- योगो हि ज्ञानहीनस्तु न क्षमो मोक्षकर्मणि । तस्माज्ज्ञानं च योगं च मुमुक्षुर्दृढमभ्यसेत् ॥ १५ ॥
-
- अज्ञानादेव संसारो ज्ञानादेव विमुच्यते । ज्ञानस्वरूपमेवादौ ज्ञानं ज्ञेयैकसाधनम् ॥ १६ ॥
-
- ज्ञातं येन निजं रूपं कैवल्यं परमं पदम् । निष्कलं निर्मलं साक्षात्सच्चिदानन्दरूपकम् ॥ १७ ॥
-
- उत्पत्तिस्थितिसंहारस्फूर्तिज्ञानविवर्जितम् । एतज्ज्ञानमिति प्रोक्तमथ योगं ब्रवीमि ते ॥ १८ ॥
-
- योगो हि बहुधा ब्रह्मन्भिद्यते व्यवहारतः । मन्त्रयोगो लयश्चैव हठोऽसौ राजयोगतः ॥ १९ ॥
-
- आरम्भश्च घटश्चैव तथा परिचयः स्मृतः । निष्पत्तिश्चेत्यवस्था च सर्वत्र परिकीर्तिता ॥ २० ॥
-
- एतेषां लक्षणं ब्रह्मन्वक्ष्ये शृणु समासतः । मातृकादियुतं मन्त्रं द्वादशाब्दं तु यो जपेत् ॥ २१ ॥
-
- क्रमेण लभते ज्ञानमणिमादिगुणान्वितम् । अल्पबुद्धिरिमं योगं सेवते साधकाधमः ॥ २२ ॥
-
- लययोगश्चित्तलयः कोटिशः परिकीर्तितः । गच्छंस्तिष्ठन्स्वपन्भुञ्जन्ध्यायेन्निष्कलमीश्वरम् ॥ २३ ॥
-
- स एव लययोगः स्याद्धठयोगमतः शृणु । यमश्च नियमश्चैव आसनं प्राणसंयमः ॥ २४ ॥
-
- प्रत्याहारो धारणा च ध्यानं भ्रूमध्यमे हरिम् । समाधिः समतावस्था साष्टाङ्गो योग उच्यते ॥ २५ ॥
-
- महामुद्रा महाबन्धो महावेधश्च खेचरी । जालन्धरोड्डियाणश्च मूल बन्धस्तथैव च ॥ २६ ॥
-
- दीर्घप्रणवसन्धानं सिद्धान्तश्रवणं परम् । वज्रोली चामरोली च सहजोली त्रिधा मता ॥ २७ ॥
-
- एतेषां लक्षणं ब्रह्मन्प्रत्येकं शृणु तत्त्वतः । लघ्वाहारो यमेष्वेको मुख्यो भवति नेतरः ॥ २८ ॥
-
- अहिंसा नियमेष्वेका मुख्या वै चतुरानन । सिद्धं पद्मं तथा सिंहं भद्रं चेति चतुष्टयम् ॥ २९ ॥
-
- प्रथमाभ्यासकाले तु विघ्नाः स्युश्चतुरानन । आलस्यं कत्थनं धूर्तगोष्टी मन्त्रादिसाधनम् ॥ ३० ॥
-
- धातुस्त्रीलौल्यकादीनि मृगतृष्णामयानि वै । ज्ञात्वा सुधीस्त्यजेत्सर्वान् विघ्नान्पुण्यप्रभावतः ॥ ३१ ॥
-
- प्राणायामं ततः कुर्यात्पद्मासनगतः स्वयम् । सुशोभनं मठं कुर्यात्सूक्ष्मद्वारं तु निर्व्रणम् ॥ ३२ ॥
-
- सुष्ठु लिप्तं गोमयेन सुधया वा प्रयत्नतः । मत्कुणैर्मशकैर्लूतैर्वर्जितं च प्रयत्नतः ॥ ३३ ॥
-
- दिने दिने च संमृष्टं संमार्जन्या विशेषतः । वासितं च सुगन्धेन धूपितं गुग्गुलादिभिः ॥ ३४ ॥
-
- नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् । तत्रोपविश्य मेधावी पद्मासनसमन्वितः ॥ ३५ ॥
-
- ऋजुकायः प्राञ्जलिश्च प्रणमेदिष्टदेवताम् । ततो दक्षिणहस्तस्य अङ्गुष्ठेनैव पिङ्गलाम् ॥ ३६ ॥
-
- निरुध्य पूरयेद्वायुमिडया तु शनैः शनैः । यथाशक्त्यविरोधेन ततः कुर्याच्च कुम्भकम् ॥ ३७ ॥
-
- पुनस्त्यजेत्पिङ्गलया शनैरेव न वेगतः । पुनः पिङ्गलयापूर्य पूरयेदुदरं शनैः ॥ ३८ ॥
-
- धारयित्वा यथाशक्ति रेचयेदिडया शनैः । यया त्यजेत्तयापूर्य धारयेदविरोधतः ॥ ३९ ॥
-
- जानु प्रदक्षिणीकृत्य न द्रुतं न विलम्बितम् । अङ्गुलिस्फोटनं कुर्यात्सा मात्रा परिगीयते ॥ ४० ॥
-
- इडया वायुमारोप्य शनैः षोडशमात्रया । कुम्भयेत्पूरितं पश्चाच्चतुःषष्ट्या तु मात्रया ॥ ४१ ॥
-
- रेचयेत्पिङ्गलानाड्या द्वात्रिंशन्मात्रया पुनः । पुनः पिङ्गलयापूर्य पूर्ववत्सुसमाहितः ॥ ४२ ॥
-
- प्रातर्मध्यंदिने सायमर्धरात्रे च कुम्भकान् । शनैरशीतिपर्यन्तं चतुर्वारं समभ्यसेत् ॥ ४३ ॥
-
- एवं मासत्रयाभ्यासान्नाडीशुद्धिस्ततो भवेत् । यदा तु नाडीशुद्धिः स्यात्तदा चिह्नानि बाह्यतः ॥ ४४ ॥
-
- जायन्ते योगिनो देहे तानि वक्ष्याम्यशेषतः । शरीरलघुता दीप्तिर्जाठराग्निविवर्धनम् ॥ ४५ ॥
-
- कृशत्वं च शरीरस्य तदा जायेत निश्चितम् । योगाविघ्नकराहारं वर्जयेद्योगवित्तमः ॥ ४६ ॥
-
- लवणं सर्षपं चाम्लमुष्णं रूक्षं च तीक्ष्णकम् । शाकजातं रामठादि वह्निस्त्रीपथसेवनम् ॥ ४७ ॥
-
- प्रातःस्नानोपवासादिकायक्लेशांश्च वर्जयेत् । अभ्यासकाले प्रथमं शस्तं क्षीराज्यभोजनम् ॥ ४८ ॥
-
- गोधूममुद्गशाल्यन्नं योगवृद्धिकरं विदुः । ततः परं यथेष्टं तु शक्तः स्याद्वायुधारणे ॥ ४९ ॥
-
- यथेष्टधारणाद्वायोः सिद्ध्येत्केवलकुम्भकः । केवले कुम्भके सिद्धे रेचपूरविवर्जिते ॥ ५० ॥
-
- न तस्य दुर्लभं किञ्चित्त्रिषु लोकेषु विद्यते । प्रस्वेदो जायते पूर्वं मर्दनं तेन कारयेत् ॥ ५१ ॥
-
- ततोऽपि धारणाद्वायोः क्रमेणैव शनैः शनैः । कम्पो भवति देहस्य आसनस्थस्य देहिनः ॥ ५२ ॥
-
- ततोऽधिकतराभ्यासाद्दार्दुरी स्वेन जायते । यथा च दर्दुरो भाव उत्प्लुन्योत्प्लुत्य गच्छति ॥ ५३ ॥
-
- पद्मासनस्थितो योगी तथा गच्छति भूतले । ततोऽधिक तराभ्यासाद्भूमित्यागश्च जायते ॥ ५४ ॥
-
- पद्मासनस्थ एवासौ भूमिमुत्सृज्य वर्तते । अतिमानुषचेष्टादि तथा सामर्थ्यमुद्भवेत् ॥ ५५ ॥
-
- न दर्शयेच्च सामर्थ्यं दर्शनं वीर्यवत्तरम् । स्वल्पं वा बहुधा दुःखं योगी न व्यथते तदा ॥ ५६ ॥
-
- अल्पमूत्रपुरीषश्च स्वल्पनिद्रश्च जायते । कीलवो दृषिका लाला स्वेददुर्गन्धतानने ॥ ५७ ॥
-
- एतानि सर्वथा तस्य न जायन्ते ततः परम् । ततोऽधिकतराभ्यासाद्बलमुत्पद्यते बहु ॥ ५८ ॥
-
- येन भूचर सिद्धिः स्याद्भूचराणां जये क्षमः । व्याघ्रो वा शरभो वापि गजो गवय एव वा ॥ ५९ ॥
-
- सिंहो वा योगिना तेन म्रियन्ते हस्तताडिताः । कन्दर्पस्य यथा रूपं तथा स्यादपि योगिनः ॥ ६० ॥
-
- तद्रूपवशगा नार्यः काङ्क्षन्ते तस्य सङ्गमम् । यदि सङ्गं करोत्येष तस्य बिन्दुक्षयो भवेत् ॥ ६१ ॥
-
- वर्जयित्वा स्त्रियाः सङ्गं कुर्यादभ्यासमादरात् । योगिनोऽङ्गे सुगन्धश्च जायते बिन्दुधारणात् ॥ ६२ ॥
-
- ततो रहस्युपाविष्टः प्रणवं प्लुतमात्रया । जपेत्पूर्वार्जितानां तु पापानां नाशहेतवे ॥ ६३ ॥
-
- सर्वविघ्नहरो मन्त्रः प्रणवः सर्वदोषहा । एवमभ्यासयोगेन सिद्धिरारम्भसम्भवा ॥ ६४ ॥
-
- ततो भवेद्धटावस्था पवनाभ्यासतत्परा । प्राणोऽपानो मनो बुद्धिर्जीवात्मपरमात्मनोः ॥ ६५ ॥
-
- अन्योन्यस्याविरोधेन एकता घटते यदा । घटावस्थेति सा प्रोक्ता तच्चिह्नानि ब्रवीम्यहम् ॥ ६६ ॥
-
- पूर्वं यः कथितोऽभ्यासश्चतुर्थांशं परिग्रहेत् । दिवा वा यदि वा सायं याममात्रं समभ्यसेत् ॥ ६७ ॥
-
- एकवारं प्रतिदिनं कुर्यात्केवलकुम्भकम् । इन्द्रियाणीन्द्रियार्थेभ्यो यत्प्रत्याहरणं स्फुटम् ॥ ६८ ॥
-
- योगी कुम्भकमास्थाय प्रत्याहारः स उच्यते । यद्यत्पश्यति चक्षुर्भ्यां तत्तदात्मेति भावयेत् ॥ ६९ ॥
-
- यद्यच्छृणोति कर्णाभ्यां तत्तदात्मेति भावयेत् । लभते नासया यद्यत्तत्तदात्मेति भावयेत् ॥ ७० ॥
-
- जिह्वया यद्रसं ह्यत्ति तत्तदात्मेति भावयेत् । त्वचा यद्यत्स्पृशेद्योगी तत्तदात्मेति भावयेत् ॥ ७१ ॥
-
- एवं ज्ञानेन्द्रियाणां तु तत्तदात्मनि धारयेत् । याममात्रं प्रतिदिनं योगी यत्नादतन्द्रितः ॥ ७२ ॥
-
- यथा वा चित्तसामर्थ्यं जायते योगिनो ध्रुवम् । दूरश्रुतिर्दूरदृष्टिः क्षणाद्दूरगमस्तथा ॥ ७३ ॥
-
- वाक्सिद्धिः कामरूपत्वमदृश्यकरणी तथा । मलमूत्रप्रलेपेन लोहादेः स्वर्णता भवेत् ॥ ७४ ॥
-
- खे गतिस्तस्य जायेत सन्तताभ्यासयोगतः । सदा बुद्धिमता भाव्यं योगिना योगसिद्धये ॥ ७५ ॥
-
- एते विघ्ना महासिद्धेर्न रमेत्तेषु बुद्धिमान् । न दर्शयेत्स्वसामर्थ्यं यस्य कस्यापि योगिराट् ॥ ७६ ॥
-
- यथा मूढो यथा मूर्खो यथा बधिर एव वा । तथा वर्तेत लोकस्य स्वसामर्थ्यस्य गुप्तये ॥ ७७ ॥
-
- शिष्याश्च स्वस्वकार्येषु प्रार्थयन्ति न संशयः । तत्तत्कर्मकरव्यग्रः स्वाभ्यासेऽविस्मृतो भवेत् ॥ ७८ ॥
-
- सर्वव्यापारमुत्सृज्य योगनिष्टो भवेध्यति: । अविस्मृत्य गुरोर्वाक्यमभ्यसेत्तदहर्निशम् ॥ ७९ ॥
-
- एवं भवेद्धठावस्था सन्तताभ्यासयोगतः । अनभ्यासवतश्चैव वृथागोष्ठ्या न सिद्ध्यति ॥ ८० ॥
-
- तस्मात्सर्वप्रयत्नेन योगमेव सदाभ्यसेत् । ततः परिचयावस्था जायतेऽभ्यासयोगतः ॥ ८१ ॥
-
- वायुः परिचितो यत्नादग्निना सह कुण्डलीम् । भावयित्वा सुषुम्नायां प्रविशेदनिरोधतः ॥ ८२ ॥
-
- वायुना सह चित्तं च प्रविशेच्च महापथम् । यस्य चित्तं स्वपवनं सुषुम्नां प्रविशेदिह ॥ ८३ ॥
-
- भूमिरापोऽनलो वायुराकाशश्चेति पञ्चकः । येषु पञ्चसु देवानां धारणा पञ्चधोद्यते ॥ ८४ ॥
-
- पादादिजानुपर्यन्तं पृथिवीस्थानमुच्यते । पृथिवी चतुरस्रं च पीतवर्णं लवर्णकम् ॥ ८५ ॥
-
- पार्थिवे वायुमारोप्य लकारेण समन्वितम् । ध्यायंश्चतुर्भुजाकारं चतुर्वक्त्रं हिरण्मयम् ॥ ८६ ॥
-
- धारयेत्पञ्च घटिकाः पृथिवीजयमाप्नुयात् । पृथिवीयोगतो मृत्युर्न भवेदस्य योगिनः ॥ ८७ ॥
-
- आजानोः पायुपर्यन्तमपां स्थानं प्रकीर्तितम् । आपोऽर्धचन्द्रं शुक्लं च वंबीजं परिकीर्तितम् ॥ ८८ ॥
-
- वारुणे वायुमारोप्य वकारेण समन्वितम् । स्मरन्नारायणं देवं चतुर्बाहुं किरीटिनम् ॥ ८९ ॥
-
- शुद्धस्फटिकसङ्काशं पीतवाससमच्युतम् । धारयेत्पञ्च घटिकाः सर्वपापैः प्रमुच्यते ॥ ९० ॥
-
- ततो जलाद्भयं नास्ति जले मृत्युर्न विद्यते । आपायोर्हृदयान्तं च वह्निस्थानं प्रकीर्तितम् ॥ ९१ ॥
-
- वह्निस्त्रिकोणं रक्तं च रेफाक्षरसमुद्भवम् । वह्नौ चानिलमारोप्य रेफाक्षरसमुज्ज्वलम् ॥ ९२ ॥
-
- त्रियक्षं वरदं रुद्रं तरुणादित्यसंनिभम् । भस्मोद्धूलितसर्वाङ्गं सुप्रसन्नमनुस्मरन् ॥ ९३ ॥
-
- धारयेत्पञ्च घटिका वह्निनासौ न दाह्यते । न दह्यते शरीरं च प्रविष्टस्याग्निमण्डले ॥ ९४ ॥
-
- आहृदयाद्भ्रुवोर्मध्यं वायुस्थानं प्रकीर्तितम् । वायुः षट्कोणकं कृष्णं यकाराक्षरभासुरम् ॥ ९५ ॥
-
- मारुतं मरुतां स्थाने यकाराक्षरभासुरम् । धारयेत्तत्र सर्वज्ञमीश्वरं विश्वतोमुखम् ॥ ९६ ॥
-
- धारयेत्पञ्च घटिका वायुवद्व्योमगो भवेत् । मरणं न तु वायोश्च भयं भवति योगिनः ॥ ९७ ॥
-
- आभ्रूमध्यात्तु मूर्धान्तमाकाशस्थानमुच्यते । व्योम वृत्तं च धूम्रं च हकाराक्षरभासुरम् ॥ ९८ ॥
-
- आकाशे वायुमारोप्य हकारोपरि शङ्करम् । बिन्दुरूपं महादेवं व्योमाकारं सदाशिवम् ॥ ९९ ॥
-
- शुद्धस्फटिकसङ्काशं धृतबालेन्दुमौलिनम् । पञ्चवक्त्रयुतं सौम्यं दशबाहुं त्रिलोचनम् ॥ १०० ॥
-
- सर्वायुधैर्धृताकारं सर्वभूषणभूषितम् । उमार्धदेहं वरदं सर्वकारणकारणम् ॥ १०१ ॥
-
- आकाशधारणात्तस्य खेचरत्वं भवेद्ध्रुवम् । यत्र कुत्र स्थितो वापि सुखमत्यन्तमश्नुते ॥ १०२ ॥
-
- एवं च धारणाः पञ्च कुर्याद्योगी विचक्षणः । ततो दृढशरीरः स्यान्मृत्युस्तस्य न विद्यते ॥१०३ ॥
-
- ब्रह्मणः प्रलयेनापि न सीदति महामतिः ।
-
- समभ्यसेत्तथा ध्यानं घटिकाषष्टिमेव च । वायुं निरुध्य चाकाशे देवतामिष्टदामिति ॥ १०४ ॥
-
- सगुणं ध्यानमेतत्स्यादणिमादिगुणप्रदम् । निर्गुणध्यानयुक्तस्य समाधिश्च ततो भवेत् ॥ १०५ ॥
-
- दिनद्वादशकेनैव समाधिं समवाप्नुयात् । वायुं निरुध्य मेधावी जीवन्मुक्तो भवत्ययम् ॥ १०६ ॥
-
- समाधिः समतावस्था जीवात्मपरमात्मनोः । यदि स्वदेहमुत्स्रष्टुमिच्छा चेदुत्सृजेत्स्वयम् । १०७ ॥
-
- परब्रह्मणि लीयेत न तस्योत्क्रान्तिरिष्यते । अथ नो चेत्समुत्स्रष्टुं स्वशरीरं प्रियं यदि ॥ १०८ ॥
-
- सर्वलोकेषु विहरन्नणिमादिगुणान्वितः । कदाचित्स्वेच्छया देवो भूत्वा स्वर्गे महीयते ॥ १०९ ॥
-
- मनुष्यो वापि यक्षो वा स्वेच्छयापी क्षणद्भवेत् । सिंहो व्याघ्रो गजो वाश्वः स्वेच्छया बहुतामियात् ॥ ११० ॥
-
- यथेष्टमेव वर्तेत यद्वा योगी महेश्वरः । अभ्यासभेदतो भेदः फलं तु सममेव हि ॥ १११ ॥
-
- पार्ष्णिं वामस्य पादस्य योनिस्थाने नियोजयेत् । प्रसार्य दक्षिणं पादं हस्ताभ्यां धारयेद्दृढम् ॥ ११२ ॥
-
- चुबुकं हृदि विन्यस्य पूरयेद्वायुना पुनः । कुम्भकेन यथाशक्ति धारयित्वा तु रेचयेत् ॥ ११३ ॥
-
- वामाङ्गेन समभ्यस्य दक्षाङ्गेन ततोऽभ्यसेत् । प्रसारितस्तु यः पादस्तमूरूपरि नामयेत् ॥ ११४ ॥
-
- अयमेव महाबन्ध उभयत्रैवमभ्यसेत् । महाबन्धस्थितो योगी कृत्वा पूरकमेकधीः ॥ ११५ ॥
-
- वायुना गतिमावृत्य निभृतं कर्णमुद्रया । पुटद्वयं समाक्रम्य वायुः स्फुरति सत्वरम् ॥ ११६ ॥
-
- अयमेव महावेधः सिद्धैरभ्यस्यतेऽनिशम् । अन्तः कपालकुहरे जिह्वां व्यावृत्य धारयेत् ॥ ११७ ॥
-
- भ्रूमध्यदृष्टिरप्येषा मुद्रा भवति खेचरी । कण्ठमाकु ञ्च्य हृदये स्थापयेद्दृढया धिया ॥ ११८ ॥
-
- बन्धो जालन्धराख्योऽयं मृत्युमातङ्गकेसरी । बन्धो येन सुषुम्नायां प्राणस्तूड्डीयते यतः ॥ ११९ ॥
-
- उड्यानाख्यो हि बन्धोऽयं योगिभिः समुदाहृतः । पार्ष्णिभागेन संपीड्य योनिमाकुञ्चयेद्दृढम् ॥ १२० ॥
-
- अपानमूर्ध्वमुत्थाप्य योनिबन्धोऽयमुच्यते । प्राणापानौ नादबिन्दू मूलबन्धेन चैकताम् ॥ १२१ ॥
-
- गत्वा योगस्य संसिद्धिं यच्छतो नात्र संशयः । करणी विपरीताख्या सर्वव्याधिविनाशिनी ॥ १२२ ॥
-
- नित्यमभ्यासयुक्तस्य जाठराग्निविवर्धनी । आहारो बहुलस्तस्य संपाद्यः साधकस्य च ॥ १२३ ॥
-
- अल्पाहारो यदि भवेदग्निर्देहं हरेत्क्षणात् । अधःशिरश्चोर्ध्वपादः क्षणं स्यात्प्रथमे दिने ॥ १२४ ॥
-
- क्षणाच्च किञ्चिदधिकमभ्यसेत्तु दिनेदिने । वली च पलितं चैव षण्मासार्धान्न दृश्यते ॥ १२५ ॥
-
- याममात्रं तु यो नित्यमभ्यसेत्स तु कालजित् । वज्रोलीमभ्यसेद्यस्तु स योगी सिद्धिभाजनम् ॥ १२६ ॥
-
- लभ्यते यदि तस्यैव योगसिद्धिः करे स्थिता । अतीतानागतं वेत्ति खेचरी च भवेद्ध्रुवम् ॥ १२७ ॥
-
- अमरीं यः पिबेन्नित्यं नस्यं कुर्वन्दिने दिने । वज्रोलीमभ्यसेन्नित्यममरोलीति कथ्यते ॥ १२८ ॥
-
- ततो भवेद्राजयोगो नान्तरा भवति ध्रुवम् । यदा तु राजयोगेन निष्पन्ना योगिभिः क्रिया ॥ १२९ ॥
-
- तदा विवेकवैराग्यं जायते योगिनो ध्रुवम् । विष्णुर्नाम महायोगी महाभूतो महातपाः ॥ १३० ॥
-
- तत्त्वमार्गे यथा दीपो दृश्यते पुरुषोत्तमः । यः स्तनः पूर्वपीतस्तं निष्पीड्य मुदमश्नुते ॥ १३१ ॥
-
- यस्माज्जातो भगात्पूर्वं तस्मिन्नेव भगे रमन् । या माता सा पुनर्भार्या या भार्या मातरेव हि ॥ १३२ ॥
-
- यः पिता स पुनः पुत्र: यः पुत्रः स पुनः पिता । एवं संसारचक्रेण कूपचक्रेण घटा इव ॥ १३३ ॥
-
- भ्रमन्तो योनिजन्मानि श्रुत्वा लोकान्समश्नुते । त्रयो लोकास्त्रयो वेदास्तिस्रः सन्ध्यास्त्रयः स्वराः ॥ १३४ ॥
-
- त्रयोऽग्नयश्च त्रिगुणाः स्थिताः सर्वे त्रयाक्षरे । त्रयाणामक्षराणां च योऽधीतेऽप्यर्धमक्षरम् ॥ १३५ ॥
-
- तेन सर्वमिदं प्रोतं तत्सत्यं तत्परं पदम् । पुष्पमध्ये यथा गन्धः पयोमध्ये यथा घृतम् ॥ १३६ ॥
-
- तिलमध्ये यथा तैलं पाषाणेष्विव काञ्चनम् । हृदि स्थाने स्थितं पद्मं तस्य वक्त्रमधोमुखम् ॥ १३७ ॥
-
- ऊर्ध्वनालमधोबिन्दुस्तस्य मध्ये स्थितं मनः । अकारे रेचितं पद्ममुकारेणैव भिद्यते ॥ १३८ ॥
-
- मकारे लभते नादमर्धमात्रा तु निश्चला । शुद्धस्फटिकसङ्काशं निष्कलं पापनाशनम् ॥ १३९ ॥
-
- लभते योगयुक्तात्मा पुरुषस्तत्परं पदम् । कूर्मः स्वपाणिपादादिशिरश्चात्मनि धारयेत् ॥ १४० ॥
-
- एवं द्वारेषु सर्वेषु वायुपूरितरेचितः । निषिद्धं तु नवद्वारे ऊर्ध्वं प्राङ्निश्वसंस्तथा ॥ १४१ ॥
-
- घटमध्ये यथा दीपो निवातं कुम्भकं विदुः । निषिद्धैर्नवभिर्द्वारैर्निर्जने निरुपद्रवे ॥ १४२ ॥
-
- निश्चितं त्वात्ममात्रेणावशिष्टं योगसेवयेत्युपनिषत् ॥ १४३ ॥
-
-
-
-
-
- ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥ तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
- ॐ शान्तिः शान्तिः शान्तिः ॥
-
-
-
-
-
-
-
-
-
- ॥इति योगतत्त्वोपनिषत् समाप्ता ॥
-
-
-
-