भृगुसंहिता/त्रयोदशोऽध्यायः

विकिस्रोतः तः
← द्वादशोऽध्यायः भृगुसंहिता
त्रयोदशोऽध्यायः
[[लेखकः :|]]
चतुर्दशोऽध्यायः →

अथ त्रयोदशोऽध्यायः.
नवषट्पञ्चमूर्तिविधानम्
अत ऊर्ध्वं प्रवक्ष्यामि नवषट्पञ्चमूर्तिकं ।
विष्णुं च पुरुषं सत्यमच्युतं चाविरुद्धकं ।। १३.१ ।।

नरनारायणाभ्यां तु वाराहं नारसिंहकं ।
एवं तु नवमूर्तिस्तु स्थापयित्वा यधाविधि ।। १३.२ ।।

विष्ण्वादिपञ्चमूर्तीस्तु अदिमूर्तिन्तथाक्रमाथ् ।
स्थापयेत्तत्क्रमेणैव षण्मूर्तिकमिहोच्यते ।। १३.३ ।।

विष्ण्वादीनां तु पञ्चानां स्थापनं पञ्चमूर्तिकं ।
दशावतारकल्पः
मत्स्यः कूर्मोवराहश्च नारसिंहोऽथ वामनः ।। १३.४ ।।

रामो रामश्च रामश्च कृष्णः कर्किरिमे दश ।
सर्गकाले तु भगवान्सृष्ट्वा विखनसं गुरुं ।। १३.५ ।।

वेदानुपादिशत्तस्मै लोकसंरक्षणक्षमान् ।
पुरा मध्वादयः काले संभूय भुवि राक्षसाः ।। १३.६ ।।

अपाहरंस्तु तान्वेदान्बलात्कृत्व विधिं मुहुः ।
तदा तु सोमकं हन्तुं राक्षसं रणविक्रमं ।। १३.७ ।।

अन्तर्हितमकूपारे मात्स्यं भावं गतो हरिः ।
हत्वा तु सोमङ्कं पश्चाद्वेदानब्जभुवे ददौ ।। १३.८ ।।

ग्रामादिषु च सर्वत्र मध्यमे पश्चिमेऽपिवा ।
हस्तिपृष्ठविमाने तु कुंभाकारविमानके ।। १३.९ ।।

द्वितालेनोत्तमं कुर्यान्मानमेतदुदाहृतं ।
अवतारस्य सर्वस्य कौतुकं स्याच्छतुर्भुजं ।। १३.१० ।।

विशेषमत्र वक्ष्यामि प्रधानेऽब्जावले क्रमाथ् ।
हौत्रप्रशंसनं कृत्वा देवतावाहनं चरेथ् ।। १३.११ ।।

"मत्स्यं च जलजं चेति भद्रं क्रीडात्मकंऽतथा ।
एवमादिभिरावाह्य चान्यत्पूर्ववदाचरेथ् ।। १३.१२ ।।

"यस्स्वयं सृष्टऽमित्युक्त्वा शतमष्टोत्तरं यजेथ् ।
यथोक्तेनैव मार्गेण संस्थाप्य विधिनार्ऽचयेथ् ।। १३.१३ ।।

कूर्मः देवासुरार्थं मृते कृतयुगे हरिः ।
कच्छपस्समभूद्धर्तुं मन्धरं तं महाचलं ।। १३.१४ ।।

ग्रामादौ वास्तुमध्ये च पर्वताग्रे विशेषतः ।
नन्द्यावर्तविमाने वा फेलाकारविमानके ।। १३.१५ ।।

एकतालेन मानेन कूर्मरूपं विधीयते ।
कूर्मरूपं ध्रुवं कुर्यात्कौतुकं तु चतुर्भुजं ।। १३.१६ ।।

प्रतिष्ठां पूर्ववत्कुर्याद्गार्हपत्ये विशेषतः ।
हौत्रमत्र प्रशंसन्ति मूर्तिमस्त्रमथोच्यते ।। १३.१७ ।।

"अकूपारं कूर्मरूपं विष्णुं च वसुधाधरम्ऽ ।
"अकूपारं जलं कूर्मं कच्छपंऽत्विति के च न ।। १३.१८ ।।

समावाह्य तु तैरेव निरुप्याज्याहुतीर्यजेथ् ।
"रायामीशऽस्समुच्चार्य शतमष्टाधिकं यजेथ् ।। १३.१९ ।।

उक्तवत्थ्सापयेद्विद्वान्विधिना सम्यगर्चयेथ् ।
मत्स्यकूर्मौ द्विधा प्रोक्तौकिं चिद्भेदं प्रचक्षते ।। १३.२० ।।

द्विभुजौ केचिदिच्छन्ति केचिदिष्टभुजौ बुधाः ।
वराहः
देवमानुषतिर्यञ्च स्थावरा जङ्गमास्तथा ।। १३.२१ ।।

पुरासृष्टा यथा सर्वे चत्वारो भुवि जन्तवः ।
जरायुजाण्डजोद्भिज्जन्वेदजाश्चेति जातितः ।। १३.२२ ।।

एवं प्रवर्तमाने तु हिरण्याक्षो महाबलः ।
रसातलमगाद्धृत्वा चराचरधरां महीं ।। १३.२३ ।।

महावराहवपुषा तां तदोद्धृतवान्हरिः ।
वराहस्त्रिविधः प्रोक्तो देवस्याविष्कृतौ पुनः ।। १३.२४ ।।

क्रमादादिवराहश्च वराहः प्रलयात्मकः ।
यज्ञवाराह इत्येवं त्रिविधिस्संप्रकीर्तितः ।। १३.२५ ।।

विमाने पर्वताकारे श्रीप्रतिष्ठितके तथा ।
दशतालेन मानेन देवं सूकरमाचरेथ् ।। १३.२६ ।।

चतुबान्हुसमायुक्तं शङ्खचक्रधरं परं ।
वामपादं समाकुञ्च्य महीमुद्धृत्य सादरं ।। १३.२७ ।।

दक्षिणं चण्डितं कुर्यान्महीमूरौ समाचरेथ् ।
महीं च श्यामवर्णां तु कुर्याच्चैव विधानतः ।। १३.२८ ।।

एवमादिवराहन्तु कारयेल्लक्षणान्वितं ।
अवान्तरमनुप्राप्य यदा तु प्रलयं हरिः ।। १३.२९ ।।

तत्तोयमुपसंहर्तुं वराहं रूपमास्थितः ।
ततः प्रलयवाराहं पुराभूतं च कारयेथ् ।। १३.३० ।।

शङ्खचक्रधरं स्ॐयं पीतांबरधरं हरिं ।
दक्षिणं चाभयं हस्तं वामं कट्यवलंबितम्, ।। १३.३१ ।।

महीं तु दक्षिणे कुर्यात्सश्यामनिभां तथा ।
सुखासनक्रमेणैव चासीनां वा स्वलङ्कृतां ।। १३.३२ ।।

एवं प्रलयवाराहं कारयेत्तु विचक्षणः ।
हिरण्याक्षःपुरा रक्षो बलवान्बलिनां वरः ।। १३.३३ ।।

वरेण गर्वाद्दुर्बुद्धिर्यज्ञविद्वेषकोऽवृधथ् ।
अवातरत्तदा विष्णुवन्रसूकरमूर्तिमान् ।। १३.३४ ।।

हत्वा सदैत्यं सबलं पश्चाद्यज्ञान्न्यवर्तयथ् ।
तस्माद्यज्ञवराहं तु तञ्च कुर्याद्विधानतः ।। १३.३५ ।।

श्वेतं यज्ञवराहं तु श्रीभूमिभ्यां सहैव वा ।
सुखासने समासीनं कुर्याल्लक्षणसंयुतं ।। १३.३६ ।।

त्रयाणां च वराहाणां स्थापने भेद उच्यते ।
पूर्वोक्तेन क्रमेणैव सर्वं कृत्वा विशेषतः ।। १३.३७ ।।

सभ्याग्निकुण्डे रात्रौतु हौत्रशंसनमाचरेथ् ।
"वराहं वरदं विष्णुमुर्वीसंधारणं तथा ।। १३.३८ ।।

वज्रदंष्ट्रऽमिति प्रोच्य देवमादिवराहकं ।
"महीं तां पृथुलामुर्वीऽमिति देवीं महीं क्रमाथ् ।। १३.३९ ।।

आवाहयेद्यथान्यायमन्वत्सर्वं समाचरेथ् ।
"वाराहं प्रलयहरं भूतेशं विष्णुमेव च ।। १३.४० ।।

जगत्त्रयात्मकंऽ चोक्त्वा वराहं प्रलयात्मकं ।
"वराहं देवरूपं च यज्ञेशं यज्ञवर्धकं ।। १३.४१ ।।

विष्णुंऽ चेति तथा देवं यज्ञवाराहमाह्वयेथ् ।
आवाहनादिसर्वत्र पूर्ववत्कारयेद्बुधः ।। १३.४२ ।।

"क्ष्मामेकाऽमिति मन्त्रेण यजेदष्टोत्तरं शतं ।
हरेरुक्तविधानेन सर्वं पूर्ववदाचरेथ् ।। १३.४३ ।।

नारसिंहः
हिरण्यकशिपुर्नाम दैत्यानां प्रबलोऽभवथ् ।
वरेण गर्वाद्दैत्येन्द्रो हिरण्यकशिपुस्तदा ।। १३.४४ ।।

देवैर्मृगैर्मनुष्यैर्वा जीविभिर्वाप्यजीविभिः ।
दिवा वा यदि वा रात्रौ वधो मे न भवेदिति ।। १३.४५ ।।

लोकानुद्वेजयमास तदा तं दैत्यसत्तमं ।
हन्तुकामः कृतोद्योगश्चिन्तयित्वा हरिः प्रभुः ।। १३.४६ ।।

तत्पालितपुराद्बाह्ये महापर्वतमस्तके ।
रक्षसा पीडितैर्देवैः प्रार्थितः करुणानिधिः ।। १३.४७ ।।

नरसिंहवपुर्भूत्वा दिवा रात्रिं व्यपोह्य च ।
संध्याकालेऽवधीत्तन्तु भुवङ्गे स नखायथः ।। १३.४८ ।।

बाह्यमाभ्यस्तरं हित्वा जीवाजीवैर्नखैश्शुभैः ।
एवं दैत्यवधं कृत्वा पर्वतेऽन्तरभूत्हरिः ।। १३.४९ ।।

ततस्तमर्चयेद्भक्त्या विजयार्थं विवृद्धये ।
पर्वताकृतिके वापि श्रीप्रतिष्ठितकेऽपिवा ।। १३.५० ।।

दशतालेन मानेन नरसिंहं प्रकल्पयेथ् ।
गिरिजं स्थूणजं चैव सुदर्शननृसिंहकं ।। १३.५१ ।।

तथा लक्ष्मीनृसिंहं च पातालनरसिंहकं ।
तथा पुच्छनृसिंहं च नृसिंहं षड्विधं विदुः ।। १३.५२ ।।

सिंहासने समासीनं सर्वाभरण भूषितं ।
नारसिंहं चतुर्बाहुं शङ्खचक्रधरं परं ।। १३.५३ ।।

पादौ द्वौ च समाकुञ्च्य न्यस्य सिंहासने स्थितं ।
प्रसार्य हस्तौ द्वौ जान्वोस्तयोरूर्ध्वे निधाय च ।। १३.५४ ।।

वस्त्रेण चोरू बद्ध्वैवमासीनं गिरिजं तथा ।
श्रियं कनकवर्णाभां मेदिनीं श्यामसन्निभां ।। १३.५५ ।।

ब्रह्मेशौ वन्दमानौ तु दक्षिणोत्तरयोः क्रमाथ् ।
वाहनं सामवेदं च प्रमुखे संप्रकल्पयेथ् ।। १३.५६ ।।

साम श्यामनिभं कुर्यात्सर्वाभरणभूषितं ।
भूमीशो नामगन्धर्वो शैषिकस्थानमाश्रितः ।। १३.५७ ।।

कारयेदुक्तवर्णन्तं सर्वाभरणभूषितं ।
स्थूणजं संप्रवक्ष्यामि स्थूणादाविर्बभौ हरिः ।। १३.५८ ।।

वामपादं समाकुञ्च्य दक्षिणं संप्रसार्य च ।
चतुर्भुजधरं देवं शङ्खचक्रेच कारयेथ् ।। १३.५९ ।।

हस्तं तु दक्षिणं पूर्वं कुर्याद्दानकरं तधा ।
वामहस्तं प्रबद्ध्यैव ऊरौ च तु सुविन्यसेथ् ।। १३.६० ।।

सटाकन्धरसंयुक्तं तीक्ष्णदंष्ट्रं भयानकं ।
शङ्खकुन्देन्दुधवलं सर्वाभरणभूषेतं ।। १३.६१ ।।

सुदर्शननृसिंहस्य लक्षणं संप्रवक्ष्यते ।
सूर्यकोटिप्रतीकाशं चक्रं विमलमुज्ज्वलं ।। १३.६२ ।।

बृहद्भानुपुरद्वन्द्वं चक्रमध्ये प्रकल्पयेथ् ।
चक्रमध्ये समासीनं नृसिंहमरुणप्रभं ।। १३.६३ ।।

अत्यन्तभीषणाकारं भक्तानामभयप्रदं ।
चक्रायुधं चतुर्बाहुं देवदेवं प्रकल्पयेथ् ।। १३.६४ ।।

वक्ष्येलक्ष्मीरृसिंहस्य लक्षणं मुनिसत्तमाः ।
वामपादं समाकुञ्च्य दक्षिणं संप्रसार्य च ।। १३.६५ ।।

वामोरौ श्रियमासीनां प्रांजलीकृतवास्तकां ।
वामहस्तेन देह्यश्च कुर्वन्तमुपगूहनं ।। १३.६६ ।।

दक्षिणं त्वभयं कुर्यात्पराभ्यां शङ्कचक्रके ।
पातालनारसिंहाख्यमासीनं पूर्ववत्तथा ।। १३.६७ ।।

फणैस्तु पञ्चभिस्सम्यक्छन्नमूर्धानमेव च ।
दक्षिणादक्षिणं हस्तं वरदं कटीकं तथा ।। १३.६८ ।।

वक्ष्ये पुच्छनृसिंहस्तु पुच्छयुक्तं तु कारयेथ् ।
अभयं दक्षिणं हस्तं वाममूरुप्रतिष्ठितं ।। १३.६९ ।।

दक्षिणं पादमाकुञ्च्य सर्वाभरणभूषितं ।
नारसिंहमिदं कृत्वास्थापनारंभमाचरेथ् ।। १३.७० ।।

तत्रचाहवनीयाग्नौ हौत्रशंसनमाचरेथ् ।
"नारसिंहं तपोनाथं महाविष्णुं महाबलं ।। १३.७१ ।।

भक्तवत्सलऽ मित्युक्त्वा नरसिंहं समाह्वयेथ् ।
"तपोनिधिंऽ समुच्चार्य शतमष्टाधिकं यजेथ् ।। १३.७२ ।।

स्नापनं चोत्सवं चैव हरेरिव विधानतः ।। १३.७३ ।।


इति श्रीवैखानसे
भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
प्रकीर्णाधिकारे त्रयोदशोऽध्यायः.