सुभाषितरत्नकोशः/१४ मदनव्रज्या

विकिस्रोतः तः
(मदनव्रज्या (सुभाषितरत्नकोशः) इत्यस्मात् पुनर्निर्दिष्टम्)
← १३ शिशिरव्रज्या सुभाषितरत्नकोशः
१४ मदनव्रज्या
विद्याकरः
१५ वयःसन्धिव्रज्या →

ततो मदनव्रज्या ।। १४

अयं स भुवनत्रयप्रथितसंयमः शंकरो बिभर्ति वपुषाधुना विरहकातरः कामिनीम् ।
अनेन किल निर्जिता वयम् इति प्रियायाः करं करेण परिताडयञ् जयति जातहासः स्मरः १४.१ (३२३)

नीलपटहस्य

भ्रूशार्ङ्गाकृष्टमुक्ताः कुवलयमधुपस्तोमलक्ष्मीमुषो ये क्षेपीयाः कृष्णसारा नरहृदयभिदस् तारवक्रूरशल्याः ।
ते दीर्घापाङ्गपुङ्खाः स्मितविषविषमाः पक्ष्मलाः स्त्रीकटाक्षाः पायासुर् वोऽतिवीर्यास् त्रिभुवनजयिनः पञ्चबाणस्य बाणाः १४.२ (३२४)

मनसि कुसुमबाणैर् एककालं त्रिलोकीं कुसुमधनुर् अनङ्गस् ताडयत्य् अस्पृशद्भिः ।
इति विततविचित्राश्चर्यसंकल्पशिल्पो जयति मनसिजन्मा जन्मिभिर् मानिताज्ञः १४.३ (३२५)

शत्रुः कारणमान्मनोऽपि भगवान् वामाङ्गनित्याङ्गनः स्वर्लोकस्य सुधैकपानचषको मित्रं च तारापतिः ।
चुम्बन्तो जगतां मनः सुमनसो मर्मस्पृशः सायका दाराः प्रीतिरती इति क्व महिमा कामस्य नालौकिकः १४.४ (३२६)

मनिविनोदस्यामू

कुलगुरुबलानां केलिदीक्षाप्रदाने परमसुहृद् अनङ्गो रोहिणीवल्लभस्य ।
अपि कुसुमपृषत्कैर् देवदेवस्य जेता जयति सुरतलीलानाटिकासूत्रधारः १४.५ (३२७)

राजशेखरस्य

वन्दे देवम् अनङ्गम् एव रमणीनेत्रोत्पलच्छद्मना पाशेनायतशालिना सुनिबिडं संयम्य लोकत्रयम् ।
येनासाव् अपि भस्मलाञ्छिततनुर् देवः कपाली बलात् प्रेमक्रुद्धनगात्मजाङ्घ्रिविनतिक्रीडाव्रते दीक्षितः १४.६ (३२८)

ललितोकस्य

स जयति संकल्पभवो रतिमुखशतपत्रचुम्बनभ्रमरः ।
यस्यानुरक्तललनानयनान्तविलोकितं वसतिः १४.७ (३२९)

दामोदरगुप्तस्य

अहो धनुषि नैपुण्यं मन्मथस्य महात्मनः ।
शरीरम् अक्षतं कृत्वा भिनत्त्य् अन्तर्गतं मनः १४.८ (३३०)

धनुर् माला मौर्वी क्वणदलिकुलं लक्ष्यम् अबला मनो भेद्यं शब्दप्रभृतय इमे पञ्च विशिखाः ।
इयाञ् जेतुं यस्य त्रिभुवनम् अदेहस्य विभवः स वः कामः कामान् दिशतु दयितापाङ्गवसतिः १४.९ (३३१)

जयति स मदखेलोच्छृङ्खलप्रेमरामा- ललितसुरतलीलादैवतं पुष्पचापः ।
त्रिभुवनजयसिद्ध्यै यस्य शृङ्गारमूर्तेर् उपकरणम् अपूर्वं माल्यम् इन्दुर् मधूनि १४.१० (३३२)

उत्पलराजस्य

याच्यो न कश्चन गुरुः प्रतिमा च कान्ता पूजा विलोकनविगूहनचुम्बनानि ।
आत्मा निवेद्यम् इतरव्रतसारजेत्रीं वन्दामहे मकरकेतनदेवदीक्षाम् १४.११ (३३३)

वल्लणस्य
इति मदनव्रज्या ।। १४