भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः २०३

विकिस्रोतः तः
← भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः २०२ भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः २०३
वेदव्यासः‎
भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः २०४ →

भास्कराराधनविधिवर्णनम्

।। विष्णुरुवाच ।।
व्योमपूजाविधिं ब्रूहि समासाच्चतुरानन ।।
अष्टशृंगं कथं व्योम पूजयेद्भास्करस्य तु ।। १ ।।
।। ब्रह्मोवाच ।। ।।
व्योमपूजाविधिं कृष्ण निबोध गदतो मम ।।
अष्टशृंगं यथा व्योम पूजयंति मनीषिणः ।। २ ।।
सौवर्णं राजतं ताम्रं कृत्वा चाश्ममयं तथा ।।
अष्टशृंगं महाबाहो अनेन विधिनार्चयेत् ।। ३ ।।
प्रथमं पूजयेद्भानुं मध्ये मंत्रेण सुव्रत ।।
महिषा वो महायेति नानापुष्पकदंबकैः ।। ४ ।।
त्रातारमिंद्रं मंत्रेण सर्वशृंगं सदार्चयेत् ।।
उदीरतामवर इत्यथ वानेन पूजयेत् ।। ५ ।।
आयं गौरिति मन्त्रेण नैर्ऋ(कृ)तं शृंगमर्चयेत् ।।
रक्षोहणं वाजिनं वा पूजयेदसुरांतकम् ।। ६ ।।
इन्द्रसोमांतपतये ह्यथ वानेन पूजयेत् ।।
अभित्वा शूर नो नुम ऐशानं शृंगमर्चयेत् ।। ७ ।।
एवं भानुं च परितः पूजयंति सदाच्युत ।।
येनेदं भूतमिति वै अथ वानेन पूजयेत ।। ८ ।।
नमोऽस्तु सर्वपापेभ्यो व्योमपीठं सदार्चयेत् ।।
ते नराः सततं कामान्प्राप्नुवंति न संशयः ।। ९ ।।
त्वमेको रुद्राणां वसूनां पूर्वाह्णे तेन पूजयेत् ।।
तद्विष्णोः परमं पदं हंसः शुचिषदिति वै अपराह्ने सदार्चयेत् ।। १० ।।
एवं भानुं ग्रहैः सार्धं पूजयंति सदस्पते ।।
ते सर्वान्विविधान्कामान्प्राप्नुवंति न संशयः ।। ११ ।।
विमले वाससी दत्त्वा गुरवे सपवित्रके ।।
उपानहौ तथा कृष्ण सौवर्णमंगुलीयकम् ।। १२ ।।
गन्धपुष्पाणि चित्राणि भक्ष्यभोज्यान्यनेकशः ।।
अनेन विधिना यस्तु सोपवासोर्चयेद्रविम् ।।
बहुपुत्रो बहुधनः स नरो भव्यवान्भवेत् ।।१३।।
उत्तरे चायने यस्तु सोपवासोर्चयेद्रविम् ।।
सोश्वमेधफलं विंद्याद्बहुपुत्रश्च जायते ।। १४ ।।
कृत्वोपवासं विषुवे यस्तु पूजयते रविम् ।।
बहुपुत्रो बहुधनो कीर्तिमांश्चापि जायते ।। १५ ।।
कृत्वोपवासं ग्रहणे विधिवच्चंद्रसूर्ययोः ।।
पूजयेद्भास्करं भक्त्या ब्रह्मलोकं स गच्छति ।। १६ ।।
इति ते कथितो विष्णो भास्कराराधने विधिः ।।
यं श्रुत्वा पुरुषो भक्त्या मम लोके महीयते ।। १७ ।।
पुनरेत्य महीं कृष्ण राजा भवति भूतले ।।
बहु पुत्रो बहुधनः समरेष्वपराजितः ।। १८ ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे भास्कराराधनविधिवर्णनं नाम त्र्यधि कद्विशततमोऽध्यायः ।। २०३ ।।