भजगोविन्दम्

Wikisource तः
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
भजगोविन्दं ↔ ग्रन्थकर्ता : शङ्कराचार्यः
विष्णुस्तोत्राणि

भजगोविन्दं भजगोविन्दं
गोविन्दं भजमूढमते ।
संप्राप्ते सन्निहिते काले
नहि नहि रक्षति डुकृञ्करणे ॥ १॥

मूढ जहीहि धनागमतृष्णां
कुरु सद्बुद्धिं मनसि वितृष्णाम् ।
यल्लभसे निजकर्मोपात्तं
वित्तं तेन विनोदय चित्तम् ॥ २॥

नारीस्तनभर नाभीदेशं
दृष्ट्वा मागामोहावेशम् ।
एतन्मांसावसादि विकारं
मनसि विचिन्तय वारं वारम् ॥ ३॥

नलिनीदलगत जलमतितरलं
तद्वज्जीवितमतिशयचपलम् ।
विद्धि व्याध्यभिमानग्रस्तं
लोकं शोकहतं च समस्तम् ॥ ४॥

यावद्वित्तोपार्जन सक्तः
स्तावन्निज परिवारो रक्तः ।
पश्चाज्जीवति जर्जर देहे
वार्तां कोऽपि न पृच्छति गेहे ॥ ५॥

यावत्पवनो निवसति देहे
तावत्पृच्छति कुशलं गेहे ।
गतवति वायौ देहापाये
भार्या बिभ्यति तस्मिन्काये ॥ ६॥

बालस्तावत्क्रीडासक्तः
तरुणस्तावत्तरुणीसक्तः ।
वृद्धस्तावच्चिन्तासक्तः
परे ब्रह्मणि कोऽपि न सक्तः ॥ ७॥

काते कान्ता कस्ते पुत्रः
संसारोऽयमतीव विचित्रः ।
कस्य त्वं कः कुत आयातः
तत्त्वं चिन्तय तदिह भ्रातः ॥ ८॥

सत्सङ्गत्वे निस्स्ङ्गत्वं
निस्सङ्गत्वे निर्मोहत्वम् ।
निर्मोहत्वे निश्चलतत्त्वं
निश्चलतत्त्वे जीवन्मुक्तिः ॥ ९॥

वयसिगते कः कामविकारः
शुष्के नीरे कः कासारः ।
क्षीणेवित्ते कः परिवारः
ज्ञाते तत्त्वे कः संसारः ॥ १०॥

मा कुरु धन जन यौवन गर्वं
हरति निमेषात्कालः सर्वम् ।
मायामयमिदमखिलं हित्वा
ब्रह्मपदं त्वं प्रविश विदित्वा ॥ ११॥

दिनयामिन्यौ सायं प्रातः
शिशिरवसन्तौ पुनरायातः ।
कालः क्रीडति गच्छत्यायुः
तदपि न मुञ्चत्याशावायुः ॥ १२॥

द्वादशमञ्जरिकाभिरशेषः
कथितो वैयाकरणस्यैषः ।
उपदेशो भूद्विद्यानिपुणैः
श्रीमच्छन्करभगवच्छरणैः ॥ १२अ ॥

काते कान्ता धन गतचिन्ता
वातुल किं तव नास्ति नियन्ता ।
त्रिजगति सज्जनसं गतिरैका
भवति भवार्णवतरणे नौका ॥ १३॥

जटिलो मुण्डी लुञ्छितकेशः
काषायाम्बरबहुकृतवेषः ।
पश्यन्नपि चन पश्यति मूढः
उदरनिमित्तं बहुकृतवेषः ॥ १४॥

अङ्गं गलितं पलितं मुण्डं
दशनविहीनं जतं तुण्डम् ।
वृद्धो याति गृहीत्वा दण्डं
तदपि न मुञ्चत्याशापिण्डम् ॥ १५॥

अग्रे वह्निः पृष्ठेभानुः
रात्रौ चुबुकसमर्पितजानुः ।
करतलभिक्षस्तरुतलवासः
तदपि न मुञ्चत्याशापाशः ॥ १६॥

कुरुते गङ्गासागरगमनं
व्रतपरिपालनमथवा दानम् ।
ज्ञानविहिनः सर्वमतेन
मुक्तिं न भजति जन्मशतेन ॥ १७॥

सुर मंदिर तरु मूल निवासः
शय्या भूतल मजिनं वासः ।
सर्व परिग्रह भोग त्यागः
कस्य सुखं न करोति विरागः ॥ १८॥

योगरतो वाभोगरतोवा
सङ्गरतो वा सङ्गवीहिनः ।
यस्य ब्रह्मणि रमते चित्तं
नन्दति नन्दति नन्दत्येव ॥ १९॥


भगवद् गीता किञ्चिदधीता
गङ्गा जललव कणिकापीता ।
सकृदपि येन मुरारि समर्चा
क्रियते तस्य यमेन न चर्चा ॥ २०॥

पुनरपि जननं पुनरपि मरणं
पुनरपि जननी जठरे शयनम् ।
इह संसारे बहुदुस्तारे
कृपयाऽपारे पाहि मुरारे ॥ २१॥

रथ्या चर्पट विरचित कन्थः
पुण्यापुण्य विवर्जित पन्थः ।
योगी योगनियोजित चित्तो
रमते बालोन्मत्तवदेव ॥ २२॥

कस्त्वं कोऽहं कुत आयातः
का मे जननी को मे तातः ।
इति परिभावय सर्वमसारम्
विश्वं त्यक्त्वा स्वप्न विचारम् ॥ २३॥

त्वयि मयि चान्यत्रैको विष्णुः
व्यर्थं कुप्यसि मय्यसहिष्णुः ।
भव समचित्तः सर्वत्र त्वं
वाञ्छस्यचिराद्यदि विष्णुत्वम् ॥ २४॥

शत्रौ मित्रे पुत्रे बन्धौ
मा कुरु यत्नं विग्रहसन्धौ ।
सर्वस्मिन्नपि पश्यात्मानं
सर्वत्रोत्सृज भेदाज्ञानम् ॥ २५॥

कामं क्रोधं लोभं मोहं
त्यक्त्वाऽत्मानं भावय कोऽहम् ।
आत्मज्ञान विहीना मूढाः
ते पच्यन्ते नरकनिगूढाः ॥ २६॥

गेयं गीता नाम सहस्रं
ध्येयं श्रीपति रूपमजस्रम् ।
नेयं सज्जन सङ्गे चित्तं
देयं दीनजनाय च वित्तम् ॥ २७॥

सुखतः क्रियते रामाभोगः
पश्चाद्धन्त शरीरे रोगः ।
यद्यपि लोके मरणं शरणं
तदपि न मुञ्चति पापाचरणम् ॥ २८॥

अर्थमनर्थं भावय नित्यं
नास्तिततः सुखलेशः सत्यम् ।
पुत्रादपि धन भाजां भीतिः
सर्वत्रैषा विहिआ रीतिः ॥ २९॥

प्राणायामं प्रत्याहारं
नित्यानित्य विवेकविचारम् ।
जाप्यसमेत समाधिविधानं
कुर्ववधानं महदवधानम् ॥ ३०॥

गुरुचरणाम्बुज निर्भर भकतः
संसारादचिराद्भव मुक्तः ।
सेन्द्रियमानस नियमादेवं
द्रक्ष्यसि निज हृदयस्थं देवम् ॥ ३१॥

मूढः कश्चन वैयाकरणो
डुकृञ्करणाध्ययन धुरिणः ।
श्रीमच्छम्कर भगवच्छिष्यै
बोधित आसिच्छोधितकरणः ॥ ३२॥

भजगोविन्दं भजगोविन्दं
गोविन्दं भजमूढमते ।
नामस्मरणादन्यमुपायं
नहि पश्यामो भवतरणे ॥ ३३॥


"http://sa.wikisource.org/w/index.php?title=भजगोविन्दम्&oldid=33003" इत्यस्माद् पुनः प्राप्तिः