याज्ञवल्क्यस्मृतिः/व्यवहाराध्यायः/अभ्युपेत्याशुश्रूषाप्रकरणम्

विकिस्रोतः तः

बलाद्दासीकृतश्चौरैर्विक्रीतश्चापि मुच्यते ।
स्वामिप्राणप्रदो भक्त त्यागात्तन्निष्क्रयादपि । । २.१८२ । ।

प्रव्रज्यावसितो राज्ञो दास आमरणान्तिकम् ।
वर्णानां आनुलोम्येन दास्यं न प्रतिलोमतः । । २.१८३ । ।

कृतशिल्पोऽपि निवसेत्कृतकालं गुरोर्गृहे ।
अन्तेवासी गुरुप्राप्त भोजनस्तत्फलप्रदः । । २.१८४ । ।