भृगुसंहिता/पञ्चमोऽध्यायः

विकिस्रोतः तः
← चतुर्थोऽध्यायः भृगुसंहिता
पञ्चमोऽध्यायः
[[लेखकः :|]]
षष्ठोऽध्यायः →

अथ पञ्चमोऽध्यायः

प्रासादलक्षणम्.
अथवक्ष्येविशेषेण प्रासादानान्तुलक्षणं ।
प्रसादङ्कुरुतेयेन प्रासादैरतिकीर्तितं ।। ५.१ ।।

अङ्गुलभेदः
त्रिविधन्तुसमाख्यातमङ्गुलंस्यात्प्रमाणतः ।
मानाङ्गुलन्तुप्रथमं मात्राङ्गुलमतःपरं ।। ५.२ ।।

तृतीयन्तुसमाख्यातं देहलब्धप्रमाणतः ।
रथरेण्वणुरष्टाभिरीक्षायू कायवास्तथा ।। ५.३ ।।

क्रमशोऽष्टकुणैर्विद्धि मानाङ्गुलमितिस्मृतं ।
मध्यमाङ्गुलिमध्यन्तु पर्यमात्राङ्गुलिंस्मृतं ।। ५.४ ।।

प्रतिमायाविभागेन तालगण्येन? भाजनं ।
अङ्गुलन्तु समाख्यातं देहलब्धप्रमाणतः ।। ५.५ ।।

प्रासादमण्डपानाञ्च मानाङ्गुलविधानतः ।
यागोपकरणानास्तु मात्राङ्गुलविधानतः ।। ५.६ ।।

देहलब्धप्रमाणेन प्रतिमाङ्कारयेत्तथा ।
अङ्गुलैःकिष्कुरित्युक्तं चतुर्विंशतिभिस्तथा ।। ५.७ ।।

पञ्चविंशतिभिश्चैव प्राजापत्यमुदाहृतं ।
षड्विन्तिशधन्नुर्मुष्ठि सप्तविंशद्धनुग्रन्हः ।। ५.८ ।।

हस्तानांलक्षणंप्रोक्तं मानाङ्गुलविधानतः ।
एकतलादिकल्पनम्
त्रिहस्तादिसमारभ्य नवहस्तान्तमेवच ।। ५.९ ।।

अयुग्मैरथहस्तैस्तुकुर्यादेकतलंबुधः ।
द्वितलन्तुततःकुर्यात्सत्रयोदशहस्तकैः ।। ५.१० ।।

पञ्चाधिकदशैहन्स्तैप्रासादस्स्यात्त्रिभूमिकः ।
तलंप्रत्यधिकङ्कुर्यात्षड्ढस्तन्तुविशेषतः ।। ५.११ ।।

आद्वादशतलादेवं कुर्याद्विस्तारमानकं ।
विस्तारद्विगुणोत्सेध मुत्तमन्तुप्रचक्षते ।। ५.१२ ।।

विस्तारंसप्तधाकृत्वा द्वादशांशन्तुमध्यमं ।
एकादशांशमधमं विस्तारेसप्तधाकृते ।। ५.१३ ।।

आद्वादशतलादेवमुत्सेधन्तुविधीयते ।
प्राङ्मुखोदङ्मुखैस्सूत्रैः(?) पदङ्कुर्यात्तुषोढशं ।। ५.१४ ।।

गभन्गेहस्समाख्यातो मध्यमन्तुचतुष्पदं ।
बाह्यतोद्वादशपदं भित्त्यर्थमुपकल्पयेथ् ।। ५.१५ ।।

षड्भिष्षड्भिस्तधासूत्रैः(?) पदानांपञ्चविंशतिः ।
नवगभन्गृहंमथ्येभित्त्यर्थं शेषमुच्यते ।। ५.१६ ।।

त्रिविधन्तुसमाख्यातं? प्रासादाकृतयस्तथा ।
नागरन्द्राविडञ्चेति वेसरञ्चत्रिधाभवेथ् ।। ५.१७ ।।

न्थूप्यन्तञ्चतुरश्रंस्यान्नागरंसमुदाहृतं ।
कण्ठप्रभृतिचाष्टाश्रं प्रासादन्द्राविडंभवेथ् ।। ५.१८ ।।

कण्ठप्रभृतिवृत्तंय द्वेसरन्तत्प्रचक्षते ।
बेरःपूर्वंस्थितोयत्र तत्रबेरवशाद्भवेथ् ।। ५.१९ ।।

यावद्बेरन्त्रिभागैकं विस्तारंपीठमेवहि ।
पीठस्यत्रिगुणङ्गभंन्गर्भार्धंभित्तिरुच्यते ।। ५.२० ।।

गभन्गेहत्रिभागैकं भित्तिंवातत्रकारयेथ् ।
अग्रतोमण्डपङ्कुर्यात्प्रासादसमविस्तृतं ।। ५.२१ ।।

प्रासादस्य समायामं दशांशंमुखमण्डपं ।
प्रासादस्याग्रतोद्वारं प्रकुर्याल्लक्षणान्वितं ।। ५.२२ ।।

व्रतेरुपरिसीमान्तं द्वारस्योत्सेधौच्यते ।
उत्तमन्द्वारविस्तारमुत्सेथार्धमुदाहृतं ।। ५.२३ ।।

उत्सेधार्ध दशांशेन हीनंमध्यममुच्यते ।
विंशत्यापरिहीनंस्या द्विस्तारमधमंभवेथ् ।। ५.२४ ।।

कायञ्चाप्यनुकायञ्च कुर्यादुत्सेधमानतः ।
भागमेकमधिष्ठानमुत्से धोवसुधाभवेथ् ।। ५.२५ ।।

पादायामोद्विभागस्स्याद्भागःप्रस्तारौच्यते ।
भागःकण्ठैतिप्रोक्तं द्विभासंशिखरंभवेथ् ।। ५.२६ ।।

भागस्थ्यूपिरितिख्यात मेवमुत्सेधौच्यते ।
काममेवंसमाख्यात मनुकायमधोच्यते ।। ५.२७ ।।

कुर्यात्प्रासादविस्तारं चतुर्विंशतिभागिकं ।
एकभागस्तुविस्तारं भागमेकन्तलन्तथा ।। ५.२८ ।।

दशाङ्गुलंस्चाद्द्वितले त्रितलेद्वादशाङ्गुलं ।
युगाङ्गुलविवृद्ध्यातु कर्तव्यंस्यात्तलंप्रति ।। ५.२९ ।।

पादमस्यतुविष्कंभ मष्टभागंविहीनकं ।
स्तंभाग्रेणैवगर्तव्य मनुकायप्रमाणतः ।। ५.३० ।।

उपानस्यतुविष्कंभ मग्रेपादद्वयंभवेथ् ।
अधिष्ठानन्त्रिधाकृत्वा भागोवैजगतीभवेथ् ।। ५.३१ ।।

कुमुदन्तुद्वितीयेन भागेनैवतुकारयेथ् ।
कृत्वाशेषञ्चतंभान्ग मेकांशैनपट्चटिकां ।। ५.३२ ।।

कुर्यात्सार्धेनकण्ठन्तु शेषंवाजिनमुच्यते ।
पादबन्धमितिख्यातं सर्वकार्येषुपूजितं ।। ५.३३ ।।

प्रतिक्रमंवाकर्तव्य मधिष्ठानप्रमाणतः ।
जगतीन्तद्वदेवाथ कुमुदंपृत्तमुच्यते ।। ५.३४ ।।

भागेनपूर्ववत्कृत्वा चतुर्थंशेषमाचरेथ् ।
पट्टिकेनैवकर्तव्य मेगमस्तरिकन्तथा ।। ५.३५ ।।

द्वाभ्यांप्रतिमुखङ्कुर्यात्प्रतिक्रममिदंबवेथ् ।
अधिष्ठानमितिख्यातं पादमानंप्रवक्ष्यते ।। ५.३६ ।।

चतुरश्रमथाष्टाश्रं वृत्तञ्चैवत्रिधाभवेथ् ।
कुंभयुक्तन्तथाके चित्केचित्कुंभविहीनकं ।। ५.३७ ।।

कैचिद्वैकुंभमणीभ्यां युक्तंपादंस्मरन्तिहि ।
विस्तारेणसमंवापि द्विगुणंवापिमूलतः ।। ५.३८ ।।

चतुरश्रमधोहित्वा वृत्तमष्टाश्रमेववा ।
कर्तव्यन्तुयधायुक्त मथवाषोडशाश्रकं ।। ५.३९ ।।

पादानामाकृतिःप्रोक्ता कुंभलक्षणमुच्यते ।
पादाधिकमधाध्यर्थं पादोनन्द्विगुणन्तुवा ।। ५.४० ।।

द्विगुणन्तुसमुत्सेधं पादविष्कंभमानतः ।
श्रीकरञ्चन्द्रकास्तञ्च स्ॐउख्यंप्रियदर्शनं ।। ५.४१ ।।

यथाक्रमेणनामानि कर्तव्यानिविशेषतः ।
श्रीकरंवृत्तपादानां कलाश्राणान्तथैवच ।। ५.४२ ।।

चंन्द्रकान्तमथाष्टाश्रं सोमखण्डमितिस्मृतं ।
अतिभारेषु स्तंभेषु प्रियदर्शनमुच्यते ।। ५.४३ ।।

कृत्वानवांशकङ्कुंभं भागमेकंहृदुच्यते ।
कुंभञ्चतुर्भिरंशैस्तु कण्ठभागमुदाहृतं ।। ५.४४ ।।

आस्यमेकांशमित्युक्तं शेषङ्कुर्याद्द्विदण्डं ।
एकेनपद्मकेनैव वृत्तमेकेनवातथा ।। ५.४५ ।।

विस्तृतौ स्तंभविस्तारौ द्विगुणौकुंभमुच्यते ।
अध्यर्थमास्यविस्तारं हारोधामूलपादवत्? ।। ५.४६ ।।

विस्तारमेवमुक्तंस्यान्मण्डैलन्क्षणमुच्यते ।
मण्डैस्त्रिपादमुत्सेधं विस्तारन्तुचतुगुन्णं ।। ५.४७ ।।

त्रिभागैकंभवेत्पद्मं वेत्रमेकन्तथैवच ।
भागावाफलकारामा वेत्रावापादरूपवथ् ।। ५.४८ ।।

पादाग्रकर्ममानेन स्कन्धङ्कुर्याद्विधानतः ।
स्तंभाग्रसमविस्तारं वीरकान्तन्त्रिपादतः ।। ५.४९ ।।

तदूर्ध्वेपादताङ्कुर्याद्विस्तारंपादविस्तृतं ।
समन्त्रिपादमर्धंवा बोधिकोत्सेधौच्यते ।। ५.५० ।।

त्रिदण्डमधमायामे चतुर्दण्डन्तुमध्यमं ।
उत्तमंपञ्चदण्डंस्या द्बोधिकोत्सेधौच्यते ।। ५.५१ ।।

जगत्यन्तेकुमुदान्ते पट्टिकान्तेऽथवापुनः ।
जलनिर्याणमागंन्च नालनिगन्मनङ्क्रियाथ् ।। ५.५२ ।।

हंसपादन्त्रिपादंवा वितस्तिर्वाविशेषतः ।
प्रतेबान्ह्यविनिष्क्रान्त्या नालींशैलमयीन्तथा ।। ५.५३ ।।

गजोष्ठसदृशाकारां सिंहाकृतिमुखोत्तरां ।
भूतसिंहोपमामूर्ध्वसारवाराधिकारयेथ् ।। ५.५४ ।।

द्विदण्डञ्चत्रिदण्डंवा गभन्गेहेतुवेश्मनः ।
बेरोदयसमंवाथ द्विगुणंवाध्यर्थमेववा ।। ५.५५ ।।

प्रणालमूलविस्तारं त्रिभागैकाग्रविस्तरं ।
व्यासत्रिभागंभागोनं बहुलन्तुत्रिभागभां ।। ५.५६ ।।

वारिसंचारगंभीरतारं झझन्रलक्षणं ।
अनिम्नोन्नतमाभित्ते स्तदात्यश्रङ्क्रमान्नतं ।। ५.५७ ।।

सर्ववाद्यसमायुक्तं तदामङ्गलवाचकैः ।
वास्तुहोमन्ततःकृत्वा आचार्यवूजयेत्ततः ।। ५.५८ ।।

शिल्पिनंपूजयेत्पश्चात्सुमुहूर्तेसुलग्नके ।
आचार्यस्सुप्रसन्नात्मा वारुणंसूक्तमुच्चरेथ् ।। ५.५९ ।।

तक्षकस्थ्सापयेन्नालीं सुस्निग्धांसुदृढाङ्क्रमाथ् ।
बेरप्रासादगभन्स्य यावत्तालस्यचावधि ।। ५.६० ।।

धारान्तुकेवलङ्कुर्याद्भित्तौतालस्यधीमतः? ।
श्रेष्ठमध्यकनिष्ठानि बेरस्यस्थापनन्त्रिधा ।। ५.६१ ।।

धारादलसमाप्तौतु स्थापनञ्चोत्तमंभवेथ् ।
द्वारबन्धस्यपूर्वेतु स्थापनंमध्यमंभवेथ् ।। ५.६२ ।।

मूर्धोपलस्यपूर्वेतु स्थापनंस्यात्कनीयसं ।
यःकरोत्यन्यथाचास्मा दभिचारायचैवहि ।। ५.६३ ।।

एवंनालञ्चसंस्थाप्य प्रस्तरञ्चोत्तरादिकं ।
विष्कंभंपादविस्तार मुत्सेधन्त्रिविधंभवेथ् ।। ५.६४ ।।

उत्तमन्तुसमोत्सेधं त्रिपादंमध्यमंभवेथ् ।
अधमञ्चार्धमुत्सेध मुत्तमंस्याद्विधानतः ।। ५.६५ ।।

स्तंभाग्रैकत्रिभागैकं तस्योर्ध्वेपट्टिकाभवेथ् ।
तत्समंनिगन्मंप्रोक्तं पट्टिकालक्षणन्त्विदं ।। ५.६६ ।।

द्विभागेनतदूर्ध्वेतु कर्तव्यंपद्मपट्टिकं ।
द्विदण्डन्तुकपोतंस्या दुपानसमनिगन्मं ।। ५.६७ ।।

शेषंप्रस्तारमानन्तु कर्तव्यंपञ्चभागिकं ।
एकेनपट्टिकाङ्कुर्यात्कण्ठमेकेनकारयेथ् ।। ५.६८ ।।

द्वाभ्यान्तदूर्ध्वे कर्तव्यमेकांशेनतुपट्टिकां ।
एवंप्रस्तारमाख्यातं तोरणंवक्ष्यतेऽथुना ।। ५.६९ ।।

पाश्वन्योःपृष्ठतश्चापि कर्तव्यन्तो रणन्तथा ।
प्रतेरुत्तरसीमान्ते तोरणस्याश्रयोभवेथ् ।। ५.७० ।।

विस्तारन्तुतदर्धंस्या द्विस्तारंपञ्चभागिकं ।
मकरांशन्त्रियंशेन शेषंपादमितिस्मृतं ।। ५.७१ ।।

पादान्तराग्रमधवाविस्तारन्तोरणस्यतु ।
पूर्वोक्तमेवकर्तव्यं मकरांशप्रमाणतः ।। ५.७२ ।।

प्रमाणन्तो रणस्योक्तं नासिकायास्तुलक्षणं ।
वक्ष्यतेतुप्रमाणेन यथाशास्त्रविनिश्चितं ।। ५.७३ ।।

गभन्गेहार्धविस्तारं महानासीतिकीर्त्यते ।
निगन्मन्तुतदर्धंस्यात्त्रिपादंसममेवचा ।। ५.७४ ।।

शिखरेषु चतुर्धिक्षु कुर्यादेकान्तुनासिकां ।
विस्तारन्तुतदर्धंस्यात्क पोतेष्वष्टनासिकाः ।। ५.७५ ।।

कूटस्यलक्षणंप्रोक्तं कूटशालंविधीयते ।
कृत्वाप्रासादषड्भागमेकभागंविधीयते ।। ५.७६ ।।

भागेनकूटशालं स्याद्भागार्धंपञ्चमंभवेथ् ।
चतुर्गुणंभवेत्कूयं शालास्याद्गोपुराकृतिः ।। ५.७७ ।।

शालाविस्तारमानेन पाश्वन्योनान्सिकाभवेथ् ।
एकनासिकयायुक्तं पञ्जरंसमुदाहृतं ।। ५.७८ ।।

ततःकण्ठार्धमानेन शिखरंवर्धयेत्ततः ।
कण्ठाद्द्विदण्डमित्युक्तं शिखरस्यतुनिगन्मं ।। ५.७९ ।।

निगन्माद्वर्तनाद्बाह्ये वर्धनन्तुतदर्धकं ।
स्थूपिङ्कुभसमायुक्तं कुर्याद्दण्डंविधानतः ।। ५.८० ।।

विस्तारन्तत्प्रमाणेन शिखरन्तत्रचोच्यतं ।
तदूर्ध्वेकण्ठमित्युक्तं फलकाचतदूर्ध्वतः ।। ५.८१ ।।

क्रमेणकृशतां कुर्याद्यानदन्तस्तुमाक्ष्मतः

इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे पञ्चमोऽध्यायः