याज्ञवल्क्यस्मृतिः/व्यवहाराध्यायः/वेतनादानप्रकरणम्

विकिस्रोतः तः

गृहीतवेतनः कर्म त्यजन्द्विगुणं आवहेत् ।
अगृहीते समं दाप्यो भृत्यै रक्ष्य उपस्करः । । २.१९३ । ।

दाप्यस्तु दशमं भागं वाणिज्यपशुसस्यतः ।
अनिश्चित्य भृतिं यस्तु कारयेत्स महीक्षिता । । २.१९४ । ।

देशं कालं च योऽतीयाल्लाभं कुर्याच्च योऽन्यथा ।
तत्र स्यात्स्वामिनश्छन्दोऽधिकं देयं कृतेऽधिके । । २.१९५ । ।

यो यावत्कुरुते कर्म तावत्तस्य तु वेतनम् ।
उभयोरप्यसाध्यं चेत्साध्ये कुर्याद्यथाश्रुतम् । । २.१९६ । ।

अराजदैविकं नष्टं भाण्डं दाप्यस्तु वाहकः ।
प्रस्थानविघ्नकृच्चैव प्रदाप्यो द्विगुणां भृतिम् । । २.१९७ । ।

प्रक्रान्ते सप्तमं भागं चतुर्थं पथि संत्यजन् ।
भृतिं अर्धपथे सर्वां प्रदाप्यस्त्याजकोऽपि च । । २.१९८ । ।