याज्ञवल्क्यस्मृतिः/व्यवहाराध्यायः/विक्रीयासंप्रदानप्रकरणम्

विकिस्रोतः तः

गृहीतमूल्यं यः पण्यं क्रेतुर्नैव प्रयच्छति ।
सोदयं तस्य दाप्योऽसौ दिग्लाभं वा दिगागते । । २.२५४ । ।

विक्रीतं अपि विक्रेयं पूर्वक्रेतर्यगृह्णति ।
हानिश्चेत्क्रेतृदोषेण क्रेतुरेव हि सा भवेत् । । २.२५५ । ।

राजदैवोपघातेन पण्ये दोषं उपागते ।
हानिर्विक्रेतुरेवासौ याचितस्याप्रयच्छतः । । २.२५६ । ।

अन्यहस्ते च विक्रीय दुष्टं वादुष्टवद्यदि ।
विक्रीणीते दमस्तत्र मूल्यात्तु द्विगुणो भवेत् । । २.२५७ । ।

क्षयं वृद्धिं च वणिजा पण्यानां अविजानता ।
क्रीत्वा नानुशयः कार्यः कुर्वन्षड्भागदण्डभाक् । । २.२५८ । ।