बोध्यगीता

Wikisource तः
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
गीतं विदेहराजेन जनकेन प्रशाम्यता॥५५॥

अनन्तं बत मे वित्तं यस्य मे नास्ति किं चन।
मिथिलायां प्रदीप्तायां न मे दह्यति किं चन॥५६॥

अत्रैवोदाहरन्तीमं बोध्यस्य पदसञ्चयम्।
निर्वेदं प्रति विन्यस्तं प्रतिबोध युधिष्ठिर॥५७॥

बोध्यं दान्तमृषिं राजा नहुषः पर्यपृच्छत।
निर्वेदाच्छान्तिमापन्नं शान्तं प्रज्ञान तर्पितम्॥५८॥

उपदेशं महाप्राज्ञ शमस्योपदिशस्व मे।
कां बुद्धिं समनुध्याय शान्तश्चरसि निर्वृतः॥५९॥

[बोध्य]
उपदेशेन वर्तामि नानुशास्मीह कं चन।
लक्षणं तस्य वक्ष्येऽहं तत्स्वयं प्रविमृश्यताम्॥६०॥

पिङ्गला कुररः सर्पः सारङ्गान्वेषणं वने।
इषुकारः कुमारी च स एते गुरवो मम॥६१॥

॥इति बोध्यगीता समाप्ता॥

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. गीता

बाहरी कडियाँ[सम्पाद्यताम्]

"http://sa.wikisource.org/w/index.php?title=बोध्यगीता&oldid=17509" इत्यस्माद् पुनः प्राप्तिः