ब्रह्मचारिप्रकरणम्
| ←उपोद्घातप्रकरणम् | याज्ञवल्क्यस्मृतिः ↔ ग्रन्थकर्ता : प्रथमोध्यायः - आचाराध्यायः |
विवाहप्रकरणम्→ |
| आचाराध्यायस्य प्रकरणानि |
|---|
|
ब्रह्मक्षत्रियविट्शूद्रा वर्णास्त्वाद्यास्त्रयो द्विजाः । |
|
गर्भाधानं ऋतौ पुंसः सवनं स्पन्दनात्पुरा । |
|
अहन्येकादशे नाम चतुर्थे मासि निष्क्रमः । |
|
एवं एनः शमं याति बीजगर्भसमुद्भवम् । |
|
गर्भाष्टमेऽष्टमे वाब्दे ब्राह्मणस्योपनायनम् । |
|
उपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकम् । |
|
दिवासंध्यासु कर्णस्थ ब्रह्मसूत्रोदङ्मुखः । |
|
गृहीतशिश्नश्चोत्थाय मृद्भिरभ्युद्धृतैर्जलैः । |
|
अन्तर्जानु शुचौ देश उपविष्ट उदङ्मुखः । |
|
कनिष्ठादेशिन्यङ्गुष्ठ मूलान्यग्रं करस्य च । |
|
त्रिः प्राश्यापो द्विरुन्मृज्य खान्यद्भिः समुपस्पृशेत् । |
|
हृत्कण्ठतालुगाभिस्तु यथासंख्यं द्विजातयः । |
|
स्नानं अब्दैवतैर्मन्त्रैर्मार्जनं प्राणसंयमः । |
|
गायत्रीं शिरसा सार्धं जपेद्व्याहृतिपूर्विकाम् । |
|
प्राणानायम्य संप्रोक्ष्य तृचेनाब्दैवतेन तु । |
|
संध्यां प्राक्प्रातरेवं हि तिष्ठेदासूर्यदर्शनात् । |
|
ततोऽभिवादयेद्वृद्धानसावहं इति ब्रुवन् । |
|
आहूतश्चाप्यधीयीत लब्धं चास्मै निवेदयेत् । |
|
कृतज्ञाद्रोहिमेधावि शुचिकल्यानसूयकाः । |
|
दण्डाजिनोपवीतानि मेखलां चैव धारयेत् । |
|
आदिमध्यावसानेषु भवच्छब्दोपलक्षिता । |
|
कृताग्निकार्यो भुञ्जीत वाग्यतो गुर्वनुज्ञया । |
|
ब्रह्मचर्ये स्थितो नैकं अन्नं अद्यादनापदि । |
|
मधुमांसाञ्जनोच्छिष्ट शुक्तस्त्रीप्राणिहिंसनम् । |
|
स गुरुर्यः क्रियाः कृत्वा वेदं अस्मै प्रयच्छति । |
|
एकदेशं उपाध्याय ऋत्विग्यज्ञकृदुच्यते । |
|
प्रतिवेदं ब्रह्मचर्यं द्वादशाब्दानि पञ्च वा । |
|
आषोडशादाद्वाविंशाच्चतुर्विंशाच्च वत्सरात् । |
|
अत ऊर्ध्वं पतन्त्येते सर्वधर्मबहिष्कृताः । |
|
मातुर्यदग्रे जायन्ते द्वितीयं मौञ्जिबन्धनात् । |
|
यज्ञानां तपसां चैव शुभानां चैव कर्मणाम् । |
|
मधुना पयसा चैव स देवांस्तर्पयेद्द्विजः । |
|
यजूंषि शक्तितोऽधीते योऽन्वहं स घृतामृतैः । |
|
स तु सोमघृतैर्देवांस्तर्पयेद्योऽन्वहं पठेत् । |
|
मेदसा तर्पयेद्देवानथर्वाङ्गिरसः पठन् । |
|
वाकोवाक्यं पुराणं च नाराशंसीश्च गाथिकाः । |
|
मांसक्षीरौदनमधु तर्पणं स दिवौकसाम् । |
|
ते तृप्तास्तर्पयन्त्येनं सर्वकामफलैः शुभैः । |
|
त्रिर्वित्तपूर्णपृथिवी दानस्य फलं अश्नुते । |
|
नैष्ठिको ब्रह्मचारी तु वसेदाचार्यसंनिधौ । |
|
अनेन विधिना देहं सादयन्विजितेन्द्रियः । |