भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः २०५

विकिस्रोतः तः
← भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः २०४ भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः २०५
वेदव्यासः‎
भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः २०६ →

महादेवार्चनविधिवर्णनम्

।। व्यास उवाच ।। ।।
पुनर्निबोध मे भीष्म गदतः परमं विधिम् ।।
येन पूजयते नित्यं महादेवं दिवा करम् ।। १ ।।
प्रभूतं निर्मलं तेज आराध्य परमं सुखम् ।।
पूर्वमंतस्तथाग्नेय्यां नैर्ऋत्यां पवनालये ।। २ ।।
क्रमेण यावदीशानं हृदि बीजं च विन्यसेत् ।।
भास्करासनमेतत्तु न्यस्तव्यं तत्त्वदर्शिभिः ।। ३ ।।
उपरिष्टात्ततस्तस्य हृदयेन तु पंकजम् ।।
अष्टपत्रं केशरालं पंचवर्णसकेशरम् ।। ४ ।।
दीप्तादि पूर्वमारभ्य आमहादेवगोचरम् ।।
शक्त्यष्टकं न्यसेन्मंत्रैरादितः सर्वतोमुखीम् ।। ५ ।।
अबीजैः केसराग्रेषु क्रमेणैव च पूजयेत् ।।
ततस्त्वावाहयेद्भानुं स्थापयेत्कर्णिकोपरि ।। ६ ।।
तस्योपहृत्य तं चान्यं वेदितव्यं खपुष्करम् ।।
तेनैवावाहनं चार्च्य स्थापनं चार्धमेव च ।। ७ ।।
पाद्यमाचमनं स्थानं वस्त्रगंधादिभूषणम् ।।
विधिना वीरपुष्पाणि नैवेद्यं धूपमेव च ।। ८ ।।
कर्तव्यं श्रद्धया भक्त्या एवं तुष्यति भास्करः ।।
महापातकिनोऽप्याशु लभंते चिंतितं फलम् ।। ९ ।।
आदित्यं पूजयित्वा तु पश्चादंगानि पूजयेत् ।।
दीप्तायां हृदयं न्यस्य भवान्या शिरसो न्यसेत् ।। १० ।।
दिग्विदिक्षु न्यसेदस्त्रमिंद्रादि दिशोत्तरांतिकम् ।।
कर्णिकायां न्यसेन्नेत्रं स्वबीजेन तु वार्चयेत ।। ११ ।।
पुष्पैर्गंधैश्च धूपैश्च हृदयानि क्रमेण तु ।।
पूजयित्वा तु विधिवद्गर्भं पश्चात्तु मंत्रवित् ।। १२ ।।
बाह्यतः पूर्वतो मंदं दक्षिणेन बुधं तथा ।।
विषाणं पश्चिमे पूज्य उत्तरेण तु भार्गवम् ।। १३ ।।
आग्नेय्यां च कुजं पूज्य नैर्ऋत्यां भानुदेहजम् ।।
वायव्यां पूजयेत्कृष्णमैशान्यां विकचं नृप ।। १४ ।।
इन्द्रादिलोकपालांश्च ततोऽष्टौ पूजयेद्बुधः ।।
सुगंधैर्विविधैः पुष्पैर्धूपैश्चैव मनोरमैः ।। १५ ।।
क्रमेण पूजयेद्भानुं लोकपालैर्ग्रहैः सह ।।
मंत्रैः कुरुकुलश्रेष्ठ य इच्छेच्छ्रेय आत्मनः ।। १६ ।।
अनेन विधिना यत्र देवः संपूज्यते रविः ।।
न चौराग्निभयं तत्र न चापि नरकाद्भयम् ।। १७ ।।
वर्षोपलविषादिभ्यो भयं तत्र न विद्यते ।।
सुखमारोग्यमानंदं सुभिक्षमचलां श्रियम् ।। १८ ।।
तेजोबिंबांतमध्यस्थ आदित्यः परमार्थतः ।।
यष्टव्यः साधकैर्नित्यं न रथो न च वाजिनः ।। १९ ।।
इत्येष विधिराख्यातो मया भीष्म तवाखिलः ।।
येन पूजयते नित्यं महादेवो दिवाकरम् ।। २० ।।
इत्थं पूज्य विवस्वन्तं हृद्बीजेन विसर्जयेत् ।।
य एवं पूजयेद्भानुं स याति परमां गतिम् ।। २१ ।। ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे भीष्मव्याससंवादे महादेवा र्चनविधिवर्णनं नाम पंचाधिकद्विशततमोऽध्यायः ।। २०५ ।।