भृगुसंहिता/अष्टादशोऽध्यायः

विकिस्रोतः तः
← सप्तदशोऽध्यायः भृगुसंहिता
अष्टादशोऽध्यायः
[[लेखकः :|]]
एकोनविंशोऽध्यायः →

अथाष्टादशोऽध्यायः.
भगवदर्चनम्
अथ वक्ष्ये विशेषेण विष्णोरर्चनमुत्तमं ।
"प्रवः पान्तमऽन्धेत्यादि श्रुतिभिर्विहितं तथा ।। १८.१ ।।

यच्चोक्तं गुरुणा सूत्रे समासेन महर्षिणा ।
तेनैव विवृतं शास्त्रे सार्धकोटी प्रमाणतः ।। १८.२ ।।

अस्माभिस्तु सुसंक्षिप्तं चातुर्लक्षप्रमाणतः ।
तदर्चनक्रमं वक्ष्ये श्रुणुध्वमृषिसत्तमाः ।। १८.३ ।।

वैखानसेन सूत्रेण निषेकादि क्रियान्वितः ।
ऋत्विगुक्तगुणोपेतस्सुपुष्टाङ्गस्समाहितः ।। १८.४ ।।

गृहस्थो ब्रह्मचारी वा भक्त्यैवार्ऽचनमाचरेथ् ।
द्रव्यैरनेकैस्संपाद्यं तथानन्तोपचारकैः ।। १८.५ ।।

आशक्यं विधिवत्कर्तुं ब्रह्माद्यैरपि पूजनं ।
मनुष्यैःकिमुवक्तव्यं दरिद्रैरदृढात्मभिः ।। १८.६ ।।

यथाशक्ति ततः कुर्यात्तस्माद्बहुभिरर्चकैः ।
बहुभिः परिचारैश्च तथै वान्यपदार्थिभिः ।। १८.७ ।।

निर्वर्त्यं पूजनं विष्णोश्श्रद्धाभक्तिसमन्वितैः ।
तस्मान्नवविधा ग्राह्या अर्चकाः परिचारकाः ।। १८.८ ।।

उत्तमे तूत्तमं प्रोक्तमर्चकानान्तु विंशतिः ।
अशीतिः परिचाराणामुत्तमे मध्यमं ततः ।। १८.९ ।।

परिचाराणां चतुष्षष्टिदर्चकाष्षोडश स्मृताः ।
उत्तमे त्वधमं प्रोक्तमर्चका द्वादश स्मृताः ।। १८.१० ।।

पञ्चाशत्परिचाराश्च मध्यमे चोत्तमं पुनः ।
चत्वारिंशत्परिचराः पूजकाश्चाष्टकीर्तिताः ।। १८.११ ।।

मध्यमे मध्यमं प्रोक्तमचन्काष्षडुदीरिताः ।
पञ्चविंशत्परिचरा मध्यमे त्वधमं पुनः ।। १८.१२ ।।

चत्वारः पूजकास्तत्र परिचारास्तु षोडश ।
त्रयोर्ऽचकाः परिचरा नव स्युरधमोत्तमे ।। १८.१३ ।।

पूजकौ द्वौपरिचराश्चत्वारोऽधममध्यमे ।
एकोर्ऽचकः परिचरौ द्वौप्रोक्तावधमाधमे ।। १८.१४ ।।

आचार्यस्स्यादुपद्रष्टा देवस्सान्निध्यकारकः ।
अर्चनाद्यखिलं कार्यं तन्नियोगेन कारयेथ् ।। १८.१५ ।।

स हि कार्यस्य निर्णेता गोप्ताधर्मस्यदेशिकः ।
अर्चको देवदेवस्य कुर्यान्मन्त्रासनादिषु ।। १८.१६ ।।

उपचाराननन्तांश्च विधिना शास्त्रचोदितान् ।
अर्चकस्य सहायन्तु किङ्करः परिचारकः ।। १८.१७ ।।

बहुकार्यकराश्चैते ग्राह्यास्तु परिचारकाः ।
सम्माजन्नकरश्चैव तथा स्यादुपलेपकः ।। १८.१८ ।।

दीपोद्दीपयिता चौव पोत्रशोधनकारकः ।
पानीय वाहकश्चैव पुष्पापचयकारकः ।। १८.१९ ।।

धूपदीपादिकर्ता च गन्धपेषणतत्परः ।
तत्तत्परिच्छदाहर्ता तथैव बलिवाहकः ।। १८.२० ।।

एवमादीनि कार्याणि कुर्वन्ति परिचारकाः ।
पाचकः परिचारस्स्यात्पचनालयसंगतः ।। १८.२१ ।।

हविष्पाकविधानज्ञश्शौचाचारपरायणः ।
एतान्वैखानसानेव वृणेत्सर्वान्पदार्थिनः ।। १८.२२ ।।

अलाभे तत्र सर्वेषामाचार्यं चार्चकान्पुसः ।
वैखानसानेव वृणन्नक्युदर्यादन्यसूत्रिणः ।। १८.२३ ।।

अवैखानस विप्रस्तु पूजयेदालये हरिं ।
स वै देवलको नाम सर्व कर्मबहिष्कृतः ।। १८.२४ ।।

परिचारांन्तु वृणुयादलाभे त्वन्यसूत्रिणः ।
दीक्षितानेवसद्वृत्तानागमोक्तविधानतः ।। १८.२५ ।।

यजमानस्सदाध्यात्मरतो मोक्षार्थचिन्तकः ।
धनी सर्वसमस्त्यागी भक्तियुक्तः प्रसन्नधीः ।। १८.२६ ।।

शास्त्रोक्तेन विधानेन विष्णुलाञ्छनलाञ्छितः ।
देवस्य नित्यपूजार्थमुत्सवार्थं विशेषतः ।। १८.२७ ।।

तथान्यविभवार्थं च दापयेद्धनसंचयं ।
आचार्याज्ञाप्रतीक्षस्स्यातॄजके हितचिन्तकः ।। १८.२८ ।।

परिचारे प्रसन्नश्च किङ्करेषु दयापरः ।
तीर्थप्रसादसेवी च निर्माल्येषु कृतादरः ।। १८.२९ ।।

इति लक्षणसंपन्नाः प्रभवन्त्यालयार्चने ।
अथार्चकः प्रमन्नात्मा पञ्चकालपरायणः ।। १८.३० ।।

ब्राह्मेमुहूर्ते चोद्थाय नारायणमनुस्मरेथ् ।
कृत्वा सूत्रोक्तविधिना शौचादीनि यथाविधि ।। १८.३१ ।।

स्नात्वा स्नानविधानेन धृत्वा धौतांबरे पुनः ।
ऊर्ध्वपुण्ड्राणि संधार्य विधिना केशवादिभिः ।। १८.३२ ।।

धृत्वा पवित्रपद्माक्षतुलसीमणिमालिकाः ।
धृत्वोभयपवित्रे च तथा सन्ध्यामुपास्य च ।। १८.३३ ।।

उष्णीषेण च पञ्चागभूषणैन्सुविभूषितः ।
समाप्य नित्यकर्माणि महामन्त्रादिकं जपन् ।। १८.३४ ।।

अरुणं तु जपित्वैव नारायणमतः परं ।
प्रणम्य यन्त्रिकाञ्चैव कराभ्यां परिगृह्य च ।। १८.३५ ।।

बाह्वोश्शिरसि वा न्यस्य भक्त्या परमया युतः ।
संगतः परिचारैश्च यजमानेन सादरं ।। १८.३६ ।।

सर्ववाद्य समायुक्तः सर्वमङ्गलशोभितः ।
क्रममाणश्शनैर्विद्वान्देवागारं प्रति व्रजेथ् ।। १८.३७ ।।

"प्रतद्विष्णुऽरिति प्रोच्य चालयं परितःक्रमाथ् ।
युग्मप्रदक्षिणं कुर्याद्देव देवमनुस्मरन् ।। १८.३८ ।।

युग्मप्रदक्षिणं कुर्यादयुग्मं त्वाभिचारिकं ।
आयुग्मं तु परीत्यापि तथायुग्मं प्रणम्य च ।। १८.३९ ।।

प्रेक्षेतोद्यन्तमादित्यं जपेद्द्वादशसूक्तकं ।
छायालङ्घनदोषन्तु न तत्र स्यात्प्रदक्षिणे ।। १८.४० ।।

देवागारं प्रविश्यैव तत्तन्मन्त्रमनुस्मरन् ।
द्वारदेवान्प्रणम्याथ निरस्तं रक्षमस्त्रतः ।। १८.४१ ।।

गृहीत्वा यन्त्रिकां चैव "हिरण्यपाणिऽ मुच्चरन् ।
कवाटे तु सुसंयोज्य "दिवंऽ वीति समुच्चरन् ।। १८.४२ ।।

कवाटोद्घायनं कृत्वा प्रविशेदन्तरं बुधः ।
"अतो देवाऽ इतिप्रोच्य देवं वीक्ष्यप्रणम्य च ।। १८.४३ ।।

परिचारकमाहूय दीपानुद्दीपयेत्क्रमाथ् ।
प्रणवं मन्त्रमुच्चार्य तत्र कार्यं समाचरेथ् ।। १८.४४ ।।

त्रिस्संप्रहार्य पाणिभ्यां "शाम्यन्त्विऽत्यादि चोच्चरन् ।
आदर्शं गाश्च कन्याश्च हस्त्यश्वादीन्शुभोदयान् ।। १८.४५ ।।

ब्राह्मणान्वेदविदुषो नर्तकांश्चैव गायकान् ।
देवस्य पुरतस्थ्साप्य मुखमण्डप एवचा ।। १८.४६ ।।

प्रच्छन्न पटमुद्वास्य कृत्वा नीराजनं तथा ।
सर्ववाद्यसमायुक्तं दर्शयेद्धरये मुदा ।। १८.४७ ।।

धारोष्णं चैव गोक्षीरं नवनीतं सशर्करं ।
देवेशाय निवेद्याथ कुर्याद्यवनिकां पुनः ।। १८.४८ ।।

"भूः प्रपद्येऽ समुच्चार्य देवेशं प्रणमेन्मुहुः ।
"परं रंऽहीति मन्त्रेण शयनस्थं श्रियःपतिं ।। १८.४९ ।।

"भूरसी भूऽरिति प्रोच्य जीवस्थाने निवेशयेथ् ।
तस्मिन्कालेतु ये भक्त्या सेवन्ते पुरुषोत्तमं ।। १८.५० ।।

तेषां पुण्यफलं वक्तुं न शक्यं त्रिदशैरपि ।
ततश्शिष्यं समाहूय विनयान्वितमादराथ् ।। १८.५१ ।।

सम्मार्जनादिकर्माणि गुरुस्तस्मै समादिशेथ् ।
"अव धूतिऽमिति प्रोच्य गर्भगेहादि सर्वतः ।। १८.५२ ।।

मार्जन्या मार्जयेच्छिष्यः प्रादक्षिण्यक्रमेण वै ।
पांस्वादीन्परिहृत्यापि प्राकारान्तं च सर्वशः ।। १८.५३ ।।

"आशाऽस्विति समुच्चार्य गोमयेनोपलेपयेथ् ।
पञ्चगव्यैस्तु संप्रोक्ष्य रङ्गवल्लीस्समाचरेथ् ।। १८.५४ ।।

"आ मा वाजस्यऽ मन्त्रेण यथोक्तेन विधानतः ।
सर्वण्यपि च पात्राणि शोधयेत्सुमनोरमे ।। १८.५५ ।।

तो यसंग्रहणार्थं तु नियुक्तः पूजकेन तु ।
घटमादाय शिष्यस्तु "दुहतां दिवऽमुच्चरन् ।। १८.५६ ।।

नदीतटाककूपानां पूर्वालाभे परं व्रजेथ् ।
उपस्थाय जलं स्मृत्वा जाह्नवीं लोकपावनीं ।। १८.५७ ।।

"आज्यमभिगृह्णाऽमीति चाप्पवित्रेण वाससा ।
गृहीत्वोत्पूतमाधावं गायत्रीमुच्चरन्पुनः ।। १८.५८ ।।

अलङ्कृत्यघटं सम्यक्क्ष्ॐएनाच्छाद्य तन्मुखं ।
गजे शिरसि वा क्षिप्त्वा सर्ववाद्यसमायुतं ।। १८.५९ ।।

पुनरालयमाविश्य कृत्वा चैव प्रदक्षिणं ।
सोमं राजानमुच्चार्य गर्भगेहे तु दक्षिणे ।। १८.६० ।।

विन्यसेच्च ततः कुंभं त्रिपादोपरि शोभिते ।
एलोशीरादिचाहृत्य गन्धद्रव्यं यथाविधि ।। १८.६१ ।।

दद्यादर्चकहस्ते तु गृहीत्वा तत्तु पूजकः ।
पूर्णकुंभे तु निक्षिप्यतोयं तदधिवासयेथ् ।। १८.६२ ।।

अलाभे कुशदूर्वैर्वा तुलसीदलमिश्रितैः ।
अभिमृश्य ततः कुंभ "मिदमापश्शिवाऽइति ।। १८.६३ ।।

सूत्रोक्तविधिना कृत्वा पुण्याहं विधिवत्तदा ।
"शुचि वो हव्यऽमन्त्रेण संभारान्प्रोक्षयेत्क्रमाथ् ।। १८.६४ ।।

शोधयित्वातु निर्माल्यं "नश्यस्तु जगताऽमिति ।
"अहमेवेदऽमुक्त्वा तु पीठपुष्पं च शोधयेथ् ।। १८.६५ ।।

"पूतस्तस्यऽ समुच्चार्य वेदिमद्भिस्सुशोधयेथ् ।
ध्रुवस्य पादपुष्पस्तु विष्णुगायत्रिया तथा ।। १८.६६ ।।

पञ्चभिर्मूर्ति मन्त्रैश्च दत्वा देवं प्रणम्य च ।
देवनिर्माल्यशेषेण विष्वक्सेनं विभूष्य च ।। १८.६७ ।।

अन्यन्निर्माल्यमादाय शुचिस्थानेऽप्सु वा क्षिवेथ् ।
पूजनार्थांश्च संभारान्यथाशक्ति सुसंभरेथ् ।। १८.६८ ।।

ततस्समाहितो भूत्वासंभारार्चनमारभेथ् ।
तत्तत्थ्सानेषु पात्राणि यथार्हं स्थापयेद्बुधः ।। १८.६९ ।।

स्नानार्थमग्निकोणे स्यादर्घ्यर्थं नैरृतेऽपि च ।
पाद्यार्थं वायुदेशे स्यादाचमार्थमथेशके ।। १८.७० ।।

शुद्ध्यर्थमेकं मध्ये तु पञ्चपात्रमिदं क्रमाथ् ।
त्रिपादोपरे निक्षिप्ते विशाले ताम्रभाजने ।। १८.७१ ।।

"अग्निश्शुऽचीति मन्त्रेण स्थापयेच्च हरिं स्मरन् ।
कुर्याच्च पात्रसंस्कारं शोषणादि यथाविधि ।। १८.७२ ।।

उद्धरिण्यां गृहीत्वातु प्रणवेन जलं तदा ।
निक्षिप्य तुलसीं तस्यां पुष्पं वा धारणं चरेथ् ।। १८.७३ ।।

वारिकुंभमुखे ब्रह्मा तदधो रुद्र ईरितः ।
वरुणस्तु जले ध्येयस्तथै वावाहनं चरेथ् ।। १८.७४ ।।

त्रिपादे चन्द्रमावाह्य चादित्यं चोर्ध्वभाजने ।
वसिष्ठसोमयज्ञाङ्गानिन्दुं मन्द्रं क्रमेणवै ।। १८.७५ ।।

आग्नेयादिक्रमेणैव पञ्चपात्रेषु चाह्वयेथ् ।
कर्पूरोशीरकं चैव गन्धानेलालवङ्गकं ।। १८.७६ ।।

स्नानद्रव्यमिदं प्रोक्तं स्नानपात्रे तुनिक्षिपेथ् ।
विष्णुपर्णं पद्मदलं दूर्वां श्यामाकमेव च ।। १८.७७ ।।

प्राद्यद्रव्याणिसंपाद्य पाद्यपात्रे तु निक्षिपेथ् ।
कुशाक्षततिलव्रीहियवमाषांस्तथैव च ।। १८.७८ ।।

प्रियङ्गूंश्चैव सिद्धार्थानर्घ्यपात्रे तु निक्षिपेथ् ।
एलोशीरलवङ्गादिं स्तक्कोलानीति च क्रमात्, ।। १८.७९ ।।

क्षिपेदाचामपात्रे तु शुद्धतोये ततःक्रमाथ् ।
पुष्पाणि गन्धान्विन्यस्येद्यथालाभमथापिवा ।। १८.८० ।।

अलाभेतत्तदुच्चार्य तुलसीं वा विनिक्षिपेथ् ।
"धाराऽस्विति च मन्त्रेण पात्राण्यद्भिः प्रपूरयेथ् ।। १८.८१ ।।

"इदमापश्शिवाःऽ प्रोच्य सुरभिमुद्रां प्रदर्श्य च ।
पात्राभिमन्त्रणं कुर्याद्दसदिग्बन्धनं चरेथ् ।। १८.८२ ।।

विष्णुगायत्रीमुच्चार्य तत्रकार्यं समाचरेथ् ।
घण्टायां चैव ब्रह्माणं नादे वेदान्समर्चयेथ् ।। १८.८३ ।।

तज्जिह्वायां षडास्यस्तुसूत्रेनागान्त्समर्चयेत्
ऊर्ध्वेवीशं च शङ्खारी पार्श्वयोस्तस्यचार्चयेथ् ।। १८.८४ ।।

नाले चैव महादेवमिति घण्टाधिदेवताः ।
त्रिपादस्योत्तरेस्थाप्य विमलन्तु पतद्ग्रहे ।। १८.८५ ।।

वरुणं शङ्खकुक्षौ तु मूले तु पृथिवीं तथा ।
धारायां सर्वतीर्थांश्च शङ्खे चन्द्रं समर्चयेथ् ।। १८.८६ ।।

उद्धरिण्यां च पानीयपात्रे सोममथार्चयेथ् ।
आसने धर्ममावाह्यप्लोते त्वष्टारमेव च ।। १८.८७ ।।

अंबरे सूर्यमावाह्य चोत्तरीये निशाकरं ।
भूषणे षण्मुखं चैव यज्ञसूत्रे निशाकरं ।। १८.८८ ।।

पुष्पे पुल्लं तथा गन्धे मुखवासे च मेदिनीं ।
अक्षते काश्यपं धूपे बृहस्पतिमधाह्वायेथ् ।। १८.८९ ।।

दीपे श्रियं घृते सामतैले पितॄन्त्समर्चयेथ् ।
उपधाने तथाछत्रे पादुके शेषमर्चयेथ् ।। १८.९० ।।

यन्त्रिकायां च मार्ताण्डं सिद्धार्थे सोममर्चयेथ् ।
कुशाग्रे जाह्नवीं चैव तिलेषु पितृदेवताः ।। १८.९१ ।।

तण्डुले रविमावाह्य दध्नि चावाहयेद्यजुः ।
क्षीरेऽथर्वाणमावाह्य मधुपर्के ऋचं तथा ।। १८.९२ ।।

मात्रायां शर्वमावाह्य हविःपात्रे दिवाकरं ।
हविष्णु पद्मगर्भं च पानपात्रे निशाकरं ।। १८.९३ ।।

उपहारादिपात्रेषु दिवाकरमथार्चयेथ् ।
ज्येष्ठामावाह्य मार्जन्यां नर्तकेशर्वमर्चयेथ् ।। १८.९४ ।।

गायके सामवेदं च नन्दीशं वादकेर्ऽचयेथ् ।
पाञ्चजन्यं च शङ्खे तु गणिकास्वप्चरस्त्स्रियः ।। १८.९५ ।।

गरुडं परिचारेषु समावाह्य ततः क्रमाथ् ।
अनुक्तेषु तु द्रव्येषु विष्णुमावाह्य कारयेथ् ।। १८.९६ ।।

तत्तद्द्रव्याधिपे स्मृत्वातत्तद्द्रव्यसमीपतः ।
तत्तद्द्रव्यधरत्वेन चतुर्भिर्विग्रहैर्यजेथ् ।। १८.९७ ।।

तत्तत्कर्मसु काले वै यथार्हमुपयोजयेथ् ।
तत्काले प्यथ वावाह्यतस्मिन्कर्मणि योजयेथ् ।। १८.९८ ।।

ततोर्ऽचकः प्रसन्नात्माध्यात्वात्मानं जनार्दनं ।
देवस्य दक्षिणेभागे कूर्मपीठे समाहितः ।। १८.९९ ।।

बिंबार्हं संस्थितो वापि समासीनोऽथ वा पुनः ।
ध्यात्वा ध्यानविधानेन जप्त्वाचार्यपलंपरां ।। १८.१०० ।।

योगशास्त्रोक्तमागेन्ण प्राणायामादिकं चरेथ् ।
भूतशुद्धिं विधायादौ न्यासानन्यान्त्समाचरेथ् ।। १८.१०१ ।।

अकारादिक्षकारान्तमक्षराणि यथाविधि ।
सर्वत्र सन्धिषु न्यस्य ब्रह्मन्यासं समाचरेथ् ।। १८.१०२ ।।

"ब्रह्म ब्रह्मन्तरात्मेऽति हृदयं चाभिमर्शयेथ् ।
"द्यौर्द्यैरऽसीति चोच्चार्य मूर्धानं चाभिमर्शयेथ् ।। १८.१०३ ।।

"शिखे उद्वर्तयाऽमीति स्पृशेच्चैव शिखां तथा ।
"देवानामायुधैऽरुक्त्वा कवचं बन्धयेत्ततः ।। १८.१०४ ।।

"नारायणाय विद्महऽ इति दशदिग्भन्धनं चरेथ् ।
"सुदर्शनमऽभीत्युक्त्वा दक्षिणे तु सुदर्शनं ।। १८.१०५ ।।

"रविपाऽमिति वामे च शङ्खं च बिभृयात्करे ।
"सूर्योसि च द्रोऽसीऽत्युक्त्वा नेत्रयोर्दक्षवामयोः ।। १८.१०६ ।।

सूर्याचन्द्रमसोश्चैव मण्डले सन्न्यसेद्बुधः ।
"अहुरण्यं विधिं यज्ञं ब्रह्माणं देवेन्द्रऽमित्यपि ।। १८.१०७ ।।

अङ्गुष्ठादिकनिष्ठान्तं करन्यासं समाचरेथ् ।
"अन्तरस्मिन्निमऽइति ब्रह्माणं च हृदि न्यसेथ् ।। १८.१०८ ।।

प्राणानायम्य संकल्प्य तिथिवारादिकीर्तयेथ् ।
ततो मन्त्रासनं विद्वान्संकल्प्य च यथाविधि ।। १८.१०९ ।।

"प्रतद्विष्मुस्सवतऽइति इति त"थास्त्वासनऽमित्यपि ।
पुष्पदभन्कुशेष्वेकं पीठान्ते चासनं ददेथ् ।। १८.११० ।।

"विश्वाधिकानाऽमित्युक्त्वा स्वागतं तु समाचरेथ् ।
"मनोऽभिमन्ताऽमन्त्रेण देवेशमनुमान्य च ।। १८.१११ ।।

"त्रीणि पऽदेति मन्त्रेण दद्यात्पाद्यं पदद्वये ।
"आमावाजस्यऽमन्त्रेण स्पृश्यमघंन्य्प्रदाय च ।। १८.११२ ।।

देवस्य दक्षिणे हस्ते स्पृश्यं स्सृश्याघन्य्मुच्यते ।
"शन्नोदेवीऽरिति प्रोच्य दद्यादाचमनीयकं ।। १८.११३ ।।

"देवस्यऽत्वेति मन्त्रेण चादर्शं दर्शयेत्ततः ।
अन्नाद्याय समुच्चार्य दन्तधावनमाचरेथ् ।। १८.११४ ।।

हिरण्मयं वा रौप्यं वा दन्तकाष्ठं षडङ्गुलं ।
जौदुंबरं वा संपाद्य यथालाभं समाचरेथ् ।। १८.११५ ।।

"इदं ब्रऽह्मेति मन्त्रेण जिह्माशोधनमाचरेथ् ।
"यन्मे गर्भेऽसमुच्चार्य गण्डूषं क्षालनं तथा ।। १८.११६ ।।

"शन्नोदेवीऽरिति प्रोच्य दद्यादाचमनं ततः ।
"विचक्रमेऽ नमुच्चार्य मुखवासं प्रदापयेथ् ।। १८.११७ ।।

पूर्ववस्त्रं विसृज्यैव परिधाप्यान्यवाससा ।
ग्रीवायाः पृष्ठतः कुर्यादवकुण्ठनमादराथ् ।। १८.११८ ।।

केशान्विकीर्य मन्त्रज्ञो वामभागे च सुस्थितः ।
"उवानहाऽविति प्रोच्य पुरस्तात्पादुकेन्यसेथ् ।। १८.११९ ।।

"भूःप्रपद्येऽ समुच्चार्य प्रणम्य जगतां पतिं ।
"पर ब्रऽह्मेति मन्त्रेण समादाय तु कौतुकं ।। १८.१२० ।।

स्वस्तिसूक्तं ततो जप्त्वा "प्रतद्विष्णुऽरिति ब्रुवन् ।
स्नानपीठे सुसंस्थाप्य पाद्यमाचमनं ददेथ् ।। १८.१२१ ।।

अतो देवादिमन्त्रैस्तु तैलमालिप्य मूर्धनि ।
तथैव विष्णुगायत्षा सर्वांगाण्यनुलेपयेथ् ।। १८.१२२ ।।

"परिलिखितऽमिति मन्त्रेण सर्वाङ्गमपि शोधयेथ् ।
आम्लेन खण्डशीकेन शर्कराभिर्यथोचितं ।। १८.१२३ ।।

अलाशोधनं कुर्याच्छ्रीपत्रामलकांबुना ।
शालिपिष्टेन गन्धाद्यैरङ्गशोधनमाचरेथ् ।। १८.१२४ ।।

विशदं शोधयित्वातु संस्नाप्योष्णेन वारिणा ।
"वारीश्चतस्रऽइत्युक्त्वा शुद्धोदैरभिषेचयेथ् ।। १८.१२५ ।।

"नमो वरुणऽइत्युक्त्वा गोक्षीरैरभिषेचयेथ् ।
"भूरानिलयऽमन्त्रेण स्नापयेद्गन्धवारिणा ।। १८.१२६ ।।

"अग्निमीलेऽसमुच्चार्य मधुना स्नानमाचरेथ् ।
"सीनीवाऽलीति मन्त्रेण हारिद्रोदकसेचनं ।। १८.१२७ ।।

तत्तद्द्रव्यान्तरे चैव भवेच्छुद्धोदकाप्लपः ।
पुनर्गन्धोदकेनैव "गन्धद्वाराऽ मुदीर्य च ।। १८.१२८ ।।

स्नापयेद्देवदेवेशं तूर्यघोषपुरस्सरं ।
चतुर्वेदादिमन्त्रैश्च शुद्धोदैस्स्नापयेत्पुनः ।। १८.१२९ ।।

"मित्रस्सुपर्णऽइत्युक्त्वा विमृज्य प्लोतवासना ।
पूर्ववस्त्रं विसृज्यैप परीधाप्य तथेतरथ् ।। १८.१३० ।।

पाद्यमाचमनं दद्यात्पूर्वोक्तेन विधानतः ।
प्रणम्य देवदेवेशं दत्वापुष्बाञ्जलिं ततः ।। १८.१३१ ।।

"भूरसि भूऽरित्युच्चार्य जीवस्थाने निवेशयेथ् ।
"त्रिर्देवऽमन्त्रमुच्चार्य दृश्याघन्य्न्तु समर्पयेथ् ।। १८.१३२ ।।

ततःप्रोक्ष्य ध्रुवस्थानं गायत्रीमन्त्रमुच्चरन् ।
"संयुक्तमेतऽदुच्चार्य ध्रुवकौतुकयोन्ततः ।। १८.१३३ ।।

संबन्धार्थं न्यसेत्कूर्चं कौतुकाग्रं विधानतः ।
गायत्षा ध्रुवपीठन्तु प्रोक्ष्य शुद्धेन वारिणा ।। १८.१३४ ।।

"विष्णवे नमऽइत्युक्त्वा देवदेवमनुस्मरन् ।
ध्रुवस्य पादयोर्मध्ये पुष्पन्यासं समाचरेथ् ।। १८.१३५ ।।

प्रागादि च न्यसेत्तत्र पादक्षिण्यक्रमेण वै ।
चतुर्थ्यन्तेन पुष्पाणिपुरुषं सत्यमच्युतं ।। १८.१३६ ।।

अनिरुद्धमिति रोच्य महादिक्षु चतुर्षु च ।
आग्नेयादि तथा न्यन्येद्विदिक्षु च क्रमेण वै ।। १८.१३७ ।।

कपिलं चैव यज्ञं च नारायणं पुण्यमेव च ।
प्रथमावरणं चैतद्द्वितीयावरणे ततः ।। १८.१३८ ।।

पूर्वोक्तेन क्रमेणैव वाराहं नारसिंहकं ।
वामनं त्रिविक्रमं चैव सुभद्रं च ततः परं ।। १८.१३९ ।।

ईशितात्मानमित्युक्त्वा सर्वोद्वहमतः परं ।
सर्वविद्वेश्वरं चेति समभ्यर्च्येद्बहिर्मुखान् ।। १८.१४० ।।

तृतीयावरणे तत्तद्दिगीशांश्च समर्चयेथ् ।
श्रीफूम्योर्मूर्तिमन्त्रैश्च देव्योरपि समाचरेथ् ।। १८.१४१ ।।

एवं ध्रुवस्य पीठे तु पुष्पन्यास उदाहृतः ।
अथ कौतुकपीठे तु पूर्वोक्तेन क्रमेण वै ।। १८.१४२ ।।

प्राच्यां सुभद्रमावाह्य हयात्मकमतः परं ।
रामदेवं पुण्यदेवं सर्वं चैव सुखावहं ।। १८.१४३ ।।

संवहं सुवहं चेति प्रथमावरणेर्ऽचयेथ् ।
द्वितीयावरणे तद्वन्मित्र मत्रिं शिवं ततः ।। १८.१४४ ।।

विश्वं सनातनं चैव सनर्थनमतः परं ।
सनत्कुमारं सनकमर्चयेच्च बहिर्मुखान् ।। १८.१४५ ।।

तृतीयावरणे तद्वल्लोकपालान्त्समर्चयेथ् ।
प्रणवादि नमोऽन्तं स्यादर्चनं न्यास उच्यते ।। १८.१४६ ।।

एकादशभिरष्टाभिरुपचारैस्तथार्चयेथ् ।
तत्र देव्योश्च विधिना ध्रुवतेव्योरिवाचरेथ् ।। १८.१४७ ।।

मार्कण्डेयं भृगुं चैव देवदक्षिणवामयोः ।
ब्रह्माणं शङ्करं तद्वद्भित्तिपार्श्वे समर्चयेथ् ।। १८.१४८ ।।

देवेशाभिमुखानेतान्यथाविधि समर्चयेथ् ।
द्वारार्चनं समारभ्य शिष्यः कुर्याद्गुरूदितः ।। १८.१४९ ।।

द्वारे द्वारे द्वारदेवान्द्वारपालान्त्समर्चयेथ् ।
विमानपालान्लोकेशांस्तथा चैवऽनपायिनः ।। १८.१५० ।।

परिवारांस्तथान्यांश्च विष्णुभूतान्तमेव च ।
तत्तन्नाम्ना समभ्यर्च्य "भूरानिलयऽ मन्त्रतः ।। १८.१५१ ।।

द्वारप्रक्षालनं कृत्वा दक्षिणे मध्यवामयोः ।
धर्मं ज्ञानमथैश्वर्य मावाह्य सुसमर्चयेथ् ।। १८.१५२ ।।

सर्वत्र द्वारवामे तु रक्षार्थं शान्तमर्चयेथ् ।
ततो यवनिकां कुर्याद्द्वारे क्ष्ॐआदिनिर्मितां ।। १८.१५३ ।।

स्त्रियश्शूद्रान्तु पतिताः पाषण्डा वेदनिन्दकाः ।
देवतान्तर भक्ताश्च पापरोगादिपीडिताः ।। १८.१५४ ।।

अभिशस्ताश्च ये पापाश्शास्त्रेषु तु विनिन्दिताः ।
पूजाकाले तु नार्हन्ति सेवितुं हरिमव्ययं ।। १८.१५५ ।।

ध्यानमाविश्य तत्काले पूजकस्सुसमाहितः ।
आत्मसूक्तं जपित्वैव साक्षान्नारायणो भवेथ् ।। १८.१५६ ।।

विष्णुं व्यापिनमात्मान मखण्डानन्दचिन्मयं ।
रुक्माभं रक्तनेत्रास्यपाणिपादं सुखोद्वहं ।। १८.१५७ ।।

किरीटहारकेयूरकुण्डलाङ्गदभूषितं ।
शङ्खचक्रधरं देवं वरदाभयचिह्नितं ।। १८.१५८ ।।

श्रीवत्सांकं महाबाहुं कौस्तुभोद्भासितोरसं ।
शुकपिञ्छांबरधरं प्रलंबब्रह्मसूत्रिणं ।। १८.१५९ ।।

दिव्यायुधपरीवारं दिव्यभूषाविभूषितं ।
देवीभ्यां परिवारैश्च सेव्यमानं जगत्पतिं ।। १८.१६० ।।

ध्यायेत्सन्निहितं बिंबे नारायणमनामयं ।
यथाबेरं तथा थात्वा न्यासकर्म ततश्चरेथ् ।। १८.१६१ ।।

सुवर्भुवर्भूरित्युक्त्वा मूर्ध्नि नाभौ च सादयोः ।
बिंबस्य व्याहृतीर्न्यस्येद्व्याहृतिन्यास उच्यते ।। १८.१६२ ।।

पादयोरन्तरे पीठे यकारं च ततोन्यसेथ् ।
अकारं हृदयेन्यस्य चादिबीजं ततःपुनः ।। १८.१६३ ।।

आवेष्ट्य प्रणवेनैतान्प्रणामं पुनराचरेथ् ।
पुष्पगन्धाक्षतैर्युक्तं शुद्धोदैरभिपूरितं ।। १८.१६४ ।।

प्रणिधिं चौर्ध्वमुद्धृत्य दीपाद्दीपमिवक्रमाथ् ।
"इदं विष्णुरितिऽप्रोच्य "चायातु भगवाऽनिति ।। १८.१६५ ।।

प्रणवात्मकमव्यक्तं दिव्यमङ्गलविग्रहं ।
ध्रुवात्प्रणिधितोये तु कूर्चेवावाहयेद्धरिं ।। १८.१६६ ।।

तद्व्याप्तं तो यमादाय कौतुकस्य तु मूर्ध नि ।
प्रणवेन समास्राव्य कूर्चेवावाहयेद्गुरुः ।। १८.१६७ ।।

मूर्तिमन्त्रान्त्समुच्चार्य तत्र कार्यं समाचरेथ् ।
देव्यौ चैव तथावाह्य सम्यगभ्यर्चयेद्बुधः ।। १८.१६८ ।।

तथैवावाहयेद्विद्वान्विधिना चोत्सवादिषु ।
कैतुकाद्बलिबेरस्य केचिदावाहनं विदुः ।। १८.१६९ ।।

अलङ्कारासनं पश्चात्संकल्स्य च यथाविधि ।
असनं मन्त्रवद्दद्याद्देवेशमनुमानयेथ् ।। १८.१७० ।।

पाद्यमाचमनं चापि दद्यात्पूर्वोक्तमन्त्रतः ।
"तेजोवत्क्यावऽवमन्त्रेण वस्त्रं क्ष्ॐआदिचार्पयेथ् ।। १८.१७१ ।।

"भूतो भूतेषुऽ मन्त्रेण भूषणैश्च विभूष्य च ।
"सोमस्य तनूरऽसीत्युक्त्वाधारयेदुत्तरीयकं ।। १८.१७२ ।।

अष्टाक्षरेण मन्त्रेण चोर्ध्वपुण्ड्रं च धारयेथ् ।
"अग्निं दूतमिऽति प्रोच्य यज्ञसूत्रं समर्पयेथ् ।। १८.१७३ ।।

"तद्विष्णोरिति मन्त्रेण पुष्पाद्यैः पूजयेत्ततः ।
मूर्तिमन्त्रान्त्समुच्चार्य केशवादिभिरेव वा ।। १८.१७४ ।।

अष्टोत्तरशतैस्तद्वदष्टोत्तरसहस्रकैः ।
अनन्तैनान्मभिः पूज्योऽनन्तनामा भवान्हरिः ।। १८.१७५ ।।

"तद्विप्रासऽ इति प्रोच्य चन्दनेनानुलेपयेथ् ।
"परोमात्रऽयेत्युच्चार्य धूपमाघ्रापयेत्ततः ।। १८.१७६ ।।

"विष्णोः कर्माणिऽ मन्त्रेण दीपं तस्मै प्रदर्शयेथ् ।
"त्रिर्देवऽइति मन्त्रेण दद्यादघं च पूर्ववथ् ।। १८.१७७ ।।

उपचारेषु सर्वेषु प्रियमघंन्य्हरेस्स्मृतं ।
तस्मान्निवेदयेद्धीमान्मधुपकोन्पमं शुभं ।। १८.१७८ ।।

अचमनन्तु तस्यान्ते पूर्वमन्त्रेण कारयेथ् ।
द्रोणतण्डुलमादाय तदर्धं पादमेववा ।। १८.१७९ ।।

तण्डुलार्थतिलैर्युक्तं मुखवासफलान्वितं ।
गृहीत्वा कांस्यपात्रेतु देवस्याग्रे निधाय च ।। १८.१८० ।।

दशन्येद्देवदेवस्य "सोमं राजानऽमुच्चरन् ।
देवार्पितैस्तु निर्माल्यैः पूजयित्वार्ऽचकं ततः ।। १८.१८१ ।।

"घृतात्पऽरीति मन्त्रेण दशन्यित्वाकरं हरेः ।
अर्चकाय प्रदेयं स्यान्मात्रादानमिति स्मृतं ।। १८.१८२ ।।

बहुशो दक्षिणां दद्याद्दानसाद्गुण्यसिद्धये ।
"देवस्यऽत्वेति मन्त्रेण परिगृह्य तदर्चकः ।। १८.१८३ ।।

उपयुञ्ज्यात्कुटुंबार्थे स हि दायहरो हरेः ।
देवद्रव्योवभोगे तु यश्शास्त्रैदोन्ष ईरितः ।। १८.१८४ ।।

वैखानसानां तद्दोषा नास्ति देवप्रसादतः ।
प्रणम्य देवदेवेशं मन्त्रैर्वेदादिसंभवैः ।। १८.१८५ ।।

स्त्रोत्रैश्च विविधैन्त्सुत्वा पादे पुष्पाञ्जलिं क्षिपेथ् ।
दशन्येद्विविधाकारान्दीपान्मन्त्रेण तत्र तु ।। १८.१८६ ।।

कुंभदीपं समादाय देवाग्रे तु विनिक्षिपेथ् ।
वाराहं नारसिंहं च चामनं च त्रिविक्रमं ।। १८.१८७ ।।

दलेष्वभ्यर्च्य विधिना दीपे लक्ष्मीं समर्चयेथ् ।
वर्तिकायां श्रियं चैव धूमेऽभ्यर्च्यभवं तथा ।। १८.१८८ ।।

प्रोक्ष्योपचारैरभ्यर्छ्य पुष्पगन्धादिभिः क्रमाथ् ।
"शुभ्रा ज्योतिऽरिति प्रोच्य कराभ्यां परिगृह्य च, ।। १८.१८९ ।।

प्रदक्षिणं त्रिवारं तु दर्शयन्भ्रामयेद्धरिं ।
सर्ववाद्यसमायुक्तं तं दीपं परिगृह्य च ।। १८.१९० ।।

शिष्यो वा गणिका वापि देवागारं परीत्य च ।
विसृजेच्चैव तं दीपं पृष्ठे यूथाधिपस्य च ।। १८.१९१ ।।

तद्दीपदर्शनान्नॄणामायुश्श्रीपुत्रसंवदः ।
संभवन्ति न सन्देहो विष्णोर्नी राजनं ही तथ् ।। १८.१९२ ।।

चित्रैश्चवालव्यजनैस्तत्काले वीजयेद्गुरुः ।
दर्बणं चामरं छत्रं व्यजनं चतुरङ्गकं ।। १८.१९३ ।।

नृत्तं गीतं च वाद्यं च वैष्णवं मन्त्रमुच्चरन् ।
देवस्य दर्शयित्वातु स्तोत्रं वेदैःक्रमाच्चरेथ् ।। १८.१९४ ।।

तथा नानाविधैस्तोत्रैश्श्रावयेदच्युतं हरिं ।
अनुक्तं चैव यत्सर्वमूहयित्वा समाचरेथ् ।। १८.१९५ ।।

श्रीभूम्योहृन्दये न्यस्य तत्तद्बीजाक्षरं पृथक् ।
तत्सूक्ताभ्यां षोडशोपचारैरभ्यर्चयेत्क्रमाथ् ।। १८.१९६ ।।

उत्चवादेश्च पूर्वोक्तं सर्वमर्चनमाचरेथ् ।
ततोभोज्याननं चैव संकल्प्य च यथाविधि ।। १८.१९७ ।।

घृतं मधु गुडं चैव पयो दधि समन्वितं ।
प्रस्थमात्रं तु संग्राव्यां मधुपकन्मिहोच्यते ।। १८.१९८ ।।

"यन्मधुनेति मन्त्रेण मधुपाकं निवेदयेथ् ।
पश्चादाचमनं दत्वाशिष्यं कार्ये नियोजयेथ् ।। १८.१९९ ।।

"अथावनीदऽमन्त्रेण शोधयित्वा स्थलं ततः ।
मण्डलं चतुरश्रं च कारयेत्बरिचारकः ।। १८.२०० ।।

हविः पात्राणि संशोध्य रविमभ्यर्छ्य तेषु वै ।
अभिघार्य घृतेनैव हविस्तत्र तु निक्षिपेथ् ।। १८.२०१ ।।

"अमृतोपस्तरणमऽसीत्यत्र कार्यं समाचरेथ् ।
उपदंशादिकं तत्र गुडं दधि फलानि च ।। १८.२०२ ।।

निक्षिप्य विष्णुगायत्षा पृथक्पात्रेष्वसंकरं ।
"यत्ते सुसीमऽ मन्त्रेण गोघृतेनाभिघार्य च ।। १८.२०३ ।।

देवस्याग्रे तु निक्षिप्य त्रिपादेषु यथाविधि ।
हविरर्पणकाले तु न सेव्यो हरिरुच्यते ।। १८.२०४ ।।

तस्माद्वैखानसान्हित्वा ब्राह्मणा अन्यसूत्रिणः ।
न विशेयुस्तथान्ये च तत्काले विष्णुमन्दिरं ।। १८.२०५ ।।

कवाटं बन्धयेत्पश्चात्घण्टानादं च कारयेथ् ।
तूर्यघोषादिकं कुर्यान्मृडुवाद्यप्रियो हरिः ।। १८.२०६ ।।

ततोर्ऽचकः प्रसन्नात्मा देवदेवमनुस्मरन् ।
हविःपात्रेषु तुलसीं निक्षिप्याष्टाक्षरेण तु ।। १८.२०७ ।।

पुष्पैरभ्यर्च्य संप्रोक्ष्य प्रणवैः परिषिच्य च ।
अभिमृश्यान्नसूक्तेन सुरभिमुद्रां प्रदर्श्य च ।। १८.२०८ ।।

"तदस्य प्रियऽमित्युक्त्वा हविरुष्णं निवेदयेथ् ।
"सुभूस्स्वयंभूंऽत्युक्त्वा अपूपं च निवेदयेथ् ।। १८.२०९ ।।

पृथुकादीनि चान्यानि "विश्वभेषजऽमन्त्रतः ।
अपक्वानि च वस्तूनि सर्वमष्टाक्षरेण तु ।। १८.२१० ।।

"इदं विष्णुऽस्समुच्चार्य पानीयं स्वादु शीतलं ।
निवेदयित्वा गण्डूषं पाद्यमाचमनं ददेत्, ।। १८.२११ ।।

"घृतात्बऽरीति मन्त्रेण मुखवासं प्रदापयेथ् ।
विष्णुगायत्रीमुच्चार्य दद्यात्पुष्पाञ्जलिं ततः ।। १८.२१२ ।।

नित्याग्निकुण्डे छुल्ल्यां वा परिषिच्य च पावकं ।
चरुणाज्येन जुहुयास्मूर्तिमन्त्रैःक्रमाद्बुधः ।। १८.२१३ ।।

देव्यादिभ्यस्तथा हुत्वा वैष्णवं च यजेत्क्रमाथ् ।
पुष्पन्यासोक्तदेवेभ्यः पाषन्दानां तथैव च ।। १८.२१४ ।।

त्रिकालेषूत्तमं प्रोक्तमधमं प्रातरेवहि ।
प्रातर्मध्याह्नयोश्चैव मध्यमं होमलक्षणं ।। १८.२१५ ।।

रक्षेदग्निमविच्छिन्नमशक्तो यश्च रक्षितं ।
समिध्यात्मनि वारोप्य प्रणीयाहरहर्यजेथ् ।। १८.२१६ ।।

ततोयात्रासनं विद्वान्संकल्प्य विधिना बुधः ।
प्रोक्ष्यालङ्कृत्य चादाय रथं वा चतुरन्तरं ।। १८.२१७ ।।

बलिबेरं समारोप्य सर्वालङ्कारसंयुतं ।
"रथन्तरंऽ समुच्चार्य तत्र कार्यं समाचरेथ् ।। १८.२१८ ।।

"योगेशं परंब्रह्माणं परमात्मानमित्यपि ।
भक्तवत्सलऽमित्युक्त्वा मूर्तिमन्त्रैस्तथा हरिं ।। १८.२१९ ।।

नाराचरज्ज्वा नुदृढं बन्धयेद्रहसिक्रमाथ् ।
"विष्णुस्त्वाऽमिति मन्त्रेण पादौ सृष्ट्वा नमेन्मुहुः ।। १८.२२० ।।

"सोमं राजानऽमुच्चार्य छत्रं मूर्धनि धारयेथ् ।
"मरुतः परमाऽत्मेति पार्श्वयोश्चामरे ददेथ् ।। १८.२२१ ।।

"वायुपऽरीति मन्त्रेण व्यजनैर्वीजयेद्धरिं ।
तथान्यैस्सुमहाहैन्श्च युक्तोदिव्यपरिच्छदैः ।। १८.२२२ ।।

घण्टारवेण संयुक्तं शङ्खभेरीनिनादितैः ।
भेरीमृदङ्गपणवनिस्सालैः काहलैरपि ।। १८.२२३ ।।

मर्दलैर्दिव्यवाद्यैश्च लयश्रुतिसमन्वितैः ।
उपतिष्ठेज्जगद्योनिं नारायणमनामयं ।। १८.२२४ ।।

शिष्यमाहूय तत्काले सोष्णिषं सोत्तरीयकरं ।
ऊर्ध्वेपुष्पं च सन्न्यस्य प्रोक्षयित्वा च मन्त्रतः ।। १८.२२५ ।।

तस्योष्णीषोपरिस्थाप्य बलिपात्रं विचक्षणः ।
अलङ्कृत्य च माल्याद्यैःपूजयेत्ताक्षन्य्वत्स्मरेथ् ।। १८.२२६ ।।

वाहयित्वा बलिं तेन बलिपात्रेण चैव हि ।
सर्वद्वारेषु सर्वत्र पुष्पन्यासोक्तमागन्तः ।। १८.२२७ ।।

पूर्वान्तमुत्तरान्तं च निक्षिपेत्तु बलिं क्रमाथ् ।
तोयं पुष्पं बलिं तोयं चत्वारस्तत्र विग्रहाः ।। १८.२२८ ।।

ततो देवं समानीय क्रममाणाश्शनैश्सनैः ।
वाहका वाहयेयुस्तं रथं सर्वङ्गसुन्दरं ।। १८.२२९ ।।

क्रमेण नम्रकायस्तु क्षिपेच्छिष्यो बलिं क्रमाथ् ।
बलिं दत्पाग्रतो गच्छेद्देवेन सह वा पृथक् ।। १८.२३० ।।

ततो देवं क्रमान्नीत्वा प्रादक्षिण्यक्रमेण वै ।
तत्काले तु बलिर्देय स्तत्क्रमस्तुप्रवक्ष्यते ।। १८.२३१ ।।

मणिकं च ततस्सन्ध्यां प्रधमद्वारपालकौ ।
तापसं सिद्धिदं चैव द्वितीय द्वारपालकौ ।। १८.२३२ ।।

न्यक्षेन्द्रावन्तराले च यथाविधि समर्चयेथ् ।
प्रथमावरणद्वारे किष्किन्धं तीर्धमेव च ।। १८.२३३ ।।

द्दितीयावरणद्वारे गणेशं शेषमर्चयेथ् ।
तृतीयावरणद्वारे शङ्खपद्मनिधी तथा ।। १८.२३४ ।।

तुहिणं च बलिन्दं च चतुर्थावरणे तथा ।
पञ्चमावरणे चैव खड्गं शाङ्खं समर्चयेथ् ।। १८.२३५ ।।

षष्ठे चावरण शङ्खचक्रचूडौ समर्चयेथ् ।
चण्डं तथा प्रचण्डं च सप्तमावरणेर्ऽचयेथ् ।। १८.२३६ ।।

सोपानमध्ये श्रीभूतं गरुडं च समर्चयेथ् ।
हवीरक्षकमग्निं च आग्नेय्यां सम्यगर्चयेथ् ।। १८.२३७ ।।

विमानदक्षिणे पार्श्वे विवस्वन्तं यमं तथा ।
नैरृत्यां वाद्यऽरक्षं च निरृतिं च समर्चयेथ् ।। १८.२३८ ।।

पश्चिमे मित्रमभ्यर्च्येत्तथा वरुणमेव च ।
वायव्यामर्चयेच्चैव पुष्पेशमरुतौ तथा ।। १८.२३९ ।।

उत्तरस्यां तु क्षत्तारं कुबेरं च समर्चयेथ् ।
ईशानं भास्करं चैव तथैशान्ये समर्चयेथ् ।। १८.२४० ।।

भूतपीठे समभ्यर्च्य चक्रं चैव ध्वजं तथा ।
शङ्खं यूथाधिपं चैव अक्षहन्तं तथार्चयेथ् ।। १८.२४१ ।।

पीठस्य दक्षिणे भागे "ये भूताऽ इति मन्त्रतः ।
भूतयक्षपिशाचेभ्यो बलिशेषं तु निर्वपेथ् ।। १८.२४२ ।।

पादौ प्रक्षाल्य चाचम्य तत्र कार्यं समाचरेथ् ।
नृत्तगेयादियुक्तं तु दिव्यस्तोत्रैस्समन्वितं ।। १८.२४३ ।।

प्रदक्षिणत्रयं कृत्वा भ्रामयित्वा जगद्गुरुं ।
सोपानमध्ये संस्थाप्य रज्जुबन्धं विसृज्य च ।। १८.२४४ ।।

जयशब्दैस्तथामन्त्रैर्दद्यान्नी राजनं ततः ।
ततो देवं समादाय स्वस्थाने तु निवेशयेथ् ।। १८.२४५ ।।

विष्णुसूक्तं समुच्चार्य प्रणामं मुहुराचरेथ् ।
दद्यात्पुष्पाञ्जलिं चैव द्वादशाष्टषडक्षरैः ।। १८.२४६ ।।

पौरुषं सूक्तमुच्चार्य प्रणवं च समुच्चरन् ।
मुखवासं समर्प्यैव शक्तितो दक्षिणां ददेथ् ।। १८.२४७ ।।

ततःपतद्ग्रहात्तीर्थमादायैव तु पूजकः ।
त्रिःपिबेन्नियतो भूत्वा तुलसीमपि भक्षयेथ् ।। १८.२४८ ।।

प्रत्यूषश्च प्रभातश्च मध्याह्नश्चापराह्मकः ।
सायङ्कालो निशीथश्च पूजाकालान्तु षट्स्मृताः ।। १८.२४९ ।।

प्रातःकालेर्चनं कुर्याज्जपहोमाभिवृद्धये ।
राजराष्ट्राभिवृद्ध्यर्थं मध्याह्नार्चनमिष्यते ।। १८.२५० ।।

सायङ्कालेर्ऽचनं चैव सर्वसस्याभिवृद्धये ।
उषःकालार्ऽचनं प्रोक्तं प्रजापशुविवृद्धये ।। १८.२५१ ।।

अपराह्णार्चनं चैव दैत्यनाशनहेतवे ।
अर्धरात्रार्ऽचनं प्रोक्तं चतुष्पादभिवृद्धये ।। १८.२५२ ।।

एवं षट्कालपूजायां फलमुक्तं विशेषतः ।
षट्कालं वा त्रिकालं वा द्विकालं कालमेव वा ।। १८.२५३ ।।

पूजनं देवदेवस्य त्वैहिकामुष्मिकप्रदं ।
षट्काल पूजने कुर्यादादावाहनंबुधः ।। १८.२५४ ।।

तथान्त्य वेलार्चनायां कुर्यादुद्वासनं परं ।
उपसन्ध्यासु देवेशमासनाद्यष्टविग्रहैः ।। १८.२५५ ।।

समभ्यर्च्य हविर्दद्याद्विना होमं बलिं तथा ।
पुष्पन्यासं च होमं च परिवारार्चनं बलिं ।। १८.२५६ ।।

नित्ययात्रोत्सवं चैवेत्युपसन्ध्यासु वर्जयेथ् ।
त्रिकालमर्चनेऽन्यत्र म्नपनं प्रातरेव ही ।। १८.२५७ ।।

प्रोक्षणं चान्यकाले तु मन्त्रेणेत्याह पूजनं ।
शिष्याणामप्यभावे तु वर्षाद्युपहतौ तथा ।। १८.२५८ ।।

तथा वाद्याद्यभावे वा बलिकाले समागते ।
तदा देवान्त्समावाह्य द्वाराग्रे निक्षिपेद्बलिं ।। १८.२५९ ।।

सूर्यस्त्वामन्त्रमुच्चार्य कवाटं बन्धयेत्ततः ।
मध्याह्ने चैव सायाह्ने काले काले तथाचरेथ् ।। १८.२६० ।।

तथैवोद्घटयेत्काले सर्वं पूर्ववदर्चनं ।
पुष्पं द्वारार्चितं शोध्य पुनर्द्वारे समर्चयेथ् ।। १८.२६१ ।।

ध्रुवपीठेतु पुष्पाणि न शोध्यानि पुनःपुनः ।
तानि पुष्पाण्यनुद्धृत्य तदूर्ध्वे न्यासमाचरेत्, ।। १८.२६२ ।।

सायार्चने तु तानि स्युनिन्र्माल्यानि न चान्यतः ।
कौतुकाद्यर्चितं पुष्पमादाय विधिना बुधः ।। १८.२६३ ।।

पीठे पार्श्वे निधायान्यैरर्चयेत्तु नवैर्नवैः ।
अन्त्यवेलार्चनान्ते तु संकल्ब्य शयनासनं ।। १८.२६४ ।।

विमुच्य वस्त्रमाल्यादीन्सूक्ष्मवस्त्रं समर्प्य च ।
अभ्यर्च्य पुष्बगन्धाद्यैर्देवदेवं श्रियःपतिं ।। १८.२६५ ।।

सर्वौषधिविमिश्रं च कषायं तोयमेव च ।
निवेद्य देवदेवस्य मुखवासंप्रदापयेथ् ।। १८.२६६ ।।

"यद्वैष्णवऽमिति प्रोच्य मृदुवाद्यैर्मनोरमैः ।
दिव्योपधानसहिते दिव्यालङ्कारशोभिते ।। १८.२६७ ।।

परिष्कृते वितानाद्वैर्दिव्यधूपैः सुधूपिते ।
महाहान्स्तरणोपेते शयने शाययेद्धरिं ।। १८.२६८ ।।

श्रीभूम्यौ च समादाय तन्मन्त्राभ्यां क्रमाद्गुरुः ।
शाययेद्देवपाशेन्व्तु "ध्रुवन्तऽइति चोच्चरेथ् ।। १८.२६९ ।।

"अरिचितस्सुष्टुतश्चासि सुपर्णगरुडध्वज ।
चक्रपाणे महाबाहो यथेष्टं वस ओं नमःऽ ।। १८.२७० ।।

इति मन्त्रं समुच्चार्य भक्त्या परमाया युतः ।
प्रातरावाहितां शक्तिं ध्रुवबेरेऽवरोपयेथ् ।। १८.२७१ ।।

प्रदक्षिणं प्रणामं च कृत्वा मन्त्रेण देशिकः ।
स्तुत्वा पुरुषसूक्तेन विष्णुगायत्रिया तथा ।। १८.२७२ ।।

व्यापकत्रयमन्त्रैश्च तथा "विष्णोर्नुकाऽदिभिः ।
"अतो देवाऽदिभिर्मन्त्रैर्मन्त्रैरन्यैश्च वैष्णवैः ।। १८.२७३ ।।

एकाक्षरादिसूक्तैश्च द्वादशाष्टषडक्षरैः ।
मुहुःपुष्पाजलिं दत्वाक्षामयेद्दोषसंचयं ।। १८.२७४ ।।

अथ वक्ष्ये विशेषेण पूजनं चौत्सवादिषु ।
ब्रह्मस्थानं कौतुकस्य पूर्वमेव समीरितं ।। १८.२७५ ।।

पाशन्व्योःकौतुकस्याथ स्थापयेत्स्नापनौत्सवौ ।
उत्तरे कौतुकस्यैव बलिबेरस्य संस्थितिः ।। १८.२७६ ।।

गर्भालयस्य संकोचे त्वथ वा मुखमण्डपे ।
अन्तरालेऽथ वा स्थाप्य पूजयेत्स्नापनौत्सवौ ।। १८.२७७ ।।

स्नापनौत्सवयोःकुर्यात्पूर्वोक्तार्चनमुत्तमं ।
आसनाद्युपचारांश्च कल्पयेत्षोडशाथ वा ।। १८.२७८ ।।

त्रयोदशोपचारैश्च शान्तं सम्यक्समर्चयेथ् ।
नवोपचारैरभ्यर्च्येदनपायिगणांस्तथा ।। १८.२७९ ।।

द्वारदेवान्द्वारपालान्लोकपालांस्तथैव च ।
अष्टोपचारैरभ्यर्च्येन्मूर्तिमन्त्रैः समाचरेथ् ।। १८.२८० ।।

इतरान्परीवारांश्च यजेत्षोडशविग्रहैः ।
तथैव पाकलक्ष्म्याश्च द्वारलक्ष्म्याश्च कारयेथ् ।। १८.२८१ ।।

श्रीवत्सलक्ष्म्याश्च तथा देवेन सह चाचरेथ् ।
अवतारप्रतिष्ठायां ध्रुवर्चां वाथ कारयेथ् ।। १८.२८२ ।।

त्रिविक्रमप्रतिष्ठायां ध्रुवार्चामर्चयेत्ततः ।। १८.२८३ ।।


इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारेऽष्टादशोऽध्यायः