बृहत्संहिता/अध्यायः ९८

विकिस्रोतः तः
← अध्यायः ९७ बृहत्संहिता
अध्यायः ९८
वराहमिहिरः
अध्यायः ९९ →

९८ तिथिकर्मगुणाध्यायः ।।

 कमलजविधातृहरियमशशाङ्कषड्वक्त्रशक्रवसुभुजगाः ।
 धर्मईशसवितृमन्मथकलयो विश्वे च तिथिपतयः ।। ९८.०१ ।।

 पितरो +अमावस्यायां संज्ञासदृशाश्च तैः क्रियाः कार्याः ।
 नन्दा भद्रा विजया रिक्ता पूर्णा च तास्त्रिविधाः ।। ९८.०२ ।।

 यत्कार्यं नक्षत्रे तद्दैवत्यासु तिथिषु तत्कार्यम् ।
 करणमुहूर्तेष्वपि तत्सिद्धिकरं देवतासदृशम् ।। ९८.०३ ।।