सामग्री पर जाएँ

ब्रह्मोपनिषद्

विकिस्रोतः तः
(ब्रह्म उपनिषद् इत्यस्मात् पुनर्निर्दिष्टम्)


॥ ब्रह्म ॥



ॐ शौनको ह चै महाशालोऽङ्गिरसं भगवन्तं पिप्पलादमपृच्छत् ।
दिव्ये ब्रह्मपुरे संप्रतिष्ठिता भवन्ति कथं सृजन्ति कस्यैष महिमा बभूव यो ह्मेष महिमा बभूव क एषः ।

तस्मै स होवाच ब्रह्मविद्यं वरिष्ठाम् ।
प्राणो ह्येष आत्मा ।
आत्मनो महिमा बभुव देवानामायुः स देवानां निधनमनिधनं दिव्ये ब्रह्मपुरे विरजं निष्कलं शुभ्रमक्षरं यद्ब्रह्म विभाति स नियच्छति मघुकरराजानं माक्षिकवदिति ।
यथा माक्षीकैकेन तन्तुना जालं वक्षिपति तेनापकर्षति तथैवैष प्राणो यदा याति संसृष्टमाकृष्य ।
प्राणदेवतास्ताः सर्वा नाड्यः ।
सुष्वपे श्येनाकाशवद्यथा खं श्येनमाश्रित्य याति स्वमालयमेवं सुषुप्तो ब्रूते यथैवैष देवदत्तो यष्ट्याऽपि ताड्यमानो न यत्येवमिष्टापूर्तैः शुभाशुभैर्न लिप्यते ।
यथा कुमारो निष्काम आनन्दमुपयाति तथैवैष देवदत्तः स्वप्न आनन्दमभियाति वेद एव परं ज्योतिः ज्योतिष्कामो ज्योतिरानन्दयते ।
भूयस्तेनैव स्वप्नाय गच्छति जलौकावत् ।
यथा जलौकाऽग्रमग्रं नयत्यात्मानं नयति परं संधय ।
यत्परं नापरं त्यजति स जाग्रदभिधियते ।
यथैवैष कपालाष्टकं संनयति ।
तमेव स्तन इव लम्बते वेददेवयोनः ।
यत्र जाग्रति शुभाशुभं निरुक्तमस्य देवस्य स संप्रसारोऽन्थर्यामी खगः कर्कटकः पुष्करः पुरुषः ग्राणो हिंसा परापरं ब्रह्म आत्मा देवता वेदयति. य एवं वेद स परं ब्रह्म धं क्षेत्रज्ञमुपैति ॥ १ ॥

अथास्य पुरुषस्य चत्वारि स्थानानि भवन्ति नाभिर्हृदयं कण्ठं मूर्धेति ।
तत्र चतुष्पादं ब्रह्म विभाति ।
जागरितं स्वप्नं सुषुप्तं तुरीयमिति ।
जागरिते ब्रह्मा स्वप्ने विष्णुः सुषुप्तौ रुद्रस्तुरीयं परमाक्षरं आदित्यश्च विष्णुश्चेश्वरश्च स पुरुषः स प्राणः स जीवः सोऽग्निः सेश्वरश्च जाग्रत्तेषां मध्ये यत्परं ब्रह्म विभाति ।
स्वयममनस्कमश्रोत्रमपाणिपादं ज्योतिर्वर्जितं न तत्र लोका न लोका वेदा न वेदा देवा न देवा यज्ञा न यज्ञ माता न माता पिता न पिता स्नुष न स्नुष चाण्डालो न चाण्डालः पैल्कसो न पैल्कसः श्रमणो न श्रमणः पशवो न पशवस्तापसो न तापस इत्येकमेव परं ब्रह्म विभाति ।
हृद्याकाशे तद्विज्ञानमाकाशं तत्सुषिरमाकाशं तद्वेद्यं हृद्याकाशं यस्मिन्निदं संचरति वचरति यस्मिन्निदं सर्वमोतं प्रोतं ।
सं विभोः प्रजा ज्ञायेरन् ।
न तत्र देवा ऋषयः पितर रिशते प्रतिबुद्धः सर्वविदिति ॥ २ ॥

हृदिस्था देवथाः सर्वा हृदि प्राणाः प्रतिष्ठिताः ।
हृदि प्राणश्च ज्योतिश्च त्रिवृत्सूत्रं च यन्महत् ॥
हृदि चैतन्ये तिष्ठति यज्ञोपवीतं परमं पवित्रं
प्रजापतेर्यत्सहजं पुरस्तात् ।
आयुष्यमग्रपं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ॥
सशिखं वपनं कृत्वा बहिःसूत्रं त्यजेद्बुधः ।
यदक्षरं परं ब्रह्म तत्सूत्रमिति धारयेत् ॥
सूचनात्सूत्रमित्याहुः सूत्रं नाम परं पदम् ।
तत्सूत्रं विदितं येन स विप्रो वेदपारगः ॥
तेन सर्वमिदं प्रोतं सूत्रे मणिगणा इव ।
तत्सूत्रं धारयेद्योगी योगवित्तत्त्वदर्शिवान् ॥
बहिःसूत्रं त्यजेद्विद्वान्योगमुत्तममास्थितः ।
ब्रह्मभावमयं सूत्रं धारयेद्यः स चेतनः ॥
धारणात्तस्य सूत्रस्य नोच्छिष्ठो नाशुचिर्भवेत् ।
सूत्रमन्तर्गतं येषां ज्ञानयज्ञोपवीतिनाम् ॥
ते चै सूत्रविदो लोके ते च यज्ञोपवीतिनः ।
ज्ञानशिखिनो ज्ञाननिष्ठा ज्ञानयज्ञोपवीतिहः ॥
ज्ञानमेव परं तेषां पवित्रं ज्ञानमुत्तमम् ।
अग्नेरिव शिखा नान्या यस्य ज्ञानमयी शिखा ॥
स शिखीत्युच्यते विद्वानितरे केशधारिणः ॥ ३ ॥


कर्मण्यधिकृता ये तु वैदिके ब्राह्मणादयः ।
तैः संधार्यमिद सूत्रं क्रियाङ्गं तद्धि वै स्मृतम् ॥
शिखा ज्ञानमयी यस्य उपवीतं च तन्मयम् ।
ब्राह्मण्यं सकलं तस्य इति ब्रह्मविदो विदुः ॥
इदं यज्ञोपवीतं तु पवित्रं यत्परायणम् ।
स विद्वान्यज्ञोपवीती स्यात्स यज्ञः स च यज्ञवित् ॥
एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा ।
कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च ॥
एको मनीषी निष्कियाणां बहूनामेकं सन्तं बहुधा यः करोति ।
तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम् ॥
आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् ।
ध्याननिर्मथनाभ्यासाद्देवं पश्येन्निगूढवत् ॥
तिलेषु तैलं दधिनीव सर्पिरापः स्रोतःस्वरणीषु चाग्निः ।
एवमात्माऽऽत्मनि गृह्मतेऽसौ सत्येनैनं तपसा योऽनुपश्यति ॥
ऊर्णनाभिर्यथा तन्तून्सृजते संहरत्यपि ।
जाग्रत्स्वप्ने तथा जीवो गच्छत्यागच्छते पुनः ॥
पद्मकोशप्रतीकाशं सुषिरं चाप्यधोमुखम् ।
हृदयं तद्विजानीयाद्विश्वस्याऽऽयतनं महत् ॥
नेत्रस्थं जाग्रतं विद्यात्कण्ठे स्वप्नं विनिर्दिषेत् ।
सुषुप्तं हृदयस्थं तु तुरीयं मूर्ध्नि संस्थितम् ॥
यदात्मा प्रज्ञयाऽऽत्मानं संधत्ते परमात्मनि ।
तेन संध्या ध्यानमेव तस्मात्सन्ध्याभिवन्दनम् ॥
निरोदकाध्यानसंध्या वाक्कायक्लेशवर्जिता ।
संधिनी सर्वभूतानां सा संध्या ह्येकदण्डिनाम् ॥
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ।
आन्नन्दमेतज्जीवस्य यं ज्ञात्वा मुच्यते बुधः ॥
सर्वव्यापिनमात्मानं क्षीरे सर्पिरिवार्पितम् ।
आत्मविद्यातपोमूलं तद्ब्रह्मोपनिषत्परम् ।
सर्वात्मैकत्वरूपेण तद्ब्रह्मोपनिषत्परमिति ॥ ४ ॥

इत्यथर्ववेदे ब्रह्मोपनिषत्समाप्ता ॥

अधिकाध्ययनाय

[सम्पाद्यताम्]
"https://sa.wikisource.org/w/index.php?title=ब्रह्मोपनिषद्&oldid=328449" इत्यस्माद् प्रतिप्राप्तम्