भेलसंहिता कल्पस्थानम्

विकिस्रोतः तः

भेलसंहिता


॥कल्पस्थानम्॥

॥प्रथमोऽध्यायः॥[सम्पाद्यताम्]

अथातो मदनकल्पं व्याख्यास्याम इत् ह स्माह भगवानात्रेयः।
भेस७.१.१
पिण्डीतकानि तु त्रीणि संग्रहोक्तानि मे शृणु।
कृष्णं श्वेतमुभे तच्च त्रितयं मदनं स्मृतम्॥
भेस७.१.२
फलानान्त्वेव सर्वेषां मदनं सर्वशोधनम्।
वमनास्थापने योज्यं तथैवाप्यनुवासने॥
भेस७.१.३
यदा न परिपूर्णान् परिपक्वानि तानि च।
भवन्ति रसपूर्णानि ततस्तान्युद्धरेद् भिषक्॥
भेस७.१.४
यवपल्ले तथैतानि तुषपल्ले तथा पुनः।
सप्तरात्रं वासयित्वा संकुञ्चितफलत्वचा॥
भेस७.१.५
सुभावितानि विज्ञाय मृदुभूतानि शास्त्रवित्।
द्विधा त्रिधा शोधयित्वा सम्यक् संशोध्य चावपेत्॥
भेस७.१.६
धान्येषु मासं संस्थाप्य मृदा चैवावलेपयेत्।
निधूमे च निवाते च कपाटपिहिते गृहे॥
भेस७.१.७
वैहायसे स्थापयेच्च यथा स्वेदो न संभवेत्।
एतेषां फलमज्जानां सनखं मुष्टिमाहरेत्॥
भेस७.१.८
जर्जरीकृत्य दृषदि पात्रे चाप्यधिवासयेत्।
मधुकस्य कषायेण रात्रिमेकां निधापयेत्॥
भेस७.१.९
अथ चोत्थाय पूर्वाह्णे हस्तौ प्रक्षाल्य मर्दयेत्।
परिस्रुतं सलवणं मधुयुक्तं प्रताप्य च॥
भेस७.१.१०
पाययेदातुरं स्निग्धं छर्दयेत्तेन साधु ना।
एतेनैव च कल्पेन जीमूतकफलैरपि॥
भेस७.१.११
इक्ष्वाकुकुटजाभ्यां च लवणैश्चापि कारयेत्।
कृतवेधैर्हस्तिपर्णैः धामार्गवफलैरपि॥
भेस७.१.१२
कषायं कारयेदेभिः फलबीजानि भावयेत्।
अनेन कल्पेन भिषक् पाययेत्तु यथाबलम्॥
भेस७.१.१३
मदनस्य फलान्येव पुनरुद्धारयेद् भिषक्।
यथा स्युर्नातिपाण्डूनि तथैव हरितान्यपि॥
भेस७.१.१४
परिपूर्णानि पक्वानि तथा जातरसानि च।
सूच्या वा कण्टकैर्वाथ व्यधयित्वा समन्ततः॥
भेस७.१.१५
मदनानां कषायेण त्रिरात्रं भावयेद् भिषक्।
एतेनैव च कल्पेन जीमूतकफलैरपि॥
भेस७.१.१६
इक्ष्वाकुकुटजानां तु धामार्गवफलैरपि।
कृतवेधैर्हास्तिपर्णैश्छर्दयेत्तेन साधु ना॥
भेस७.१.१७
स खल्वेतेन कल्पेन कुशानां वरुणस्य च।
काकोदुम्बरिकायाश्च कुष्ठाख्यायास्तथैव च॥ एकैकस्य कषायेण सुस्निग्धं पाययेद् भिषक्।
बलाबलमवेक्ष्य ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ॥


॥तृतीयोऽध्यायः॥[सम्पाद्यताम्]

... ... ... ह स्माह भगवानात्रेयः।
भेस७.३.१
इक्ष्वाकूण्युद्धरेद्धीमान् वसन्तेऽथ शरद्यपि।
यदा प्रयुष्पितानि स्युर्मधुगन्धीनि वान्ति च॥
भेस७.३.२
तेषां क्रियां प्रवक्ष्याम इक्ष्वाकूणां यथा विधिः।
इक्ष्वाकुभिः पयस्सिद्धं तेनैवं वामयेद् भिषक्॥
भेस७.३.३
पयसा दधि कृत्वा वा पाययेत्तु यथाबलम्।
निर्मथ्य वामयेच्चैनं नवनीतेन वा नरम्॥
भेस७.३.४
विहिता चेक्ष्वाकुष्वेषा समाख्याता क्रिया मया।
वृन्तान्यार्द्राणि चादाय स्थापयेत्फाणितोदरे॥
भेस७.३.५
एकरात्रस्थितान्यत्र हस्तौ प्रक्षाल्य मर्दयेत्।
परिस्रुतं सलवणं मधुयुक्तं प्रताप्य च॥
भेस७.३.६
पाययेदातुरं स्निग्धं छरयेत्तेन साधु सः।
एतेनैव च कल्पेन इक्षुदर्भेक्षुवारिकैः॥
भेस७.३.७
तथा पोटगलेक्षोश्च कारयेत्तु रसाप्लुतम्।
अथवा कोविदारस्य पत्रैस्सम्मिश्रितानि तु॥
भेस७.३.८
इक्ष्वाकूणां पल्लवानि स्वेदयेद्गोमयाग्निना।
तानि स्विन्नानि चोद्धृत्य क्षोदयित्वा ह्युलूखले॥
भेस७.३.९
ततः फलकषायेण स्वभ्यासिच्य समस्य च।
एकरात्रं कषायेऽस्मिन् स्वनुगुप्तं निधापयेत्॥
भेस७.३.१०
पूर्वकल्पविधानेन वामयेत्तं यथाबलम्।
इक्ष्वाकूणां प्रसृतं च सूक्ष्मं चूर्णानि कारयेत्॥
भेस७.३.११
कोविदारकषायेण गुलिकाः कारयेद्भिषक्।
एतेनैव कषायेण विनीय गुलिकान्तु ताम्॥
भेस७.३.१२
यथाबलं पाययेत्तु छर्दयेत्तेन साधु सः।
एतेन खलु कल्पेन कुशानां तगरस्य च॥
भेस७.३.१३
एतैकस्य कषायेण सुस्निग्धं वामयेद्भिषक्।
यथाबलं यथोद्दिष्टं छर्दयेत्तेन साधु सः॥
भेस७.३.१४
इक्ष्वाकुभिः पयस्सिद्धं पाययेत्तु यथाबलम्।
इक्ष्वाकूणामयं कल्पो वमनार्थाय कीर्तितः॥
भेस७.३.१५
मृदुरभ्यासतस्सिद्धः प्रयोज्यो देशकालतः॥ इत्याह भगवानात्रेयः।
इति भेले कल्पस्थाने तृतीयोऽध्यायः॥


॥चतुर्थोऽध्यायः॥[सम्पाद्यताम्]

अथातो धामार्गवकल्पं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस७.४.१
धामार्गवान्युद्धरेत वसन्ते वा शरद्यपि।
यदा प्रपुष्पितानि स्युः मधुगन्धीनि भान्ति च॥
भेस७.४.२
समे भूमिप्रदेशेऽस्मिन् कुशरोहिषसंस्कृते।
कृष्णमृत्स्नाप्रभे वापि ह्यथवा स्वर्णमृत्तिके॥
भेस७.४.३
व्यातपे न नदीतीरे श्वभ्रवल्मीकयोस्तथा।
परिपूर्णानि पक्वानि तथा जातरसानि च॥
भेस७.४.४
भिषगुद्धृत्य मतिमान् यवपल्ले निधापयेत्।
वुसपल्लेऽथ वा धीरः सप्तरात्रं निधापयेत्॥
भेस७.४.५
सुभावितानि विज्ञाय मृदुभूतानि शास्त्रवित्।
जर्जरीकृत्य दृषदि पात्रेष्वासिच्य निर्हरेत्॥
भेस७.४.६
कोविदारकषायेण रात्रिमेकां निधापयेत्।
अथ चोत्थाय पूर्वाह्णे हस्तौ प्रक्षाल्य मर्दयेत्॥
भेस७.४.७
परिस्रुतं सलवणं मधुयुक्तं प्रताप्य च।
पाययेदातुरं स्निग्धं छर्दयेत्तेन साधु सः॥
भेस७.४.८
धामार्गवाणामेतेषां मुष्टिं संगृह्य सन्नखम्।
जर्जरीकृत्य दृषदि पात्रेष्वभ्यवहारयेत्॥
भेस७.४.९
कोविदारकषायेण रात्रिमेकां निधापयेत्।
पूर्वोक्तेनैव कल्पेन वामयेत्तु यथाबलम्॥
भेस७.४.१०
नलदस्य कषायेण तालीसशतपुष्पयोः।
कुष्ठस्य मूर्वापाठायाः पूर्वकल्पेन छर्दयेत्॥
भेस७.४.११
धामार्गवाञ्जलिं पूर्णं सूक्ष्मचूर्णानि कारयेत्।
श्यामाकषाये प्रक्षिप्य चैकरात्रं यथाविधि॥
भेस७.४.१२
तथा फलकषायेऽस्मिन्निक्ष्वाकुकृतवेधने।
जीमूतके हस्तिपर्णे कषाये परिभावयेत्॥
भेस७.४.१३
तत उद्धृत्य संशोष्य सूक्ष्मचूर्णानि कारयेत्।
कृसरां तेन संयुक्तां नात्युष्णां पाययेन्नरम्॥
भेस७.४.१४
उत्पलं पुण्डरीकं च नलदं कुमुदं तथा।
तेन चूर्णेन संस्पृश्य घ्रातुमस्मै प्रदापयेत्॥
भेस७.४.१५
सिराहृदयमाप्नोति यावत्तत्किल मिश्रकम्।
त्वरितं तानि पुष्पाणि घ्रातुमस्मै प्रदापयेत्॥
भेस७.४.१६
घ्रातुं पुनः पुनर्मध्यं चूर्णयित्वा मुहुर्मुहुः।
अनेनैव च कल्पेन सुखं वमति मानवः॥
भेस७.४.१७
धामार्गवाञ्जलिं पूर्णं सूक्ष्मचूर्णानि कारयेत्।
त्रिधा विभज्य मतिमान् स्वनुगुप्तं निधापयेत्॥
भेस७.४.१८
अथ बिल्वकषायेण द्वौ भागौ श्च्योतयेद्भिषक्।
च्युते कषाये विमले स्वनुगुप्तं निधापयेत्॥
भेस७.४.१९
भागं तु गुलिकाः कार्याः कोलकर्कन्धुसम्मिताः।
कोविदारकषायेण पूर्वकल्पेन छर्दयेत्॥
भेस७.४.२०
कर्कन्धूबदराणां च कोलानां वापि सीधुना।
गुलिकां विनीय विधिवच्छर्दयेत्तेन साधु सः॥
भेस७.४.२१
रोहितस्य च मत्स्यस्य तथा कर्कटकस्य च।
पक्षिणामौदकानां च रसेन तु वमेत्सुखम्॥
भेस७.४.२२
एतेन खलु कल्पेन चाम्लैश्च मधुसीधुभिः।
गुलिकां विनीय विधिवत् पाययेत्तां यथाबलम्॥ इत्याह भगवानात्रेयः।
इति भेले चतुर्थोऽध्यायः॥


॥पञ्चमोऽध्यायः॥[सम्पाद्यताम्]

अथातः कुटजकल्पं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस७.५.१
वसन्ते वा शरदि वा कुटजान्युद्धरेद् भिषक्।
शुचिश्शुद्धश्शिरःस्नातः पुष्येणाश्वयुजेन वा॥
भेस७.५.२
प्रतूठानि शुचौ देशे कुशरोहिषसंस्कृते।
कृष्णमृत्स्नाप्रभे वापि तथा वा स्वर्णमृत्तिके॥
भेस७.५.३
व्यातपे न नदीतीरे श्वभ्रवल्मीकयोस्तथा।
परिपूर्णानि पक्वानि तथा जातरसानि च॥
भेस७.५.४
कुटजानामथैतेषां मुष्टिं सङ्गृह्य सन्नखम्।
कोविदारकषायेण रात्रिमेकां निधापयेत्॥
भेस७.५.५
अथ चोत्थाय पूर्वाह्णे हस्तौ प्रक्षाल्य मर्दयेत्।
परिस्रुतं सलवणं मधुयुक्तं प्रताप्य च॥
भेस७.५.६
पाययेदातुरं स्निग्धं छर्दयेत्तेन साधु सः।
अनेनैव च कल्पेन कषायं कारयेद् भिषक्॥
भेस७.५.७
कोविदारस्य बीजैश्च नीपस्य विदुलस्य च।
गुलूच्याश्च सुष्व्याश्च पटोलपिचुमन्दयोः॥
भेस७.५.८
कृत्वा मधूलिकायाश्च कषायं तेन छर्दयेत्।
एषामेव फलानान्तु मुष्टिं संगृह्य सन्नखम्॥
भेस७.५.९
मधुकस्य कषायेण तच्चूर्णं परिमर्दयेत्॥
भेस७.५.१०
गुलिकाः कारयेत्तेन कर्कन्धुबदरोपमाः।
कोविदारकषायेण पूर्वकलोएन छर्दयेत्॥
भेस७.५.११
यथाबलं यथोद्दिष्टं छर्दयेत्तेन साधु सः।
कृतवेधनकल्पोऽयमुक्तो वमनविस्तरे॥
भेस७.५.१२
य एवं सम्प्रजानाति स राज्ञां कर्तुमर्हति॥ इत्याह भगवानात्रेयः।
इति भेले कल्पस्थाने पञ्चमोऽध्यायः॥


॥षष्ठोऽध्यायः॥[सम्पाद्यताम्]

अथातश्चतुरङ्गुलीयं कल्पं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस७.६.१
मनोज्ञदेशजातस्तु यो भवेच्चतुरङ्गुलः।
फलमुष्टिं समाहृत्य ततश्चूर्णानि कारयेत्॥
भेस७.६.२
तच्चूर्णितं त्रिधाकृत्य भागमेकं निधापयेत्।
द्वौ भागौ च शुचिस्सम्यक् कृत्वा मन्थनमेव तु॥
भेस७.६.३
श्च्योतयित्वा परिस्रुत्य सुप्रसन्नमनाविलम्।
परिभागं समावाप्य साधयेद्गोमयाग्निना॥
भेस७.६.४
तस्मिंस्तथा सिच्यमाने सूक्ष्माणीमानि दापयेत्।
हरीतकीमामलकं विभीतकफलानि च॥
भेस७.६.५
मधूकभागमावाप्य तद्विलेपनमाहरेत्।
ततः पाणितलं चूर्णं लेह्यं तेन विरिच्यते॥
भेस७.६.६
एतेनैव च कल्पेन कण्टकार्याः फलैरपि।
श्च्योतयित्वा लेहजातं परितः सासवं पिबेत्॥
भेस७.६.७
चतुरङ्गुलसिद्धा वा पेया योज्या सुसंस्कृता।
विरिच्यते तेन साधु नायोगो नातियोगिता॥
भेस७.६.८
धात्रीफलरसद्रोणे शर्करार्धतुलां पचेत्।
घृतं चतुष्पलं पक्वं पृथगर्धपलं क्षिपेत्॥
भेस७.६.९
नतं वेल्लं चतुर्जातं यष्टिसैन्धवजीरकम्।
पलाशं विश्वमरिचं मृद्वीकायाश्चतुष्पलम्॥
भेस७.६.१०
प्रस्थं कणात्रिवृतयोर्मधुनश्च निहन्ति तत्।
तत्खण्डामलकं नाम पाण्डुश्वयथुकामिलाम्॥
भेस७.६.११
शिरोभ्रमणमुन्मादमम्लपित्तविकारजित्॥
भेस७.६.१२.
भल्लातकानां पवनाहतानां वृन्तच्युतानामिह चाठकं स्यात्।
तदिष्टकाचूर्णकणैर्विघृष्य प्रक्षालयित्वा विसृजेत्प्रवाते॥
भेस७.६.१३
शुष्कं पुनस्तद्विदलीकृतं च विनिक्षिपेदप्सु चतुर्गुणासु।
पादावशिष्टं परिपूतशीतं क्षीरेण तुल्येन पुनः पचेत॥
भेस७.६.१४
तत्पादशिष्टं पुनरेव शीतं घृतेन तुल्येन पुनः पचेत।
तदर्धया शर्करयावगाठं लोहाभयाव्योषकचूर्णयुक्तम्॥
भेस७.६.१५
एतत्समं शार्करपादयुक्तं ततः खजेनोन्मथितं निधाय।
प्रस्थद्वयेनामलकीमधूनां शीतेऽथ धान्येन पुनः पचेत॥
भेस७.६.१६
तत्सप्तरात्रादुपजातवीर्यं सुधारसादप्यधिकत्वमेति।
प्रातर्विशुद्धीकृतदेहभाजां मात्रां ददीतात्मशरीरयोग्याम्॥
भेस७.६.१७
न चान्नपाने परिहार्यमास्ते न चोष्णवाताध्वनि मैथुने च।
जन्तुर्नितान्तं नरसिह्मवत्स्याद्भवेन्नरः काञ्चनराशिगौरः॥
भेस७.६.१८
दन्ताश्च शीर्णाः पुनरुद्भवन्ति केशाश्च शुक्लाः पुनरेव कृष्णाः।
विशीर्णकर्णाङ्गुलिनासिकोऽपि कृम्यर्दितो भिन्नगलोऽपि कुष्ठी॥
भेस७.६.१९
सोऽपि क्रमेणाङ्गुलिगात्रशाखस्तरुर्यथा रोहति वारिसिक्तः।
महामयूराञ्जयति स्वरेण बलेन नागांस्तुरगान् जवेन॥
भेस७.६.२०
... ... ... ... ... सुधाक्षीरेण भावयेत्।
तत्पिबेत्तु यथोत्साहं तेन साधु विरिच्यते॥
भेस७.६.२१
दन्त्यक्षता तु तेजोह्वा तर्कारी सुदुरालभा।
कषायक्वाथ इत्येतत्सुधाक्षीरेण मिश्रयेत्॥
भेस७.६.२२
तत्पिबेत्तु यथोत्साहं तेन साधु विरिच्यते।
सुधाक्षीरेण गोक्षीरमेकस्थमभिसंसृजेत्॥
भेस७.६.२३
तत्पिबेत्तु यथोत्साहं तेन साधु विरिच्यते।
कृतमूत्रपुरीषस्य वाते चाप्यनुलोमिते॥
भेस७.६.२४
प्रथमं स्निग्धकोष्ठस्य स्विन्नस्य च यथाविधि।
सन्ध्यावेलामतिक्रम्य विमले च दिवाकरे।
मैत्रे मुहूर्ते व्यक्ते तु योगानेतान् प्रयोजयेत्॥ इत्याह भगवानात्रेयः॥ इति भेले कल्पस्थाने षष्ठोऽध्यायः॥


॥सप्तमोऽध्यायः॥[सम्पाद्यताम्]

अथातो दन्तीफलकल्पं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
... ... ... ... ... ... ... ...
भेस७.७.१
त्रिधा विभज्य मतिमान् स्वनुगुप्तं निधापयेत्।
रसेनामलकस्यापि द्वौ भागौ श्च्योतयेद्भिषक्॥
भेस७.७.२
च्युतं कषायं विमलं परियोगमधिश्रयेत्।
तस्मिंस्तथा पच्यमाने तच्चूर्णमभिसंसृजेत्॥
भेस७.७.३
तन्मात्रं त्रिफलाचूर्णमावपेन्मधुसंयुतम्।
लेहभूतं विदित्वैनमथैनमवतारयेत्॥
भेस७.७.४
तस्य पाणितलं चूर्णं लेह्यं तेन विरिच्यते।
एतेषां चैव मूलानां कृत्वा चूर्णानि सूक्ष्मशः॥
भेस७.७.५
श्यामाकषायेणालोड्य घृतं सिद्धं विपाचयेत्।
जानीयात्तद्यदा सिद्धमथैनमवतारयेत्॥
भेस७.७.६
तद् दृढे मधुलिप्ते तु नवे कुम्भे समावपेत्।
मृत्स्नाभिः स्वनुलिप्ते तु स्वनुगुप्तं निधापयेत्॥
भेस७.७.७
प्रसृतं पाययेत्तत्र तेन साधु विरिच्यते।
एतेषां चैव मूलानां कृत्वा चूर्णानि सर्वशः॥
भेस७.७.८
बृहतीरससम्मिश्रैः गुलिकां कारयेत्तु तैः।
गुलिकां कारयित्वा तु कर्कन्धुबदरोपमाम्॥
भेस७.७.९
श्यामाकषायेणालोड्य द्वे वा तिस्रोऽपि वा ततः।
पाययेत्तु यथोत्साहं तं स्निग्धस्वेदितं नरम्॥
भेस७.७.१०
विरिच्यते तेन साधु नायोगो नातियोगिता।
स्नेहादि स्नेहमूलं तु प्रच्छर्दनविरेचनम्।
नापरिस्निग्धकोष्ठस्य प्रसिध्यति विशोधनम्॥ इत्याह भगवानात्रेयः।
इति भेले कल्पस्थाने सप्तमोऽध्यायः॥


॥अष्ठमोऽध्यायः॥[सम्पाद्यताम्]

अथातः शङ्खिनीकल्पं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस७.८.१
फलानि परिपक्वानि शङ्खिन्यास्तूद्धरेद्भिषक्।
अन्तरा चैत्रवैशाखमव्यग्रो यवसंग्रहे॥
भेस७.८.२
अनूषरे निरुद्धारे क्षेत्रे सूर्यप्रतापिते।
कृष्णमृत्स्नाप्रभे वापि तथा च स्वर्णमृत्तिके॥
भेस७.८.३
न व्यग्रे न च वल्मीके न चापि तृणछादिते।
सुसमे भूप्रदेशे तु या जाता शङ्खिनी भवेत्॥
भेस७.८.४
तस्या द्रोणं समावाप्य तद्भाण्डं सिद्धबन्धनम्।
यवपर्णोषितं चापि समुद्धृत्य निधापयेत्॥
भेस७.८.५
सप्तरात्रं वार्धमासं समाच्छाद्य समन्ततः।
आतपे परिशुष्काणि सूक्ष्मचूर्णानि कारयेत्॥
भेस७.८.६
फलानामथ चैतेषां द्वौ भागौ कारयेद्भिषक्।
तिलं तृतीयकं कृत्वा क्षोदयित्वा ह्युलूखले॥
भेस७.८.७
सम्यग् दृषदि निष्पिष्य तैलमुद्धारयेत्ततः।
शङ्खिन्या ह्यक्षमात्रं तु त्रिवृत्कल्कमथापि वा॥
भेस७.८.८
तस्मिंस्तैले पयश्चैव भिषग्दद्याच्चतुर्गुणम्।
एतत्सर्वं समालोड्य पाचयेन्मृदुनाग्निना॥
भेस७.८.९
पक्वमाहृत्य विस्राव्य स्वनुगुप्तं निधापयेत्।
तस्याञ्जलिं प्रकुञ्चं वा प्रसृतं वापि पाययेत्॥
भेस७.८.१०
विरिच्यते तेन साधु नायोगो नातियोगिता।
सुसूक्ष्मस्याथ शङ्खिन्याश्चूर्णस्य प्रसृतं शृतम्॥
भेस७.८.११
क्षीरपात्रेण संयोज्य परियोगमधिश्रयेत्।
तथा विपाच्य विस्राव्य शीतीकृत्याभिमन्थयेत्॥
भेस७.८.१२
तत्र यन्नवनीतं स्यात्तदुद्धृत्य विपाचयेत्।
शङ्खिनीफलकल्केन क्षीरेण सलिलेन च॥
भेस७.८.१३
स पिबेत्तद्यथोत्साहं तेन साधु विरिच्यते।
शङ्खिनीफलकल्कन्तु सम्यक् दृषदि पेषयेत्॥
भेस७.८.१४
गोक्षीरेण समालोड्य पिबेत्तेन विरिच्यते।
एतेनैव च कल्पेन ह्युष्ट्रीक्षीरेण पाययेत्॥
भेस७.८.१५
अजाक्षीरेऽविकाक्षीरे माहिषे वाथ वा पुनः।
गोमूत्रेणोष्ट्रमूत्रेण चाविमूत्रेण वा पुनः॥
भेस७.८.१६
अथवा हस्तिमूत्रेण पिबेत्तेन विरिच्यते।
आमृद्गन्नथ मृद्वीकां दापयेत्फाणितोदके॥
भेस७.८.१७
भृष्ट्वा तु शङ्खिनीतैले परियोगमधिश्रयेत्।
अर्धं चूर्णानि पिप्पल्या हरीतक्याश्च दापयेत्॥
भेस७.८.१८
अतः पाणितलं प्राश्य तेन साधु विरिच्यते।
शङ्खिनीफलमध्यानि दातव्यं लवणं तथा॥
भेस७.८.१९
शङ्खिनीतैलभृष्टानि फाणितेनाथ संसृजेत्।
गोधूमाज्येन संसृज्य मोदकान् कारयेद्भिषक्॥
भेस७.८.२०
तांस्त्रीन् द्वौ वाथ संभक्ष्य ततस्साधु विरिच्यते।
सुरां सौवीरकं तक्रं दधिमस्तु तुषोदकम्॥
भेस७.८.२१
कट्वरं कोलसीधुं वा दधि पक्वरसं तथा।
कर्कन्धुबदराणां वा सीधुं पीलुप्रियालयोः॥
भेस७.८.२२
भव्यपारावतानां च मृद्वीकामद्यमेव वा।
बिल्वशिग्रुकपित्थानां रसान्वा सह पाययेत्॥
भेस७.८.२३
अयं हि शङ्खिनीकल्पो मया तु समुदाहृतः।
य एवं सम्प्रजानाति स राज्ञां कर्तुमर्हति॥ इत्याह भगवानात्रेयः।
इति भेले कल्पस्थानेऽष्टमोऽध्यायः॥


॥नवमोऽध्यायः॥[सम्पाद्यताम्]

अथातः श्यामात्रिवृत्कल्पं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस७.९.१
श्यामायास्त्रिवृतयाश्च मूलान्युद्धारयेद्भिषक्।
कल्याणदेशजातायाः कुशरोहिषसंस्कृते॥
भेस७.९.२
कृष्णमृत्स्नाप्रमे वापि ह्यथवा स्वर्णमृत्तिके।
मूलान्येतानि संगृह्य सूक्ष्मचूर्णानि कारयेत्॥
भेस७.९.३
स्थिराकषाये संसृज्य पाययेत्तु यथाबलम्।
विरिच्यते तेन साधु नायोगो नातियोगिता॥
भेस७.९.४
त्रिफलारसमात्रेण द्राक्षापीलुरसेन वा।
आलोड्य वापि पयसा सर्पिषा वापि पाययेत्॥
भेस७.९.५
हरिणसय रसं दद्यान्न्यङ्कोश्च महिषस्य च।
खड्गस्य कलविङ्कस्य तित्तिरेर्लावुकस्य च॥
भेस७.९.६
रसमन्यतमं तेषां त्रिवृच्छ्यामाप्रयोजितम्।
यथाबलं पाययेत्तु सुस्निग्धं स्वेदितं नरम्॥
भेस७.९.७
श्यामायास्त्रिवृतायाश्च कृत्वा चूर्णानि सूक्ष्मशः।
त्रिधा विभज्य तत्रैकं स्वयं गुप्तं निधापयेत्॥
भेस७.९.८
रसेन तु प्रियङ्गूणां द्वौ भागौ श्च्योतयेद्भिषक्।
भाजने तु परिस्राव्य सुप्रसन्नमनाविलम्॥
भेस७.९.९
परियोगमधिश्रित्य पाचयेन्मृदुनाग्निना।
तस्मिंस्तथा पच्यमाने चूर्णान्येतानि धापयेत्॥
भेस७.९.१०
प्रियङ्गुं तगरं चैव तालीसं नलदं तथा।
हीबेरं चैव मुस्तां च बलां कालानुसारिबाम्॥
भेस७.९.११
अशोकपुष्पचूर्णानि पद्मसौगन्धिकानि च।
नलिनं पुण्डरीकं च पिप्पलीमूलमेव च॥
भेस७.९.१२
मधुना सह संसृज्य लिह्यात्पाणितलोन्मितम्।
सुस्निग्धो जीर्णभक्तश्च यथाशास्त्रं यथाबलम्॥
भेस७.९.१३
विरिच्यते तेन साधु नायोगो नातियोगिता।
चन्दनं पद्मकं नीपं सालं सप्तच्छदं तथा॥
भेस७.९.१४
पुनर्नवां तु पललं किरातं तिक्तमेव वा।
ये चान्ये तिक्तमधुरा रसाः पूर्वं प्रकीर्तिताः॥
भेस७.९.१५
तेषां कषायैर्योज्यं स्यात्पैत्तिकानां विरेचनम्।
पारावतान् कपोतांश्च क्रौञ्चबर्हिणकुक्कुटान्॥
भेस७.९.१६
कुरङ्गान् हरिणानेणान् हरितान् कालपुच्छकान्।
वर्तकान् तित्तिरींश्चैव शशलावकपिञ्जलान्॥
भेस७.९.१७
रसैस्तैरुपयुञ्जीत पैत्तिकस्य विरेचनम्।
साराः फलानि चूर्णानि पत्राणि च पयांसि च॥
भेस७.९.१८
य उक्ताः स्थावराः पूर्वं तथैव मृगपक्षिणः।
पानानि फलनिष्क्वाथकषायादिद्रवान् रसान्॥
भेस७.९.१९
लेहान् भक्ष्यांश्च सान्नादीन् तेभ्यः समभिकल्पयेत्।
परूषकस्य द्राक्षाया रसं समधुशर्करम्॥
भेस७.९.२०
त्रिवृदक्षसमायुक्तं पीत्वा साधु विरिच्यते।
साधयेच्छर्करायुक्तं सहैव मधुना भिषक्॥
भेस७.९.२१
शीते तस्मिंस्त्रिवृच्चूर्णं यथाकोष्ठं समावपेत्।
ततः कम्पिल्लकाच्चूर्णं द्वे च ते तिन्दुकस्य च॥
भेस७.९.२२
आरग्वधफलान्मध्यभागाश्चाक्षसमास्तथा।
त्रिवृच्चूर्णस्य धरणं शर्करा मधुकं मधु॥
भेस७.९.२३
मरिचं नागपुष्पं च त्वक्पत्रं च सुचूर्णितम्।
एतत्सर्वं समायोज्य मोदकं कारयेद्भिषक्॥
भेस७.९.२४
अथ वा कारयेल्लेहं तेन साधु विरिच्यते।
द्राक्षारसस्य कुडवं परूषकरसस्य च॥
भेस७.९.२५
मधुनः कुडवार्धं च शर्करापलमेव च।
त्रिवृच्चूर्णकृतो लेहस्तेन साधु विरिच्यते॥
भेस७.९.२६
एतदुत्सन्नदोषाणामीश्वराणां विरेचनम्।
शर्करामोदकं वापि गुडकं माषपूरकम्॥
भेस७.९.२७
अनेन विधिना कुर्यात् पैत्तिकानां विरेचनम्।
त्रिवृच्चूर्णानि पिप्पल्याः फलान्यारग्वधस्य च॥
भेस७.९.२८
कल्कानक्षसमानेतान् पिबेद्धीरो विरेचनम्।
त्रिवृच्चूर्णस्य धरणं शर्करा मधुकं मधु॥
भेस७.९.२९
एतदक्षसमायुक्तं पीत्वा साधु विरिच्यते।
त्रिवृच्चूर्णानि पिप्पल्यो यवक्षारो महौषधम्॥
भेस७.९.३०
श्लेष्मकोपशमार्थाय लिह्यात्तेन विरिच्यते।
अविमूत्रमजामूत्रमुष्ट्रस्य महिषस्य च॥
भेस७.९.३१
मृगस्य मूत्रं गोमूत्रं गर्दभस्य द्विपस्य च।
एतान्यष्टौ प्रयुञ्जीत पृथग्वा यदि वा सह॥
भेस७.९.३२
त्रिवृच्चूर्णविमिश्राणि विलिह्यान्मधुनापि वा।
अजातानि च मद्यानि तीक्ष्णानि निशि तानि च॥
भेस७.९.३३
त्रिवृच्चूर्णविमिश्राणि पीत्वा साधु विरिच्यते।
त्रिवृच्चूर्णं यथाकोष्ठं श्लैष्मिकः पातुमर्हति॥
भेस७.९.३४
त्रिवृतायाः कषायेण सक्षौद्रं साम्लवेतसम्।
अथ वा दधिमण्डेन कोलकानां रसेन वा॥
भेस७.९.३५
कुलुत्थमुद्गयूषैर्वा सतीनचिरिबिल्वयोः।
यवकोलकयूषेण पिबेत्कौलत्थमेव वा॥
भेस७.९.३६
युक्तं वा तैन्त्रणीकेन साम्लवेतसदाडिमम्।
यूषेण शिग्रुकोलाह्वामूलकानां रसेन वा॥
भेस७.९.३७
रसेनामलकानां वा बीजपूरार्जकस्य वा।
कपित्थरसमण्डेन करमर्दरसेन वा॥
भेस७.९.३८
यच्चान्यदपि वा किञ्चित्फलमम्लमिति स्मृतम्।
पिबेत्तत्स्वरसैर्वापि पञ्चमूलीरसेन वा॥
भेस७.९.३९
कटुकल्कविमिश्रं वा यवक्षारेण संयुतम्।
मृद्वीकाफलकल्केन लेहार्थमुपकल्पयेत्॥
भेस७.९.४०
प्रत्येकस्य फलानां च पूर्वोक्तानां चिकित्सकः।
सुजातानां सुपक्वानां प्रत्यग्रं ग्राहयेद्रसम्॥
भेस७.९.४१
तत्राम्लल्वणीभूते विरिप्यात्सैन्धवे भवेत्(?)।
लेहेऽस्मिन् त्रिवृतश्चूर्णं यथाकोष्ठं समावपेत्॥
भेस७.९.४२
सक्षौद्रं सगुडं वापि लिह्यात्सकटुकं तथा।
एतेन विधिना कुर्यान्मोदकान् षाडबान्रसान्॥
भेस७.९.४३
पानानि च फलाम्लानि भक्ष्यं भोज्यं च संस्कृतम्।
एतद्राज्ञां समाख्यातमीश्वराणां विरेचनम्॥
भेस७.९.४४
विधिमेवं प्रयुञ्जीत त्विमं चान्यं चिकित्सकः।
शाणमामलकानां च विभीतकफलानि च॥
भेस७.९.४५
तिल्वकस्सप्तला दन्ती शङ्खिनी चतुरङ्गुलः।
हरीतकीनामेकं च यवक्षारो वचैव हि॥
भेस७.९.४६
पिप्पलीनां च शाणस्स्याद्विडङ्गाच्छाण एव च।
त्रिवृच्चूर्णस्य त्रिश्शाणास्तत्सर्वमवचूर्णयेत्॥
भेस७.९.४७
तानि चूर्णानि मधुना सर्पिषा वा गुडेन वा।
लेहं वा विधिना ... ... ... ... ॥